सेवा-नामापराधेति—सेवा-नामापराधानाम् उद्भवः साधकस्य प्रायो भवत्य् एव, किन्तु पश्चाद् यत्नेन तेषाम् अभाव-कारिता । यथा आगमे—
यानैर् वा पादुकैर् वापि गमनं भगवद्-गृहे ।
देवोत्सवाद्य्-असेवा च अप्रणामस् तद्-अग्रतः ॥
उच्छिष्टे वाप्य् अशौचे वा भगवद्-वन्दनादिकम् ।
एक-हस्त-प्रणामश् च तत्-पुरस्तात् प्रदक्षिणम् ॥
पाद-प्रसारणं चाग्रे तथा पर्यङ्क-बन्धनम् ।
शयनं भक्षणं चापि मिथ्या-भाषणम् एव च ॥
उच्चैर् भाषा मिथो-जल्प-रोदनादि तद्-अग्रतः ।
निग्रहानुग्रहौ चैवे निष्ठुर-क्रूर-भाषणम् ॥
कम्बलावरणं चैव पर-निन्दा पर-स्तुतिः ।
अश्लील-भाषणं चैव अधो-वायु-विमोक्षणम् ॥
शक्तौ गौणोपचारश् च अनिवेदित-भक्षणम् ।
तत्-तत्-कालोद्भवानां च फलादीनाम् अनर्पणम् ॥
विनियुक्तावशिष्टस्य व्यञ्जनादेः समर्पणम् ।
पृष्ठीकृत्यासनं चैव परेषाम् अभिवन्दनम् ॥
गुरौ मौनं निज-स्तोत्रं देवता-निन्दनं तथा ।
अपराधास् तथा विष्णोर् द्वात्रिंशत् परिकीर्तिताः ॥
वाराहे चापराधश् च तेऽपि सङ्क्षिप्य लिख्यन्ते यथा— राजान्न-भक्षनं, ध्वान्तागारे हरेः स्पर्शः, विधिं विना हर्य्-उपसर्पणं, वाद्यं विना तद्-द्वारोद्घाटनं, कुक्कुरादि-दुष्ट-भक्ष्य-सङ्ग्रहः, अर्चने मौन-भङ्गः, पूजा-काले विड्-उत्सर्गाय गमनं, गन्ध-माल्यादिकम् अदत्त्वा धूपनम्, अनर्ह-पुष्पेण पूजनम् ।
अकृत्वा दन्त-काष्ठं च कृत्वा निधुवनं तथा ।
स्पृष्ट्वा रजस्वलां दीपं तथा मृतकम् एव च ॥
रक्तं नीलम् अधौतं च पारक्यं मलिनं पटम् ।
परिधाय मृतं दृष्ट्वा विमुच्यापान-मारुतम् ॥
क्रोधं कृत्वा श्मशानं च गत्वा भुक्त्वाप्य् अजीर्ण-भुक् ।
भुक्त्वा कुसुम्भं पिण्याकं तैलाभ्यङ्गं विधाय च ।
हरेः स्पर्शो हरेः कर्म करणं पातकावहं ॥
तथा तत्रैवान्यत्र—भगवच्-छास्त्रानादर-पूर्वकम् अन्य-शास्त्र-प्रवर्तनम्, श्री-मूर्ति-सम्मुखे ताम्बूल-चर्वणम्, एरण्डादि-पत्रस्थ-पुष्पैर् अर्चनम्, आसुर-काले पूजा, पीठे भूमौ वा उपविश्य पूजनम्; स्नपन-काले वाम-हस्तेन तत्-स्पर्शः, पर्युषितैर् याचितैर् वा पुष्पैर् अर्चनम्, पूजायां निष्ठीवनम्, तस्यां स्व-गर्व-प्रतिपादनम्, तिर्यक्-पुण्ड्र-धृतिः, अप्रक्षालित-पादत्वेऽपि तन्-मन्दिर-प्रवेशः, अवैष्णव-पक्व-निवेदनम्, अवैष्णव-दृष्टेन पूजनम्, विघ्नेशम् अपूजयित्वा कपालिनं दृष्ट्वा वा पूजनम्, नखाम्भः-स्नपनम्, घर्माम्बु-लिप्तत्वेऽपि पूजनम्, निर्माल्य-लङ्घनम्, भगवच्-छपथादयोऽन्ये च ज्ञेयाः ॥५॥
—ओ)०(ओ—