१६ सख्य-रसः

अथ सख्य-रसे विदग्धो बुद्धिमान् सुवेशः सुखीत्य्-आदि-गुनः श्री-कृष्णो विषयालम्बनः । आश्रयालम्बनाः सखायश् चतुर् विधाः—सुहृदः सखायः प्रिय-सखायः प्रिय-नर्म-सखायश् च । ये कृष्णस्य वयसाधिकास् ते सुहृदः किञ्चिद् वात्सल्यवन्तः । ते सुभद्र-मण्डलीभद्र-बलभद्रादयः । ये किञ्चिद् वयसा न्यूनास् ते किञ्चिद् दास्य-मिश्राः सखायः । ते विशाल-वृषभ-देवप्रस्थादयः । ये वयसा तुल्यास् ते प्रिय-सखायः श्रीदाम-सुदाम-वसुदामादयः । ये तु प्रेयसी-रहस्य-सहायाः शृङ्गार-भाव-स्पृहास् ते प्रिय-नर्म-सखायः सुबल-मधुमङ्गलार्जुनादयः । श्री-कृष्णस्य कौमार-पौगण्ड-कैशोरान् वयांसि शृङ्ग-वेणु-दल-वाद्यादयश् च उद्दीपन विभावाः । तत्र प्रमाणं—

कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि ।
कैशोरम् आपञ्च-दशं यौवनं तु ततः परम् ॥

अष्टमासाधिक-दश-वर्ष-पर्यन्तं श्री-कृष्णस्य व्रजे प्रकट-विहारः । अत एव श्री-कृष्णस्याल्प-कालत एव वयो-वृद्ध्या मास-चतुष्टयाधिक-वत्सर-त्रय-पर्यन्तं कौमारं । ततः परम् अष्ट-मासाधिक-षड्-वर्ष-पर्यन्तं पौगण्डम् । ततः परम् अष्ट मासाधिक-दश-वर्ष-पर्यन्तं कैशोरम् । ततः परम् अपि सर्व-कालं वाप्य कैशोरम् एव। दश-वर्षं शेष-कैशोरम् । तत्रैव सदा स्थितिः । एवं सप्तमे वर्षे वैशाखे मासि कैशोरारम्भः । अत एव प्रसिद्धः पौगण्ड-मध्ये प्रेयसीभिः सह विहारः । तासाम् अपि तथाभूतत्वाद् इति प्रसङ्गात् लिखितम् ।
सख्ये बाहु-युद्ध-खेला एक-शय्या-शयनादयोऽनुभावाः । अश्रु-पुलकादयः सर्वे एव सात्त्विकाः । हर्ष-गर्वादयः सञ्चारिणः साम्य-दृष्ट्या निःसम्भ्रमता-मयः विश्वास-विशेषः सख्य-रतिः स्थायी भावः । अथ प्रणयः प्रेमा स्नेहो रागः सख्येन सह पञ्च-विधः स्यात् । अन्यत्र अर्जुन-भीमसेन-श्रीदाम-विप्राद्याः सखायः । तत्रापि वियोगे दश दशाः पूर्वत् ज्ञातव्याः । इति सख्य-रसः ॥१६॥

—ओ)०(ओ—