१८ मधुर-रसः

अथ मधुर-रसे रूप-माधुर्य-लीला-माधुर्य-प्रेम-माधुर्य-सिन्धुः श्री-कृष्णो विषयालम्बनः । प्रेयसी-गणः आश्रयालम्बनः । मुरली-रव-वसन्त-कोकिल-नाद-नव-मेघ-मयूर-कण्ठादि-दर्शनाद्या उद्दीपन-विभावाः । कटाक्ष-हास्यादयोऽनुभावाः । सर्व एव सात्त्विकाः सूद्दीप्त-पर्यन्ताः । निर्वेदाद्याः सर्वे आलस्यौग्र्य-रहिताः सञ्चारिणः । प्रियता-रतिः स्थायी भावः । प्रेम-स्नेह-रागाद्याः श्रीलोज्ज्वल-नीलमण्य्-उक्ताः सर्व एव भवन्ति । इति मधुर-रसः ॥१८॥

—ओ)०(ओ—