तृतीयामृत-वृष्टिः
अथ अनर्थानां निवृत्तिः । ते चानर्थाश् चतुर्विधाः—दुष्कृतोत्थाः सुकृतोत्था अपराधोत्था भक्त्य्-उत्थाश् चेति ।
तत्र दुष्कृतोत्थाः दुरभिनिवेश-द्वेष-रागाद्याः पूर्वोक्ताः क्लेशा एव । सुकृतोत्था भोगाभिनिवेशा विविधा एव । ते च क्लेशान्तः-पातिन इति केचित् । अपराधोत्था इत्य् अत्र नामापराधा एव गृह्यन्ते । सेवापराधानां तु नामभिस् तत्-तन्-निवर्तक-स्तोत्र-पाठैः सेवा-सातत्येन च भव्यस्य विवेकिनः प्रायः प्रतिदिनम् एवोपशमेनाङ्कुरी-भावानुपलब्धेः । किन्तु तत्-तद्-उपशम-सम्भव-बलेन तत्र सावधानता-शैथिल्ये सेवापराधा अपि नामापराधा एव स्युः । तथा ह्य् उक्तम्—नाम्नो बलाद् यस्य हि पाप-बुद्धिः इति । तत्र नाम इत्य् उपलक्षणं भक्ति-मात्रस्यैवोपशमकस्य । धर्म-शास्त्रेऽपि प्रायश्चित्त-बलेन पापाचरणे न तस्य पापस्य क्षयः प्रत्युत गाढतैव ॥३.१॥ (१)
नन्व् एवम् न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि [भा।पु। ११.२९.२०] इति, विशेषतो दशार्णोऽयं जप-मात्रेण सिद्धिद इत्य् आदि-वाक्य-बलेन तत्-तद्-अङ्गानाम् अननुष्ठाने वैकल्यादाव् अपि वा जाते नामापराधः प्रसज्जते । मैवम् । नाम्नो बलाद् यस्येत्य् अत्र पापे बुद्धिश् चिकीर्षादि । तद् एव हि पापं यत्र सति निन्दा-प्रायश्चित्तादि-श्रवणम् । न च कर्म-मार्ग इव भक्ति-मार्गेऽपि अङ्ग-वैकल्यादौ क्वापि निन्दा-श्रवणम् इति न तत्रापराध-शङ्का ॥३.२॥ (२)
यद् उक्तं—
ये वै भगवता प्रोक्ता उपाया ह्य् आत्म-लब्धये ।
अञ्जः पुंसाम् अविदुषां विद्धि भागवतान् हि तान् ॥
यान् आस्थाय नरो राजन् न प्रमाद्येत कर्हिचित् ।
धावन् निमील्य वा नेत्रे न स्खलेन् न पतेद् इह ॥ [भा।पु। ११.२.३४-३५] इति ।
अत्र निमील्येति कर्तृ-व्यापार-लिङ्गेन विद्यमाने एव नेत्रे मुद्रयित्वा तत्रापि धावन् पाद-न्यास-स्थलम् अतिक्रम्यापि व्रजन् न स्खलेद् इत्य् अक्षरार्थ-लब्धेर् भगवद्-धर्मम् आश्रित्य तद्-अङ्गानि सर्वाणि ज्ञात्वाप्य् अज्ञ इव कानिचिद् उल्लङ्घ्यापि अनुतिष्ठन् न प्रत्यवायी स्यात्, नापि फलाद् भ्रश्येद् इत्य् एव व्याख्या उपपद्यते । “निमीलनं नामाज्ञानं” तस्यापि श्रुति-स्मृति-विषयाव् इत्य् एषा1 तु न सङ्गच्छते मुख्यार्थ-बाधायोगात् । न च धावन् निमील्येत्य् एतद् एव द्वात्रिंशद्-अपराधाभावम् अपि क्रोडीकरोत्व् इति वाच्यम्, यान् भगवता प्रोक्तान् उपायान् आश्रित्येत्य् उक्तत्वात् । यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे [ह।भ।वि। ८.४४१] इत्य् आदयस् तु तत्र निषिद्धा एव । सेवापराधे तु, हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांशनः [ह।भ।वि। ११.५१९] इत्य् आदिषु श्रूयन्त एव निन्दाः । किं च, ते नामापराधाः प्राचीना अर्वाचीना वा यदि सम्यग्-अनभिज्ञात-प्रकाराः स्युः किन्तु तत्-फल-लिङ्गेनानुमीयमाना एव तदा तेषां नामभिर् एवाश्रान्त-प्रयुक्तैर् भक्ति-निष्ठायाम् उत्पद्यमानायां क्रमेणोपशमः । यदि ते ज्ञायन्त एव, तदा त्व् अस्ति क्वचित् कश्चिद् विशेषः ॥३.३॥ (३)
