०६ दश नामापराधाः

सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयात् ।
हरेर् अप्य् अपराधान् यः कुर्याद् द्विपद-पांसवः ॥
नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ।
नाम्नोऽपि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥६॥

[पद्म।पु।, भ।र।सिं। १.२.११९]

अथ नामापराधा दश, यथा—वैष्णव-निन्दादि-वैष्नवापराधः, विष्णु-शिवयोः पृथग्-ईश्वर-बुद्धिः, श्री-गुरु-देवे मनुष्य-बुद्धिः, वेद-पुराणादि-शास्त्र-निन्दा, नाम्नि अर्थ-वादः, नाम्नि कुव्याख्या वा कष्ट-कल्पना; नाम-बलेन पापे प्रवृत्तिः; अन्य-शुभ-कर्मभिर् नाम-साम्य-मननम्; अश्रद्ध-जने नामोपदेशः, नाम-माहात्म्ये श्रुतेऽपि अप्रीतिः—इति दशधा ॥६॥

—ओ)०(ओ—