सामान्य-रूपः स्वच्छ-रूपश् च शान्तादि-पञ्च-विध-रूपश् च एकैक-रस-निष्ठ-भक्त सङ्ग-रहितस्य सामान्य-जनस्य सामान्य-भजन-परिपाकेण सामान्य-रति-रूपश् च स्थायी भावो यो भवति, स सामान्य-रूपः । शन्तादि-पञ्च-विध-भक्तेश्व् अपि अविशेषेण कृत-सङ्गस्य तत्-तद् भजन-परिपाकेण पञ्च-विधा रतिस् । तत्-तद् भक्त-सङ्ग-वसति-काल-भेदेन योदयते, यथा—कदाचित् शान्तिः कदाचित् दास्यं, कदाचित् सख्यं, कदाचित् वात्सल्यं, कदाचित् कान्ता-भावश् च, न त्व् एकत्र निष्ठत्वं—तदा स्वच्छ-रति-रूपः ।
अथ पृथक्-पृथक् रसैक-निष्ठेषु भक्तेषु शान्त्य्-आदि-पञ्च-विध-रूपः । शान्त-भक्तानां शान्तिः । दास्य-भक्तानां दास्य-रतिः । सख्य-भक्तानां सख्यम् । वात्सल्य-भक्तानां वात्सल्यम् । उज्ज्वल-भक्तानां प्रियता । एवम् शान्त-दास्य-सख्य-वात्सल्योज्ज्वलाश् च पञ्च-मुख्य-रसा यथोत्तरं श्रेष्ठाः । शान्ते श्री-कृष्ण-निष्ठ-बुद्धि-वृत्तिता । दास्ये सेवा । सख्ये निःसम्भ्रमता । वात्सल्ये स्नेहः । उज्ज्वले सङ्गि-सङ्ग-दानेन सुखम् उत्पाद्यम् । एवं पूर्व-पूर्व-गुणाद् उत्तरोत्तर-स्थाः श्रेष्ठाः स्युः ॥१३॥
—ओ)०(ओ—