यथा सतां निन्दा इति दशसु नाम्नः प्रथमोऽपराधः । तत्र निन्देत्य् अनेन द्वेष-द्रोहादयोऽप्य् उपलक्ष्यन्ते । ततश् च दैवात् तस्मिन्न् अपराधे जाते—हन्त पामरेण मया साधुषु अपराद्धम् इति अनुतप्तो जनः कृशानौ शाम्यति तप्तः कृशानुना एवायम् इति न्यायेन तत्-पदाग्र एव निपत्य प्रसादयामीति विषण्ण-चेतसा प्रणति-स्तुति-सम्मानादिभिस् तस्योपशमः कार्यः । कदाचित् कस्यचन कैर् अपि दुष्प्रसादनीयत्वे बहु-दिनम् अपि तन्-मनोऽभिरोचिन्य् अनुवृत्तिः कार्या । अपराधस्यातिमहत्त्वात् कथञ्चित् तयाप्य् अनिवर्त्यकोपत्वे धिङ् माम् अक्षीण-भक्तापराधं निरय-कोटिषु पतन्तम् इति निर्विद्य सर्वं परित्यज्य समाश्रयणीया नाम-सङ्कीर्तन-सन्ततिस् तया च महा-शक्तिमत्यावश्यम् एव काले ततः स्याद् एवोद्धारः । किं मे मुहुर् मुहुर् एव पाद-पतनादिभिः स्वापकर्ष-स्वीकारेण नामापराध-युक्तानां नामान्य् एव हरन्त्य् अघम् इत्य् अस्यैव परमोपायः स एव समाश्रयणीयः इति भावनायां पूर्ववद् एव पुनर् अपि नामापराधः ॥३.४॥
न च कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् [भा।पु। ११.११.२९] इत्य् आदि सम्पूर्ण-धर्मका एव सन्तस् तेषाम् एव निन्दा अपराध इति वाच्यम् । सर्वाचार-विवर्जिताः शठ-धियो व्रात्या जगद्-वञ्चकाः इति तत्-प्रकरण-वर्तिना वचनेन तादृश-दुश्चरितानाम् अपि भगवन्तं भजतां कैमुतिक-न्यायेन सच्-छब्द-वाच्यत्वेन सूचितत्वात् ॥३.५॥
किं च, कश्चिन् महा-भागवतत्वात् महापराधिन्य् अपि यद्यपि न कुप्यति तद् अपि तत्रापराधवता स्व-शुद्ध्य्-अर्थं प्रणत्य्-आदिभिर् अनुवर्तनीय एव सः । सेर्षं महा-पुरुष-पाद-पांशुभिर् निरस्त-तेजःसु तद् एव शोभनम् [भा।पु। ४.४.१३] इति सतां वाक्येन तच्-चरण-रेणूनाम् असहिष्णुतया तत्-फल-प्रदत्वावगमात् ॥३.६॥
किं च, दुरवगम-निष्कारणके क्वचित् कृपा-दृष्टौ प्रभविष्णौ स्वच्छन्द-चरिते क्वचिन् महाभागवत-मौलौ तु न कापि मर्यादा पर्याप्नोति । यथा शिबिकां वाहयति कटूक्ति-विष-वर्षिण्य् अपि रहूगणे श्री-जड-भरतस्य कृपा । यथा च पाषण्ड-धर्मावलम्बिनि स्व-हिंसार्थम् उपसेदुषि दैत्य-समूहे उपरि-चरस्य वसोश् चेदि-राजस्य । यथा वा महा-पापिनि स्व-ललाटे रुधिर-पातिन्य् अपि माधवे प्रभु-वरस्य नित्यानन्दस्येति । एवम् एव गुरोर् अवज्ञा इत्य् अत्रापि ज्ञेयम् । शिवस्य श्री-विष्णोर् इत्य् अत्रैवं विवेचनीयम् ॥३.७॥ (२)
