वैर-रसस्य स्मरणे राध्यत्वे वा विषयाश्रय-भेदे वा उपमायां वा रसान्तर-व्यवधानेन वा वर्णने सति न रसाभासः । अन्यथा तु परस्पर-वैरयोर् यदि योगस् तदा रसाभासः । यदि परस्परं मित्र-योगस् तदा सुरसता । मुख्यानां तु विषयाश्रय-भेदेऽपि वैर-योगे रसाभास एव । एवम् अधिरूढ-महा-भावे केवलं श्री-राधायां तु वैर-योगेऽपि वर्णन-परिपाट्यां न रसाभासः ।
किं च, कृष्णो यदि स्वयम् एकदैव सर्व-रसानां विषयो वा आश्रयो वा तदापि न रसाभासः । अथान्येऽपि रसाभासाः केचित् ग्राह्य-प्रायाः—श्री-कृष्णे यदि ब्रह्मतश् चमत्काराधिक्यं न भवति तदा शान्त-रसाभासः । श्री-कृष्णाग्रे यदि दास्याति धार्ष्ट्यं भवति तदा दास्य-रसाभासः । द्वयोर् मध्ये एकस्य सख्य-भावः अन्यस्य दास्य-भावस् तदा सख्य-रसाभासः । पुत्रादीनां बलाधिक्य-ज्ञानेन लालनाद्य-करणं वात्सल्य-रसाभासः । द्वयोर् मध्ये एकस्य रमणेच्छान्यस्य नास्ति प्रकटम् एव सम्भोग-प्रार्थनं वा तदोज्ज्वल-रसाभासः । श्री-कृष्ण-सम्बन्ध-वर्जिताश् चेत् हास्यादयस् तदा ते हास्यादि-रसाभासाः । यदि श्री-कृष्ण-वैरिषु भवन्ति तदाति-रसाभासाः ॥२६॥
अनधीत-व्याकरणश् चरण-प्रवणो हरेर् जनो यस्मात् ।
भक्ति-रसामृत-सिन्धु-बिन्दुतो बिन्दु-रूपेण ॥
इति महा-महोपाध्याय-श्री-विश्वनाथ-चक्रवर्ति-विरचितः
भक्ति-रसामृत-सिन्धु-बिन्दुः समाप्तः ॥
—ओ)०(ओ—