पञ्चमः परिच्छेदः
परावस्था-निरूपणम्
अथ कृष्णो नर-भ्रातुर् अवतार इति क्वचित् ।
**उपेन्द्रस्येति च क्वापि भात्य् असौ नातिकोविदाम् ॥१॥
बलदेवः- **एतावता प्रघट्टकेन कृष्णस्य स्वयं-रूपत्वं, श्रीशादीनां तद्-विलासादित्वं च उक्तं; तद्-असहिष्णोः विष्वक्सेनानुयायिनः वाक्यम् अनुवदन् निरस्यति—अथ इति । **नर-भ्रातुः_—**बदरीपतेः, **उपेन्द्रस्य—**वामनस्य, अवतारः, **असौ—**कृष्णः, **नातिकोविदाम्—**अविचारित-शास्त्राणाम् आपातार्थ-ग्राहिणां, **भाति—_**तत्-तद्-अवतारतया प्रतीतो भवति; सुकोविदां तु स्वयं-रूपतया निश्चितोऽसाव् इत्य् अर्थः ॥१॥
यथा स्कान्दे—
धर्म-पुत्रौ हरेर् अंशौ नर-नारायणाभिधौ ।
**चन्द्र-वंशम् अनु प्राप्य जातौ कृष्णार्जुनाव् उभौ ॥२॥
बलदेवः- **तद् अनुयायिनो भ्रामकाणि वाक्यान्य् आह—धर्म- इति । पूर्व-पक्षार्थः स्फुटः। वस्त्व्-अर्थस् तु कृष्णार्जुनौ कर्तारौ, धर्म-पुत्रौ नर-नारायणौ कर्मणी, **प्राप्य_—_**आत्मसात्-कृत्य, चन्द्रवंशम् अनु जाताव् इति । स्वयं भगवत्य् अवतीर्णे तत्-स्वांशाः तस्मिन् प्रविशन्तीति निर्णयात् ॥२॥
**श्री-चतुर्थे च [भा।पु। ४.१.४९]—
ताव् इमौ वै भगवतो हरेर् अंशाव् इहागतौ ।
भार-व्ययाय च भुवः कृष्णौ यदु-कुरूद्वहौ ॥३॥
बलदेवः- **ताव् इति । **हरेः_—**क्षीराब्धि-पतेः, अंशौ नर-नारायणौ, **इह—**भूर्-लोके आगतौ, तस्या भार-व्ययाय, **कृष्णौ—**वासुदेवार्जुनौ, अभूताम् इति पूर्व-पक्षेऽर्थः । वस्त्व्-अर्थस् तु तौ हरेर् अंशौ नर-नारायणौ कर्तारौ, इह—द्वापरान्ते, कृष्णौ आगतौ—_प्रविष्टौ; वासुदेवे नारायणः, अर्जुने तु नरः प्राविशद् इत्य् अर्थः ॥३॥
एतद्-उपोद्वलकं श्री-दशमे [भा।पु। १०.६९.१६]—
सम्पूज्य देव ऋषि-वर्यम् ऋषिः पुराणो
नारायणो नर-सखो विधिनोदितेन ।
**वाण्याभिभाष्य मितयामृतम् इष्टया तं
प्राह प्रभो! भगवते करवामहे किम् ॥४॥ इति ।
बलदेवः- **एतद् इति । **उपोद्वलकं_—**पोषकम् ॥ सम्पूज्येति । पूर्व-पक्षार्थः स्फुटः । वस्त्व्-अर्थस् तु, सर्व-तत्त्वाश्रयत्वात् नारायणः, कल्पादौ ब्रह्मणोऽपि उपदेष्टृत्वात् पुराण र्षिः, नरैः सार्धं विहारित्वात् नर-सखः, श्री-कृष्णः । **देवः—**क्षत्र-लीलत्वात्, **ऋषि-वर्यं—_**नारदम्, उदितेन विधिना सम्पूज्य इति । अन्यत् प्रकटार्थम् ॥४॥
उपेन्द्रावतारत्वं च, यथा हरिवंशे शक्र-वचने [ह।वं। १२७.३४]—
**
ऐन्द्रं वैष्णवम् अस्यैव मुने! भागम् अहं ददौ ।
यवीयांसम् अहं प्रेम्णा कृष्णं पश्यामि नारद! ॥५॥ इति ।
बलदेवः- **एवं बदरीपत्य्-अवतारत्वं कृष्णस्योक्त्वा उपेन्द्रावतारत्वम् आह—ऐन्द्रम् इति पारिजात-प्रसङ्गे शक्र-वाक्यम् । मुने! हे नारद! वैष्णवं भागम् अहम् अस्यैव, ददौ इति_ उत्तम-नालि-रूपम् । भागं विशिनष्टि—**ऐन्द्रम्, **इन्द्रेण मया रचितम् । यो यज्ञभागो मया विष्णोः पूर्वं कल्पितः, सः । **अस्य **कृष्णस्यैव । वामनस्य सतो मया दत्त इति महद् आनुकूल्यं मत्-कृतम् अभूत् । अथ प्रतिकूल-धियम् अपि तम् अहं न द्वेष्मि, **यवीयांसम् _**उपेन्द्र-कृष्णं प्रेम्णा पश्यामि, ज्येष्ठस्य कनिष्ठे प्रेम दृष्टिर् एव युक्तेति। पारिजातस्य देव-तरुत्वाद् भूर्-लोके तस्य प्रदानं न युक्तम् इति भावः । अस्य अग्रहणाद् वस्त्व्-अर्थो नोक्तः ॥५॥
तद् एतद् उभयत्वं न भवेत् कृष्णे विरोधतः ।
अंशत्वं हि तयोर् उक्तं परावस्थत्वम् अस्य तु ॥६॥
बलदेवः- इदं स्थूल-धियां मतं निराकरोति—तद् एतद् इति । उभयत्वं बदरीशावतारत्वम्, उपेन्द्रावतारत्वं च । कुतो न भवेत्? तत्राह—**अंशत्वं हि **इति । **तयोः_ **बदरीशोपेन्द्रयोः । **अस्य _**कृष्णस्य ॥६॥
**नर-भ्रातुर् इहांशत्वम् एव चांशेति वक्ष्यते ।
उपेन्द्रस्य तथात्वं च हरिवंशेऽपि दृश्यते ॥७॥
बलदेवः- **तयोर् अंशत्वम् आह—नरेत्य्-आदिना । **तथात्वम्_—_**अंशत्वम् ॥७॥
तथा हि देवर्षि-वचनम् [ह।व। १२८.२१-२२]—
अदित्या तपसा विष्णुर् महात्माराधितः पुरा ।
वरेण च्छन्दिता तेन परितुष्टेन चादितिः ।
तयोक्तस् त्वादृशं पुत्रम् इच्छामीति सुरोत्तम! ॥८॥ **तेनोक्तं भुवने नास्ति मत्-समः पुरुषाऽपरः ।
अंशेन तु भविष्यामि पुत्रः खल्व् अहम् एव ते ॥९॥ इति ।
बलदेवः- **अदित्येति । तत्-प्रसङ्गे, सुरोत्तम!_—_हे शक्र! । एतेनैव तन् निरस्तम्, एतस्य विज्ञ-वाक्यत्वेन ततो बलिष्ठत्वात् ॥८-९॥
अथ कृष्णे परावस्थ-भावोऽग्रे वक्ष्यते स्फुटम् ।
**परावस्थश् च सम्पूर्णावस्थः शास्त्रे प्रकीर्तितः ॥
तस्माद् अंशत्वम् एवास्य विरुद्धं स्फुटम् ईक्ष्यते ॥१०॥
बलदेवः- **ननु अंशांशः कृष्णेऽस्त्व् इति चेत्? तत्राह—अथेति । तस्मात् परावस्थत्वात् एव, **अस्य_—**कृष्णस्य, तद् उभयांशत्वं, **विरुद्धम्—_**असङ्गतम् इत्य् अर्थः ॥१०॥
अर्थ-गत्य्-अन्तरं तेषां वचनानाश् च दृश्यते ॥११॥
तत्र धर्म-पुत्राव् [१.५.२] इत्य् आदौ कारिका—
नर-नारायणौ प्राप्येत्य् आत्म-सात्कृत्य तौ स्वयम् ।
**कृष्णार्जुनौ चन्द्र-वंशम् अनु प्रकटतां गतौ ॥१२॥
बलदेवः- **अथ कृष्ण-परावस्थत्वे बहु-वाक्य-सत्त्वेन धर्म-पुत्राव् इत्य्-आदीनां प्रातीतिकार्थ-बाधात्, तेषां तत्-परावस्थानुयायिनीर् गतीर् दर्शयति—धर्म-पुत्राव् इत्य् आदौ कारिकेत्य्-आदिभिः ॥ प्राप्य इति_—_अस्य आत्म-सात्कृत्य इति व्याख्यानं, तौ आत्मतां प्रापय्येत्य् अर्थः । अस्थान-पदत्व-दोषस्य पुराणे असत्त्वात्, एवं व्याख्यानं नासङ्गतम् ॥१२॥
ताव् इमाव् [१.५.३] इत्य् आदौ कारिका—
कर्तारौ तौ1** हरेर् अंशौ नर-नारायणाव् इह । **
“तौ” इत्य् अत्र “तु” इति पाठान्तरम्।
**द्वापरान्ते कर्म-भूतौ आयातौ कृष्ण-फाल्गुनौ ॥१३॥
बलदेवः- **कर्ताराव् इति_—_विवृतं प्राक् ॥१३॥
सम्पूज्य [१.५.४] इत्य्-आदौ कारिकाः—
सर्वादाव् उपदेष्टृत्वाद् यः पुराणर्षिर् उच्यते ।
नाराणां पुरुषाणां यस् त्रयाणाम् आश्रयः स तु ॥
नरेषु मर्त्य-लोकेषु सहचारी भवन् स्वयम् ।
तद्-धर्मम् अनुकृत्यात्र पूजयामास तं मुनिम् ॥
नारायणाख्येनांशेन कृष्णो यद्यपि तद्-गुरुः ।
नारदं पूजयाम् आस तथापि क्षत्र-लीलया ॥१४॥
बलदेवः- सर्वादाव् इति_—गोपालोपनिषदि कल्पादौ विरिञ्चि कृष्ण उपादिशत्, इति पुराण-र्षित्वम् । नर-शब्दस्य पुरुष-पर्यायत्वात्, नराणां त्रयाणां पुरुषाणां समूहो नारं, तद् आश्रयत्वं कृष्णस्य ब्रह्म-संहितायाम् उक्तम्, अतस् तस्य नारायणत्वं; नरैः मनुष्यैः सह विहारात् नर-सखत्वं, नर-धर्मानुकारात् नारद-पूजकत्वम् । नारायणाख्येन—बदरीश-रूपेण, तद् गुरुः—_नारदस्योपदेष्टा ॥१४॥
ऐन्द्रम् [१.५.५] इत्य्-आदौ कारिका—
इन्द्रस् तु नातिकौविद्यान् मत्सराच् चोक्तवान् इदम् ।
**तस्मात् कृष्णस्य नो तत्-तद्-रूपत्वं घटते क्वचित् ॥१५॥
बलदेवः- **इन्द्रस् त्व् इति। ननु केनोपनिषदि [४.२] इन्द्राग्निवायूनां ब्रह्म-वित्त्व-दर्शनात् कथम् इन्द्रस्य नातिकोविदत्वम्? उच्यते । लीलार्थं तज्-ज्ञानाच्छादनात् तत्त्वम् इति । मत्सरात्_—कृष्णोत्कर्षासहनात् । तत्-तद्-रूपत्वं—_बदरीशोपेन्द्रांशत्वम् इत्य् अर्थः ॥१५॥
**अथ परावस्थाः । यथा पाद्मे—
नृसिंह-राम-कृष्णेषु षाड्-गुण्यं परिपूरितम् ।
परावस्थास् तु ते तस्य दीपाद्-उत्पन्न-दीपवत् ॥१६॥ इति ।
बलदेवः- **कृष्णस्य परावस्थत्वात् बदरीशाद्य्-अंशत्वोक्तिर् विरुद्धेत्य् उक्तम्, तद्-अवस्थत्वं वक्तुम्—अथेति । तत्त्वं च कृष्णे षड्-ऐश्वर्य-पूर्णत्वम् ॥ **नृसिंहेति_—**यथोत्तरं परिपूर्तिर् इह व्यज्यते । तस्य—_षाड्-गुण्यस्यः, इति प्रातीतिकम् इदं बोध्यम् ॥१६॥
तत्र श्री-नृसिंहः–
प्रह्लाद-हृदयाह्लादं भक्ताविद्या-विदारणम् ।
**शरद्-इन्दु-रुचिं वन्दे पारीन्द्र-वदनं हरिम् ॥१७॥
बलदेवः- **त्रयाणां पृथक् तथात्वं दर्शयति । तत्र श्री-नृसिंहस्याह—प्रह्लादेति । पारीन्द्रवदनं_—_सिंहास्यम् ॥१७॥
वाग्-ईशा यस्य वदने लक्ष्मीर् यस्य च वक्षसि ।
यस्यास्ते हृदये संवित् तं नृसिंहम् अहं भजे ॥१८॥
[भा।पु। १.१.१, १०.८७.१ स्वा।टी।]
**बलदेवः- **वागीशा_—_सरस्वती । संवित्—सर्वज्ञ-शक्तिः ॥१८॥
**गम्भीर-गर्जितारम्भ-स्तम्भिताम्भोज-सम्भवः ।
संरम्भः स्तम्भ-पुत्रस्य मुनिनोज्जृम्भितो नृपे ॥१९॥
बलदेवः- **गम्भीरोति । स्तम्भ-पुत्रस्य_—श्री-नृसिंहस्य, संरम्भः—क्रोधः, मुनिना—नारदेन, नृपे—युधिष्ठिरे, उज्जृम्भितः—_तं प्रति वर्णित इत्य् अर्थः । एते त्रयः श्लोकाः श्रीधर-स्वामिनां बोध्याः ॥१९॥
**यथा श्री-सप्तमे [भा।पु। ७.८.३२-३२]—
सटावधूता जलदाः परापतन्
ग्रहाश् च तद्-दृष्टि-विमुष्ट-रोचिषः ।
अम्भोधयः श्वास-हता विचुक्षुभुर्
निर्ह्राद-भीता दिगिभा जहुर् दिशः ॥२०॥
बलदेवः- **दैत्य-वधव्यग्रस्य नृ-हरेराटोपम् आह—सटेति । तद् इति—अव्ययं षष्ट्यन्तं, तेन चतुर्णामन्वयः । तस्य, सटाभिः_—स्कन्ध-रोमभिः, अवधूता जलदाः परापतन्—व्यशीर्यन्त । ग्रहास् तद्-दृष्टिभिः, विमुष्टरोचिषः—प्रनष्टप्रभाः, जाताः । दिगिभाः—_दिग्गजाः ॥२०॥
**द्यौस् तत्-सटोत्क्षिप्त-विमान-सङ्कुला
प्रोत्सर्पत क्ष्मा च पदाभिपीडिता ।
शैलाः समुत्पेतुर् अमुष्य रंहसा
तत्-तेजसा खं ककुभो न रेजिरे ॥२१॥ इति ॥
बलदेवः- **तस्य सटाभिरुत्क्षिप्तानि विमानानि तैः, सङ्कुला_—व्याप्तासती, द्यौः, प्रोत्सर्पत—_स्वस्थानाद् अचलत् । स्फुटम् अन्यत् ॥२१॥
**उग्रोऽप्य् अनुग्र एवायं स्व-भक्तानां नृकेसरी ।
केसरीव स्व-पोतानाम् अन्येषाम् उग्र-विग्रहः ॥२२॥
बलदेवः- **नन्व् एवं संरम्भवांश्चेत् श्री-नृसिंहस्तर्हि तत्-सेवा दुष्करेति चेत्? तत्राह—उग्रोऽपीति । स्वभक्तानां तु चन्द्र-शीतल इति भावः ॥२२॥ [भा।पु। ७.९.१ स्वा।टी।]
अस्य श्री-दिव्य-सिंहस्य परमानन्द-तुन्दिलः ।
**श्रीमन्-नृसिंह-तापिन्यां महिमा प्रकटीकृतः ॥२३॥
बलदेवः- **ननु परावस्थश् चेत् श्री-नृसिंहस् तर्हि तद्-अनुगुण-महिमा वाच्यः? तत्राह—अस्य श्रीति ॥२३॥
