अथ भजनस्य चतुः-षष्टिर् अङ्गानि—श्री-गुरु-पादाश्रयः, श्री-कृष्ण-दीक्षा-शिक्षादि, श्री-गुरु-सेवा, साधु-मार्गानुसारः, भजन-रीति-प्रश्नः, श्री-कृष्ण-प्रीतये भोगादि-त्यागः, तीर्थ-वासः, तीर्थ-माहात्म्य-श्रवणं च, स्व-भक्ति-निर्वाहानुरूप-भोजनादि-स्वीकारं, एकादशी-व्रतम्, अश्वत्थ-तुलसी-धात्री-गो-ब्राह्मण-वैष्णव-सम्मानं—पूर्व-दश-ग्रहणम् ।
पर-दश-त्यागः—असाधु-सङ्ग-त्यागः, बहु-शिष्य-करण-त्यागः, बह्व्-आरम्भ-त्यागः, बहु-शास्त्र-व्याख्या-विवादादि त्यागः, व्यवहारे कार्पण्य-त्याग, शोक-क्रोधादि-त्यागः, देवतान्तर-निन्दा-त्यागः, प्राणि-मात्रे उद्वेग-त्यागः, सेवापराध-नामापराध-त्यागः, गुरु-कृष्ण-भक्त-निन्दा-सहन-त्यागः ।
वैष्णव-चिह्न-धारणं, हरि-नामाक्षर-धारणं, निर्माल्य-धारणं, नृत्यं, दण्डवत्-प्रणामं, अभ्युत्थानम्, अनुव्रज्या, श्री-मूर्ति-स्थाने गमनं, परिक्रमा, पूजा, परिचर्या, गीतं, सङ्कीर्तनं, जपः, स्तव-पाठः, महा-प्रसाद-सेवा, विज्ञप्तिः, चरणामृत-पानं, धूप-माल्यादि-सौरभ-ग्रहणं, श्री-मूर्ति-दर्शनं, श्री-मूर्ति-स्पर्शनं, आरात्रिक-दर्शनं, श्रवणं, तत्-कृपापेक्षणं, स्मरणं, ध्यानं, दास्यं, सख्यं, आत्म-निवेदनं, निज-प्रिय-वस्तु-समर्पणं, कृष्णार्थे समस्त-कर्म-करणं । सर्वथा शरणापत्तिः, तुलसी-सेवा, वैष्णव-शास्त्र-सेवा, मथुरा-मण्डले वासः, वैष्णव-सेवा, यथा-शक्ति-दोलादि-महोत्सव-करणं, कार्त्तिक-व्रतं, सर्वदा हरि-नाम-ग्रहणं, जन्माष्टमी-यात्रादिकं च, एवं ऊनषष्टि-भक्त्य्-अङ्गानि ।
अथ तत्र पञ्च अङ्गानि सर्वतः श्रेष्ठानि यथा—श्री-मूर्ति-सेवा-कौशलं, रसिकैः सह श्री-भागवतार्थास्वादः, सजातीय-स्निग्ध-महत्तर-साधु-सङ्गः, नाम-सङ्कीर्तनं, श्री-वृन्दावन-वासः । एवं मिलित्वा चतुः-षष्ट्य्-अङ्गानि ॥४॥
टीका—कृष्ण-दीक्षादीति—दीक्षा-पूर्वक-शिक्षणम् इत्य् अर्थः । श्री-कृष्णेति—श्री-कृष्ण प्राप्तेर् यो हेतुः कृष्ण-प्रसादस् तद्-अर्थम् इत्य् अर्थः । आदि-ग्रहणाल् लोक-वित्त-पुत्रादयो गृह्यन्ते ॥ (लोचन-रोचनी १.२.७४)
—ओ)०(ओ—