अथ दास्ये रसे ईश्वरः प्रभुः सर्वज्ञः भक्त-वत्सलः इत्य्-आदि-गुणवान् श्री-कृष्णो विषयालम्बनः । आश्रयालम्बनाश् चतुर्विधाः—अधिकृत-भक्ताः आश्रिताः पार्षदाः अनुगाश् चेति । तत्र ब्रह्मा, शङ्कर इत्य् आदयोऽधिकृत भक्ताः । तत्र आश्रितास् त्रिविधाः शरण्याः ज्ञानि-चराः सेवा-निष्ठाः कालिय-जरासन्धम् अगध-राज-बद्ध-राजादयः शरण्याः । प्रथमतो ज्ञानिनोऽपि मुमुक्षां परित्यज्य ये दास्ये प्रवृत्तास् ते सनकादयो ज्ञानि-चराः । ये प्रथमत एव भजने रतास् ते चन्द्रध्वज-हरिहय-बहुलाश्वादयः सेवा-निष्ठाः । उद्धव-दारुक-श्रुतदेवादयः पार्षदाः । सुचन्द्र-मण्डनाद्याः पुरेः । रक्तक-पत्रक-मधुकण्ठादयो व्रजेऽनुगाः ।
एषां स-परिवार एव कृष्णे ये यथोचित-भक्तिमन्तस् ते धुर्य-भक्ताः । ये कृष्ण-प्रेयसी-वर्गे आदर-युक्तास् ते धीर-भक्ताः । ये तु तत्-कृपां प्राप्य गर्वेण कम् अपि न गणयन्ति ते वीर-भक्ताः । एतेषु गौरवान्वित-सम्भ्रम-प्रीति-युक्तास् तु प्रद्युम्न-साम्बादयः श्री-कृष्णस्य पाल्याः । ते सर्वे केचिन् नित्य-सिद्धाः, केचित् साधन-सिद्धाः, केचित् साधकाः ।
श्री-कृष्णानुग्रह-चरण-धूली-महा-प्रसादादय उद्दीपन-विभावाः । श्री-कृष्णस्याज्ञा-करणादयोऽनुभावाः । प्रेमा रागः स्नेहश् चात्र रसे भवति । अधिकृत-भक्ते आश्रित-भक्ते च प्रेम-पर्यन्तो भवति स्थायी । पार्षद-भक्ते स्नेह-पर्यन्तः । परीक्षिति दारुके उद्धवे रागः प्रकट एव । व्रजानुगे रक्तकादौ सर्व एव । प्रद्युम्नादाव् अपि सर्व एव । यावत् पर्यन्तं श्री-कृष्ण-दर्शनं प्रथमतो भवति तावत्-कालम् अयोगः । दर्शनानन्तरं यदि विच्छेदस् तदा वियोगः । तत्र दश दशाः । अङ्गेषु तापः कृशता जागर्या आलम्बन-शून्यता अधृतिर् जडता व्याधिर् उन्मादो मूर्च्छितं मृतिश् च । इति दास्य-रसः ॥१५॥
—ओ)०(ओ—