०१

प्रथमामृत-वृष्टिः

हृद्-वप्रे नव-भक्ति-शस्य-विततेः सञ्जीवनी स्वागमा-
रम्भे काम-तपर्तु-दाह-दमनी विश्वापगोल्लासिनी ।
दूरान् मे मरु-शाखिनोऽपि सरसी-भावाय भूयात् प्रभु-
श्री-चैतन्य-कृपा-निरङ्कुश-महा-माधुर्य-कादम्बिनी ॥१.१॥ (१)
भक्तिः पूर्वैः श्रिता तां तु रसं पश्येद् यद्-आत्त-धीः ।
तं नौमि सततं रूप-नाम-प्रिय-जनं हरेः ॥१.२॥ (२)

इह खलु परमानन्द-मयाद् अपि पुरुषाद् ब्रह्म पुच्छं प्रतिष्ठा [तै।उ। २.५.१] इति ब्रह्मतोऽपि परात्परो रसो वै सः । रसं ह्य् एवायं लब्ध्वानन्दी भवति [तै।उ। २.७.१] इति श्रुत्या सूच्यमानो मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान् [भा।पु। १०.४३.१७] इति सर्व-वेदान्त-सारेण निखिल-प्रमाण-चक्रवर्तिना श्रीमद्-भागवतेन रसत्वेन विव्रियमाणः, ब्रह्मणो हि प्रतिष्ठाहम् [गीता १४.२७] इति श्री-गीतोपनिषदा च एवायम् इति संमन्यमानः श्री-व्रज-राज-नन्दन एव शुद्ध-सत्त्व-मय-निज-नाम-रूप-गुण-लीलाढ्योऽनादि-वपुर् एव कम् अपि हेतुम् अनपेक्षमाण एव स्वेच्छयैव जन-श्रवण-नयन-मनो-बुद्ध्य्-आदीन्द्रिय-वृत्तिष्व् अवतरते । यथैव यदु-रघ्व्-आदि-वंशेषु स्वेच्छयैव कृष्ण-रामादि-रूपेण ॥१.३॥

तस्य भगवत इव तद्-रूपाया भक्तेर् अपि स्व-प्रकाशता-सिद्ध्य्-अर्थम् एव हेतुत्वानपेक्षता । तथा हि—यतो भक्तिर् अधोक्षजे अहैतुक्य् अप्रतिहता इत्य् आदौ हेतुं विनैवाविर्भवतीति तत्रार्थः । तथैव—यदृच्छया मत्-कथादौ [भा।पु। ११.२०.८], मद्-भक्तिं वा यदृच्छया [भा।पु। ११.२०.१३], यदृच्छयैवोपचिता इत्य् आदाव् अपि यदृच्छयेत्य् अस्य स्वाच्छन्द्येनेत्य् अर्थः । यदृच्छा स्वैरितेत्य् अभिधानात् ॥१.४॥

यदृच्छया केनापि भाग्येनेति व्याख्याने भाग्यं नाम किं शुभ-कर्म-जन्यं तद्-अजन्यं वा ? आद्ये भक्तेः कर्म-जन्य-भाग्य-जन्यत्वे कर्म-पारतन्त्र्ये स्वप्रकाशतापगमः । द्वितीये भागस्यानिर्वाच्यत्वेनाज्ञेयत्वाद् असिद्धेः कथं हेतुत्वम्? भगवत्-कृपैव हेतुर् इत्य् उक्ते तस्या अपि हेताव् अन्विष्यमाणेऽनवस्था । तत्-कृपाया निरुपाधिकाया हेतुत्वे तस्या असार्वत्रिकत्वेन तस्मिन् भगवति वैषम्यं प्रसज्जते। दुष्ट-निग्रहेण स्व-भक्त-पालन-रूपं तु वैषम्यं तत्र न दूषणावहं प्रत्युत भूषणावहम् एव, भक्त-वात्सल्य-गुणस्य सर्व-चक्रवर्तित्वेन सर्वोपमर्दकत्वेनोपविष्टाद् अष्टम्य्-आमृत-वृष्टौ व्याख्यास्यमानत्वात् ॥१.५॥

