१० प्रेम-भक्तिः

भाव-भक्ति-परिपाक एव प्रेमा । तस्य चिह्नम्—विघ्नादि सम्भवेऽपि किन्चिन्-मात्रस्यापि न ह्रासः । ममत्वातिशयात् प्रेम्न एव उपरितनोऽवस्था विशेषः स्नेहः । तस्य चिह्नश् चित्त-द्रवी-भावः । ततो रागः, तस्य लक्षणं निविड-स्नेहः । ततः प्रणयः, तस्य लक्षणं गाढ-विश्वासः ॥१०॥

टीका—अथ भावम् अप्य् उक्त्वा प्रेमाणम् आह—सम्यग्1 इति । सम्यङ् मसृणितं भावस्य प्रथम-दशापेक्षयातिशयार्द्रं स्वान्तं चित्तं यस्मिन् तथा-भूतो यः सान्द्रात्मा निविड-स्वरूपः प्रथम-दशापेक्षया परमानन्दोत्कर्षं प्राप्त इति यावत् । अत एव कृष्णेऽतिशय-ममत्वाङ्कितो भावः स एव प्रेमा निगद्यते ।

अत्रेयम् आशङ्का—ननु भाव एव चेद् उपादानः सन् साङ्ख्य-मतानुसारेण प्रेमाणम् उत्पाद्य स्वयं प्रेमात्मिको2 भवति, तदा तन्-मते उपादान-कारणम् एव पूर्वावस्थां परित्यज्य कार्य-रूपेण परिणमति, न तु कारणातिरिक्तः स्वतन्त्र-कार्य-पदार्थोऽस्ति । यथा गुड एव कम् अपि विकारं प्राप्य पूर्व-रूपं परित्यज्य च खण्डो भवति, जाते च खण्डे तस्माद् गुडस्य पृथक् स्थितिर् नास्ति । एवं खण्ड एव सिता भवति, सिता एव सितोपला भवति, तत्र सितोपला-दशायां गुड-खण्ड-सितानां पृथक् स्थितिर् नास्ति । तद्वद् अत्रापि भावः पूर्वावस्थां परित्यज्य प्रेम-रूपो भवतु, एवं प्रेम्णः सकाशाद् भावस्य पृथक्-स्थितिर् मास्तु, तथाग्रे वक्ष्यमाणं प्रेम्ण एव स्नेह-रूपत्वम् एव स्नेहादीनां रागादि-रूपत्वं च, तत्रापि स्नेहादिभ्यः सकाशात् प्रेमादि-स्थायि-भावानां पृथक् स्थितिर् मास्तु । एवं सति श्री-राधिका-प्रभृतिषु चम्र-स्थायि-रूप-महाभाव एव तिष्ठतु, न तु रति-प्रेम-स्नेह-मान-रागानुरागादयः ।

मैवम् । श्री-कृष्णस्य ह्लादिनी-शक्तेः सार-वृत्ति-रूपाणां रति-प्रेम-स्नेहादीनां श्री-कृष्णस्यैवाचिन्त्य-शक्तित्वात् पूर्वावस्थाम् अपरित्यज्यैव भावः प्रेम-रूपो भवति । पूर्वावस्थाया अत्यागाद् एव प्रेम्णः सकाशाद् भावस्य पृथक् स्थितिर् अपि ज्ञेया । एवं-रीत्या स्नेहादिभ्यः सकाशात् प्रेमादीनां पृथक् स्थितिर् अप्य् ऊह्या । तत्र दृष्टान्तो, यथा—श्री-कृष्णस्य बाल्य-देह एव कम् अपि माधुर्याद्य्-उत्कर्षं प्राप्य बाल्यावस्था-परित्यागं विनैव पौगण्ड-देहो भवति । एवं पौगण्ड-देह एव पूर्वस्माद् अप्य् उत्कर्ष-विशेषं प्राप्य कैशोर-देहो भवति, न तु प्राकृत-मनुष्य-शरीरादिर् इव बाल्यावस्थां परित्यज्य पौगण्डावस्थां प्राप्नोति । श्री-कृष्णस्य बाल्य-पौगण्ड-कैशोराणाम् एवं बाल्याद् उचित-लीलानां च सर्वेषां नित्यत्वात् । किन्तु पौगण्डस्य प्राकट्ये बाल्य-देहोऽत्रान्तर्धाय यत्र यत्र ब्रह्माण्डे प्रकट-लीलायां बाल्य-लीलाया आरम्भस् तत्रैव प्रकटीभवति । एवम् अस्यैव वृन्दावनस्याप्रकट-प्रकाशे यत्र बाल्य-लीलाया आरम्भस् तत्रापि बाल्य-देहस्य प्राकट्यं ज्ञेयम् । ब्रह्मण आगामिनि कल्पे वैवस्वत-मन्वन्तरे पुनर् अप्य् अत्रैव वृन्दावनस्य प्रकट-प्रकाशे बाल्य-देहः प्रकटीभविष्यतीति । यथा—एतद्-द्वीपस्थः सूर्योऽत्रान्तर्धाय सन्ध्या-काले द्वीपान्तरं गच्छति । पुनर् अपि याम-चतुष्टयानन्तरम् एतद् द्वीपे प्रकटीभविष्यति । लीलानां बाल्याद्य्-अवस्थानां च नित्यत्वं श्री-भागवत-टीकायां महानुभावैर् विस्तार्य लिखितम् । विशेष-जिज्ञासा चेत्, सा टीका द्रष्टव्या ।
प्रकृते तु रति-प्रेमादि-स्थायि-भाववतां भक्तानां मध्ये यस्य भक्तस्य स्थायि-भावादेः स्व-स्व-कारणं प्राप्योदयस् तदा तस्यैवाभिव्यक्तिर् अन्येषां तु भावानाम् अनभिव्यक्तत्वेन तस्मिन्न् एव भक्ते स्थितिर् ज्ञेया । यथा काम-क्रोधादिमतां सांसारिकाणां कामादीनां मध्ये एकतरस्योदय-कालेऽन्येषां संस्कार-रूपेण स्थितिः, तद्वद् एवेति ज्ञेयम् ॥ [लोचन-रोचनी १.४.१] ॥१०॥

—ओ)०(ओ—


  1. सम्यङ्-मसृणित-स्वान्तो ममत्वातिशयाङ्कितः । भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥ ↩︎

  2. प्रेमाधिको ↩︎