अन्याभिलाषिता-शून्यं ज्ञान-कर्माद्य्-अनावृतम् ।
आनुकूल्येन कृष्णानु-शीलनं भक्तिर् उत्तमा ॥१॥
अस्यार्थः—अन्याभिलाष-ज्ञान-कर्मादि-रहिता श्री-कृष्णम् उद्दिश्यानुकूल्येन काय-वाङ्-मनोभिर् यावती क्रिया सा भक्तिः ॥१॥
टीका—अथ तस्या लक्षणं वदन्न् एव ग्रन्थम् आरभते—अन्येति । यथा क्रिया-शब्देन धात्व्-अर्थ-मात्रम् उच्यते, तथात्र अनुशीलन-शब्देनापि धात्व्-अर्थ-मात्रम् उच्यते । धात्व्-अर्थश् च द्विविधः—प्रवृत्ति-निवृत्त्य्-आत्मकः । तत्र प्रवृत्त्य्-आत्मक-धात्व्-अर्थस्1 तु काय-वाङ्-मानस-मयस् तत्-तच्-चेष्टा-रूपः । निवृत्त्य्-आत्मक-धात्वा अर्थश् च प्रवृत्ति-भिन्नः । प्रीति-विषादात्मको मानसः तत्-तद्-भाव-रूपश् च, स च वक्ष्यमाण-रति-प्रेमादि-स्थायि-भाव-रूपश् च, सेवा-नामापराधानाम् उद्भवाभाव-कारितेत्य्-आदि वचन-व्यञ्जितः सेवा-नामापराधाद्य्-अभाव-रूपश् च ।
तद् एवं सति कृष्ण-सम्बन्धि-कृष्णार्थं वानुशीलनम् इति तत्-सम्बन्ध-मात्रस्य तद्-अर्थस्य वा विवक्षितत्वाद् गुरु-पादाश्रयादौ, भाव-रूपस्यापि क्रोडीकृतत्वाद् रत्य्-आदि-स्थायिनि व्यभिचारि-भावेषु च नाव्याप्तिः ।
एतच् च कृष्ण-तद्-भक्त-कृपयैव लभ्यं श्री-भगवतः स्वरूप-शक्ति-वृत्ति-रूपम् अपि कायादि-वृत्ति-तादात्म्येनाविर्भूतम् इति ज्ञेयम् । अग्रे तु स्पष्तीकरिष्यते । कृष्ण-शब्दश् चात्र स्वयं भगवतः कृष्णस्य तद्-रूपाणां चान्येषाम् अवताराणां ग्राहकः । तारतम्यम् अग्रे विवेचनीयाम् ।
तत्र भक्ति-स्वरूपता-सिद्ध्य्-अर्थं विशेषणम् आह— आनुकूल्येनेति । प्रातिकूल्ये भक्तित्वा-प्रसिद्धेः । आनुकूल्यं चोद्देश्याय श्री-कृष्णाय रोचमाना प्रवृत्तिर् इत्य् उक्ते लक्षणेऽतिव्याप्तिर् अव्याप्तिश् च । तद् यथा—असुर-कर्तृक-प्रहार-रूपानुशीलनं युद्ध-रस उत्साह-रतिः श्री-कृष्णाय रोचते । यथोक्तं प्रथम स्कन्धे—मनस्विनाम् इव सन् संप्रहारः [भा।पु। १.१३.३०]2 इति संप्रहार इति । तथा श्री-कृष्णं विहाय दुग्ध रक्षार्थं गतायाः यशोदायास् तादृशानुशीलनं श्री-कृष्णाय न रोचते । यथोक्तं श्री-दशमे—सञ्जात-कोप-स्फुरितारुणाधरः [भा।पु। १०.९.६]3 इति । तथा च तत्र तत्रातिव्याप्त्य्-अव्याप्तेश् च वारणायानुकूल्यानां प्रतिकूल्य-शून्यत्वम् एव विवक्षणीयम् । एवं सत्य् असुरेषु द्वेष-रूप-प्रातिकूल्य-सत्त्वान् नातिव्याप्तिः । एवं यशोदायाः प्रातिकूल्याभावान् नाव्याप्तिर् इति बोध्यम् । एतेन विशेषणस्यानुकूल्यस्यैव भक्तित्वम् अस्तु । भक्ति-सामान्यस्यैव कृष्णाय रोचमानत्वाद् विशेष्यस्यानुशीलन-पदस्य वैयर्थ्यम् इत्य् अपि शङ्का निरस्ता । तादृश-प्रातिकूल्याभाव-मात्रस्य घटेऽपि सत्त्वात् ।
