११ रस-सामग्री

विभावानुभाव-सात्त्विक-भाव-व्यभिचारि-भाव-मिलनेन रसो भवति । यत्र विषये भावो भवति स विषयालम्बन-विभावः कृष्णः । यो भाव-युक्तो भवति स आश्रयालम्बन-विभावो भक्तः । ये कृष्णं स्मारयन्ति वस्त्रालङ्कारादयस् ते उद्दीपन-विभावाः । ये भावं ज्ञापयन्ति ते अनुभावा नृत्य-गीत-स्मितादयः ।
ये चित्तं तनुं च क्षोभयन्ति ते सात्त्विकाह् । ते अष्टौ—स्तम्भ-स्वेद-रोमाञ्च-स्वर-भेद-वेपथु-वैवर्ण्याश्रु-प्रलया इति । ते धूमायिता ज्वलिता दीप्ता उद्दीप्ता सूद्दीप्ता इति पञ्च-विधा यथोत्तर-सुखदाः स्युः । एते यदि नित्य-सिद्धे तदा स्निग्धाः । यदि जात-रतौ तदा दिग्धाः । भाव-शून्य-जने यदि जातास्-तदा रुक्षाः । मुमुक्षु-जने यदि जातास् तदा रत्य्-आभास-जाः । कर्मि-जने विषयि-जने वा यदि जातास् तदा सत्त्वाभासजाः । पिच्छिल-चित्त-जने तद्-अभ्यास-परे वा यदि जातास् तदा निःसत्त्वाः । भगवद्-द्वेषि जने यदि जातास् तदा प्रतीपाः ॥११॥

—ओ)०(ओ—