निरुपाधिकायास् तद्-भक्त-कृपाया हेतुत्वे वस्तुतो भक्तानाम् अपि वैषम्यानुचितत्वेऽपि प्रेम-मैत्री-कृपोपेक्षा यः करोति स मध्यमः [भा।पु। ११.२.४६] इति मध्यम-भक्त-वैषम्यस्य विद्यमानत्वाद् भगवतश् च स्व-भक्त-वश्यत्वेन तत्-कृपानुगामि-कृपत्वे न किञ्चिद् असामञ्जस्यम् । यतो भक्त-कृपाया हेतुर् भक्तस्यैव तस्य हृदय-वर्तिनी भक्तिर् एव । तां विना कृपोदय-सम्भवाभावाद् इति भक्तेः स्व-प्रकाशत्वम् एव सिद्धम् ॥१.६॥

अतो यः केनाप्य् अतिभाग्येन जात-श्रद्धोऽस्य सेवने [भ।र।सि। १.२.१४] इत्य् अत्र अतिभाग्येन शुभ-कर्म-जन्य-भाग्यम् अतिक्रान्तेन केनापि भक्त-कारुण्येनेति तत्त्वार्थो ज्ञेयः । न च भक्तानां कृपायाः प्राथम्यासम्भवस् तेषाम् अपीश्वर-प्रेर्यत्वाद् इति वाच्यम् । ईश्वरेणैव स्व-भक्त-वश्यतां स्वीकुर्वता स्व-कृपा-शक्ति-सम्प्रदानीकृत-स्व-भक्तेन तादृशस्य भक्तोत्कर्षस्य दानात् । अन्तर्यामिनश् च ईशितव्यानां स्वादृष्टोपार्जित-बहिर्-इन्द्रिय-व्यापारेषु नियमन-मात्र-कारित्वेऽपि स्व-भक्तेषु स्व-प्रसाद एव दृश्यते । यद् उक्तं श्री-गीतासु—मत्-प्रसादात् परां शान्तिं [गीता१८.६२] मत्-संस्थाम् अधिगच्छति [गीता ६.१५] इति । प्रसादश् च स्व-कृपा-शक्ति-दानात्मकः1 पूर्वम् उक्त एव ॥१.७॥

किं च स्वेच्छावतार-चरितैः [भा।पु। ४.८.५७] इति, स्वेच्छा-मयस्य [भा।पु। १०.१४.२] इत्य् आदि प्रमाण-शतैर् अवगतेन स्वाच्छन्द्येनावतरतोऽपि तस्य भू-भार-हरणादेः स्थूल-दृष्ट्या हेतुत्वे इव निष्काम-कर्मादेः क्वापि द्वारत्वेऽपि न क्षतिः । किं च—

यं न योगेन साङ्ख्येन दान-व्रत-तपो-ऽध्वरैः ।
व्याख्या-स्वाध्याय-सन्न्यासैः प्राप्नुयाद् यत्नवान् अपि ॥ [भा।पु। ११.१२.९]

इत्य् आदिना दान-व्रतादीनां स्पष्टम् एव हेतु-खण्डनेऽपि—

दान-व्रात-तपो-होम-जप-स्वाध्याय-संयमैः ।
श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥ [भा।पु। १०.४७.२४]

