अथ साधन-भक्ति-परिपाकेन कृष्ण-कृपया तद्-भक्त-कृपया वा भाव-भक्तिर् भवति । तस्य चिह्नानि नव-प्रीत्य्-अङ्कुराः, यथा—
क्षान्तिर् अव्यर्थ-कालत्वं विरक्तिर् मान-शून्यता ।
आशाबन्धः समुत्कण्ठा नाम-गाने सदा रुचिः ॥
आसक्तिस् तद्-गुणाख्याने प्रीतिस्-तद्-वसति-स्थले ।
इत्य् आदयोऽनुभावाः स्युर् जात-भावाङ्कुरे जने ॥
[भक्ति-रसामृत-सिन्धुः १.३.२५-२६]
तदा कृष्ण-साक्षात्कार-योग्यता भवति । मुमुक्षु-प्रभृतिषु यदि भाव-चिह्नं दृस्यते तदा भाव-बिम्ब एव न तु भावः । अज्ञ-अनेषु भावच्-छाया ॥९॥
—ओ)०(ओ—