द्वितीयामृत-वृष्टिः
अथात्र माधुर्य-कादम्बिन्यां द्वैताद्वैत-वाद-विवादयोर् नावकाशो लभन्त इति कैश्चिद् अपेक्षणीयाश् चेद् ऐश्वर्य-कादम्बिन्यां दृश्यतां नाम ॥२.१॥
इदानीं करण-केदारिकासु प्रादुर्भवन्त्यास् तस्या एव भक्तेर् ज्ञान-कर्माद्य्-अमिश्रितत्वेन शुद्धायाः कल्प-वल्ल्या अपि निरस्तान्य-फलाभिसन्धितयैव धृत-व्रतैर् मधु-व्रतैर् इव भव्य-जनैर् आश्रियमाणायाः स्व-विषयैकानुकूल्य-मूल-प्राणायाः स्व-स्पर्शेन स्पर्श-मणिर् इव करण-वृत्तीर् अपि प्राकृतत्व-लोहतां शनैस् त्याजयित्वा चिन्मयत्व-शुद्ध-जाम्बुनदतां प्रापयन्त्याः कन्दलीभावान्ते समुद्गच्छन्त्याः साधनाभिख्ये द्वे पत्रिके विव्रियेते । तयोः प्रथमा क्लेशघ्नी द्वितीया शुभदेति । द्वयोर् अपि तयोर् अन्तस् तु लोभ-प्रवर्तकत्व-लक्षण-चैक्कण्येन येषाम् अहं प्रिय आत्मा सुतश् च [भा।पु। ३.२५.३८] इत्य् आदि शुद्ध-सम्बन्ध-स्निग्धतया च प्राप्तोत्कर्षे देशे राग-नाम्नो राज्ञ एवाधिकारः । बहिस् तु तस्माद् भारत सर्वात्मा [भा।पु। २.१.५] इत्य् आदि शास्त्र-प्रवर्तकत्व-लक्षण-पारुष्याभासेन प्रियादि-शुद्धाशुद्धाभावात् स्वत एवातिस्निग्धतानुदयेन पूर्वतः किंचिद् अपकृष्टे देशे वैध-नाम्नोऽपरस्य राज्ञः । क्लेशघ्नत्व-शुभदत्वाभ्यां तु प्रायस् तयोर् न कोऽपि विशेषः ॥२.२॥
तत्र अविद्यास्मिता-राग-द्वेषाभिनिवेशाः पञ्च क्लेशाः [यो।सू। २.३॥ प्रारब्धाप्रारब्ध-रूढ-बीज-पापादयस् तन्-मया एव । शुभानि दुर्विषय-वैतृष्ण्य-भगवद्-विषय-सतृष्ण्यानुकूल्य-कृपाक्षमा-सत्य-सारल्य-साम्य-धैर्य-गाम्भीर्य-मानदत्वामानित्व-सर्व-सुभगत्वादयो गुणाश् च—सर्वैर् गुणैस् तत्र समासते सुराः [भा।पु। ५.१८.१२] इत्य् आदि-दृष्ट्या ज्ञेयाः ॥२.३॥
भक्तिः परेशानुभवो विरक्तिर् अन्यत्र चैष त्रिक एक-कालः [भा।पु। ११.२.४२] इत्य् उक्त-प्रकारेण युगपद् अपि प्रवृत्तयोर् अपि तयोः पत्रिकयोर् उद्गम-तारतम्येनैव तत्-तद्-अशुभ-निवृत्ति-शुभ-प्रवृत्ति-तारतम्याद् अस्त्य् एव क्रमः । स चातिसूक्ष्मो दुर्लक्ष्योऽपि तत्-तत्-कार्य-दर्शन-लिङ्गेन सुधीभिर् अवसीयते ॥२.४॥
तत्र भक्त्य्-अधिकारिणः प्रथमं श्रद्धा । सा च तत्-तच्-छास्त्रार्थे दृढ-प्रत्यय-मयी, प्रक्रम्यमाण-यत्नैक-निदान-रूप-तद्-विषयकत्वैक-निर्वाह-रूप-सादर-स्पृहा च । सा च सा च स्वाभाविकी केनापि बलाद् उत्पादिता च ॥२.५॥
ततश् चाश्रित-गुरु-चरणस्य तस्य जिज्ञास्यमान-सदाचारस्य तच्-छिक्षयैव सजातीयाशय-स्निग्ध-भक्त्य्-अभिज्ञ-साधु-सङ्ग-भाग्योदयः ॥२.६॥
ततो भजन-क्रिया । सा च द्विविधा_—_अनिष्ठिता निष्ठिता च । तत्र प्रथमम् अनिष्ठिता क्रमेनोत्साह-मयी घन-तरला व्यूढ-विकल्पा विषय-सङ्गरा नियमाक्षमा तरङ्ग-रङ्गिणीति षड्-विधा भवन्तीति स्वाधारं विलक्षयति ॥२.७॥
तत्र उत्साह-मयी । प्रथमम् एव शास्त्रम् अध्येतुम् आरभमाणस्य सर्व-लोक-श्लोक्यमान-पाण्डित्यम् उपपन्नम् इव स्वस्मिन् मन्यमानस्य बटोर् इव उत्साह-स्वाधिकरणस्य प्रचुरयतीत्य् उत्साहमयी ॥२.८॥
अथ घन-तरला । प्रक्रम्यमाणानि भक्त्य्-अङ्गानि कदाचिन् निर्वहन्ति कदाचिच् च न वेति घनत्वं तरलत्वं चास्याः यथा बटोः शास्त्राभ्यासः कदाचित् सान्द्रः कदाचित् तद्-अर्थ-प्रवेशासमर्थतया सारस्यानुदयेन शिथिलश् च ॥२.९॥ (७)
