२१ द्वादश-गौण-रसाः

अथ हास्याद्भुत-वीर-करुण-रौद्र-भयानक-बीभत्साः सप्त गौण-भक्ति-रसाः पञ्च-विध-भक्तेष्व् एवोदयन्ते । अत एव पञ्च-विध-भक्ता आश्रयालम्बनाः । हास्यादीनां षण्णां रसानां श्री-कृष्णश् च श्री-कृष्ण भक्ताश् च तत्-सम्बन्धिनश् च विषयालम्बनाः ।
बीभत्सस्य तु घृणास्पदामेध्य मांस-शोणितादयो विषयाः । रौद्र-भयानकयोः श्री-कृष्ण-शत्रवोऽपि विषयाः । गण्ड-विकाश-नेत्र-विस्फारादयो यथा-सम्भवम् अनुभावाः । सात्त्विका अपि यथा-सम्भवं द्वि-त्राः । हर्षामर्याद्या व्यभिचारिणः । हासो विस्मय उत्साहः क्रोध शोकौ भयं तथा जुगुप्सा चेत्य् असौ भाव-विशेषः सप्तधोदितः । हास्यादीनाम् अमी क्रमेण स्थायि-भावाः । किञ्च वीर रसे युद्ध-दान-दयाधर्मेषु उत्साह-वशात् युद्ध-वीरः, दान-वीरः, दया-वीरः, धर्म-वीर इति चतुर्धा वीर-रसः । इति सप्त गौण-रसाः । एवं मिलित्वा द्वादश रसा भवन्ति ॥२१॥

—ओ)०(ओ—