०४

चतुर्थ्य्-अमृत-वृष्टिः
अथ पूर्वं या अनिष्ठिता निष्ठितेति द्विविधोक्ता भजन-क्रिया तस्याः प्रथमा षड्-विधा लक्षिता । ततो द्वितीयाम् अलक्षयित्वैवानर्थ-निवृत्तिः प्रक्रान्ता । यद् उक्तं—

शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः ।
हृद्य् अन्तःस्थो ह्य् अभद्राणि विधुनोति सुहृत्-सताम् ॥
नष्ट-प्रायेष्व् अभद्रेषु नित्यं भागवत-सेवया ।
भगवत्य् उत्तम-श्लोके भक्तिर् भवति नैष्ठिकी ॥ [भा।पु। १.२.१७-१८]

तत्र शृण्वतां स्व-कथाः कृष्णः पुण्य-श्रवण-कीर्तनः इत्य् अनिष्ठितैव भक्तिर् अवगम्यते नैष्ठिकीत्य् अग्रे वक्ष्यमाणत्वात् । अभद्राणि विधुनोति इति तयोर् मध्ये एवानर्थानां निवृत्तिर् उक्ता । नष्ट-प्रायेष्व् अभद्रेष्व् इत्य् अत्र तेषां कश्चन भागो नापि निवर्तत इत्य् अपि सूचित इति । अत एव क्रम-प्राप्ततया निष्ठिता भक्तिर् इदानीं विव्रियते ॥४.१॥ (१)
निष्ठा नैश्चल्यम् उत्पन्ना यस्या इति निष्ठिता । नैश्चल्यं भक्तेः प्रत्यहं विधित्सितम् अप्य् अनर्थ-दशायां लय-विक्षेपाप्रतिपत्ति-कषाय-रसास्वादानां पञ्चानाम् अन्तरीयाणां दूर्वारत्वान् न सिद्धम् आसीत् । अनर्थ-निवृत्त्य्-अनन्तरं तेषां तदीयानां निवृत्त-प्रायत्वात् नैश्चल्यम् सम्पद्यते इति लयाद्य्-अभाव एव निष्ठा-लिङ्गम् । तत्र लयः कीर्तन-श्रवण-स्मरणेषु उत्तरेष्व् आधिक्येन निद्रोद्गमः । विक्षेपस् तेषु व्यवहारिक-वार्ता-सम्पर्कः । अप्रतिपत्तिः कदाचिल् लय-विक्षेपयोर् अभावे कीर्तनाद्य्-असामर्थ्यम् । कषायः क्रोध-लोभ-गर्वादि-संस्कारः । रसास्वादः विषय-सुखोदय-काले कीर्तनादिषु मनोऽनभिनिवेश इति ।

॥। भक्तिर् भवति नैष्ठिकी ।
तदा रजस्-तमो-भावाः काम-लोभादयश् च ये ।
चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ [भा।पु। १.२.१९]

इत्य् अत्र च-कारस्य समुच्चयार्थत्वाद् रजस्-तमो-भावा एव लभ्यन्ते । किं च, एतैर् अनाविद्धम् इत्य् उक्ते भाव-पर्यन्तं तेषां स्थितिर् अप्य् अस्ति भक्त्य्-अबाधकतयैव ॥४.२॥

सा च निष्ठा साक्षाद्-भक्ति-वर्तिनी तद्-अनुकूल-वस्तु-वर्तिनीति द्विविधा । तत्र साक्षाद्-भक्तिर् अनन्त-प्रकारापि स्थूलतया त्रिविधा । कायिकी वाचिकी मानसी चेति । तत्र प्रथमं कायिक्यास् ततो वाचिक्यास् तत एव मानस्या भक्तेर् निष्ठा सम्भवेद् इति केचित् । भक्तेषु तारतम्येन स्थितानाम् अपि सह-ओजो-बलानां मध्ये क्वचन भक्ते विलक्षण-तादृश-संस्कार-वशात् कस्यचिद् एव भगवद्-उन्मुखत्वाधिक्यं स्याद् इति नायं क्रम इत्य् अन्ये । तद्-अनुकूल-वस्तुनि अमानित्व-मानदत्व-मैत्री-दयादीनि । तेषां निष्ठा च कुत्रचन शम-प्रकृतौ भक्ते भक्तेर् अनिष्ठितत्वे दृश्यते कुत्रचन तस्मिन्न् उद्धते भक्ते निष्ठितत्वेऽपि न दृश्यते यद्य् अपि तद् अपि भक्ति-निष्ठैव स्व-सत्त्वासत्त्वाभ्यां तन्-निष्ठा-सत्त्वासत्त्वे सुधियम् अवगमयति न तु बाल-प्रतीतिर् एव वास्तवीकर्तुं शक्येति । यद् उक्तं—

भक्तिर् भवति नैष्ठिकी ।
तदा रजस्-तमो-भावाः काम-लोभादयश् च ये ।
चेत एतैर् अनाविद्धं स्थितं सत्त्वे प्रसीदति ॥ इति ।

श्रवण-कीर्तनादिषु यत्नस्य शैथिल्य-प्राबल्य एव दुस्त्यज्ये सम्भवन्ती निष्ठितानिष्ठिते भक्ती प्रदर्शयेताम् इति सङ्क्षेपतो विवेकः ॥४.३॥ (२)
इति माधुर्य-कादम्बिन्यां निष्यन्द-बन्धुरा-नाम
चतुर्थ्य् अमृत-वृष्टिः
॥४॥

–ओ)०(ओ–

(५)