चैतन्यं हि द्विविधं भवति—स्वतन्त्रम् अस्वतन्त्रं च । तत्र प्रथमं सर्व-व्यापकम् ईश्वराख्यं द्वितीयं देह-मात्र-व्यापि-शक्तिकं जीवाख्यम् ईशितव्यम् । ईश्वर-चैतन्यं द्विविधं माया-स्पर्श-रहितं लीलया स्वीकृत-माया-स्पर्शं च । तत्र प्रथमं नारायणाद्य्-अभिधम् । यद् उक्तं—हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः [भा।पु। १०.८८.५] इति । द्वितीयं शिवाद्य्-अभिधम् । यद् उक्तम्—शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः इति । अत्र गुण-संवृत-लिङ्गेनापि तस्य जीवत्वं नाशङ्कनीयम् ।
क्षीरं यथा दधि विकार-विशेष-योगात्
सञ्जायते न हि ततः पृथग् अस्ति हेतोः ।
यः शम्भुताम् अपि तथा समुपैति कार्याद्
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ब्रह्म-संहितोक्तेः [५.४५] ॥३.८॥
अन्यत्र च पुराणागमादिषु बहुत्र ईश्वरत्वेन प्रसिद्धेश् च । यत् तु सत्त्वं रजस् तम इति प्रकृतेर् गुणाः इत्य् अत्र स्थित्य्-आदये हरिर्-विरिञ्चि-हरा [भा।पु। १.२.२३] इत्य् अनेन तत्-साधारण्यात् ब्रह्मण्य् अपीश्वरत्वम् अवगम्यते तद्-ईश्वरावेशाद् एवेति ज्ञेयम् ।
भास्वान् यथाश्म-शकलेषु निजेषु तेजः
स्वीयम् कियत् प्रकटयत्य् अपि तद्वद् अत्र ।
ब्रह्मा य एष जगद्-अण्ड-विधान-कर्ता इति ब्रह्म-संहितोक्तेः [५.४९] ॥३.९॥
तथा—
पार्थिवाद् दारुणो धूमस् तस्माद् अग्निस् त्रयीमयः ।
तमसस् तु रजस् तस्मात् सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [भा।पु। १.२.२४]
इत्य् अत्र तमसः सकाशात् रजसः श्रैष्ठ्योऽपि वस्तुतो रजसि धूम-स्थाणीये शुद्ध-तेजः-स्थानीयस्येश्वरस्यानुपलब्धेश् च । सत्त्वे संज्वलनाग्नौ शुद्ध-तेजसः साक्षाद् इव पार्थिवे दारु-स्थानीये तमस्य् अपि तस्यान्तर्हिततयोपलब्धिर् अस्त्य् एव । तत्-कार्यानुषुप्तौ निर्भेद-ज्ञान-सुखानुभव इवेत्य् आदि विचार्य तत्त्वम् अवसेयम् ॥३.१०॥
अथेशितव्यं चैतन्यं च स्व-दशा-भेदेन द्विविधम्—अविद्ययावृतम् अनावृतं च । तत्रावृतं देव-मनुष्य-तिर्यग्-आदि । अनावृतं द्विविधं—ईश्वरेणैश्वर्य-शक्त्यानाविष्टम् आविष्टं च । अनाविष्टं स्थूलतो द्विविधम्—ज्ञान-भक्ति-साधन-वशात् ईश्वरे लीनम् अलीनं च । प्रथमं शोच्यम्, द्वितीयं तन्-माधुर्यास्वाद्य्-अशोच्यम् ।
आविष्टं च द्विविधम्—चिद्-अंश-भूत-ज्ञानादिभिर् मायांश-भूत-सृष्ट्य्-आदिभिश् चेति । प्रथमं चतुःसनादि । द्वितीयं ब्रह्मादीति ॥३.११॥