नृसिंहस्य भवेद् वासो जन-लोके महात्मनः ।
**सर्वोपरिष्टाच् च तथा विष्णु-लोके प्रकीर्तितः ॥२४॥
बलदेवः- **तस्य निवासम् आह—नृसिंहस्येति । सर्वोपरिष्टात् विष्णुलोके—पर-व्योम्नीत्य् अर्थः ॥२४॥
श्री-राघवेन्द्रः ।
पूर्वतोऽप्य् एष निःशेष-माधुर्यामृत-चन्द्रमाः ।
भाति सद्-गुण-सङ्घेन तुङ्गः श्री-रघु-पुङ्गवः2** ॥२५॥**
“श्रीरघुपुङ्गवः” इत्य् अत्र “श्रीरघुनन्दनः” इति पाठान्तरम् ।
बलदेवः: अथ श्री-रामचन्द्रस्य परावस्थत्वम् आह—पूर्वतोऽपीति_—_श्री-नृसिंहाद् अपीत्य् अर्थः । तत्र प्रभावभूमा, इह तु माधुर्यभूमापीति भावः ॥२५॥
पाद्मे—
वन्दामहे महेशानं हर-कोदण्ड-खण्डनम् ।
**जानकी-हृदयानन्द-चन्दनं रघुनन्दनम् ॥२६॥
बलदेवः- **महेशानं_—_सर्वेश्वरम् ॥२६॥
**अस्य जन्मोत्सवं ब्रूते श्री-रामार्चन-चन्द्रिका ॥२७॥
बलदेवः- **अस्य इति_—_श्री-रामस्य । जन्मोत्सवोऽपि तत्त्वमस्य व्यञ्जयतीत्य् अर्थः ॥२७॥
**यथा [रा।च। ५]—
उच्चस्थे ग्रह-पञ्चके सुर-गुरौ सेन्दौ नवम्यां तिथौ
लग्ने कर्कटके पुनर्वसु युते मेषं गते पूषणि ।
निर्दग्धुं निखिलाः पलाश-समिधो मेध्यादयोध्यारणेर्
आविर्भूतम् अभूद् अपूर्व-विभवं यत् किञ्चिद् एकं महः ॥२८॥
बलदेवः- **उच्चस्थे इति_—जन्म-पत्रीयम् । मेध्यात्—पवित्रात्, अयोध्या-रूपात् अरणेः सकाशात्, एकं—मुख्यं, महः—तेजः, आविर्भूतं—प्रकटम्, अभूत् । कीदृशं तत्? Iत्य् आहुः, यत् किञ्चित्—निर्वक्तुमशक्यम्, यतः, अपूर्व-विभवम्—आश्चर्य-गुण-रूप-विभूतिकम् । किमर्थमुदभूत्? इत्य् अत्राह—निखिलाः—सर्वाः, पलाश-समिधो निर्दग्धं; पलाशाः—मांसाशिनो राक्षसाः, तद्-रूपाः, समिधः—काष्ठानि इत्य् अर्थः । कदेदम् अभूत्? इत्य् अत्राह—चैत्र-शुक्ल-नवम्यां तिथौ, ग्रह-पञ्चके—सूर्य-मङ्गल-बृहस्पति-शुक्र-शनि-रूपे, उच्चस्थे—_मेष-मकर-कर्कट-मीन-तुलासु क्रमेण स्थिते सतीत्य् अर्थः; मेषस्य दशमेऽंशे सूर्ये, मकरस्य तृतीयेऽंशे भौमे, कर्कटस्य अष्टाविंशेऽशे गुरौ, मीनस्य सप्तविंशेऽशे शुक्रे, तुलायाः विशेऽशे शनीच स्थिते सतीत्य् अर्थः । किं च, कर्कटे लग्ने, सेन्दौ गुराविति गुण-विशेषः ॥२८॥
एकादशे [भा।पु। ११.५.३४]—
त्यक्त्वा सुदुस्त्यज-सुरेप्सित-राज्य-लक्ष्मीं
धर्मिष्ठ आर्य-वचसा यद् अगाद् अरण्यम् ।
**माया-मृगं दयितयेप्सितम् अन्वधावद्
वन्दे महापुरुष! ते चरणारविन्दम् ॥२९॥
बलदेवः- **करभाजनः श्री-राम-पादाब्जं प्रणमति—त्यक्त्वेति । हे महापुरुष!_ श्री-दाशरथे! यत् ते चरणारविन्दं कर्तृ, अन्यैः सुदुस्त्यजां सुरेप्सितां राज्यलक्ष्मीम्, आर्यवचसा—पित्राज्ञया, त्यक्त्वा अरण्यम् अगात् । यच् च, दयितया—जानक्या, ईप्सितं माया-मृगं कनक-हरिणम् अन्वधावत्, तद् अहं वन्दे । धर्मिष्ठेति—_निमिं प्रति सम्बोधनम्, असन्धिरार्षः ॥१७॥
श्री-नवमे [भा।पु। ९.११.२०-२१]—
नेदं यशो रघुपतेः सुर-याच्ञयात्त-
लीला-तनोर् अधिक-साम्य-विमुक्त-धाम्नः ।
**रक्षो-वधो जलधि-बन्धनम् अस्त्र-पूगैः
किं तस्य शत्रु-हनने कपयः सहायाः ॥३०॥
बलदेवः- **नेदम् इति शुकवाक्यम् ** । जलधि-बन्धनं_—सिन्धौ सेतु-निर्माणम्, अस्त्र-पूगैश् च रक्षसां वध इति, इदं कविभिर् आश्चर्यम् इव वर्णितम् अपि रघुपतेः, यशः—_स्तुतिः, न भवति । तत्र हेतुः, अधिकति_—_निरुपमप्रभावस्येत्य् अर्थः । ईदृशस्य किं शत्रु-हनने कपयः सहाया भवन्ति? नेत्य् अर्थः; तथा च सुग्रीवाद्याश्रयणं विनोद-मात्रम् इति । युक्तञ्चैतद् इत्य् आह—सुरेति । **सुराणां_—ब्रह्मादीनां, याच्ञ्या कर्त्र्या, आत्ता—_प्राप्ता, लीलातनुर् यस्येति, भूभारापहरणाय यो देवैर् अभ्यर्थ्यावतारित इत्य् अर्थः ॥३०॥
**यस्यामलं नृप-सदःसु यशोऽधुनापि
गायन्त्य् अघ-घ्नम् ऋषयो दिग्-इभेन्द्र-पट्टम् ।
तन् नाकपाल-वसुपाल-किरीट-जुष्ट-
पादाम्बुजं रघु-पतिं शरणं प्रपद्ये ॥३१॥ इति ।
बलदेवः- **ईदृश विनोदम् एव प्रयोजनं दर्शयन् प्रणमति, यस्येति । नृपाणां_—युधिष्ठिरादीनां, सदःसु, यस्य यशः, ऋषयः—मार्कण्डेयादयः, अद्यापि गायन्ति । कीदृक् तत्? इत्य् आह—दिगिभेन्द्राणां पट्टं, तद्वद् आभरण-भूतं, दिगन्तव्यापीत्य् अर्थः । तं रघुपतिं शरणं प्रपद्ये इति सम्बन्धः । तं कीदृशम्? इत्य् आह—नाक-पालानाम्—इन्द्रादीनां, वसु-पालानां—_राज्ञां च, किरीटेर् जुष्टे पादाम्बुजे यस्येति ॥३१॥
अत्र कारिका—
आत्ता प्रकटिता लीला-तनुर् लीलामयी तनुः ।
येन तस्येति साम्येति स्वार्थे ष्यष् प्रत्ययो मतः ॥
धाम-स्वरूपं विज्ञेयम् अधिकेन समेन च ।
विमुक्तं धाम यस्येति माहात्म्यं सर्वतोऽधिकम् ।
यस्याधिकः समश् चात्र क्वापि नास्तीति निश्चयः **॥३२॥
बलदेवः- **नेदम् इत्य्-आदि पद्यद्वयं कारिकात्रयेण व्याचष्टे, आत्तेत्य्-आदिना । स्वरूपस्य ग्रहणासम्भवात् प्रकटितेति ॥३२॥
**नाक-पाला महेन्द्राद्या वसुपा वसुधाधिपाः ॥३३॥
बलदेवः- **वसुपालेति वसु-शब्देन वसुधा लक्ष्यते ॥३३॥
**वासुदेवादि-रूपाणाम् अवताराः प्रकीर्तिताः ।
विष्णु-धर्मोत्तरे राम-लक्ष्मणाद्याः क्रमाद् अमी ॥३४॥
बलदेवः- **रामादीनां चतुर्णा याथार्थ्यम् आह—वासुदेवादीत्य्-आदिना । आदि-शब्देन भरत-शत्रुघ्नौ । तथा च नारायणस्य चत्वारी व्यूहाः क्रमात् रामादयो विष्णु-धर्मोत्तरेणोक्ताः ॥३४॥
पाद्मे तु रामो भगवान् नारायण इतीरितः ।
शेषश् चक्रश् च शङ्खश् च क्रमात् स्युर् लक्ष्मणादयः ॥३५॥
बलदेवः- मतान्तरम् आह—पाद्मे इति । आदिना भरताद्यो ग्राह्याः । तद् इदं कल्प-भेदेनैव सम्भाव्यम् ॥३५॥
मध्य-देश-स्थितायोध्या-पुरेऽस्य वसतिः स्मृता ।
**महा-वैकुण्ठ-लोके च राघवेन्द्रस्य कीर्तिता ॥३६॥
बलदेवः- **अथास्य चतुर् विध-रूपस्य भगवतो निवासम् आह—मध्येति । अस्य_—_राघवेन्द्रस्य, स-भ्रातृकस्य स-भृत्य-वर्गस्यति बोध्यम् । एतेन नृसिंह-रामयोः “एते चांश कलाः” [भा।पु। १.३.३८] इति वाक्यात प्राप्तम् अंशत्वम् अपोहितम् ॥३६॥
**श्री-कृष्णः ।
बिल्वमङ्गले (कृष्ण-कर्णामृट, २.८५)—
सन्त्व् अवतारा बहवः पुष्कर-नाभस्य सर्वतोभद्राः ।
कृष्णाद् अन्यः को वा लतास्व् अपि प्रेमदो भवति ॥३७॥
बलदेवः- **अथ श्री-कृष्णस्य परावस्थाम् आह—सन्त्व् इति । यत् तु रामे वन-वासाय निर्गते वृक्षादिभिर् अपि रुदितम् इति श्री-रामायणेऽप्य् उक्तं, तत् खलु तदैव विच्छेद-दुःखेनैव । इह तु संयोगेऽपि प्रतिदिनम् अपि तद् अस्तीति,
त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं यद् गो-द्विज-द्रुम-मृगाः पुलकान्य् अविभ्रन् ॥ [भा।पु। १०.२९.४०] प्रणत-भार-विटपा मधु-धाराः प्रेम-हृष्ट-तनवो ववृषुः स्म ॥ [भा।पु। १०.३५.९]
इत्य्-आदि-वाक्याद् अवगतम् । दूर-प्रवासे तु परिषदां सौन्दर्य-मात्र-शेषतया अवस्थिति-मात्रम् अभूत्, इति ततो महान् अतिशयः । अत्र,
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं लावण्य-सारम् असमोर्ध्वम् अनन्य सिद्धम् ॥ [भा।पु। १०.४४.१४]
इत्य्-आदि-वाक्ये सत्य् अपि, अस्योदाहरणत्वम् अभियुक्त-वाक्यत्वेन निर्णायकत्वात् । पुष्कर-नाभस्यति_—_प्रतीतानुवादः, अप्रकट-प्रकाश-गतस्य स्वयं भगवत इत्य् अर्थः ॥३७॥
परमैश्वर्य-माधुर्य-पीयूषापूर्व-वारिधिः ।
**देवकी-नन्दनस् त्व् एष पुरः परिचरिष्यते ॥३८॥
बलदेवः- **परमेति । देवकी-नन्दन इति श्लिष्टम् उक्तम्, अग्रे विशेष व्यञ्जयिष्यामः, नन्दसुतो वासुदेवासुतश् च कृष्ण इत्य् अर्थः । पूर्वत्र नर-लीला कैवल्यात् माधुर्यम् एव बहु, इह तूभयं तुल्यम् इति ततोऽतिशयः । ऐश्वर्य-सम्पुटितं खलु माधुर्यम् अतिचारु-दर्पणपिहितचित्रवत्, माधुर्य-संयुक्तम् ऐश्वर्यञ्चाति-सुखकरं रङ्गपारदलिप्ताधारक-दर्पणवत्, इत्य् उभयामृत-वैशिष्टयात् इहैवातिशयित्वम् । परिचरिष्यते_—_निर्णेष्यते इत्य् अर्थः ॥३८॥
यस्य वासः पुराणादौ ख्यातः स्थान-चतुष्टये ।
**व्रजे मधु-पुरे द्वार-वत्यां गोलोक एव च ॥३९॥
बलदेवः- **यस्येति_—_प्रकटार्थः । पण-पूरण-न्यायेन सर्वेषां चतुष्टयत्वाद् एकत्रैव एव कारान्वयोऽत्र न्यायः ॥३९॥
ननु सिंहास्य-रामाभ्यां साम्यम् अस्यागतं स्फुटम् ।
इति विष्णु-पुराणीय-प्रक्रियात्र विलोक्यते3** ॥४०॥**
“विलोक्यते” इत्य् अत्र “विलिख्यते” इति पाठान्तरम् ।
**बलदेवः- **अत्र कश्चित् शङ्कते, नन्व् इति । कृष्णस्य स्वयं-रूपत्वम् उक्त्वापि नृसिंहादिना तस्य साम्यं ब्रुवन् उक्त विस्मर्तायं ग्रन्थ-कृद् इति भावः । परिहर्तुम् आह—इतीति । क्रमसोपानन्यायेन कृष्णयाथात्म्यारोहणान् नोक्त विस्मर्तृत्वम् इति भावः ॥४०॥
तत्र मैत्रेय-प्रश्नः, चतुर्थेऽंशे [वि।पु। ४.१५.३-१०]—
हिरण्यकशिपुत्वे च रावणत्वे च विष्णुना ।
अवाप निहतो भोगान् अप्राप्यान् अमरैर् अपि ॥४१॥
नालभत् तत्र चैवेह सायुज्यं स कथं पुनः ।
**सम्प्राप्तः शिशुपालत्वे सायुज्यं शाश्वते हरौ ॥४२॥
बलदेवः- **हिरण्येति । सायुज्यं_—_सहयोगं, न तु स्वरूपैक्यं, सयुजो भावः सायुज्यम् इति व्युत्पत्तेः, “यो दक्षिणे प्रमीयते पितॄणाम् एव हि महिमानं गत्वा चन्द्रमसः सायुज्यं सलोकताम् आप्नोति” [म।ना।उ। २५.१] इत्य्-आदि श्रुतौ तथैव निर्णयाच् च । तथा च हिरण्यकशिपो रावणस्य च भगवता निहतस्यापि मोक्षो माभूत, शिशुपालस्य सतस्तेन निहतस्य सोऽभूत, इति नृसिंहादिषु त्रिषु किं स्वरूपकृतं गुणकृतं वा किञ्चित् तारतम्यम् अस्ति? इति वाच्यम् इत्य् अर्थः ॥४१-४२॥
श्री-पराशरोत्तरं—
**
दैत्येश्वरस्य वधायाखिल-लोकोत्पत्ति-स्थिति-विनाश-कारिणा अपूर्व-तनु-ग्रहणं कुर्वता नृसिंह-रूपम् आविष्कृतम् ॥ तत्र हिरण्यकशिपोर् विष्णुर् अयम् इत्य् एतन् न मनस्य् अभूत् ॥ निरतिशय-पुण्य-जात-समुद्भूतम्**4** एतत् सत्त्वम् इति ॥ रजो**5द्रेक-प्रेरितैकाग्र-मतिस् तद्-भावना-योगात् ततोऽवाप्त-वध-हैतुकीं निरतिशयाम् एवाखिल-त्रैलोक्याधिक्य-धारिणीं दशाननत्वे भोग-सम्पदम् अवाप ॥४३॥
