प्रमाणानि

gauDIya-s claim that bhAgavata-purANa, since it claims precedence over even BS, is the supreme pramANa. एवं शुक-सम्प्रदायोऽपि. So, for them:

स्वविषये ऽदुष्टम् प्रत्यक्षम् > भागवत-पुराणम् (इति वेदः!) > ब्रह्म-सूत्राणि , इतिहासौ, इतराणि सात्त्विक-पुराणानि > वेदाः > स्वेष्टा वैष्णवा आगमाः > स्मृतयः > राजस-तामस-पुराणानि, इतरागमाः।

तत्र च वेद-शब्दस्य
सम्प्रति दुष्पारत्वाद्
दुर्-अधिगमार्थत्वाच् च
तद्-अर्थ-निर्णायकानां मुनीनाम् अपि परस्पर-विरोधाद्
वेद-रूपो वेदार्थ-निर्णायकश् चेतिहास-पुराणात्मकः शब्द एव विचारणीयः ।
… तद् एवम् इतिहास-पुराणयोर् वेदत्वं सिद्धम् ।

किं च,
वेदार्थ-दीपकानां शास्त्राणां +++(मनुस्मृत्यादीनां)+++ मध्य-पातिताभ्युपगमेऽप्य्
आविर्-भावक-वैशिष्ट्यात्
तयोर् +++(इतिहास-पुराणयोर्)+++ एव वैशिष्ट्यम् । +++(5)+++
… यत् खलु सर्व-पुराण-जातम् आविर्भाव्य,
ब्रह्म-सूत्रं च प्रणीयाप्य्
अपरितुष्टेन तेन भगवता
निज-सूत्राणाम् अकृत्रिम-भाष्य-भूतं
समाधि-लब्धम् आविर्भावितं, …

गारुडे च—

पूर्णः सोऽयम् अतिशयः ।
… अर्थोऽयं ब्रह्म-सूत्राणां
भारतार्थ-विनिर्णयः ॥

… तस्मान् मन्यन्तां वा केचित् पुराणान्तरेषु वेद-सापेक्षत्वं,
श्री-भागवते तु तथा सम्भावना
स्वयम् एव निरस्तेत्य् अपि
स्वयम् एव लब्धं भवति ।
… अत्र च स्व-दर्शितार्थ-विशेष-प्रामाण्यायैव,
न तु श्रीमद्-भागवत-वाक्य-प्रामाण्याय,
प्रमाणानि श्रुति-पुराणादि-वचनानि यथा-दृष्टम् एवोदाहरणीयानि ।

इति जीवगोस्वामी ।

फलम्

अस्यापि प्रमाणततेः किम् फलितम् इति विचारणीयम्।
अन्ये ऽपि ब्रह्मसूत्रादेर् व्याख्यानं क्रमान्तरेण पुराणादि-प्रामाण्यम् अङ्गीकृत्यैव साधयन्ति।