एवं च, विष्णु-शिवयोर् अभेद एव प्रसक्तश् चैतन्यैकरूप्यात् । निष्कामैर् उपास्यत्वानुपास्यत्वे तु निर्गुणत्व-सगुणत्वाभ्याम् एवेत्य् अवगन्तव्यम् । विष्णु-ब्रह्माद्यैस् तु भेद एव चैतन्य-पार्थक्याद् एव । क्वचित् तु सूर्यस्य तद्-आविष्ट-सूर्य-कान्त-मणेर् अभेद इव विष्णु-ब्रह्मणोर् अभेदश् च पुराण-वचनेषु दृष्टः । किं च क्वचिन् महा-कल्पे शिवोऽपि ब्रह्मेव ईश्वराविष्टा जीव एव भवेत् । यद् उक्तम्—क्वचिज् जीव-विशेषत्वं हरस्योक्तं विधोर् इवेति । अत एव—
यस् तु नारायणं देवं ब्रह्म-रुद्रादि-दैवतैः ।
समत्वेनैव वीक्षेत स पाषण्डी भवेद् ध्रुवम् ॥ [हरि-भक्ति-विलास १.७३] ॥३.१२॥
इति वचनम् अपि ब्रह्म-साहचर्येण सङ्गच्छते इति । एवम् अपर्यालोचयतां विष्णुर् एवेश्वरो न शिवः शिव एवेश्वरो न विष्णुर् वयम् अनन्या नैव पश्यामः शिवं वयं च न विष्नुम् इत्य् आदि विवाद-ग्रस्त-मतीनाम् अपराधे जाते कालेन कदाचित् तत्-तात्पर्यालोचन-विज्ञ-साधु-जन-प्रबोधितत्वे तेषाम् एव शिवस्य भगवत्-स्वरूपाद् अभिन्नत्वेन लब्ध-प्रतीतीनां नाम-कीर्तनेनैवापराध-क्षयः ॥३.१३॥
एवं च, नैता भगवद्-भक्तिं स्पृशन्ति बहिर्मुख्यो विगीता इति ज्ञान-कर्म-प्रतिपादिकाः श्रुतीर् येनैव मुखेनानिन्दंस् तेनैव मुखेन तास् तद्-अनुष्ठातॄंश् च जनान् मुहुर् अभिनन्द्य नामभिर् उच्चैः सङ्कीर्तितैः श्रुति-शास्त्र-निन्दन-रूपाच् चतुर्थापराधान् निस्तरेयुः । यतस् ताः श्रुतयो भक्ति-मार्गेष्व् अनधिकारिणः स्वच्छन्द-वर्तिनः परम-रागान्धान् अपि वर्त्म-मात्रम् अध्यारोहयितुम् उद्यताः परम-कारुणिका एवेति तत्-तात्पर्य-विज्ञ-जन-प्रबोधिता यदि भाग्य-वशाद् भवेयुस् तदैवेति । एवम् एवान्येषाम् अपि षण्णाम् अपराधानाम् उद्भव-निवृत्ति-निदानानि अवगन्तव्यानि ॥३.१४॥ (३)
अथ भक्त्य्-उत्थास् ते च मूल-शाखात उपशाखा इव भक्त्यैव धनादि-लाभ-पूजा-प्रतिष्ठाद्याः स्व-वृत्तिभिः साधक-चित्तम् अप्य् उपरज्य स्व-वृद्ध्या मूल-शाखाम् इव भक्तिम् अपि कुण्ठयितुं प्रभवन्तीति ॥३.१५॥
तेषां चतुर्णाम् अनर्थानां निवृत्तिर् अपि पञ्च-विधा । एक-देश-वर्तिनी बहु-देश-वर्तिनी प्रायिकी पूर्णा आत्यन्तिकी चेति । तत्र ग्रामो दग्धः पटो भग्न इति न्यायेनापराधोत्तानाम् अनर्थानां निवृत्तिर् भजन-क्रियानन्तरम् एक-देश-वर्तिनी निष्ठायाम् उत्पन्नायां बहुल-देश-वर्तिनी रताव् उत्पद्यमानायां प्रायिकी प्रेम्नी पूर्णा श्री-भगवत्-पद-प्राप्ताव् आत्यन्तिकी ॥३.१६॥
यस् तु तत्रापि चित्रकेतौ कादाचित्को महद्-अपराधः स प्रातीतिक एव न वास्तवः । सत्यां प्रेम-सम्पत्तौ पार्षदत्व-वृत्रत्वयोर् वैशिष्ट्याभाव-सिद्धान्तात् । जय-विजययोस् त्व् अपराध-कारणं प्रेम-विजृम्भिता स्वेच्छैव । सा च—हे प्रभु-वर! देवादिदेव नारायण अन्यत्राल्प-बलत्वात् अस्मासु तु प्रातिकूल्याभावात् यदि तत्र भवतो युयुत्सा न सम्पद्यते तदा आवाम् एव केनापि प्रकारेण प्रतिकूलीकृत्य तद् युद्ध-सुखम् अनुभूयताम् इत्य् अवयोः स्वतः परिपूर्णतायाम् अणु-मात्रम् अपि न्यूनत्वम् असहमानयोः किङ्करयोः प्रार्थना-हठः स्व-भक्त-वात्स्यल्य-गुणम् अपि लघूकृत्य निष्पाद्यताम् इत्य् आकारा कादाचित्क-प्रसङ्ग-भवा मानसा मनसैव ज्ञेया ॥३.१७॥
