आदौ श्रद्धा ततः साधु-सङ्गोऽथ भजन-क्रिया ।
ततोऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा रुचिस् ततः ॥
अथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति ।
साधकानाम् अयं प्रेम्नः प्रादुर्भावे भवेत् क्रमः ॥
[भ।र।सिं। १.४.१५-१६]
टीका—अत्र बहुष्व् अपि क्रमेषु सत्सु प्रायिकम् एकं क्रमम् आह—आदाव् इति द्वयेन । आदौ प्रथम-साधु-सङ्गे शास्त्र-श्रवण-द्वारा श्रद्धा तद्-अर्थ-विश्वासः । ततः श्रद्धानन्तरं द्वितीयः साधु-सङ्गो भजन-रीति-शिक्षार्थं । निष्ठा भजने अविक्षेपेण सातत्यं, किन्तु बुद्धि-पूर्विकेयं । आसक्तिस् तु स्वारसिकी । एतेन निष्ठासक्त्योर् भेदो ज्ञेयः ॥३॥ (लोचन-रोचनी १.४.१५-१६)
—ओ)०(ओ—