“समुद्भूत” इत्य् अत्र “सम्भूत” इति पाठान्तरम् ।
“रजोद्रेक” इत्य् अत्र सन्धिराषः ।
**बलदेवः- **स्वरूपभेदाभावेऽपि गुण-व्यक्तिकृतं तद् अस्तीति भावेनाह दैत्येति । दैत्येश्वरस्य_—हिरण्यकशिपोः, वधाय कृते, भगवता नृसिंह-रूपम्, आविष्कृतम्—वैदूर्ये रूपान्तरम् इव स्वस्मिन् स्थितम् एव प्रकटितम् इत्य् अर्थः । कीदृशेन? इत्य् आह—अपूर्वा—पूर्वम् अदृष्टा, या तनुः—नृहरि-रूपा, तस्याः, ग्रहणम्—आविष्कृतम् इत्य् उक्तेः प्राकटयम्, कुर्वतेति ॥ ननु कृष्णस्यैव नृसिंहत्वात् तत्-करेण हतस्यापि कुतो न मोक्षः? तत्राह—तत्रेति । वेवेष्टि स्वरूप-नाम-गुण-लावण्येन ध्यातुर्हृदयम् इति विष्णुः, तद्-धीविरहात् मोक्ष-जनिकाया अनुरञ्जन-शक्तेस् तस्मिन् रूपेऽनुदयात् तद् अभाव इत्य् अर्थः ॥ तार्ह किं बुद्धिस् तस्याभूत्? तत्राह—निरतीति । सत्त्वं—प्राणिविशेषः । कुतः सा बुद्धिस् तस्याभूत्? तत्राह—रज इति—_रजोगुण्-अविभ्रान्तत्वाद् इत्य् अर्थः । किन्तु नृसिंहेति तेजस्वि-प्राणित्वभावनायोगात् तत्-करेण वधाच् च हेतोरुत्तर जन्मनि सुरदुर्लभ-भोग-सम्पत् एव अभूद् इत्य् आह—तद्-भावनेत्यादिना ॥४३॥
**नातस् तस्मिन्न् अनादि-निधने पर-ब्रह्म-भूते भगवत्य् अनालम्बनी-कृते मनसस् तल्-लयम् ॥४४॥
बलदेवः- सर्वोत्तमत्व-निश्चयेन अतिद्वेषेण वा वस्तुनि मनसो निवशः स्यात्, तद्-उभयाभावाद् एव दैत्येश्वरस्य नृ-हरौ मनोलयो नाभूत्, येन मोक्षः स्याद् इत्य् आह—नातस् तस्मिन्न् इत्य्-आदिना । तस्मिन् भगवति_—_नृ-हरौ । **कीदृशि? इत्य् आह—अनालम्बनी-कृते_—_मनो-निवेश-विषयताम् अप्राप्ते इत्य् अर्थः । मनसस् तल्-लयं न अवापेति पूर्वेणैव सम्बन्धः ॥४४॥
**दशाननत्वेऽप्य् अनङ्ग-पराधीनतया जानकी-समासक्त-चेतसो दाशरथि-रूप-धारिणस् तद्-रूप-दर्शनम् एवासीत् । नायम् अच्युत इत्य् आसक्तिर् विपद्यतो ऽन्तः-करणे मानुष-बुद्धिर् एव केवलम् अस्याभूत् । पुनर् अप्य् अच्युत-विनिपातन-मात्र-फलम् अखिल-भू-मण्डल-श्लाघ्यं चेदि-राज-कुले जन्म अव्याहतश् चैश्वर्य शिशुपालत्वे चावाप ॥४५॥
बलदेवः- ननु कृष्णस्यैव दाशरथित्वात् तत्-करेण हतस्यापि मोक्षः कुतो नाभूद् इति चेत्? तत्रापि मोक्ष-जनक-तच्-छक्तेर् अनुदयात् न स इत्य् आह—दशाननत्वेऽपीति । अनङ्गाधीनतया अतिमनोज्ञ-तरुणीत्व-बुद्धया, न तु लक्ष्मीत्व-बुद्धया, जानक्यां समासक्त-चेतसो दशाननस्य, दाशरथि-रूप-धारिणः कृष्णस्य, तद्-रूप-दर्शनम् एवासीत्_—_पुण्यवशात् राजकुले लब्ध-जन्मायम् इत्य् अवैद् इत्य् अर्थः । न तु, अच्युतः_—_नित्य-स्वरूप-गुण-विभूतिकः सर्वोत्तमो विष्णुर् अयम्, इत्य् आसक्तिस् तस्यान्तः-करणेऽभूत्, येन मोक्षः स्यात् । कीदृशस्य? इत्य् आह—विपद्यतः_—_विपद्-ग्रस्तस्येत्य् अर्थः । किन्तु केवला मानुष-बुद्धिरेवोदैत्, तथा च दाशरथि-रूपेऽपि तच्-छक्तेर् अनुदयात् न स इति भावः । यत् तु मन्दोदर्याक्षिप्तस्य दशाननस्य तज्-ज्ञानम् उक्तम्, तनु तद्-आभास-मात्रम् एव, तद्-आवेशानुदयात्, इति बोध्यम् । किन्तु तद्-धेतुकात् वधात् पर-जन्मनि भोग-सम्पद्-एवाभूद् इत्य् आह—पुनरपीति । अच्युतः_—दाशरथिः, तेन यत्, विनिपातनं—_मरणं, तन्-मात्रस्य फलम्, उत्कृष्ट-कुले जन्म ऐश्वर्यश् च महद् अवापेति । आवृत-भगवद्-रूप-दर्शनात् तेन मरणाच् च स्वर्गाद् दिव्य-सम्पदश् च प्राप्तिर् इत्य् आह—सूत्र-कृत्_—“न सामान्याद् अप्य् उपलब्धेर् मृत्युवन्न हि लोकापत्तिः ।” [ब्र।सू। ३.३.५२] इति । स्मृतिश् च—_“सामान्य-दर्शनाल्-लोका मुक्तिर् योग्यात्म-दर्शनात् ।” [नारायण तन्त्र] इति । **विष्णुत्वेनाग्रहणम् एव तद्-रूपस्यावृतत्वं बोध्यम् ॥४५॥
तत्र त्व् अखिलानाम् एव भगवन्-नाम्नां कारणान्य् अभवन् । ततश् च तत्-कारण-कृतानां6** तेषाम् अशेषाणाम् एवाच्युत-नाम्नाम् अनवरतानेक-जन्म-सम्बन्धि-तद्-विद्वेषानुबन्धि**7-चित्तो विनिन्दन-सन्तर्जनादिषूच्चारणम् अकरोत् । तच् च रूपम् उत्फुल्ल-पद्म-दलामलाक्षम् अत्य्-उज्ज्वल-पीत-वस्त्र-धार्य्-अमल-किरीट-केयूर-कटकोपशोभितम् उदार-पीवर-चतुर् बाहु-शङ्ख-चक्र-गदा-पद्म-धरम् अति-प्ररूढ-वैरानुभावाद् अटन-भोजन-स्नानासन-शयनादिष्व् अशेषावस्थान्तरेषु नैवापययाव् अस्यात्म-चेतसः ॥४६॥
“तत्कारणकृतानाम्” इत्य् अत्र “तत्कालकृतानाम्” इति पाठान्तरम् ।
“सम्बन्धि-तद्विद्वेषानुबन्धि” इत्य् अत्र “संवार्धितविद्वेषानुबन्धि” इति पाठान्तरम् ।
**बलदेवः- अथ मोक्ष-जनिकाया मनोरञ्जन-शक्तेः स्वयं-रूपे कृष्णे सर्वदाभिव्यक्तेस्तया मनसोऽभिनिवेशात् तत्-करेण निहतस्य तस्य मोक्षोऽभूद् इत्य् आह—तत्रत्व् इति। मनोरञ्जना खलु नाम-माधुर्येण स्वरूप-माधुर्येण च स्यात्, तद्-उभय कृष्णे प्रव्यक्तम् इत्य् आह—तत्र तु—कृष्णे, निखिलानं, भगवतः—लक्ष्मीपतेः, नाम्नां प्रवृत्तौ, कारणानि—दैत्यारित्व-पुण्डरीकाक्षत्व-शार्ङ्गित्व-गरुडवाहनत्वादीनि, अभवन् । वासुदेवादि नाम्नां तत्र प्रवृत्तौ वसुदेव-जातत्वादीनि कारणानीति नाम-माधुर्येण तन्-मनोरञ्जना तावद् अभूत् ॥ ततश् च तैर् नामभिर् विष्णुर् अयम् इति निश्चित्य अनवरतानेक-जन्म-सम्बन्धि-तद्-विद्वेषानुबन्धि-चित्तः स शिशुपालः, तत्-कारण8-कृतानां तद्-आदीनां हृद्यानीतानां तेषां नाम्नाम् उच्चारणं निन्दनादिष्वकरोत्, इति विद्वेषात् कृष्णे तस्मिन् मनसो लय उक्तः ॥ अथ स्वरूप-माधुर्येण च मनोरञ्जनाभूद् इत्य् आह—तच् च रूपम् इत्य्-आदिना । तत् रूपम्, अस्य—शिशुपालस्य, आत्मचेतसः—कृष्ण-निखात-मनसः, नैव अपययौ—अपगतं नाभूद् इत्य् अर्थः । कुत्र कुत्र? इत्य् आह—अटनेत्यादि । कृतो हेतोर् एवम्? तत्राह—अतिप्ररूढेति । **स्फुटार्थम् अन्यत् ॥४६॥
“तत्कारण” इत्य् अत्र “तत्काल” इति पाठान्तरम् ।
**ततस् तम् एवाक्रोशेषूच्चारयन् तम् एव हृदयेनावधारयन्न् आत्मविनाशाय भगवद्-अस्त-चक्रांशु-मालोज्ज्वलम् अक्षय-तेजः-स्वरूपं परम-ब्रह्म-भूतम् अपगत-द्वेषादि-दोषो भगवन्तम् अद्राक्षीत् ॥४७॥
बलदेवः- **विद्वेष-हेतुकेनापि नामोच्चारणेन स्वरूप-ध्यानेन च स्पर्श-हनन-न्यायेन दग्ध-दोषः चक्र-सत्-प्रसङ्गेन च दर्शित-स्वरूप याथात्म्योपलब्ध-प्रेमा कृष्णं यथावदन्वभूद् इत्य् आह—ततस् तम् एवेत्यादिना ॥४७॥
तावच् च भगच्-चक्रेणाशु व्यापादितस् तत्-स्मरण-दग्धाखिलाघ सञ्चयो भगवता तेनान्तम् उपनीतस् तस्मिन्न् एव लयम् उपययौ ॥४८॥
बलदेवह्- एवं साधन-सम्पत्तिमान् कृष्णेनैवापाकृत तद्-देहः स्वसामीप्यं नीत इत्य् आह—तावच्चेत्य्-आदिना । अन्तः स्वरूपे निकटे प्रान्ते निश्चय नाशयोः । इति हैमः । लयं—संश्लेषम् ॥४८॥
**एतच् च तवाखिलं मयाभिहितम् । अयं हि भगवान् कीर्तितः संस्मृतश् च द्वेषानुबन्धेनाप्य् अखिल-सुरासुरादि-दुर्लभं फलं प्रयच्छति किम् उत सम्यग्-भक्ति-मताम् ॥४९॥ इति ।
बलदेवः- **इत्थं च त्रयाणां नृसिंहादीनां स्वरूप-भेदाभावेऽपि कृष्णे स्वयं-रूपे सर्वदाभिव्यक्त-सर्वगुणे मोक्ष-जनक—तच्-छक्तेर् अभिव्यक्तेस्तया मनोरञ्जनया तस्य मोक्षोऽभूत्, नृसिंहादि-तद्-रूप-द्वये तु तच्-छक्तेर् अनभिव्यक्तस्तेन निहतस्यापि तस्य न मोक्ष इति त्वत्पृष्टं सर्वम् उत्तरितं मयेत्य् आह—एतच् च तवेति ॥
व्यञ्जितं स्फुटयति, अयं हीति । भगवानिति नित्य-योगेऽप्यतिशायने मतुप्,“कृष्णस् तु भगवान् स्वयम्” [भा।पु। १.३.२८] इत्य् उक्तेः, स्वयं-रूप इत्य् अर्थः । फलं—मोक्ष-लक्षणम् । सम्यग्-भक्ति-मतां तु मोक्ष-तद्-वश्यतातिशय इति भावः । अत्र भगवति भक्तिर् एव कर्तव्यतया मुनिना विवक्षिता, द्वेषस् तु हेयतयैव बोध्यः; “योगिभिर् दृश्यते भक्त्या नाभक्त्या दृश्यते क्वचित् । द्रष्टुं न शक्यो रोषाच्च मत्सराच्च जनार्दनः ॥” इति पाद्मोत्तर-खण्डाच्च । तस्मात् तेन मनोनिवेश एव फल-कृद् इति “तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् ॥” [भा।पु। ७.१.३१] इति श्री-भागवते देवर्षि-वाक्याद् एव ॥४९॥
**नोक्तं पराशरेणात्र स्थितौ तौ पार्षदाव् इति ।
किन्तूभयोस् तयोर् आसीज् जन्म-त्रयम् इतीरितम् ॥५०॥
बलदेवः- **ननु जय-विजययोर् वैकुण्ठ-द्वार-पालयोः सनकादि-शापात् वैकुण्ठाद्-विभ्रंशः, तृतीय-जन्मनि श्री-कृष्णेन निहतयोस् तयोः शापनि-वृत्ति-पूर्वक-स्वपद-प्राप्ति-निर्दिष्टा, इति तृतीय-स्कन्धानुसारेणैव पराशरोक्तेर् व्याख्येयत्वात् कथम् एतत् श्री-कृष्णस्य स्वयं-रूपतायाम् उदाहरणं? तत्राह—नोक्तम् इत्य्-आदि ॥५०॥
अतः सर्वेषु कल्पेषु न तौ पार्षद-जौ मतौ ।
**अन्यथा न तयोः पातः प्रति-कल्पं समञ्जसः ॥५१॥
बलदेवः- **अत्र—श्री-विष्णु-पुराणे, तौ पार्षदो स्थिताव् इत्य् अनुक्तेर् जन्म-त्रयमात्रोक्तेश् च पराशरेणापि तौ सर्वेषु कल्पेषु पार्षद-जौ न मतो, अन्यथा—प्रति-कल्पं तयोः पार्षद-जत्वे तेन मते, वारंवारं वैकुण्ठात् तत्-पातः समञ्जसो न स्यात् । अयम् अर्थः—कल्पावताराः खलु नृसिंहादयः प्रति-कल्पं चेत् पार्षदौ वैकुण्ठाद्-विभ्रंश्य ताभ्यां सह युद्ध-लीलां कुर्युर् इति स्वीकार्यम्, तर्हि तद्-उक्तानि हरेर् वात्सल्य-वाक्यानि वैकुण्ठानावृत्ति-वाक्यानि च व्याकुप्येयुः, तस्मात् प्रति-कल्पम् असुरैर् एव सह युद्ध-लीला ॥
तृतीय-स्कन्धे तु भगवद्-इच्छयैव वैकुण्ठात् प्रपञ्चे तयोः समागमः कादाचित् कः । तद्-इच्छा तु, “भगवान् अनुगाव् आह यातं मा भैष्टम् अस् तु शम् । ब्रह्म-तेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥” [भा।पु। ३.१६.२९] इति तद्-उक्तेः । सापि वन्दि-गीत-स्वामि-विक्रम-दिदृक्षा-समुद्भूतया तयोर् इच्छयैवाभूद् इति व्याख्यातारः । तद्-इच्छाधीना तद्-इच्छा तु “स्वेच्छामयस्य” [भा।पु। १०.१४.२] “भक्तेच्छोपात्त-देहाय” [भा।पु। १०.२७.११, १०.५९.२५] इत्य्-आदि वाक्येभ्यः । नन्व् एव मनावृत्ति-वाक्यव्याकोपः? उच्यते । कर्म-कृता ह्यावृत्तिर् दोषत्वाय, न तु स्वेच्छा-कृतापि । अन्यथा हरेर् अपि प्रपञ्चेऽवतरतः सा शङ्क्येत । न च अनावृत्ति-वाक्यानि पर-व्योम-विषयाणि, न तु सत्य-लोक-गत-वैकुण्ठ-विषयाणि, इति वाच्यम्, “ततो वैकुण्ठम् अगमद् भास्वरं तमसः परम् । यत्र नारायणः साक्षान् न्यासिनां परमा गतिः । शान्तानां न्यस्त-दण्डानां यतो नावर्तते गतः ॥” [भा।पु। १०.८८.२५-२६] इति श्री-दशमे तद्-गताद् अप्य् अनावृत्ति-कथनात् ॥५१॥