तथा दुष्कृतोत्थानां भजन-क्रियानन्तरम् एव प्रायिकी निष्ठायां जातायां पूर्णा आसक्ताव् एवात्यन्तिकी तथा भक्त्य्-उत्थानां भजन-क्रियानन्तरम् एक-देश-वर्तिनी निष्ठायां पूर्णा रुचाव् आत्यन्तिकीति अनुभविना बहुदृश्वना सम्यग् विविच्यानुमन्तव्यम् ॥३.१८॥ (४)
ननु, अंहः संहरद् अखिलं सकृद् उदयाद् एव [नाम-कौमुदी, पद्यावली १६] इति, यन् नाम सकृच् छ्रवणात् पुक्कशोऽपि विमुच्यते संसारात् इत्य् अपि प्रमाण-शताद् अजामिलाद्य्-उपाख्यानेष्व् एकस्यैव नामाभासस्याविद्या-पर्यन्त-सर्वानर्थ-निवृत्ति-पूर्वक-भगवत्-प्रापकत्वानुभवाद् भगवद्-भक्तानां दुरितादि-निवृत्ताव् उक्तः क्रमो न सङ्गच्छते । सत्यम् । नाम्न एतावत्य् एव शक्तिर् नात्र सन्देहः । परन्तु स्वापराधिष्व् अप्रसन्नेन तेन यत् स्व-शक्तिः सम्यक् न प्रकाश्यते तद् एव दुष्टतादीनां जीवातुर् इत्य् अवगन्तव्यम् । किन्तु यम-दूतानां तद्-आक्रमणे न शक्तिः । न ते यमं पाशभृतश् च तद्-भटान् स्वप्नेऽपि पश्यन्तीत्य् [भा।पु। ६.१.१९] आदेः । न विद्यते तस्य यमैर् हि शुद्धिर् इत्य् अत्र यमेर् योगाङ्गैर् इति व्याख्येयम् ॥३.१९॥
यथा समर्थेन परमाढ्येनापि स्वामिना कृतापराधः स्वजनो यदि न पाल्यते किन्तु तत्रोदास्यते तदैव दुःख-दारिद्र्य-मालिन्य-शोकादयः क्रमेण लब्धावसरा भवन्ति न त्व् अन्यदीया जनाः केऽपि कदापीति ज्ञेयम् । तथा च पुनः स्व-स्वामिनो मनोभिरोचिन्याम् अनुवृत्तौ सत्यां शनैस् तत्-प्रसादाद् दुःख-दारिद्र्यादयः शनैर् अपयान्ति । तथा भगवद्-भक्त-शास्त्र-गुरु-प्रभृतिभिर् अमायया मुहुः सेवितैः शनैर् एव तस्य नाम्नः प्रसादे दुरितादीनाम् अपि शनैर् एव नाशः । इति नास्ति विवादः ।
न च मम कोऽपि नास्ति नामापराध इति वक्तव्यं फलेनैक-फल-कारणस्यापराधस्य प्राचीनस्यार्वाचीनस्य वा अनुमानात् । फलं च बहु-नाम-कीर्तनेऽपि प्रेम-लिङ्गानुदय इति । यद् उक्तं—
तद् अश्म-सारं हृदयं बतेदं यद् गृह्यमाणैर् हरि-नाम-धेयैः ।
न विक्रियेताथ यदा विकारो नेत्रे जलं गात्र-रुहेषु हर्षः ॥ [भा।पु। २.३.२४] इति ॥३.२०॥
तथा हि नामापराध-प्रसङ्गे—
के तेऽपराधा विप्रेन्द्र नाम्नो भगवतः कृतः ।
विनिघ्नन्ति नृणां कृत्यं प्राकृतं ह्य् आनयन्ति हि ॥ इति ।
तदीय-गुण-नामादीनि सद्यः प्रेम-प्रदान्य् अपि श्रुतानि कीर्तितानि च तत्-तीर्थादिकं सद्यः सिद्धिदम् अपि चिरात् सेवितं तन्-निवेदितानि घृत-दुग्ध-ताम्बूलादीनि सद्यः सर्वेन्द्रिय-तरङ्ग-निवर्तकानि मुहुर् आस्वाद्य उपयुक्तान्य् एव स्वतः परम-चिन्मयान्य् अप्य् एतानि यस्मात् प्राकृतानीव भवन्ति तेऽपराधाः के भगवन्-नाम इति सोत्कम्प-स-विस्मयः प्रश्नः ।