अथ व्यूढ-विकल्पा । किम् अहं स-परिग्रह एव पुत्र-कलत्रादीन् वैष्णवीकृत्य भगवत्-परिचर्यायां नियोज्य गृह एव सुखं तं भजे, किं वा सर्वान् एव परित्यज्य निर्विक्षेपः श्री-वृन्दावनं ध्येय-स्थानम् एवासीनः कीर्तन-श्रवणादिभिः कृतार्थीभवेयम्? स च त्यागः किं भुक्त-भोगस्यावगत-विषम-विषय-दाव-दवथोर् मम चरम-दशायाम् एव किं वाधुनैव समुचित इति । किं च, ताम् ईक्षेद् आत्मनो मृत्युं तृणैः कूपम् इवावृतम् [भा।पु। ३.३१.४०] इति दृष्ट्या आश्रमस्यास्याविश्वासस्यतया यो दुस्त्यजान् दार-सुतान् [भा।पु। ५.१४.४३] इत्य् अत्र जहौ युवैव मलवत् इत्य् आदि-दृष्ट्या त्यक्त-विलम्बस् तत्रापि अहो मे पितरौ वृद्धौ [भा।पु। ११.१७.५७] इत्य् अत्र अतृप्तस् तान् अनुध्यायन् मृतोऽन्धं विशते तमः [भा।पु। ११.१७.५८] इति भगवद्-वाक्येन त्यागेऽलब्ध-बलश् च सम्प्रत्य् एव प्राणधारण-मात्र-वृत्तिर् वनं तदैव प्रविश्याष्टाव् एव च यामान् अभ्यर्थयानीति । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह [भा।पु। ११.२०.३१] इत्य् अत्र तु वैराग्यस्य भक्ति-जनकत्वे एव दोषो न तु भक्ति-जनितत्वे इति तद्-अनुभाव-रूपतया तद्-अधीनत्वम् इति । यद् यद् आश्रमम् अगात् स भिक्षुकस् तत्-तद्-अन्न-परिपूर्णम् ऐक्षत इति न्यायेन कदाचिद् वैराग्यं तावद् रागादयः स्तेनाः तावत् कारागृहं गृहम् [भा।पु। १०.१४.३६] इति कदाचिद् गार्हस्थ्यं च निश्चिन्वन् किम् अहं कीर्तनम् एव किं वा कथा-श्रवणम् अपि उत सेवाम् एव उताहो तावद् अम्बरीषादिवद् अनेकाङ्गाम् एव भक्तिं करवै इत्य् आदि विविधा एव प्राप्ता विकल्पा यत्र भवन्तीति व्यूढ-विक्लपा ॥२.१०॥ (८)
अथ विषय-सङ्गरा ।
विषयाविष्ट-चित्तानां विष्ण्व्-आवेशः सुदूरतः ।
वारुणी-दिग्-गतं वस्तु व्रजन्न् ऐन्द्रीं किम् आप्नुयात् ॥
इति भोगा एव बलात् स्वस्मिन्न् अभिनिवेश्य मां भजने शिथिलयन्तीति तद् अमी त्यक्त्वा नाम-ग्राहं कांश्चन कांश्चन त्यक्तवतोऽपि भुञ्जानस्य—जुषमाणश् च तान् कामान् परित्यागेऽप्य् अनीश्वरः [भा।पु। ११.२०.२८] इति भगवद्-वाक्यस्योदाहरणत्वं प्राप्तवतस् तस्य पूर्वाभ्यस्तैर् विषयैस् तैः सह सङ्गरो युद्धं कदाचित् तत्-पराजयः कदाचित् स्व-पराजय इति विषय-सङ्गरा ॥२.११॥ (९)
अथ नियमाक्षमा । अद्यारभ्य इमानि नामानि गृहीतव्यानि एतावत्यश् च प्रणतयः कार्या इत्थम् एव तद्-भक्ता अपि सेवनीया भगवद्-असम्बन्ध-वाचोऽपि नोच्चारणीया ग्राम्य-वार्तावतां सन्निधिस् त्यक्तवत्यः इत्य् आदि प्रतिदिनम् अपि प्रतिजानतोऽपि समये तथा न क्षमत्वम् इति नियमाक्षमा । विषय-सङ्गरायां विषय-त्यागाक्षमत्वम् अत्र तु भक्त्य्-उत्कर्षाक्षमत्वम् इति भेदः ॥२.१२॥ (१०)
अथ तरङ्ग-रङ्गिणी । भक्तेः स्वभाव एवायं यत् तद्वति सर्वेऽपि जना अनुरज्यन्तीति जनानुराग-प्रभवा हि सम्पद इति प्राचां वाचोऽपि । भक्त्य्-उत्थासु विभूतिषु लाभ-पूजा-प्रतिष्ठादिषु वली-वलितासूपशाखासु तरङ्गेष्व् इवाचरन्त्या अस्या रङ्ग इति तरङ्ग-रङ्गिणी ॥२.१३॥ (११)
इति महा-महोपाध्याय-श्रीमद्-विश्वनाथ-चक्रवर्ति-विरचितायां माधुर्य-कादम्बिन्यां भक्तेः श्रद्धादि-क्रम-त्रय-कथन-पूर्वकं भजन-क्रिया-भेद-कथनं नाम द्वितीयामृत-वृष्टिः
॥२॥
–ओ)०(ओ–
(३)