पराशरेण यद् गद्यं मैत्रेयायोत्तरीकृतम् ।
**श्लोकीकृत्य तद् एवेदं सङ्क्षेपेण विलिख्यते ॥५२॥
बलदेवः- **अथ प्रत्युत्तर-गद्यं कारिकाभिर् व्याख्यातुम् आह—पराशरेणेति । मैत्रेयायेत्यादि—प्रस्फुटार्थम् ॥५२॥
नृसिंह-रूपं हरिणा यद् आविष्कृतम् अद्भुतम् ।
हिरण्यकशिपोर् अस्मिन् विष्णु-बुद्धिर् न निश्चिता ॥५३॥
किन्त्व् एष पुण्य-सम्पन्नः कोऽपीति कृत-निश्चयः ।
रज-उद्रिक्तता-नुन्न-मतिस् तद्-भाव-योगतः ॥५४॥
ततोऽवाप्त-विनाशैक-हेतुकाम् अखिलोत्तमाम् ।
**अवाप भोग-सम्पत्तिं रावणत्वे सुदुर्लभाम् ॥५५॥
बलदेवः- **ततोऽवाप्तेति—नृसिंहादवाप्तो यो विनाशो वधस्तद्धेतुकाम् इत्य् अर्थः, सुदुर्लभां भोग-सम्पत्तिं रावणत्वे, अवाप—लेभे ॥५५॥
**विष्णुत्वानिश्चयान् आतिद्वेषान् नावेश-सन्ततिः ।
तां विना च भवेद्-द्वेषो नरकायैव वेनवत् ॥५६॥
बलदेवः- **ताम् इति—आवेशसन्ततिं, विना केवलो विद्वेषो वेन-राजस्येव नरकायैव; “कतमोऽपि न वेणः स्यात् पञ्चानां पुरुषं प्रति ।” [भा।पु। ७.१.३१] इति वचनात्; न तु कंसस्येव मोक्षायेत्य् अर्थः ॥५६॥
किन्त्व् अस्य सम्पत्-सम्प्राप्तिस् तत्-करेण मृतेः परम् ।
एवम् आहैव-शब्देन तत्-साद्9**-गुण्यम् अनुस्मरन् ॥५७॥ **
“साद्गुण्य” इत्य् अत्र “वाङ्गुण्य” इति पाठान्तरम् ।
**बलदेवः- **तत्-करेण—नृसिंह-हस्तेन । एव-शब्देनेति—“निरतिशयाम् एवाखिल” इत्य् अत्रोपात्तेनेत्य् अर्थः ॥५७॥
**आवेशाभावतो दोषानाशाच् छुद्धम् अपश्यतः ।
प्रकटेऽपि पर-ब्रह्म-रूपे तत्रास्य नो लयः ॥५८॥
बलदेवः- **प्रकटेऽपीति । पर-ब्रह्मरूपे—नृसिंहे, अस्य—हिरण्यकशिपोः, लयः—संश्लेषः ॥५८॥
**रावणत्वे महाकाम-पराधीनीकृतात्मनः ।
तद्वन् मनुष्य-धीर् अस्य श्री-रामेऽभून् मृताव् अपि ॥५९॥
बलदेवः- **रामावतारेऽप्येवम् इत्य् आह—रावणत्वे इति । तद्वद् इति—हिरण्यकशिपोर् यथा नृसिंहे प्राणि-विशेष-बुद्धिस् तद्वत्, अस्य—रावणस्य, श्री-रामे मनुष्य-विशेष-बुद्धिरभूत् ॥५९॥
**अतोऽसौ चेदिराजत्वे पुनर् आपोत्तमां श्रियम् ॥६०॥
बलदेवः- **अत इति—श्री-राम-करेण मृतेहेतोर् इत्य् अर्थः ॥६०॥
तत्र कृष्णे समस्तानाम् एव नाम्नां रमापतेः ।
**कारणानि प्रवृत्तेस् तु निमित्तान्य् अभवंस् तदा ॥६१॥
बलदेवः- **अथ चैद्यस्य कृष्णेन निहतस्य सतो मोक्षो यदभूत्, तत् खलु मोक्ष-जनकानुरञ्जन-शक्तेस् तत्र सर्वदाभिव्यक्तेस् तद्-हेतुकम् इत्य् आह—तत्र कृष्णे समस्तानाम् इत्य्-आदिना । नाम-महिम्ना स्वरूप-महिम्ना च मनोरञ्जना स्यात्, तत्र नाम-महिम्ना ताम् आह—। रमापतेः—विष्णोः समस्तानां नाम्नां तत्र कृष्णे प्रवृत्तेः कारणान्यभवन, तानि च पुण्डरीकाक्षत्वादीन्युच्यन्ते ॥६१॥
**तेन निश्चित्य तं विष्णुं स्वस्य द्विर् मरणं यतः ।
अतिद्वेषान् महावेशात् तानि नामानि सर्वशः ।
जजल्प सततं शश्वन् निन्दा-सन्तर्जनादिषु ॥६२॥
बलदेवः- **तेन—नाम-योगेन, विष्णुर् अयं मच्-छत्रुर् इति निश्चयात् स्व-शत्रुधीविजृम्भितानि द्वेष-हेतुकाद् दैत्यावेशाच् च निन्दादिषु नामानि जजल्प ॥६२॥
**रूपं च तादृशं दृष्ट्वा विष्णुर् एवेति निश्चयात् ।
नामवत् तच् च सर्वत्र सर्वदा चैव संस्मरन् ।
दग्ध-तद्-द्वेषजाघौघः क्षिप्ते चक्र च तद्-रुचा ।
अपेत-दैत्य-भावोऽन्ते तथा संस्कृत-दृष्टिकः ।
तदा तूज्ज्वलम् अद्राक्षीत् परं ब्रह्म नराकृति ॥६३॥
बलदेवः- **अथ रूप-महिम्ना ताम् आह—रूपं चेति । तादृशम्—उत्फुल्ल-पद्म-दलामलाक्षम् इत्य्-आद्य् उक्तम् इत्य् अर्थः । ताभ्यां च निर्दग्ध-विद्वेष-तज्जातपापराशिः ततश् च चक्र-सत्-प्रसङ्गेन दैत्य-देह-विनाश-समकालजात-सर्वोत्तमत्व-ज्ञानः प्रेम्णा, कृष्णम् अनुलीनम् अभूत्—अवाप तत् सायुज्यम्, इति स्वयं-रूपे कृष्णे तच्-छक्तेर् आविर्भावादधिकत्वम् इति ॥६३॥
तदैव चक्र-घातेन दैत्य-देहे विनाशिते ।
तद् एव ब्रह्म परमम् अनुलीनत्वम् आययौ ॥६४॥
इत्य् उक्त्वाप्य् अत्र बक्यादेर् मोक्षम् अप्य् अर्भ-लीलया ।
अमोक्षं कालनेम्यादेर् अन्यत्रापीश-चेष्टया ।
**मुनिः स्मृत्वा पुनः प्राख्यत् अयं हि भगवान् इति ॥६५॥
बलदेवः- **इत्य् उक्त्वापीति—स्वयं-रूपे कृष्णे मोक्ष-जनक-मनोरञ्जन शक्तेः सर्वदाभिव्यक्तत्वाद्-विद्वेषेणाप्य् अत्यावेशात् तस्य मोक्षस् तत्-करेण निहतस्याभूद् इति सूचयित्वापीत्य् अर्थः । अथान्वय—व्यतिरेकाभ्यां कृष्णस्यैवासुरेभ्यो मोक्षदातृत्वमनुभूय तस्यैव स्वयं-रूपत्वमभ्यधाद् इत्य् आह—अत्र बक्यादेर् इति । अत्र—कृष्ण, अर्भलीलयापि बक्यादेर् मोक्षम्, अन्यत्र—एतस्यैव रूपान्तरे अजितादौ, ईशचेष्टयापि निहतस्य कालनेम्यादेरमोक्षं च स्मृत्वा, पुनः, मुनिः—पराशरः, प्राख्यत्, अयं हीत्यादि ॥६५॥
**हि प्रसिद्धम् अयं कृष्णो भगवान् स्वयम् एव यत् ।
प्रीणतां द्विषतां चातश् चेतांस्य् आकर्षति द्रुतम् ।
तस्मात् कीर्तित इत्य् आदि माहात्म्यं चित्रम् अत्र न ॥६६॥
बलदेवः- **हीति—“कृष्णस् तु भगवान् स्वयम्” [भा।पु। १.३.२८] इत्य् आदौ ख्यातम् अस्य स्वयं भगवत्त्वम् । तस्येयं शक्तिर्यया प्रीणताम् इव द्विषताम् अपि चेतांस्यसौ द्रुतमाकर्षति ॥६६॥
इति विज्ञाय गद्यानां हार्दं सौहार्दतः स्फुटम् ।
**तस्मात् स एव कैमुत्याद् भजनीयतयेष्यते ॥६७॥
बलदेवः- **गद्यानां, हार्दम्—अभिप्रायं, सौहर्दात् विज्ञाय, तस्मात्—गद्यानां हार्दाद् एव हेतोः, सः—कृष्ण एव, कैमुत्याद् भजनीय इष्यते, इति “किम् उत सम्यग्-भक्तिमताम्” इति व्याख्यातम । यः कृष्णो विद्वेषेणापि स्वाविष्टेभ्यो मोक्षम् अपि ददाति, स भक्त्यनुरक्तेभ्यस् तं ददातीति किम् उत वक्तव्यं किन्तु स्वपर्यन्तं सर्वं तद्-अधीनं करोतीति भावः ॥६७॥
**अथाखिलानां नानां च प्रवृत्तौ कारणं शृणु ॥६८॥
बलदेवः- **“तत्र त्वखिलानाम् एव भगवन्-नाम्नां कारणान्यभवन्” इत्य् अनेन लक्ष्मीशे नाम्नां प्रवृत्तेर्यानि निमित्तानि, तानि च कृष्णेऽप्य् अभवन्न् इति व्याचष्टे, अथाखिलानाम् इत्य्-आदिना ॥६८॥
लक्ष्मीश-नामान्य् एवात्र प्रवृत्तेर् हेतु-साम्यतः ।
तथैव हेतु-भेदाच् च वर्तन्ते यदु-पुङ्गवे ॥६९॥
दैत्यारिः पुण्डरीकाक्षः शार्ङ्गी गरुड-वाहनः ।
**पीताम्बरश् चक्र-पाणिः श्रीवत्साङ्कश् चतुर्भुजः ॥
इत्य् आदीन्य् अत्र नामानि प्रवृत्तेर् हेतु-साम्यतः ॥७०॥
बलदेवः- **निमित्त-साम्यात् निमित्त-भेदाच् च प्रवृत्तिर् द्विधा, तत्र निमित्त-साम्यात् प्रवृत्तानि नामान्याह—दैत्यारिरित्य्-आदीनि ॥७०॥
वसुदेवस्य पुत्रत्वाद्-वासुदेवो निगद्यते ।
**मधुवंशे यतो जातः कथ्यते माधवस् ततः ॥७१॥
बलदेवः- **निमित्त-भेदात् कृष्णे यानि प्रवृत्तानि, तान्याह—वसुदेवस्येत्यादिना ॥७१॥
श्री-हरि-वंशेऽपि [ह।वं। ६३.३६]—
**
स च तेनैव नाम्नात्र कृष्णो वै दाम-बन्धनात्** ।
**गोष्टे दामोदर इति गोपीभिः परिगीयते ॥७२॥
बलदेवः- **दामोदर-नाम्नः कृष्णे प्रवृत्तौ निमित्तम् आह—स च तेनेति । तथा च यशोदया दाम्ना निबद्धोदरत्वं दामोदरत्वम् इति ॥७२॥
तत्रैव [ह।वं। १५८.३०-३२]—
**
अधोऽनेन शयानेन शकटान्तर-चारिणा ।
राक्षसी निहता रौद्री शकुनी-वेश-धारिणी ॥
पूतना नाम सा घोरा महाकाया महाबला** ।
**विष-दिग्धं स्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥७३॥
बलदेवः- **अधोक्षज-नाम्नः कृष्णे प्रवृत्तौ निमित्तम् आह—अधोऽनेनेति ॥७३॥
**ददृशुर् निहतां तत्र राक्षसीं वन-गोचराः ।
पुनर् जातोऽयम् इत्य् आहुर् उक्तस् तस्माद् अधोक्षजः ॥ इति ॥७४॥
एषोऽधः शकटस्याक्षे पुनर् जात इवेत्य् अतः ।
अधोक्षज इति प्राहुर् इति टीका कृतोदितम् ॥७५॥
बलदेवः- **शकटस्याधः शयानेन, अनेन—कृष्णेन, शकुनी—बकी, निहता । कीदृशी? इत्य् आह—वेश-धारिणी—धृत-धात्री-वेशा । अनेन कीदृशेन? इत्य् आह—शकटेति—शकटस्याधोवर्तिना, तत्र लघु-पर्यङ्के शायितेनेत्य् अर्थः ॥
तथा च अक्षाधः पुनर् जातत्वम् । अधोक्षजत्वम् इति ॥७५॥
तत्रैव [ह।वं। ७५.४५]—
**
अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गतः** ।
**गोविन्द इति लोकास्त्वां गास्यन्ति भुवि शाश्वतम् ॥७६॥
बलदेवः- **गोविन्द-नाम्नस् तदाह—अहं किलेति । तथा च, गवां—काम धेनुनाम्, अधिपतित्वं गोविन्दत्वम् इति ॥७६॥
तत्रैव [ह।वं। ७५.४६]—
**
ममोपरि यथेन्द्रस्त्वं स्थापितो गोभिर् ईश्वरः** ।
**उपेन्द्र इति कृष्ण! त्वां गास्यन्ति दिवि देवताः ॥७७॥
बलदेवः- **उपेन्द्र-नाम्नस् तद् आह—ममोपरीति । तथा च इन्द्रादधिकत्वम् उपेन्द्रत्वम् इति ॥७७॥
श्री-विष्णु-पुराणे [वि।पु। ५.१६.२२]—
**
यस्मात् त्वयैव दुष्टात्मा हतः केशी जनार्दन! ।
तस्मात् केशव-नाम्ना त्वं लोके ज्ञेयो भविष्यसि ॥ इति ॥७८॥
बलदेवः- **केशव-नाम्नस् तदाह—यस्माद् इति—नारदोक्तिः । निहत केशि-दानवत्वं केशवत्वम् ॥७८॥
**इत्य् आदीन्य् अत्र नामानि प्रवृत्तेर् हेतु-भेदतः ।
एषां प्रवृत्तेर् हेतुत्वम् अन्यद् एव रमापतौ ॥७९॥
बलदेवः- **इति निमित्त-भेदैः कृष्णे प्रवृत्तिर् वासुदेवादि-नाम्नां दर्शिता । एषां लक्ष्मीशे प्रवृत्तौ निमित्तं भिन्नम् एवेत्य् आह—एषाम् इति । सर्व-हृन्-निवासित्वं वासुदेवत्वं, लक्ष्मीपतित्वं माधवत्वं, काञ्चीशोभित-मध्यत्वं दामोदरत्वम्, अधः-कृतैन्द्रियक-सुखत्वम् अधोक्षजत्वं, वेदवेद्यत्वं गोविन्दत्वम्, इन्द्र कनिष्ठत्वम् उपेन्द्रत्वं, केशौ ब्रह्म-रुद्रौ वयते बध्नातीति केशव त्वं चेति ॥७९॥