नन्व् एवं सति नामापराधवतो जनस्य भगवद्-वैमुख्यस्यैवोचित्यात् तद्-उक्तं गुरु-पादाश्रय-भजन-क्रियादिकम् अपि न सम्भवेत् । सत्यम् । प्रवर्तमाने महाज्वर इव ओदनादेर् अरोचकत्वाद् एवानुपादानम् इव नामापराधस्य गाढत्वे सति तत्र पुंसि श्रवण-कीर्तनादि-भजन-क्रियाया अवकाश एव न स्याद् इत्य् अत्र कः सन्देहः । किन्तु ज्वरस्य मृदुत्वे चिरन्तनत्वे ओदनादेर् अपि किंचिद् रोचकत्वम् इव । बहु-दिनतो भोगेनापराधस्य क्षीण-वेगत्वे मृदुत्वे च भगवद्-भक्तौ किंचिन्-मात्र-रुचिः स्याद् इति पुंसः प्रसज्जति भक्त्य्-अधिकारः । ततश् च यथा पोष्टिकान्य् अपि दुग्धौदनादीनि जीर्ण-ज्वरवन्तं पुमांसः न पुष्यन्ति किंचित् पुष्यन्ति च किन्तु ग्लानि-कार्श्येन निवर्तयितुं शक्नुवन्ति कालेनौषध-पथ्ययोः सेवितयोः शक्नुवन्ति च । तथैव तादृशस्य भक्त्य्-अधिकारिणः श्रवण-कीर्तनादीनि कालेनैव क्रमेणैव सकलं प्रकाशयन्तीति साधूक्तम्—
आदौ श्रद्धा ततः साधु-सङ्गोऽथ भजन-क्रिया ।
ततोऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा इत्य् आदि ॥३.२१॥
कैश्चित् तु नाम-कीर्तनादिवतां भक्तानां प्रेम-लिङ्गादर्शनेन पाप-प्रवृत्त्या च न केवलम् अपराधः कल्प्यते व्यवहारिक-बहु-दुःख-दर्शनेन चापि प्रारब्ध-नाशाभावश् च । निरपराधत्वेन निर्धारितस्याजामिलस्यापि स्व-पुत्र-नाम-करण-प्रतिदिन-बहुधा-तन्-नामाह्वान-समयेष्व् अपि प्रेमाभाव-दासी-सङ्गादि-पाप-प्रवृत्ति-दर्शनात् । प्रारब्धाभावेऽपि युधिष्ठिरादेर् व्यवहारिक-बहु-दुःख-दर्शनाच् च । तस्मात् फलन्न् अपि वृक्षः प्रायशः काल एव फलति इतिवत् निरपराधेषु प्रसीदद् अपि नाम स्व-प्रसादं काल एव प्रकाशयेत् । पूर्वाभ्यासात् क्रियमाणा पाप-राशिर् अपि उत्खात-दंष्ट्रोरग-दंश इवाकिंचित्करा एव । रोग-शोकादि-दुःखम् अपि न प्रारब्ध-फलम् ।
यस्याहम् अनुगृह्णामि हरिष्ये तद्-धनं शनैः ।
ततोऽधनं त्यजन्त्य् अस्य स्वजना दुःख-दुःखितम् ॥ इति ।
निर्धनत्व-महा-रोगो मद्-अनुग्रह-लक्षणम् इत्य् आदि वचनात् । स्व-भक्त-हित-कारिणा तदीय-दैन्योत्कण्ठादि-वर्धन-चतुरेण भगवतैव दुःखस्य दीयमानत्वात् कर्म-फलत्वाभावेन न प्रारब्धत्वम् इत्य् आहुः ॥३.२२॥ (५)
इति माधुर्य-कादम्बिन्यां भक्तेः सर्व-ग्रह-प्रशमिनी नाम
तृतीयामृत-वृष्टिः
॥३॥
–ओ)०(ओ—
(४)
-
एषा भागवत-भावार्थ-दीपिका- श्रुति-स्मृती उभे नेत्रे विप्राणां परिकीर्तिते । एकेन विकलः काणो द्वाभ्याम् अन्धः प्रकीर्तितः ॥ इति तत्रोद्धृत-स्मृति-वाक्यम् । ↩︎