०२ साधन-भक्तिः

सा भक्तिः साधन-भक्तिर् भाव-भक्तिः प्रेम-भक्तिर् इति त्रिविधा । साधन-भक्तिः पुनर् वैधी-रागानुगा-भेदेन द्विविधा ।1

**टीका—**सा भक्तिर् इति । अथात्र साधन-साध्य-रूपो द्विविधो भेद एवास्तु, भावस्यापि साध्य-भक्त्य्-अन्तर्भावोऽस्तु किं भेद-त्रय-करणेनेति चेन्, न । यतोऽग्रे वक्ष्यमाणस्य—

उत्पन्न-रतयः सम्यङ् नैर्विघ्न्यम् अनुपागताः ।
कृष्ण-साक्षात्-कृतौ योग्याः साधकाः परिकीर्तिताः ॥ [भ।र।सि। २.१.२७६]

इति साधक-भक्त-लक्षणस्य मध्ये रत्य्-अपर-पर्यायस्य भावस्याविर्भावेऽपि सम्यङ्-नैर्विघ्न्यम् अनुपागता इति विशेषणेन प्रबलतरस्य कस्यचिद् अपराधस्य कश्चन भागोऽवशिष्टोऽस्तीति लभ्यते । एवं सति क्लेश-जनकस्यापराधस्य लेशेऽपि साध्य-भक्तेर् आविर्भावो न संभवति । अत एव तत्रैवोक्तस्य साध्य-भक्ति-विशिष्ट-सिद्ध-भक्त-लक्षणस्य मध्ये अविज्ञाताखिल-क्लेशाः सदा कृष्णाश्रिताक्रियाः सिद्धाः स्युर् इत्य् अनेन तथैव प्रतिपादितं । तस्माद् भावस्य साध्य भक्तेर् अन्तर्भावो न संभवति । तथैव साधन-भक्तेर् अन्तर्भावस् तु सुतराम् एव नास्ति । यतोऽत्रैव प्रकरणे साधन-भक्ति-लक्षणे भाव-साधनत्व-रूप-विशेषणेन भावस्य साधन-भक्तित्वं परास्तं । भावस्य भाव-साधनत्वाभावात् । तस्मात् साधूक्तं भक्तेस् त्रिविधत्वम् इति विवेचनीयं ॥२॥ [लोचन-रोचनी १.२.१]
—ओ)०(ओ—


  1. सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥ (भ।र।सिं। १.२.१) ↩︎