इति यद् धेतुत्वं श्रूयते तत् खलु ज्ञानाङ्ग-भूतायाः सात्त्विक्या एव भक्तेर् न तु निर्गुणायां प्रेमाङ्ग-भूतायाः । केचित् तु दानं विष्णु-वैष्णव-सम्प्रदानकं व्रतान्य् एकादश्य्-आदीनि तपस्-तत्-प्राप्ति-हेतुको भोगादि-त्याग इति साधन-भक्त्य्-अङ्गान्य् एवाहुः । तत्-साध्यत्वे भक्तेः भक्त्या सञ्जातया भक्त्या [भा।पु। ११.३.३१] इतिवत् निर्हेतुकत्वम् एव सिद्धम् इति सर्वं समञ्जसम् ॥१.८॥ (३)
श्रेयः-सृतिं भक्तिम् उदस्य ते विभो [भा।पु। १०.१४.४], को वार्थ आप्तोऽभजतां स्व-धर्मतः [भा।पु। १.५.१७] इति पुरेह भूमन् बहवोऽपि योगिनः [भा।पु। १०.१४.५] इत्य् आदिभ्यो ज्ञान-कर्म-योगादीनां प्रतिस्व-फल-सिद्ध्यै भक्तिम् अवश्यम् अपेक्षमाणानाम् इव भक्तेः स्वीय-फल-प्रेम-सिद्ध्यै स्वप्नेऽपि न तत्-तत्-सापेक्षत्वम् । प्रत्युत—न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह [भा।पु। ११.२०.३१] इति धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स तु सत्तमः [भा।पु। ११.११.३२] इत्य् आदिभ्यस् तस्याः सर्वथानन्यापेक्षित्वं किं वक्तव्यं तेषाम् एव ज्ञान-कर्म-योगादीनां प्रातिस्वकेषु फलेष्व् अपि कदाचिद् आत्मना साद्यमानेषु न तत्-तद्-गन्धापेक्षत्वम् अपि । यद् उक्तम्—यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्यतश् च यत् [भा।पु। ११.२०.३२] इत्य् आदौ, सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभतेऽञ्जसा [भा।पु। ११.२०.३३] इति । तं विना तु तेषां—
भगवद्-भक्ति-हीनस्य जातिः शास्त्रं जपस् तपः ।
अप्राणस्यैव देहस्य मण्डनं लोक-रञ्जनम् ॥ [हरि-भक्ति-सुधोदय ३.११]
इत्य् आदेर् वैफल्यायैव स्याद् इति । तस्याः परम-महत्या अधीनत्वं तेषां सम्प्राणायैवास्ताम् । अपि तु कर्म-योगस्य काल-देश-पात्र-द्रव्यानुष्ठान-शुद्ध्य्-आद्य्-अपेक्षा च तत्-तत्-स्मृति-प्रसिद्धैव । अस्यास् तु न तथा—

न देश-नियमस् तत्र न काल-नियमस् तथा ।

नोच्छिष्टादौ निषेधोऽस्ति हरेर् नामानि लुब्धक ॥ इत्य् आदेः ॥१.९॥

किं चास्याः प्रसिद्ध-सापेक्षत्वम् अपि न ।

सकृद् अपि परिगीतं श्रद्धया हेलया वा ।

भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥ इत्य् आदेः ।
कर्म-योगस्य तथाभूतत्वे महानर्थ-कारित्वम् एव ।
मन्त्र-हीनः स्वरतो वर्णतो वा
मिथ्या-प्रयुक्तो2 न तम् अर्थम् आह ।

यथेन्द्र-शत्रुः स्वरतोऽपराधात्
स वाग्-वज्रो यजमानं हि हिनस्ति ॥ [पाणिनीय-शिक्षा, ५२] इत्य् आदेः ।
एवं ज्ञानस्यान्तःकरणं शुद्ध्य्-अधीनत्वं प्रसिद्धम् एव । निष्फल-कर्म-योगेनान्तः-करणस्य शुद्धौ निष्पादितायाम् एव तत्र तस्य प्रवेशात् कर्माधीनत्व्ं च । तद्-अधिकृतस्य दैवात् दुराचारत्व-लवेऽपि—स वै वान्ताश्य् अपत्रपः [भा।पु। ७.१५.३६] इति निन्दा । कंस-हिरण्यकशिपु-रावणादीनां तत्-तत्-प्रकरण-दृष्ट्या ज्ञानाभ्यासवताम् अपि न तत्त्वेन व्यपदेश-लवोऽपि ॥१.१०॥

भक्तेस् तु विक्रीडितं व्रज-वधूभिर् इत्य् आदौ—

भक्तिं परां भगवति परिलभ्य कामं
हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ [भा।पु। १०.३३.३९]

