१४ शान्त-रसः

अथ शान्त-रसे नराकृति-पर-ब्रह्म चतुर्भुजः नारायणः परमात्मा इत्य्-आदि-गुनः श्री-कृष्णो विषयालम्बनः । सनक-सनन्दन-सनातन-सनत्कुमारादयः आश्रयालम्बनाः तपस्विनः । ज्ञानिनोऽपि मुमुक्षां त्यक्त्वा श्री-कृष्ण-भक्त-कृपया भक्ति-वासना-युक्ता यदि स्युस् तदा तेऽप्य् आश्रयालम्बनाः । पर्वत-शैल-काननादि-वासि-जन-सङ्ग-सिद्ध-क्षेत्रादयः उद्दीपन-विभावाः । नासिकाग्र-दृष्टिः अवधूत-चेष्टा निर्ममता भगवद्-द्वेषि-जने न द्वेषः तद्-भक्त-जनेऽपि नातिभक्तिः मौनं ज्ञान-शास्त्रेऽभिनिवेशः इत्य् आदयोऽनुभावाः। अश्रु-पुलक-रोमाञ्चाद्याः प्रलय-वर्जीताः सात्त्विकाः । निर्वेद-मति-धृत्य्-आदयः सञ्चारिणः । शान्तिः स्थायी । इति शान्त रसः ॥१४॥

—ओ)०(ओ—