अथ वात्सल्य-रसे कोमलाङ्गो विनयी सर्व-लक्षण-युक्त-गुणः श्री-कृष्णो विषयालम्बनः । श्री-कृष्णे अनुग्राह्य-भाववन्तः पित्रादयो गुरु-जना अत्र व्रजे व्रजेश्वरी-व्रजराज-रोहिण्य्-उपनन्द-तत्-पत्न्य्-आदयः । अन्यत्र देवकी-कुन्ती-वसुदेवादयश् च आश्रयालम्बनाः । स्मित-जल्पित-बाल्य-चेष्टादय उद्दीपन-विभावाः । मस्तकाघ्राणाशीर्वाद-लालन-पालनादयोऽनुभावाः । सात्त्विकाः स्तम्भ-स्वेदादयः सर्व एव स्तन-स्रवणम् इति नव सङ्ख्याः । हर्ष-शङ्काद्या व्यभिचारिणः । वात्सल्य-रतिः स्थायी भावः । प्रेम-स्नेह-रागाश् चात्र भवन्ति । अत्रापि वियोगे पूर्ववत् दश दशाः । इति वात्सल्य-रसः ॥१७॥
—ओ)०(ओ—