१२ व्यभिचारिनः

अथ व्यभिचारिनः स्थायि-भाव-पोषका भावाः कदाचित्काः ।

निर्वेदोऽथ विषादो दैन्यं ग्लानि-श्रमौ च मद-गर्वौ ।
शङ्का-त्रासावेगा उन्मादापस्मृती तथा व्याधिः ॥
मोहो मृतिर् आलस्यं जाड्यं व्रीडावहित्था च ।
स्मृतिर् अथ वितर्क-चिन्ता-मति-धृतयो हर्ष उत्सुकत्वं च ॥
औग्र्यम् अर्षासूयाश् चापल्यं चैव निद्रा च ।
सुप्तिर् बोध इतीमे भावा व्यभिचारिणः समाख्याताः ॥

(भक्ति-रसामृत-सिन्धुः २.४.४-६)

अथैषाम्-लक्षणम्—आत्म-निन्दा निर्वेदः । अनुतापो विषादः । आत्मनि अयोग्य-बुद्धिर् दैन्यम्। श्रम-जन्य-दौर्बल्यं ग्लानिः । नृत्याद्य्-उत्थः स्वेदः श्रमःमदो मधु-पानादि मत्तता । अहङ्कारो गर्वः । अनिष्टाशङ्कनं शङ्का । अकस्माद् एव भयं त्रासः । चित्त-सम्भ्रम आवेगः । उन्मत्तता उन्मादः । अपस्मारो व्याधिर् अपस्मृतिः । ज्वर-तापो व्याधिः । मूर्च्छैव मोहः । मृतिर् मरणम्आलस्यम् स्पष्टम् । जाड्यं जडता । लज्जैव व्रीडा । आकार-गोपनम् अवहित्था । पूर्वानुभूत-वस्तु-स्मरणं स्मृतिः । अनुमानं वितर्कः । किं भविष्यतीति भावना चिन्ता । शास्त्रार्थ-निर्धारणं मतिःधृतिर् धैर्यम् । हर्ष आनन्दः । उत्कण्ठैव औत्सुक्यम् । तीक्ष्ण-स्वभावता औग्र्यम् । असहिष्णुता अमर्षः । गुणेऽपि दोषारोपणम् असूया । स्थैर्ये अशक्तिश् चापल्यम् । सुषुप्तिर् एव निद्रा । स्वप्न-दर्शनं सुप्तिः । जागरणं बोधोऽविद्या-क्षयश् च इति व्यभिचारिणः ।
किं च, भक्तानां चित्तानुसारेण भावानां प्राकट्य-तारतम्यं भवति । तत्र क्वचित् समुद्रवद् गम्भीर चित्तेऽपि अप्राकट्यम् स्वल्प-प्राकट्यं वा । अल्प-खातवत् तरल-चित्ते अतिशय-प्राकट्यम् च भवतीति नायम् आत्यन्तिक-नियम इति प्रपञ्चो न लिखितः ॥१२॥

टीका— विभावैर् इति । एषा श्री-कृष्ण-रतिर् एव स्थायी भावः । सैव भक्ति-रसो भवेत् । कीदृशी सती ? तत्राह—विभावैर् इति । श्रवणादिभिः कर्तृभिर् विभावादिभिः करणैर् भक्तानां हृदि स्वाद्यत्वम् आनीता सम्यक् प्रापिता चमत्कार-विशेषेण पुष्टेत्य् अर्थः ॥१२॥ [लोचन-रोचनी २.१.५]

—ओ)०(ओ—