अथ रागानुगा-लक्षणं—निजाभिमत-व्रज-राज-नन्दनस्य सेवा-प्राप्ति-लोभेन यदि तानि क्रियन्ते, तदा रागानुगा भक्तिः । यद् उक्तम्—
सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि ।
तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः ॥
कृष्णं स्मरन् जनं चास्य प्रेष्ठं निज-समीहितम् ।
तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा ॥
[भ।र।सिं।१.२.२९४-२९३]
तत्र रागानुगायां स्मरणस्य मुख्यत्वम् । तच् च स्मरणं निज-भावो चिल्-लीलावेश-स्वभावस्य श्री-कृष्णस्य तत्-प्रिय-जनस्य च । तथैव कीर्तनादिकम् अप्य् अर्चनादाव् अपि मुद्रा-न्यासादि-द्वारका-ध्यानादि-रुक्मिण्य्-आदि-पूजादिकम् अपि निज-भाव-प्रातिकूल्याद् आगमादि-शास्त्र-विहितम् अपि न कुर्याद् इति, भक्ति-मार्गे किञ्चित् किञ्चित् अङ्ग-वैकल्येऽपि दोषाभाव-स्मरणात् ।
न ह्य् अङ्गोपक्रमे ध्वंसो मद्-धर्मस्योद्धवाण्व् अपि ।
मया व्यवसितः सम्यङ् निर्गुणत्वाद् अनाशिषः ॥ [भा।पु। ११.२९.२०]
अङ्गि-वैकल्ये त्व् अस्त्य् एव दोषः । यद् उक्तम्—
श्रुति-स्मृति-पुराणादि-पञ्चरात्र विधिं विना ।
एकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्पते ॥ इति ।
यदि चान्तरे रागो वर्तते, अथ च सर्वम् एव विधि-दृष्ट्यैव करोति, तदा द्वारकायां रुक्मिण्य्-आदित्वं प्राप्नोति ।
अत्रायं विवेकः—व्रज-लीला-परिकर-स्थ-शृङ्गारादि-भाव-माधुर्ये श्रुते “इदं ममापि भूयात्” इति लोभोत्पत्ति-काले शास्त्र-युक्त्य्-अपेक्षा न स्यात् । तस्यां च सत्यां लोभत्वस्यैवासिद्धेः । न हि केनचित् कुत्रचित् शास्त्र-दृष्ट्या लोभः क्रियते । किन्तु लोभ्ये वस्तुनि श्रुते दृष्टे वा स्वत एव लोभ उत्पद्यते । ततश् च तद्-भाव-प्राप्त्य्-उपाय-जिज्ञासायां शास्त्रापेक्षा भवेत् । शास्त्र एवं प्राप्त्य्-उपाय-लिखनात् नान्यत्र । तच् च शास्त्रं भजन-प्रतिपादकम् श्री-भागवतम् एव ।
तेषु भजनेष्व् अपि मध्ये कानिचित् तद्-भाव-मयानि, कानिचित् तद्-भाव-सम्बन्धीनि, कानिचित् तद्-भावानुकूलानि, कानिचित् तद्-भावाविरुद्धानि, कानिचित् तद्-भाव-प्रतिकूलानीति पञ्च-विधानि साधनानि । तत्र दास्य-सख्यादीनि भाव-मयान्य् एव । गुरु-पदाश्रयतो मन्त्र-जपादीनि तथा प्रेष्ठस्य निज-समीहितस्य तत्-प्रिय-जनस्य च समयोचितानां लीला-गुण-रूप-नाम्नां श्रवण-कीर्तन-स्मरणानि विविध-परिचरणानि च भाव-सम्बन्धीनि । तत्-प्राप्त्य्-उत्कण्ठायाम् एकादशी-जन्माष्टमी-कार्त्तिक-व्रत-भोग-त्यागादीनि तपो-रूपाणि तथाश्वत्थ-तुलस्य्-आदि-सम्माननादीनि तद्-भावानुकूलान्य् एव । नामाक्षर-माल्य-निर्माल्यादि-धारण-प्रणामादीनि तद्-भावाविरुद्धानि । उक्तान्य् एतानि सर्वाणि कर्माणि कर्तव्यानि । न्यास-मुद्रा-द्वारकादि-ध्यानादीनि तद्-भाव-प्रतिकूलानि रागानुगायां वर्जनीयानि । एवं स्वाधिकारोचितानि शास्त्रेषु विहितानि कर्तव्यानि, निषिद्धानि तु सर्वाणि वर्जनीयानि ॥८॥
टीका—साधक-रूपेण यथावस्थित-देहेन, सिद्ध-रूपेण अन्तश्-चिन्तिताभीष्ट-तत्-सेवोपयोगि-देहेन । तस्य व्रजस्थस्य श्री-कृष्ण प्रेष्थस्य यो भावो रति-विशेषस् तल्-लिप्सुना । व्रज-लोकास् तत्-तत्-कृष्ण-प्रेष्ठ-जनाः श्री-राधा-ललिता-विशाखा-रूप-मञ्जर्य्-आद्यास् तद्-अनुगताः श्री-रूप-गोस्वामी-प्रभृतयश् च तेषाम् अनुसारतः । तथा च सिद्ध-रूपेणा मानसी सेवा श्री-राधा-ललिता-विशाखा-श्री-रूप-मञ्जर्य्-आदीनाम् अनुसारेण कर्तव्या । साधक-रूपेण कायिक्य्-आदि-सेवा तु श्री-रूप-सनातनादि-व्रज-वासिनाम् अनुसारेण कर्तव्येत्य् अर्थः । एतेन व्रज-लोक-पदेन व्रज-स्थ-श्री-राधा-ललिताद्या एव ग्राह्यास्, तासाम् अनुसारेणैव साधक-देहेन कायिक्य्-आदि-सेवापि कर्तव्या ।
एवं सति ताभिर् गुरु-पदाश्रयणैकादशी-व्रत-शालग्राम-तुलसी-सेवादयो न कृतास् तद्-अनुगतेर् अस्माभिर् अपि न कर्तव्या इत्य् आधुनिकानां विमतम् अपि निरस्तम् । अत एव श्री-जीव-गोस्वामि-चरणैर् अपि अस्य ग्रन्थस्य टीकायां तथैवोक्तम् । यथा—व्रज-लोकास् तत्-तत्-कृष्ण-प्रेष्ठ-जनास् तद्-अनुगताश् च इति ॥ (लोचन-रोचनी १.२.२९५)
अथ रागानुगायाः परिपाटीम् आह—कृष्णम् इत्य्-आदिना । प्रेष्ठं स्व-प्रियतमं किशोरं नन्द-नन्दनं स्मरन् । एवम् अस्य कृष्णस्य तादृश-भक्त-जनम् । अथ च स्वस्य सम्यग्-ईहितं स्व-समान-वासनम् इति यावत् । तथा च तादृशं जनं स्मरन् व्रजे वासं सदा कुर्यात्। सामर्थ्ये सति श्रिमन्-नन्द-व्रजावास-स्थान-वृन्दावनादौ शरीरेण वासं कुर्यात् । तद्-अभावे मनसापीत्य् अर्थः ॥८॥ (लोचन-रोचनी १.२.२९४)
—ओ)०(ओ—