अथ वैधी-लक्षनं—श्रवण-कीर्तनादीनि शास्त्र-शासन-भयेन यदि क्रियन्ते, तदा वैधी भक्तिः ॥
टीका—अथात्र साधनादौ प्रवृत्ति-सामान्ये कुत्रचित् लोभस्य कारणत्वं, कुत्रचित् शास्त्र-शासनस्य । तत्र च यस्यां भक्तौ लोभस्य कारणत्वं नास्ति किन्तु शास्त्र-शासनस्यैव, सा वैधीत्य् आह—यत्रेति1 । रागोऽत्र श्री-मूर्तेर्-दर्शनाद् दशम-स्कन्धीय-तत्-तल्-लीला-श्रवणाद् भजने लोभस् तद्-अनवाप्तत्वात् तद्-अनधीनत्वाद् धेतोः शास्त्रस्य शासनेनैव या प्रवृत्तिर् उपजायते सा भक्तिर् वैधी उच्यते ॥८॥ (लोचन-रोचनी १.२.६)
—ओ)०(ओ—
-
यत्र रागानवाप्तत्वात् प्रवृत्तिर् उपजायते । शासनेनैव शास्त्रस्य सा वैधी भक्तिर् उच्यते ॥ (१.२.६) ↩︎