पञ्चम्य् अमृत-वृष्टिः
अथाभ्यास-कृष्ण-वर्त्म-दीपितां भक्ति-काञ्चन-मुद्रां स्व-तेजसा वहन्तीं दधाने भक्त-हृदि तस्यां रुचिर् उत्पद्यते । श्रवण-कीर्तनादीनाम् अन्यतो वैलक्षण्येन रोचकत्वं रुचिः । यस्याम् उत्पद्यमानायां पूर्व-दशायाम् इव तैर् मुहुर् अप्य् अनुशीलितैर् न श्रमोपलब्धि-गन्धोऽपि । या हि तेषु व्यसनित्वम् अचिराद् एवोत्पादयति ॥५.१॥
यथा नित्यं शास्त्रम् अधीयानस्य बटोः काले शास्तार्थ-प्रवेशे सति शास्त्रस्य रोचकत्वम् उत्पाद्यमानम् एव तं तत्र श्रमं नोपनयत्य् आसञ्जयति च । वस्तुतः सिद्धान्ते तु पैत्तिक-वैगुण्येन दूषितायां रसनायां सिताया अरोचकत्वेऽपि सितैव तद्-वैगुण्य-निरासकम् औषधम् इति विवेकिनः तस्या एव यथा मुहुर् अपसेवने कालेन स्वाद्वीयं स्वाद्वीयम् आभातीति तस्या एव रोचकत्वं तथैवाविद्यादि-विदूषितस्य जीवान्तः-करणस्य श्रवणादि-भक्त्या तद्-दोष-प्रशमे तस्यां रुचिर् उद्भवतीति ॥५.२॥
सा च रुचिर् द्विविधा । वस्तु-वैशिष्ट्यापेक्षिणी तद्-अनपेक्षिणी च । वस्तूनां भगवन्-नाम-रूप-गुण-लीलादीनां वैशिष्ट्यं कीर्तनस्य सौस्वर्यादिमत्त्वं वर्णित-भगवच्-चरितादेर् गुणालङ्कार-ध्वन्य्-आदिमत्त्वं परिचर्यादीनां तादृश-स्वाभीष्ट-देश-पात्र-द्रव्यादि-सद्-भाववत्त्वं यद् अपेक्षते तद् वस्तु-वैशिष्ट्यापेक्षिणी । किं किं कीदृशं व्यञ्जनम् अस्तीति पृच्छतां मन्द-क्षुद्वताम् इव । प्रथमा सेयं यतोऽन्तःकरणस्य यत् किञ्चिद् दोष-लव एव कीर्तनादीनां वैशिष्ट्यम् अपेक्षते अतोऽस्त्य् अन्तःकरण-दोषाभासा ज्ञेया । द्वितीया तु यथा तन्-नाम-रूपाद्य्-उपक्रम एव बलवती भवन्ती वैशिष्ट्ये त्व् अतिप्रौढत्वम् आपद्यमानेयं नास्ति मनो-वैगुण्य-गन्धा एव ज्ञेया ॥५.३॥
ततश् चाहो सखे! कृष्ण-नामामृतानि विहाय किम् इति दुष्परिग्रह-योग-क्षेम-वार्ता-विषयेषु निमज्जयसि त्वां वा किं ब्रवीमि धिङ् मां यद् अहम् अपि पामरः श्री-गुरु-चरण-प्रसाद-लब्धम् अप्य् एतद् वस्तु स्व-ग्रन्थि-निबद्धं महा-रत्नम् इवानुपलभ्य परितो भ्रमन्न् एतावन्तं कालम् अन्य-व्यापार-पारावार-मध्ये मिथ्या-सुख-लेश-स्फुटित-कपर्दक-मात्रम् अन्विष्यायूंसि वृथैवानयम् । भक्तेः कम् अप्य् अनङ्गीकुर्वन् शक्तेर् अभावम् एवाद्योतयम् । हन्त स एवाहं सैवेयं मे रसना या ह्य् अनृत-कटु-ग्राम्य-प्रलापम् अमृतम् इव लिह्यती भगवन्-नाम-गुण-वार्तासु सालसैवासीत् । हन्त हन्त तत्-कथा-श्रवणारम्भ एव स्वापं भजंस् तदैव कदाचित् प्रस्तुतायां ग्राम्य-वार्तायाम् उत्कर्णतया लब्ध-जागरं साधूनां सद् एव तं सकलम् अकलङ्कयन् । अस्य च दुष्पूरस्य जठरस्य कृते जरठोऽपि कांस् कान् दुष्कृतोद्यमान् नाकरवम् । तद् अहं न जाने कस्मिन् वा निरये स्व-कृत-फलम् उपभुञ्जानः स्थास्यामीति निर्विद्यमानस् तदैव क्वचिद् अहो रहो भुवि महोपनिषत्-कल्प-वल्ली-फल-सारं सारङ्ग इव प्रभोश् चरितामृतं स्वादयन्न् अभिवादयन् मुहुर् मुहुर् अपि साधून् अव्याधूत-संलापस् तिष्ठन्न् उपविशन् प्रविशन्न् अपि भगवद्-धाम-बद्धामल-सेवा-निष्ठस् तन्-मना उन्मना इवानभिज्ञ-लोकैर् आलक्ष्यमाणो भक्त-जन-भजनानन्द-नृत्याध्यायम् अध्येतुम् उपक्रममाण इव रुचि-नर्तक्या पाणिभ्यां गृहीत्वेव तत् तत् शिक्ष्यमाण इव काञ्चनमुदम् अननुभूत-चरीम् उपलभे न जाने कुशीलवाचार्याभ्यां भाव-प्रेमभ्यां कालेन प्रविश्य नर्तयिष्यमाणः कस्यां वा निवृतिनीवृति विराजयिष्यतीति ॥५.४॥
इति माधुर्य-कादम्बिन्यां उपलब्धास्वाद-नाम
पञ्चम्य् अमृत-वृष्टिः
-॥५॥-
–ओ)०(ओ–
(६)