**किञ्चासुराणां द्विषतां कृष्णम् अप्राप्य नान्यतः!
कुतोऽपि मुक्तिर् इत्य् आख्यद् एव-कार-द्वयेन सः ॥८०॥
बलदेवः- **हतारि-गति-दायकत्वं श्री-कृष्णस्य स्वयं-रूपत्वगमकं वैष्णवादापादितं, पुष्णन्न् आह—किं चेति । अन्यतः—स्वस्यैव रूपान्तरात् नृसिंहादेः । सः—श्री-कृष्णः ॥८०॥
तथा हि श्री-गीतासु [गी। १६.१९-२०]—
**
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान्** ।
**क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥८१॥
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।
माम् अप्राप्यैव कौन्तेय! ततो यान्त्य् अधमां गतिम् ॥ इति ॥८२॥
बलदेवः- **तद्-वाक्यम्-उदाहरति, तानिति । माम् अप्राप्य—मत्-करेण मरणम् अलब्ध्वेत्य् अर्थः ॥८१-८२॥
मां कृष्ण-रूपिणं यावन् नाप्नुवन्ति मम द्विषः ।
**तावद् एवाधमां योनिं प्राप्नुवन्तीति हि स्फुटम् ॥८३॥
बलदेवः- **तत्-तद्-वाक्यं व्याख्याति, माम् इति—अगूढार्थम् ॥८३॥
तस्मात् त्रयाणाम् एवायं श्रेष्ठ इत्य् अत्र विस्मयः ।
**को वा स्यात् न तथा यस्मात् स्वभावोऽन्यत्र दृश्यते ॥८४॥
बलदेवः- **निगमयति, तस्माद् इति । त्रयाणां—नृसिंहादीनां मध्ये, अयं—कृष्णः एव, श्रेष्ठः—अभिव्यक्त-निखिल-शक्तित्वेन वरीयान्, इत्य् अत्र विस्मयः को वा स्यात्? न कोऽपीत्य् अर्थः । यस्मात्, तथा स्वभावः—हतारिगतिदातृत्वादि-लक्षणः, ततोऽन्यत्र—नृसिंहादौ, न दृश्यते ॥८४॥
अतो मन्वक्षर-मनोः कल्पे स्वायम्भुवागमे ।
पूज्यन्तेऽस्यावृतित्वेन राम-सिंहाननादयः ॥८५॥
अत इति—कृष्णस्य स्वयं-रूपत्वाद् एव हेतोः, मन्वक्षर-मनोः—चतुर्दशाक्षरस्य तन् मन्त्रस्य, कल्पे इत्य्-आदि—प्रकटार्थम् । “चत्वारो वासुदेवाद्याः पूज्यन्ते सह-शक्तिकाः । पूर्वादि-दिक्षु क्रमशो विदिक्षु परमेश्वराः । श्री-राम-सिंह-वदन-कूर्मोपेन्द्रा महाद्भुताः ॥” इति तत्रत्यं वाक्यम् ॥८५॥
**नन्व् इदं श्रूयते शास्त्रे महा-वाराह-वाक्यतः ।
महावराहे—
सर्वे नित्याः शाश्वताश् च देहास् तस्य परात्मनः ।
हानोपादानरहिता नैव प्रकृतिजाः क्वचित् ॥
परमानन्द-सन्दोहा ज्ञान-मात्राश् च सर्वतः ।
सर्वे सर्व-गुणैः पूर्णाः सर्व-दोष-विवर्जिताः ॥ इति ॥८६॥
बलदेवः- **ननु “एकोऽपि सन् बहुधा यो विभाति” [गो।ताप्।ऊ। २०] इत्य् एकस्य कृष्णस्य बहुत्वात् तस्य सम्पूर्णत्वं सर्वत्र साम्प्रतं, क्वचिद् अपूर्णत्वं तु न शक्यं वक्तुं, क्षोदाक्षमत्वाद् इति कश्चित् प्रत्यवतिष्ठते—नन्व् इत्य्-आदिना ॥
पूर्वेषु रूपेषु पूर्णत्वे प्रमाणं, सर्वे नित्या इति । शाश्वताः—जगति पुनः पुनराविर्भाविणः । देहास् तस्येति—अभेदेऽपि षष्ठी “चैतन्यम् आत्मनः स्वरूपम्” इतिवद् उपपद्यते । स्वरूपाभेदाद् एव हानादिरहिताः । स्फुटार्थम् अन्यत् ॥८६॥
किं च, श्री-नारद-पञ्चरात्रे—
**मणिर् यथा विभागेन नील-पीतादिभिर् युतः ।
रूप-भेदम् अवाप्नोति ध्यान-भेदात् तथाच्युतः ॥ इति ॥८७॥
बलदेवः- **मणिर् यथेति । मणिर् अत्र वैदूर्यं, तस्यैव, बहु-रूपत्वात्, स यथा रूपान्तरं दधानोऽपि मणिमूनं न विधत्ते, तद्वद् इति बोध्यम् ॥८७॥
**तस्मात् कथं तारतम्यं तेषां व्याख्यायते त्वया ।
बलदेवः- **तस्माद् इति । तेषां—नृसिंहादीनां, तारतम्यम्—अंशित्वांशत्व-रूपम् ॥
अत्रोच्यते परेशत्वात् पूर्णा यद्यपि तेऽखिलाः ।
**तथाप्य् अखिल-शक्तीनां प्राकट्यं तत्र नो भवेत् ॥८८॥
बलदेवः- **समादधाति, अत्रोच्यते इत्य्-आदिना । तेऽखिला इति विलासाः स्वांशाश् च, स्वयं-रूपवत् पूर्णा इत्य् अर्थः । तत्रेति—विलास स्वांश-लक्षणे तस्मिन् भगवति । एतद् उक्तं भवति—यथा “सर्वे नित्याः” इत्य्-आदि पूर्णत्व वाक्यं, तथैव “एते चांश कलाः पुंसः” [भा।पु। १.३.२८] इत्य्-आद्य् अंशांशित्व-वाक्यश् चास्ति । पूर्वं10 स्वरूप-सत् सर्व-गुणकत्वात् सङ्गतिमत्, परन्त्व् अभिव्यक्तानभिव्यक्तं सर्व-गुणकत्वात् तथा, इति न काचित् क्षतिः । अन्यथा परं11 व्याकुप्येत् ॥८८॥
Fओर्मेर् स्ततेमेन्त्- “सर्वे नित्याः” इत्य्-आदि
Lअत्तेर् स्ततेमेन्त्- “एते चांश कलाः पुंसः” [भा।पु। १.३.२८] इत्याद्य्
अंशत्वं नाम शक्तीनां सदाल्पांश-प्रकाशिता ।
**पूर्णत्वश् च स्वेच्छयैव नाना-शक्ति-प्रकाशिता ॥८९॥
बलदेवः- **अथ विलासेषु स्वांशेषु च सर्वेषां गुणानां स्वरूपेण सत्त्वात् ते कदाचिद् आविः स्युर् इत्य् उक्ता व्यवस्था भज्यतेत्याक्षेपः स्यात्, तं निराकर्तुम् अंश-लक्षणम् आह—अंशत्वं नामेति । अंश-शब्देन तद्-एकात्म रूपो ग्राह्यः, श्री-कृष्णो नारायणादि-भाव-धरस् तत्-तत्-प्रकरण-पठितानेव गुणान्-आविष्कुर्यात्, न तु स्वनिष्ठान् सर्वान्, इति नोक्त-व्यवस्थाभङ्गः । तथा च उभय-हेतुक—मनोरञ्जना-रूप—हतारि-मोक्षदातृत्वं नृसिंहादित्वे नाभिव्यञ्जितम्, इति न तस्य तन् निहतस्यापि मोक्षः । सर्वेषु सर्व-शक्त्याविर्भावे स्वीकृते तु शास्त्रावधारितः सिद्धान्तो व्याकुप्येत् । नारायणे निखिल-कृष्ण-गुणाविर्भावे स्वीकृते तत्-पत्न्या कृष्णाङ्घ्रि-रजो-वाञ्छा भागवतोक्ता, रघुपतौ तस्मिन् स्वीकृते दृष्ट-रघुपतीनां मुनीनां कृष्ण-स्पृहा पाद्मोक्ता, त्रिषु पुरुषेषु तस्मिन् स्वीकृते तेषां कृष्णांशता च ब्रह्म-संहितोक्ता, न घटेत । एवं वासुदेवे सङ्कर्षणस्य स्वधिष्ण्यत्वधीर् बहु-सत्कृतिश् च, रघुपतौ सौमित्र्यादीनां स्वामित्व-बुद्धिर् अतिभक्तिश् च तत्र तत्रोक्ता व्याकुप्येत् । सदेति । अतो ज्येष्ठोऽपि बलदेवः “प्रायो मायास् तु मे भर्तुः” [भा।पु। १०.१३.३७] इत्य् एवावोचत् । पूर्णत्वम् इति—अंशित्वम् इत्य् अर्थः । तत्-त्वञ्चात्मेच्छयैव नाना-शक्ति-प्रकाशित्वम् इत्य् अर्थः । तथा च अंशिना अंशो व्यङ्ग्यः, नतु अंशेन अंशी इति यथायोगं भाव्यम् । कृष्णस्य सर्वाशित्वात् तद्-वय्ङ्ग्याः सर्वे, स तु नान्यव्यङ्ग्यः ॥८९॥
**शक्तिर् ऐश्वर्य-माधुर्य-कृपा-तेजो-मुखा गुणाः ।
बलदेवः- **अथ शक्ति-शब्दाभिमतं स्फुटयति, शक्तिर् इति । स्वेतर-निखिल-स्वामित्वम् ऐश्वर्यं, सर्वावस्थासु चारुत्वं माधुर्यं, निर्निमित्त-पर-दुःख-प्रहाणेच्छा कृपा, कालमायाद्य् अभिभावी प्रभावस् तेजः, आदिना सार्वज्ञ-भक्त-वात्सल्य-तद्-वश्यतादयः ॥
**शक्तेर् व्यक्तिस् तथाऽव्यक्तिस् तारतम्यस्य कारणम् ॥९०॥
बलदेवः- **अंशांशि-वाक्यानां निष्कर्षम् आह—शक्तर् इति । तारतम्यस्य—अंशांशि-भावस्य ॥९०॥
शक्तिः समापि पुर्यादि-दाहे दीपाग्नि-पुञ्जयोः ।
**शीताद्य्-आर्ति-क्षयेणाग्नि-पुञ्जाद् एव सुखं भवेत् ॥९१॥
बलदेवः- **पूर्णात् सुखातिशयो लभ्यते, न त्वंशात् तद्-रूपाद् अपीति दृष्टान्तेनाह—शक्तिर् इति । यद्यपि पुर्यादि-दाहे दीपाग्नि-पुञ्जयोः शक्तिः समा, तथापि शीतादि-हेतुकार्ति-क्षयेण अग्नि-पुञ्जाद् एव अतिशयितं सुखं न दीपात् ॥९१॥
एवम् एव गुणादीनाम् आविष्कारानुसारतः ।
**भव-ध्वंसेन सौख्यं स्याद् भक्तादीनां यथा-यथम् ॥९२॥
बलदेवः- **एवं नृसिंहादि-स्वांशस्य, तद्-अंशिनः कृष्णस्य च, भक्ताविद्या-विध्वंसने दैत्य-संहारे च शक्तिः समैव; किन्तु नित्याविर्भूत-हत-दैत्य्-आदि-मोक्ष-दातृत्वादि-सर्व-गुणात् अग्नि-पुञ्जोपमात् कृष्णाद् एव दैत्य्-आदि-भव-विध्वंसेन, सौख्यं—परानन्दाप्ति-रूपं, स्यात्; नृसिंहादितस् तु सुर-दुर्लभ-भोग-प्राप्तिर् एव दैत्य्-आदीनां, न तु भव-ध्वंस इति । भक्तादीनाम् इति आदिना योगिनां च श्रोतॄणाम् इति ॥९२॥
किञ्च—
एकत्वं च पृथक्त्वं च तथांशत्वम् उतांशिता ।
**तस्मिन्न् एकत्र नायुक्तम् अचिन्त्यानन्त-शक्तितः ॥९३॥
बलदेवः- **ननु कृष्णे रुचि-निर्भरात् स्वयं-रूपतां प्रतिपादयसि, नृसिंहादौ तु तद्-अभावात् स्वांशताम् इति कथम् इति चेत्? तत्राह—एकत्वम् इति । यदि स्वरूप-भेदमभ्युपेत्य तथा तथा ब्रूयां, तर्हि तवायमाक्षेपः स्यात्, न च तथास्तीत्य् अचिन्त्य-शक्तितस् तथा तथा भावस् तस्यैकस्यैव वाचनिक इति नाक्षेपावकाशः ॥९३॥
तत्रैकत्वेऽपि पृथक् प्रकाशिता, यथा श्री-दशमे [भा।पु। १०.६९.२]—
**
चित्रं बतैतद् एकेन वपुषा युगपत् पृथक् ।
गृहेषु द्व्य्-अष्ट-साहस्रं स्त्रिय एक उदावहत् ॥९४॥ इति ।
बलदेवः-** “चित्रम्” इति शुकोक्तिः । एकः कृष्ण एकेन वपुषा युगपद् एव पृथक् पृथक् उदावहदित्य् उक्तेर् एकत्वे सत्येव पृथक् प्रकाशिता सिध्यति ॥९४॥
पृथक्त्वेऽप्य् एक-रूपतापत्तिः, यथा पाद्मे
स देवो बहुधा भूत्वा निर्गुणः पुरुषोत्तमः ।
एकीभूय पुनः शेते निर्दोषो हरिर् आदिकृत् ॥९५॥ इति ।
बलदेवः- स देव इति । बहुधाभूत्वा एकीभूयेत्य् उक्तेः पृथक्त्वेऽप्य् एक-रूपता अचिन्त्य-शक्तितः सिध्यति ॥९५॥
एकस्यैव अंशांशित्वं विरुद्धशक्तित्वं च । यथा श्री-दशमे [भा। १०.४०.७]—
अजन्ति त्वन्-मयास् त्वां वै बहु-मुर्त्य्-एक-मूर्तिकम् ॥९६॥ इति ।
बलदेवः- “यजन्ति” इत्य् अक्रूरोक्तिः एकस्यैव अंशांशित्वे उदाहरणम् । एक-मूर्तिकम् इति—अंशित्वं, बहु-मूर्तीति—अंशत्वं, तवैकस्यैव सिध्यति ॥९६॥
कौर्मे च—
अस्थूलश् चानणुश् चैव स्थूलोऽणुश् चैव सर्वतः ।
**अवर्णः सर्वतः प्रोक्तः श्यामो रक्तान्त-लोचनः ।
ऐश्वर्य-योगाद् भगवान् विरुद्धार्थोऽभिधीयते ॥९७॥