उत्तमात्व-सिद्ध्य्-अर्थं विशेषण-द्वयम् आह—अन्याभिलाषिता-शून्यम् इत्य्-आदि । कथम् भूतम् अनुशीलनम् अन्यस्मिन् भक्त्य्-आतिरिक्ते फलत्वेनाभिलाष-शून्यं—भक्त्या सञ्जातया भक्त्या [भा।पु। ११.३.३१]4 इत्य् एकादशोक्तेर् भक्त्य् उद्देशक भक्ति करणम् उचितम् एवेत्य् अतोऽन्यस्मिन् खलु भक्त्य्-अतिरिक्त इति । यथात्रान्याभिलाष-शून्यत्वं विहायान्याभिलाषिता शून्यम् इति स्वभावार्थक-ताच्छील्य-प्रत्ययेन कस्यचिद् भक्तस्य कदाचिद् अकस्मात् मरण-सङ्कटे प्राप्ते—हे भगवन् भक्तं माम् एतद् विपत्तेः सकाशाद् रक्षेति कादाचित्काभिलाष-सत्त्वेऽपि न क्षतिः । यतस् तस्य वैवश्य-हेतुक-स्वभाव-विपर्ययेणैव तादृग्-आभिलाषो न तु स्वाभाविक इति बोध्यम्।
पुनः कीदृशम् ?
ज्ञान-कर्माद्य्-अनावृतम् -
ज्ञानम् अत्र निर्भेद-ब्रह्मानुसन्धानं,
न तु भजनीय-तत्त्वानुसन्धानम् अपि तस्यावश्यापेक्षणीयत्वात् ।
कर्म— स्मार्तं नित्य-नैमित्तिकादि,
न तु भजनीय-परिचर्यादि तस्य तद् अनुशीलन-रूपत्वात् ।
आदि-शब्देन फल्गु-वैराग्य-योग-साङ्ख्याभ्यासादयस् तैर् अनावृतं, न तु शून्यम्
इत्य् अर्थः ।
तेन च भक्त्य्-आवरकाणाम् एव ज्ञान-कर्मादीनां निषेधो ऽभिप्रेतः ।+++(5)+++
भक्त्य्-आवरकत्वं नाम
विधि-शासनान् नित्य-कर्माकरणे प्रत्यवायादि भयाच्
छ्रद्धया क्रियमाणत्वं,
तथा भक्त्य्-आदि-रूपेष्ट-साधनत्वाच् छ्रद्धया क्रियमाणत्वं च ।
तेन लोक-सङ्ग्रहार्थम् अ-श्रद्धया ऽपि पित्रादि-श्राद्धाङ्गं कूर्वतां महानुभावानां
शुद्ध-भक्तौ नाव्याप्तिः ।
अत्र श्री-कृष्णानुशीलनं कृष्ण-भक्तिर् इति वक्तव्ये
भगवच्-छास्त्रेषु केवलस्य भक्ति-शब्दस्य
तत्रैव विश्रान्तिर् इत्य् अभिप्रायात् तथोक्तम् ॥१॥ (लोचन-रोचनी १.१.१)
—ओ)०(ओ—
-
-आत्मको (ख) ↩︎
-
अजात-शत्रुः कृत-मैत्रो हुताग्निर् विप्रान् नत्वा तिल-गो-भूमि-रुक्मैः । गृहं प्रविष्टो गुरु-वन्दनाय न चापश्यत् पितरौ सौबलीं च ॥ ↩︎
-
सञ्जात-कोपः स्फुरितारुणाधरं सन्दश्य दद्भिर् दधि-मन्थ-भाजनम् । भित्त्वा मृषाश्रुर् दृषद्-अश्मना रहो जघास हैयङ्गवम् अन्तरं गतः ॥ ↩︎
-
स्मरन्तः स्मारयन्तश् च मिथोऽघौघ-हरं हरिम् । भक्त्या सञ्जातया भक्त्या बिभ्रत्य् उत्पुलकां तनुम् ॥ ↩︎