इत्य् अत्र क्त्वा-प्रत्ययेन हृद्-रोगवत्य् एवाधिकारिणि परमाया अपि तस्याः प्रथमम् एव प्रवेशस् ततस् तयैव परम-स्वतन्त्रया कामादीनाम् अपगमश् च । तेषां कदाचित् सत्त्वेऽपि—अपि चेत् सुदुराचारो भजते माम् [गीता ९.३०] इति बाध्यमानोऽपि मद्-भक्त [भा।पु। ११.१४.१८]इत्य् आदिभ्यश् च तद्वतां न क्वापि शास्त्रेषु निन्दा-लेशोऽपि । अजामिलस्य भक्तत्वं विष्णुदूतैर् निरूपितम् । सङ्केतं भगवन्-नाम पुत्र-स्नेहानुषङ्गजम् इत्य् आदि-दृष्ट्या तद्-आभासताम् अप्य् अजामिलादीनां भक्तत्वं सर्वैः सङ्गीतम् एव ।
तद् एवं कर्म-योगादीनाम् अन्तः-करण-शुद्धि-द्रव्य-देश-शुद्ध्य्-आदयः साधकास् तद्-वैगुण्यादयो बाधका भक्तिस् तु प्राण-दायिन्य् एवेति । सर्वथा पारतन्त्र्यम् एव तेषाम् । न हि स्वतन्त्राः केनापि साध्यन्ते बाध्यन्ते वेति ॥१.११॥

किं च, ज्ञानैक-साधन-मात्रत्वं भक्तेर् इत्य् अज्ञैर् एवोच्यते यतो ज्ञान-साध्यान् मोक्षाद् अपि तस्याः परमोत्कर्षः एवालोच्यते । मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् [भा।पु। ५.६.१८] इति ।

मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महामुने ॥ [भा।पु। ६.१४.५] इत्य् आदिभ्यः ॥१.१२॥

इन्द्रम् एव प्रधानीकृत्य स्वयं गुणीभवतोपेन्द्रेण तं सर्वथा पुष्णता स्व-कृपालुत्वम् एव यथाभिज्ञ-जनेषु प्रत्यायते न तु स्वापकर्षस् तथैव ज्ञानं पुष्णन्त्यास् तत्-तत्-प्रकरण-वाक्येषु तस्या भक्तेर् अनुग्रह एव सुधीभिर् अनुगम्यत इति ॥१.१३॥

भक्त्या सञ्जातया भक्त्या [भा।पु। ११.३.३१] इति भक्तेः फलं प्रेम-रूपा सैवेति स्वयं पुरुषार्थ-मौलि-रूपत्वं तस्याः । तद् एवं भगवत इव स्वरूप-भूताया महा-शक्तेः सर्व-व्यापकत्वं सर्व-वशीकारित्वं सर्व-सञ्जीवकत्वं सर्वोत्कर्ष-परम-स्वातन्त्र्यं स्व-प्रकाशत्वं च किंचिद् उट्टङ्कितं तद् अपि तां विना अन्यत्र प्रवृत्तौ प्रेक्षावत्त्वस्याभाव इति किं वक्तव्यम् । नरत्वस्यापि को वै न सेवेत विना नरेतरम् इत्य् आदिभिर् अवगमो दृष्टः ॥१.१४॥ (४)
इति महा-महोपध्याय-श्रीमद्-विश्वनाथ-चक्रवर्ति-विरचितायां माधुर्य-कादम्बिन्यां भक्तेः सर्वोत्कर्षो नाम प्रथमामृत-वृष्टिः
॥१॥

–ओ)०(ओ–

(२)


  1. स्वरूप ↩︎

  2. मिथ्यो-प्रयुक्तो इति क-पुस्तके। मिथ्या-प्रयुक्तो इति श्रीधर-स्वामिनः भावार्थ-दीपिकायाम् ६.९.१२ (आचार्य ईश्वरलाल शास्त्री) ↩︎