बलदेवः- **विरुद्ध-शक्तित्वम् उदाहरति, अस्थूलश् चेति सार्ध-द्वाभ्याम् । भगवतः पर-ब्रह्मणो विज्ञानानन्द-वस्तुत्व-श्रवणात् स्थूलत्वाणुत्वाभ्यां जड-धर्माभ्यां स भगवान् विरहितः, तथापि ताभ्यां स्वरूप-निष्ठाभ्यां विशिष्टः सोऽभिधीयते; सहस्र-शीर्षत्व-त्रिविक्रमत्वावस्थायां स्थूलत्वस्य, जीवान्तर्यामितादशायाम् अणीयस्त्वस्य च श्रवणात् । तद्-वस्तुत्व श्रवणाद् एव वर्णेन श्यामत्वादिना विरहित इत्य् अवर्णः प्रोक्तः, “मेघाभं वैद्युताम्बरम्” [गो।ता।, पू। १०] “स माम् ऋषभो लोहिताक्षः” इति श्रवणात् श्यामो रक्तान्त-लोचनश् च सोऽ भिधीयते । कुत एवं? तत्राह—ऐश्वर्येति_—_अचिन्त्य-शक्ति-सम्बन्धाद् इत्य् अर्थः । मिथो विरुद्धाः, अर्थाः—गुणाः, यस्मिन् सः ॥९७॥
**तथापि दोषाः परमे नैवाहार्याः कथञ्चन ।
गुणा विरुद्धा अप्यते समाहार्याः समन्ततः ॥९८॥ इति ।
बलदेवः- **एवं तद्-योगाद् एव अनित्यत्वम् अपि12 तत्र स्वीकार्यं? तत्राह—तथापीति । दोषाः_—जन्म-परिणामादयः । गुणा इति—_ते चोक्ता एव ॥९८॥
इति इन् सोमे वेर्सिओन्स्।
श्री-षष्ट-स्कन्धे च मिथो विरुद्धाचिन्त्य-शक्तित्वं यथा गद्येषु [भा।पु। ६.९.३४-३७]—
**दुरवबोध इवायं तव विहार-योगो यद् अशरणोऽशरीर इदम् अनवेक्षितास्मत्-समवाय आत्मनैवाविक्रियमाणेन स-गुणम् अगुणः सृजसि हरसि पासि ॥९९॥
बलदेवः- **वृत्रासुराद्-अतिभीताः सुराः स्वत्राणाय हरिं स्तुवन्ति, दुरवबोध इवेति । अयं तव, विहार-योगः_—_क्रीडासम्बन्धः, दुरवबोध इव _—त्वद्-अचिन्त्य-शक्ति-वेदिभिर् अचिन्त्यतया सुबोधोऽपि तद्-अन्यैस् तार्किकैर् युक्त्य्-एक-बलैर् दुर्बोध इत्य् अर्थः । यत् त्वम् अगुणोऽतोऽशरीरोऽशरणोऽनवेक्षितास्मत्-समवायश् चाविक्रियमाणेनात्मना इदं स-गुणं विश्वं सृजसीत्यादि । समवायः—_साहायम् । स-गुणः खलु कुलालादिर् धरादि-शरणः शरीर-चेष्टावान् दण्ड-चक्रादि-सहायः स-गुणं घटादि सृजति, श्रमादि-विकारं लभमानश् च दृश्यते; तद्-विलक्षणस्य विश्वं सृजतस् तव तद्-विहारो दुर्बोधः । अत्र त्रिशक्तिको हरिर् विश्व-हेतुः, तत्र क्षेत्र-ज्ञ-प्रकृतिमतो विश्वात्मना परिणामेपि तच्-छक्तिक-रूपात् अच्यावात् पराख्य-शक्तिकस्य सङ्कल्पेनैव तादृश-परिणामे निमित्तत्वात् तव दुर्बोधत्वं सुस्थम् ॥९९॥
**अथ तत्र भवान् किं देव-दत्तवद् इह गुण-विसर्ग-पतितः पारतन्त्र्येण स्वकृत-कुशलाकुशलं फलम् उपाददाति? आहो स्विद् आत्माराम उपशम-शीलः समञ्जस-दर्शन उदास्ते? इति ह वाव न विदामः ॥१००॥
बलदेवः- **विश्वं पासीत्य् उक्तं, तत्-पालकत्वम् अपि दुर्बोधम् इत्य् आह—अथेति । तत्र भवानिति_—पूजार्थम् । देवदत्तः—प्राकृतो जनः, यथा गृहक्षत्रादि निर्माय मित्रोदासीन-शत्रु-गहने तस्मिन् निविश्य स्वकृत-धर्माधर्म-फलं सुख-दुःखम् अनुभवति, तथैव भवानपि, गुण-विसर्गे—देवासुर-युद्धादि-लक्षणे, पतितः, पारतन्त्र्येण—देवादि-विषयक-कृपाधीनतया, स्वकृतं—स्वकीय-देवादिकृतं, कुशलाकुशल-फलं—सुख-दुःखम्, उपाददाति—आत्मीयत्वेन स्वीकरोति? आहोस्वित्—किं वा, समञ्जस-दर्शनः अप्रच्युत-शक्तिकः, आत्मारामः, उदास्ते—_तत्र तत्र साक्षी सन् सुख-दुःखश् च तन्नोपाददाति? इति न विद्मः । अहूनां दुष्टानां विमर्दनात् विश्व-पालकत्वम् अर्ध-कुक्कुटीग्रस्तं, सति च तादृशे तत्-पालने साक्षितं च दुर्घटम् इति ॥१००॥
**न हि विरोध उभयं भगवत्य् अपरिगणित-गुण-गणे ईश्वरे अनवगाह्य-माहात्म्येऽर्वाचीन-विकल्प-वितर्क-विचार-प्रमाणाभास-कुतर्क-शास्त्र-कलितान्तः-करणाशय-दुरवग्रह-वादिनां विवादानवसरे ॥
बलदेवः- **एवं लोक-दृष्ट्या विरोधमापाद्य अचिन्त्य-शक्ति-दृष्ट्या तद्-अभावमापादयन्ति, नेति । त्वयि विरोधो न, यस्मात्, उभयं_—विश्वात्मकत्व-दुष्ट-विमर्दकत्व-पूर्वक-सत्-पालकत्व-रूपं विश्व-सृष्टि-कार्यं13, तत्र तत्रौदासीन्य-रूपम् आत्माराम-कार्यश् च, इत्य् उभयं, युज्यते इत्य् अर्थः । न च लोक-दृष्टान्तेन त्वयि तत्-तच्-छङ्का युक्ता कर्तुम्, अचिन्त्य-महिमत्वात्, इत्य् अविरोधोपपादाय विशेषणानि; तेषु, भगवति—नित्य-प्रशस्तैश्वर्यादि-षट्के, अपरिगणित-गुण-गणे—असङ्ख्यात-सत्य-सङ्कल्पत्व-भक्त-वत्सलत्वादि-धर्मके, ईश्वरे—सर्व-प्रशास्तरि, अनवगाह्य-माहात्म्य—भक्ति-हीन-दुर्ज्ञेय-महिमनि; इति सत्य-सङ्कल्पत्वात् तादृश-विश्व-सृष्टयापि श्रमलेशाभावः, भक्त-वत्सलत्वात् तद्-विद्रोहि-विमर्दकत्वम्, ईश्वरत्वात् दुर्दान्त-दण्डधर्तृत्वं, भगवच्-छब्द-प्राप्तात् नित्य-लक्ष्मीकत्वात् कृत्स्न-विरक्तिकत्वाच् च नात्मनि तत्-तन्-मननम् इति । ननु ममेदृशतां केचित् पण्डिता न सहन्ते? तत्राह । अर्वाचीनाः—वस्तु-स्वरूपासंस्पर्शिनः, विकल्पादयो येषु, तादृशैः स्वोत्प्रेक्षितैः शास्त्रैः, कलितं ग्रस्तं, यत् अन्तः-करणं, तत्र, आशेरते—शयानास् तिष्ठन्ति, ये दुरवग्रहाः—हठाः, तैर् एव, वादिनां—विवदमानानाम्, विवादस्य, अनवसरे—अगोचरे इत्य् अर्थः । तेषु, विकल्पः —“एवं वा एवं वा” इत्य् आकारः, वितर्कः—“किम् अत्र युक्तम्” इत्य् अनिश्चयः, विचारः—_“इत्थम् एव” इति निश्चयः, तत्र प्रमाणाभासाः, कुत्सितास् तर्का इति ॥
विश्व-स्रष्टृ-कार्यं इन् मोस्त् एदितिओन्स् wहिछ् सेएम्स् मोरे रेअसोनब्ले।
उपरत-समस्त-माया-मये केवल एवात्म-मायाम् अन्तर्धाय को न्व् अर्थो दुर्घट इव भवति स्वरूप-द्वयाभावात् सम-विषम-मतीनां मतम् अनुसरसि यथा रज्जु-खण्डः सर्पादि-धियाम् ॥१०१॥ इति ।
बलदेवः- ननु काचिद् इन्द्रजाल-विद्येव मयि प्रतारिणी मायास्ति, तया तत्-तद्-भाव-प्रतीतिः अवास्तवी इति चेत्? तत्राह—उपरतेति—“याथातत्थ्यतोऽर्थान् व्यदधात्” [ई।उ। ८] इति श्रुतेः सत्य-कार्य-हेतुत्वात् सत्यैव तव शक्तिः, न त्व् इन्द्रजाल-तुल्येत्य् अर्थः । एवं चेत् तर्ह्य् आत्माराम इत्याद्य् उक्तिर् भवतां बाधितार्था? तत्राह—केवल एवेति—विशुद्ध-विज्ञानमये गुण-गुणि-भावेनागृहीते इत्य् अर्थः । एवं तर्हि “दुरवबोध इवायं तव विहार-योगः” इत्याद्य् उक्तिर् भवतां बाधितार्था? तत्राह—आत्म-मायाम् इत्य्-आदि । आत्म् अभूता या माया—अचिन्त्या इच्छा-शक्तिः, ताम्, अन्तर्धाय—मध्ये-कृत्वा, को न्वर्थे दुर्घट इव? अपि तु सर्वः सुघट इत्य् अर्थः; “आत्म-माया तद्-इच्छा स्यात्” इति शब्द-महोदधेः । ननु भो देवाः! मम किं स्वरूप-द्वयं भवद्भिर् अभिमतं, स-गुणं शान्तोदितम् एकं, निर्गुणं नित्योदितं द्वितीयमिति? तत्राह—स्वरूप-द्वयाभावाद् इति । एक एव त्वम् अव्यक्त-विशेषः केवल उच्यसे, व्यक्त-विशेषस् तु भगवान्, इति एकस्यैव भाव नाभेदेन द्वेधा भातिः । एवम् आह—सूत्रकारः—“गति-सामान्यात्” [ब।सू। १.१.१०] इति । अस्यार्थः—परं तत्त्वम् एकम् एव कुतः? सर्वेषु वेदान्तषु, गतेः—ज्ञानस्य, सामान्यात्—ऐक-रूप्याद् इति । अयं भावः—“चयस् त्विषाम् इत्य् अवधारितं पुरा ततः शरीरीति विभाविताकृतिम् । विभुर् विभक्तावयवं पुमानिति क्रमादमुं नारद इत्य् अबोधि सः ॥” [शि।व। १.२] इत्य् अत्र एकस्य देवर्षेस् तथा तथा प्रतीतिर् दूरत्वान्तिकत्व-निबन्धना यथा वर्णिता, तथैव एकस्य तत्त्वस्य ज्ञान-भक्ति-निबन्धना केवलत्व-भगवत्त्व-रूपा सेति, नास्ति वस्तुनि भेद-लेश इति । ननु चेद् एवं, तर्हि नानामतानि कस्माद् इति चेत्? त्वत्त एव तानीत्याह—समेति । उच्चावच-बुद्दीनां मतानि त्वम् एवाज्ञातयाथात्म्यः, अनुसरसि—भासयसि, तेषु तत्-तन्-मतानीत्य् अर्थः । रज्जुर् यथा अज्ञातयाथात्म्य सर्प-दण्ड-धारा-मालादि-बुद्धीनां हेतुः, “भवन्ति भावा भूतानां मत्त एव पृथग्-विधाः ।” [गी १०.५] इति त्वद् उक्तेर् इति ॥१०१॥
अत्र कारिकाः—
विना शरीर-चेष्टत्वं विना भूम्यादि-संश्रयम् ।
**विना सहायांस् ते कर्माविक्रियस्य सुदुर्गमम् ॥१०२॥
बलदेवः- **गद्यार्थान् कारिकाभिर्व्याख्याति, विना शरीरेत्यादिभिः । अशरण इत्य् अस्य भूम्यादीति, शरण-शब्दस्याश्रय-वाच्यत्वं, “शरणं गृह-रक्षित्रोः” इत्य् अमरः । अनवेक्षितेत्यस्य विना सहायानिति । विहार-योगत्यस्य कर्मेति । सुदुर्गमं—दुरवबोधम् इत्य् अर्थः ॥१०२॥
उक्तो गुण-विसर्गेण देवासुर-रणादिकः ।
तस्मिन् पतित आसक्तः पारतन्त्र्यं तु तद् भवेत् ।
**यदाश्रितेषु देवेषु पारवश्यं कृपाकृतम् ॥१०३॥
बलदेवः- **गुण-विसर्ग-पदं व्याचष्टे, उक्त इति ॥१०३॥
**तेन स्वकृतम् आत्मीय-कृतं शुभ-शुभेतरत् ।
सुख-दुःखादि-रूपं किं फलं स्वीकुरुते भवान् ॥१०४॥
बलदेवः- **स्व-कृत-पदं व्याख्याति, आत्मीय-कृताम् इति—आत्मीयैर् देवैः कृतम् अर्जितं, यत् शुभाशुभ-फलं सुख-दुःखं, तत् स्वकीयं मनुते इत्य् अर्थः ॥१०४॥
**आत्मारामतया किं वा, तत्रोदास्तेतराम् इति ।
न विद्मः किन्तु नैवेदं विरुद्धम् उभयं त्वयि ॥१०५॥
बलदेवः- **एतच् च न सम्भवेद् इत्य् आह—आत्माराम तयेति । एवं संशय अथ विरुद्ध-गुण-शालिन्य्-अविचिन्त्य-वस्तुनि त्वयि तद्-उभयं सम्भवेद् इति सिद्धान्तयति, किन्त्वित्य्-आदि ॥१०५॥
तत्र हेतुर् भगवतीत्य् आदि प्रोक्तं पद-द्वयम् ।
तथैवेश्वर इत्य् आदि-पदानां पञ्चकं मतम् ॥१०६॥
भगवत्त्वेन सार्वज्ञ सद्-गुणत्वं तथान्यतः ।
**ब्रह्मत्वं केवलत्वेन लभ्यते तत्र च स्फुटम् ॥१०७॥
बलदेवः- **ननु सप्तभिः पदैः किं किमागतं? तत्राह—भगवत्त्वेनेत्यादि । अन्यत इति—अपरिगणितेत्यादिकात् द्वितीयात् पदात्, तत्-प्रभृति-पद-पञ्चकात् वा, सद्-गुणत्वं—भक्त-वात्सल्य-तद्-आर्ति-परिहर्तृत्व–दुष्ट-विनाशित्वादि–सद्-गुणत्वम् इत्य् अर्थः । केवलत्वेन—सप्तम-पदार्थेन तु, ब्रह्मत्वम्—अनभिव्यक्त-सर्वज्ञत्वादि-लक्षणं, लभ्यते इत्य् अर्थः ॥१०६-१०७॥
**यद्य् अपि ब्रह्मता-हेतोः सर्वत्र स्यात् तटस्थता ।
तथाप्य् आदि-गुण-द्वय्या भवेद् भक्तानुकूलता ॥१०८॥
बलदेवः- **ननु केवलत्वं चेत् स्वरूप-धर्मस् तर्हि देवेषु भक्तेष्व् अपि तस्य, तटस्थता—उदासीनत्वं14, स्यात्? तत्राह—तथापीति । आदिगुण-द्वय्या—भगवतीत्यादि-विशेषण-द्वयाधि-गतया । तस्यापि तद् यस्य केवलत्ववत् स्वरूप-धर्मत्वाद् इति भावः ॥१०८॥
औदासीन्यं इन् सोमे वेर्सिओन्स्।
नन्व् एकस्य स्वरूपस्य द्वै-रूप्यं कथम् एकदा ।
**तत्राह अर्वाचीनेति तादृशानां हि वादिनाम् ।
विवादस्यानवसरे तस्य तावद् अगोचरे ॥१०९॥
बलदेवः- **ननु असाधारणस्य केवलत्वस्य व्यावर्तकत्वात् भगवत्तत्त्वात् ब्रह्मतत्त्वम् अन्यत् स्यात्? इत्याशङ्कयते, नन्व् इति । समाधत्ते, तत्रा हेत्यादिना ॥१०९॥
**अतोऽचिन्त्यात्म-शक्तिं तां मध्ये कृत्यात्र दुर्घटः ।
को न्व् अर्थः स्याद् विरुद्धो ऽपि तथैवास्या ह्य् अचिन्त्यता ।
सा च नानाविरुद्धानां कार्याणाम् आश्रयान् मता ॥११०॥
बलदेवः- **वस्तु-सिद्धान्तं दर्शयति, अतोऽचिन्त्येति । को न्वर्थ इति—सर्व-कर्तृत्व–तद्-उदासीनत्व-रूपोऽर्थः, मिथो विरुद्धोऽपि दुर्घटो नेत्य् अर्थः । तथैव—स्वरूपवत्, अस्याः—शक्तेः, अचिन्त्यता स्यात् । सा चेति । सा—शक्तेर् अचिन्त्यता, मता—अनुमितेत्य् अर्थः ॥११०॥
श्रुतेस् तु शब्द-मूलत्वात्" इति च ब्रह्म-सूत्र-कृत् ।
अचिन्त्याः खलु ये भावा न तांस् तर्केण योजयेत् ।
**इति स्कान्द-वचस् तच् च मण्यादिष्व् अपि दृश्यते ॥१११॥
तादृशीं च विना शक्तिं न सिध्येत् परमेशता ।
यतश् चानवगाह्यत्वेनास्य माहात्म्यम् उच्यते ॥११२॥
बलदेवः- **न केवलम् अनुमानम् एव तत्र प्रमाणम्, अपि तु श्रुत्यादि चास्तीत्याह—श्रुतेस्त्व् इति । अस्यार्थः—लौकिके कर्तरि कुलाल-वर्धक्यादौ ये दोषा विकार-खेदादयस् ते परमात्मनि कर्तरि न स्युः; कुतः? श्रुतेः—सर्व कुर्वन्नपि परमात्मा विकारादि-दोषैर् अस्पृष्ट इति “स विश्व-कृद् विश्व-विद् आत्म-योनिः” [श्वे।उ। ६.१६] “निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।” [श्वे।उ। ६.१९] इति श्रवणात् । ननु बाधितमर्थः श्रुतिः कथम् आह—इति चेत्? तत्राह—शब्देति—अचिन्त्यार्थस्य शब्द-प्रमाणैकवेद्यत्वाद् इत्य् अर्थः । अत्रार्थे स्मृतिम् उदाहरति, अचिन्त्या इति । प्राकृतेषु मण्यादिषु चेत् सा शक्तिः, किम् उत परेशे? इति कैमुत्यं सिध्यतीति ॥ यतश् चेति—अचिन्त्य-शक्तित इत्य् अर्थः । स्फुटम् अन्यत् ॥१११-११२॥
अज्ञानम् इन्द्रजालं वा वीक्ष्यते यत्र कुत्रचित् ।
अतो न पारमैश्वर्यं तेन तस्य प्रसिध्यति ॥११३॥
तच् च तस्य15** न हीत्य् आह स्फुटश् चोपरतेत्य् अदः ।**
“तच् च तस्य” इत्य् अत्र “तच् च तत्र” इति पाठान्तरम् ।
**तथा भगवतीत्य् आदि-पदानां षट्-तयस्य च ।
भवेत् प्रयोग-तात्पर्यम् अत्र निष्फलम् एव हि ॥११४॥
बलदेवः- **न चेश्वरस्य अज्ञानं कुहकं वा शक्यं वक्तुम् इत्य् आह—अज्ञानम् इति । रज्जोर् अज्ञानं यस्यास्ति, तत्राज्ञाता रज्जुः सर्पादिकम् उद्भासयति, ऐन्द्रजालिके पुंसि स्थिता इन्द्रजाल-विद्या लोकान् प्रति नानार्थान् प्रत्याययति, न हि तेन तया च रज्जु-खण्डस्य ऐन्द्रजालिकस्य च ईश्वरता सिध्यति, इति तद्-द्व्यम् ईश्वरस्य न वक्तव्यम् । कुतः? उपरतेत्यादि-विशेषणाद् इत्य् अर्थः ॥ तथ इत्य्-आदि—तत्र तद्-द्वये स्वीकृते, भगवतीत्यादीनां षट्-तयस्य प्रयोग-तात्पर्यम्, निष्फलं—व्यर्थं, भवेत्; किं व्यावर्तयितुं तानि विशेषणानि कृतानि? इत्य् अर्थः ॥११३-११४॥
**तस्मान् न शास्त्र-युक्तिभ्याम् उभयं तद् विरुध्यते ।
बलदेवः- **निगमयति, तस्माद् इति । शास्त्र-युक्तिभ्याम्—अचिन्त्य-शक्ति-निरूपकाभ्याम् इत्य् अर्थः, तत् उभयं—विश्व-पालकत्वं तत्रौदासीन्यश् च, न विरुध्यते ॥
तथाप्य् उच्चावच-धियाम् अनेवं-तत्त्व-वेदिनाम् ।
**मतानुसारतो भासि रज्जुवत् त्वं तथा तथा ॥११५॥
बलदेवः- **चेद् एवं मद् याथात्म्यं, तर्हि नानामतानि कुतः? तत्राह—तथाप्य् उच्चावचेति—व्याख्यातं प्राक् ॥११५॥
ननु भोः केवलं ज्ञानं ब्रह्म स्याद् भगवान् पुनः ।
नानाधर्मेति तत्रापि स्वरूप-द्वयम् ईक्ष्यते ॥
इति प्राहुः स्वरूपति तत्-स्वरूपस्य नैवहि ।
कदापि द्वैतम् एकस्य धर्म-द्वयम् इदं ध्रुवम्16** ॥११६॥**
“द्वैतम् एकस्य धर्म-द्वयम् इदं ध्रुवम्” इत्य् अत्र “द्वैतम् एकस्याव्यक्त्याव्यक्त्या भिदाद्वयम्” इति पारान्तरम् ।
**बलदेवः- **पुनराशङ्क्य समादधाति, ननु भो इत्य्-आदिना ॥ इति प्राहेति—इति पूर्वपक्षे प्राप्ते सिद्धान्तमाहेत्य् अर्थः । धर्म-द्वयम् इति—यस्य भगवत्त्वं, तस्यैव केवलत्वं च, इत्य् एकस्यैव धर्म-द्वयम् इदं, ध्रुवं—निश्चितम् । इत्थश् च केवलाद्वैतिनाम् इव ब्रह्म-स्वरूपं शास्त्र-कृतां नाभिमतं, किन्तु “चयस् त्विषाम्” इति न्यायेन एकस्यैव धर्म-द्वयम् इत्य् अर्थः ॥११६॥
**ततो विरोधस् तच्-छक्ति-विलासानां यद् ईक्ष्यते ।
तद् एवाचिन्त्यम् ऐश्वर्यं भूषणं न तु दूषणम् ॥११७॥
बलदेवः- **तत इति—जगत्-कर्तृत्व–तत्-पालकत्व–तद्-औदासीन्य-रूपी यो विरोधस् तच्-छक्तीनां दृश्यते, तद् एव पारमैश्वर्यम् अचिन्त्य-शक्ति-कृतं, भूषणम् एवेति—निर्विशेषवाद-गन्धोऽपि नास्तीति न प्राचा सार्धं विरोध-लेशश् च ॥११७॥
**इयम् एव विरोधोक्तिस् तृतीयेऽपि च दृश्यते ।
बलदेवः- **मिथो-विरुद्धाचिन्त्य-शक्तिकत्वं विधान्तरेणाह—इयम् एवेति ॥
**[भा।पु। ३.४.१६] इति—
कर्माण्य् अनीहस्य भवोऽभवस्य ते
दुर्गाश्रयो ऽथारि-भयात् पलायनम् ।
कालात्मनो यत् प्रमदा-युताश्रमः
स्वात्मन्-रतेः खिद्यति धीर् विदाम् इह ॥११८॥
बलदेवः- **कर्माणीति उद्धव-वाक्यं, स्फुटार्थम् । इह एषु कर्मादिष्व् इत्य् अर्थः ॥११८॥
तत् तन् न वास्तवं चेत् स्यात् विदां बुद्धि-भ्रमस् तदा ।
**न स्याद् एवेत्य् अचिन्त्यैव शक्तिर् लीलासु कारणम् ।
यथा यथा च तस्येच्छा सा व्यनक्ति तथा तथा ॥११९॥
बलदेवः- **तत् तद् इति—यद्य् एतत् मिथो-विरुद्धं वस् तु वास्तवं न स्यात्, तदा तत्त्व-विदाम् एषां बुद्धि-भ्रमो न स्यात्, अतस् तादृश तत्-सम्पादिका अचिन्त्य-शक्तिर् एव सिद्धेति ॥ स्फुटम् अन्यत्॥११९॥
एवं प्रासङ्गिकं प्रोच्य प्रकृतार्थो निरूप्यते ।
ननु यः प्रकृति-स्वामी योऽन्तर्यामी च पूरुषः ।
**ताभ्याम् अधिकता नास्य कंसारेर् उपपद्यते ॥१२०॥
बलदेवः- **एवम् इति—नित्याविर्भूत-निखिल-शक्तिकत्व-हेतुके कृष्णस्य स्वयं-रूपत्वे निर्णये, प्रसङ्गागतम् एकत्वेऽपि पृथक्त्वादिकं निरूप्य, इदानीं प्रकृतं स्वयं-रूपत्वं निरूप्यते इत्य् अर्थः ॥ तथा हि, नन्व् इति । प्रकृति-स्वामी—कारणार्णवशायी पूरुषः, अन्तर्यामी च—गर्भोदकशायी, ताभ्यामधिकः कृष्णो नेत्य् अर्थः ॥१२०॥
**तथा हि श्री-प्रथमे [भा।पु। ३.१.१-५]—
जगृहे पौरुषं रूपं भगवान् महद्-आदिभिः ।
सम्भूतं षोडश-कलम् आदौ लोक-सिसृक्षया ॥१२१॥
बलदेवः- **तत्र कारणार्णवशायिनम् आह—जगृहे इति । आदौ—पूर्वं, भगवान्—परमव्योमाधीशः, पौरुष—पुरुषाकारं पुरुषाख्यं वा, रूपं—विग्रहं, जगृहे—प्रकटितवान् । केन हेतुना? इत्य् आह—महद्-आदिभिर् लोक-सिसृक्षया । कीदृशं रूपं? सम्भूतं—सम्यक् सत्यं; यद् वा, महद्-आदिभिर् लोक-सिसृक्षया, सम्भूतं युक्तम् । पुनः कीदृक्? षोडश कलाः—शक्तयः, यत्र तत् ॥१२१॥
यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः ।
नाभि-ह्रदाम्बुजाद् आसीद् ब्रह्मा विश्वसृजां पतिः ॥१२२॥
यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः ।
तद् वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥१२३॥
बलदेवः- गर्भोदशायिनम् आह—यस्येति । यस्य—परमव्योमाधीशस्य, अम्भसि—गर्भोद-समुद्रे, प्रद्युम्न-वपुषा शयानस्य, नाभि-ह्रदाम्बुजात्—ब्रह्मासीद् इत्य् अन्वयः ॥ रूपं विशिनष्टि, यस्य—रूपस्य विग्रहस्य, अवयव-संस्थानैः—पादाद्य्-अङ्ग-सन्निवेशैः, तत्-सदृशतया, लोक-विस्तरः “पातालम् एतस्य हि पादमूलम्” [भा।पु। २.१.२६] इत्य्-आदि वाक्यैः, कल्पितः—स्थूलधियां मनः-स्थैर्याय उपदिष्ट इत्य् अर्थः । तत् भगवतो रूपं, विशुद्धं—जाड्यांशेनापि रहितं, सत्त्वं—स्वप्रकाशता-शक्ति-रूपम्, अत ऊर्जितं—बलवत्, माया-निवासकम् इत्य् अर्थः । तमो-रजोभ्याम् असम्पृक्तं मायिकं सत्त्वं तद् इति तु वदन्तो भ्रान्ता एव, तद्-असम्पृक्तस्य तत्-सत्त्वस्याभावात्, “अन्योन्य-मिथुनाः सर्वे सर्वे सर्वत्र-गामिनः ।” [आगमे] इति स्मरणात् ॥१२३॥
**पश्यन्त्य् अदो रूपम् अदभ्र-चक्षुषा
सहस्र-पादोरु-भुजाननाद्भुतम् ।
सहस्र-मूर्ध-श्रवणाक्षि-नासिकं
सहस्र-मौल्य्-अम्बर-कुण्डलोल्लसत् ॥१२४॥
बलदेवः- **सूक्ष्मधियस् तु तद् एव रूपं ध्यायन्तीत्याह—पश्यन्तीति । अदभ्र-चक्षुषा—ज्ञान-नेत्रेण । सहस्र-शब्दोऽत्रासङ्ख्यातवाची, “विश्वतश् चक्षुः” [श्वे।उ। ३.३; म।ना।उ। २.२] इति लिङ्गात् ॥१२४॥
**एतन् नानावताराणां निधानं बीजम् अव्ययम् ।
यस्यांशांशेन सृज्यन्ते देव-तिर्यङ्-नरादयः ॥१२५॥ इति ।
बलदेवः- **तस्यावतारित्वम् आह—एतन्नानेति । निधानम्—अधिकरणं17, रूपान्तराणां वैदूर्य इव । यस्यांशो विरिञ्चिः तस्यांशो मरीच्य्-आदिः, तेन, देवादयस्तद्-उपाधयः, सृज्यन्ते—जन्यन्ते ॥१२५॥
“अधिकरणम्” इत्य् अत्र “आदिकारणम्” इति पाठान्तरम्।
अत्र कारिकाः—
आदौ सर्वावताराग्रे भगवान् पुरुषोत्तमः ।
महत्-तत्त्वादिभिः कृत्वा भुवनानां सिसृक्षया ॥
पौरुषं पुरुषाकारम् अथवा पुरुषाभिधम् ।
**रूपम् आनन्द-चिन्-मूर्ति जगृहे प्रादुराचरत् ॥१२६॥
बलदेवः- **पद्य-पञ्चकं कारिकाभिर् व्याचष्टे, आदावित्य्-आदिभिः । भगवान्—पर व्योमाधीशः ॥१२६॥
**अर्थः सम्भूत-शब्दस्य सम्यक्-सत्यम् इतीरितः ।
सम्भूतं युक्तम् इति वा भुवनानां सिसृक्षया ।
षोडशैव कला यस्मिंस् तत् षोडश-कलं मतम् ॥१२७॥
बलदेवः- **अर्थः सम्भूतेति—“भूतं क्षमादौ पिशाचादौ जन्तौ क्लीबं18 त्रिषूचिते । प्राप्ते वृत्ते समे सत्ये देवयोन्यन्तरे तु ना ।” इति मेदिनी । सम्भूतं युक्तम् इति वेति—“सम्भूयाम्भोधिम् अभ्येति महानद्या नगापगा ।” [शि।व। १.१००] इति माघ-काव्ये प्रयोगात् ॥१२७॥
क्लीबे इन् सोमे वेर्सिओन्स्।
ताः षोडश-कलाः प्रोक्ता वैष्णवैः शास्त्र-दर्शनात् ।
**शक्तित्वेन च ता भक्ति-विवेकादिषु सम्मताः ॥१२८॥
श्री-भूः कीर्तिर् इला लीला कान्ति-विद्येति सप्तकम् ।
विमलाद्या नवेत्येता मुख्याः षोडश शक्तयः ॥ इति ॥१२९॥
बलदेवः- **ताः कला नामभिर् निर्दिशति, श्रीर् इत्य्-आदिभिः । विमलाद्यास् तु महा-वैकुण्ठ-वर्णने व्यक्ती भविष्यन्ति, ताश् च—“विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च । प्रही सत्या तथेशानानुग्रहेति नव स्मृताः ॥१२९॥
**तद् इदं पौरुषं रूपं त्रिविधं पूर्वम् ईरितम् ।
तत्र प्रोच्य महत्-स्रष्ट-रूपम् अण्ड-स्थम् उच्यते ॥१३०॥
बलदेवः- **पूर्वम् ईरितम् इति—“विष्णोस् तु त्रीणि रूपाणि” इत्य्-आदिना । तत्रेति । “जगृहे पौरुष रूपम्” इति पद्येन, महत्-स्रष्ट-रूपं—कारणोदशयं, प्रोच्य, “यस्याम्भसि” इत्य्-आदिभिः, अण्डस्थं—गर्भोदशय-रूपम्, उच्यते इत्य् अर्थः ॥१३०॥
यस्याजाण्ड-प्रवेशेन शयानस्य तद् अम्भसि ।
**नाभि-ह्रदाम्बुजाद् आसीद् इति सुव्यक्तम् एव हि ॥१३१॥
यस्य नाभि-ह्रदाब्जस्यावयवाः कर्णिकादयः ।
संस्थानान्य् अत्र विन्यास-विशेषास् तैस् तु कल्पिताः ।
लोकानां सर्व-जगतां विस्तारो विततिः किल ॥१३२॥
बलदेवः- **यस्येति—विग्रहस्येति व्याख्यातं प्राक्; ग्रन्थ-कृद्भिस्तु, यस्य—नाभि-ह्रदाम्बुजस्य, इति व्याख्यायते, फलं तु तुल्यं भाव्यम् । अन्यत् विस्फुटार्थम् ॥१३१-१३२॥
स शेते येन रूपेण तच् छुद्धं सत्त्वम् ऊर्जितम् ॥१३३॥
पश्यन्तीत्य्-आदि-पद्येन तद् एवेदं विशिष्यते ।
एतद्-रूपं तु नानावताराणाम् उदयास्पदम् ॥१३४॥
यथैकादशे [भा।पु। ११.४.२]—
भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानम् अवाप नारायण आदिदेवः ॥१३५॥
अत्र सार्ध-कारिका—
नारायणोऽत्र परम-व्योमेशानः19** स आत्मना । **
“व्योमेशानः” इत्य् अत्र “व्योमाधीशः” इति पाठान्तरम् ।
पुं-स्वरूपेण सृष्टैस् तैर् भूतैः20** सृष्ट्वा विराट्-तनुम् ॥ **
“सृष्टैस् तैर् भूतैः” इत्य् अत्र “सृष्ट्वा विराट् तनुम्” इति पाठान्तरम्
**विष्टः स्वांशेन तेनैव सम्प्राप्तः पुरुषाभिधाम् ॥१३६॥
बलदेवः- **तस्य पुरुषस्य अवतारित्वम् उदाहरति, भूतैर् इति आदिदेव-नारायणः—परमव्योमपतिः, आत्मना—प्रथम-पुरुष-वपुषा, सृष्टैः, भूतैर् विराजं पुरं निर्माय, तस्मिन्, स्वांशेन—द्वितीय-पुरुष-वपुषा, प्रविष्टः सन्, पुरुषाभिधानं—पुरुषावतार-सञ्ज्ञाम्, अवाप; स चोक्तानाम् अवताराणामवतारीति ख्यातम् इत्याशयः ॥
नारायणोऽत्रेत्यादिकारि कार्थस् तु स्फुटार्थः ॥१३५-१३६॥
प्रस्तुते तु किम् आयातम् इत्य् आशङ्कय निगद्यते21** । **
“निगद्यते” इत्य् अत्र “निरुप्यते” इति पाठान्तरम् ।
**सोऽस्य गर्भोदशयस्य विलासो यश् चतुर्भुजः ।
शेते प्रविश्य लोकाब्जं विष्ण्व्-आख्यः क्षीर-वारिधौ ॥१३७॥
बलदेवः- **प्रस्तुतेत्व् इति। एवं कारणोदशय-गर्भोदशययोर् वर्णनेन अवतारित्वकीर्तनेन च, प्रस्तुते—“ताभ्यां पुरुषाभ्यां कंसारेरधिकता नोपपद्यते” इत्याक्षेपे, किम् आयातम्? इत्याशङ्क्य, प्रतिवादिना ताभ्यां तस्य न्यूनता निगद्यते इत्य् अर्थः । तथा हि, सोऽस्येति—गर्भोद-शय्यस्यांश- क्षीराब्धिशयोऽनिरुद्धः, स एव देवाभ्यर्थनया कृष्णोऽभूद् इति चत सृणां कारिकाणां निष्कर्षः ॥१३७॥
अयं च स्थावरान्तानां सुरादीनां शरीरिणाम् ।
हृद्य्-अन्तर्यामितां प्राप्तो नाना-रूप इव स्थितः ॥१३८॥
“तृतीयं सर्व-भूत-स्थम्” इति विष्णोर् यद् उच्यते ।
**रूपं सात्व-ततन्त्रे तद् विलासो ऽस्यैव सम्मतः ॥१३९॥
बलदेवः- **तद् विलासोऽस्यैवेति । तत् रूपम्, अस्यैव—गर्भोदशयस्य, विलास इत्य् अन्वयः । तथा च कृष्णस्य स्वयं-रूपत्वं सुदूरापास्तम् इति ॥१३९॥
अतः क्षीराम्बुधेस् तीरे कृतोपस्थानकः सुरैः ।
एष एवावतीर्णोऽभूत्कृष्णाख्य इति युज्यते ॥१४०॥
अथात्र पूर्व-पक्षे वः सिद्धान्तः प्रतिपाद्यते ।
**यथा श्री-दशमे तेषु सुरेष्व् एवाशरीरगीः ॥१४१॥
बलदेवः- **एतं पूर्व-पक्षं निराकर्तुम् आह—अथेति । क्षीराधिपतिः देवैर् अभ्यर्थितः कृष्णोऽभूद् इति यद् उक्तं, तत् रभसाद् एव वाक्यार्थानवलोकनाद् इति भावेनाह—यथा श्रीति ॥१४१॥
[भा।पु। १०.१.२२]—
**वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः ।
जनिष्यते तत् प्रियार्थं सम्भवन्तु सुर-स्त्रियः ॥ इति ॥१४२॥
बलदेवः- **तां गिरम् आह—वसुदेवेति—क्षीराब्धिपतेर् वाक्यं सुरान् प्रति ब्रह्मानुवदति; “गिरं समाधौ गगने समीरितां निशम्य वेधास् त्रिदशान् उवाच ह । गां पौरुषीं मे शृणुतामराः पुनर् विधीयताम् आशु तथैव मा चिरम् ॥” [भा।पु। १०.१.२१] इत्य् अस्य वाक्यस्य पूर्व-वृत्तत्वात् । वसुदेव-गृहे पुरुषो जनिष्यते, न त्व् अहम् । तर्हि किं गर्भोदशायी? नेत्य् आह—पर इति । तर्हि किं कारणोदशायी? नेत्य् आह—भगवानिति । तर्हि किं परमव्योमाधीशः? नेत्य् आह—साक्षाद् इति । “स्वयं दासास् तपस्विनः” इतिवत् अन्यानपेक्ष-भगवत्त्वविशिटो यः, स साक्षाद्-भगवान् उक्तस् तद् गृहे भविष्यतीत्य् अर्थः । सुर-स्त्रियः—उपेन्द्र-परिकर-रूपाः, तत्-प्रियार्थ—तत्-प्रेयसीनां परिचर्यार्थम् इत्य् अर्थः ॥१४२॥
**अत्र कारिकाः—
पुरुषस्य परत्वेन साक्षाच् च भगवान् इति ।
एतस्यैव महत्-स्रष्टा सोऽंश इत्य् अभिविश्रुतः ॥१४३॥
बलदेवः- **पुरुषस्येति—पर-शब्देन पुरुष-शब्दस्य, साक्षाच्-छब्देन भगवच्-छब्दस्य विशेषितत्वात्, वसुदेव-गृहाविर्भूतस्य स्वयं-रूपत्व-सिद्धया, कारणोदशयस्य कृष्णांशत्वे सिद्धे, तद् अंशांशस्य क्षीराधिपतेः कृष्णत्वं ब्रुवन्तो भ्रान्ता इति ॥१४३॥
**अत्र श्री-स्वामि-पादानाम् अपि सम्मतिर् ईक्ष्यते ।
यद् अंशभागेनेत्य् अस्य व्याख्यां कुर्वद्भिर् एव तैः ॥
अंशेन भागो मायाया येनेत्य् अंशोऽस्य पूरुषः ।
भागो भजनम् इत्य् एवं पूर्णतास्य स्फुटीकृता ॥१४४॥
बलदेवः- **विद्वत्तमसम्मतिम् अत्राह22, अत्र श्रीति । अस्येति—कृष्णस्य ॥१४४॥
इहाह इन् सोमे वेर्सिओन्स्।
**किं च, तत्रैव देवक्या कृते स्तोत्रे निरूपितम् ॥१४५॥
बलदेवः- **किं चेति । तत्रैव—श्री-दशमे ॥१४५॥
यथा [भा।पु। १०.८५.३१] –
यस्यांशांशांश-भागेन विश्वोत्पत्ति-लयोदयाः ।
**भवन्ति किल विश्वात्मंस् तं त्व् आद्याहं गतिं गता ॥ इति ॥१४६॥
बलदेवः- **यस्येति_—_श्री-कृष्णस्य मत्-पुत्रस्य तव ॥१४६॥
अत्र कारिका—
यस्यांशः पुरुषस् तस्य स्याद् अंशः प्रकृतिस् तु सा ।
तस्या अंशा गुणास् तेषां भागेनास्योद्भवादयः23** ॥१४७॥**
“भागेनास्योद्भवादयः” इत्य् अत्र “भागनोस्योदयादयः” इति पाठान्तरम् ।
बलदेवः- अत्र कारिकेति । पुरुषस्य कृष्णांशत्वम् अनभिव्यक्त-निखिल-गुणक-कृष्णत्वं, प्रकृतेः पुरुषांशत्वं प्रकृति-शक्तिमत्-पुरुषैक-देशत्वं, पुरुषोपसर्जनी-भूतत्वं वेत्य् अर्थः ॥१४७॥
किं च, तत्रैव [भा।पु। १०.१४.१४]—
**नारायणस् त्वं न हि सर्व-देहिनाम्
आत्मास्य् अधीशाखिल-लोक-साक्षी ।
नारायणोऽङ्गं नर-भू-जलायनात्
तच् चापि सत्यं न तवैव माया ॥१४८॥ इति ।
बलदेवः- **कारणोदशयस्य गर्भोदकशयस्य च कृष्णांशत्वं ब्रह्म-वाक्येनाह—नारायण इति ।
जगत्-त्रयान्तोदधि-सम्प्लवोदे नारायणस्योदर-नाभि-नालात् । विनिर्गतोऽ जस् त्व् इति वाङ् न वै मृषा किं त्व् ईश्वर त्वन् न विनिर्गतोऽस्मि ॥ [भा।पु। १०.१४.१२]
इति पूर्व-पद्येन, “हे ईश्वर! त्वं मत्-पिता नारायणोऽसि, अतः पुत्रस्य मेऽपराधं क्षमस्व” इत्य् उक्त्या कृष्णस्य पुरुष-नारायणत्वम् उक्त्वा, अथ विधिर् अखण्डैश्वर्यं वीक्ष्य भीतस् तत् प्रतिषेधति, त्वं, नारायणः_—मत्पिता गर्भादशयः, न हीति । तत्र हेतु-गर्भं सम्बोधनम्, अधीशेति—ईशा ब्रह्माण्डान्तर्यामिणो मत्-पितृ-रूपास्तेभ्योऽधिक हे । यतस्त्वं सर्व-देहिनामात्मासि—समष्टि-जीवानां विरिञ्चीनां वैकुण्ठ-स्थितानां गरुड-विष्वक्सेनादीनाश् च नित्य-मुक्त-जीवानां तत्-तद्-रूपैः प्रकाशकः प्रवर्तकश्चासि; तेषाम् अखिल-लोकानां, साक्षी—साक्षाद् द्रष्टा, चासि; इति महा-नारायणः सर्वतोऽधिकस्त्वमसीत्य् अर्थः । यस्माद् एवम्, अतो नर-भू-जलायनाद्यः, नारायणः—प्रथमो द्वितीयश् च पुरुषः, स तव, अङ्ग—स्वांश इत्य् अर्थः । तच् च पुरुष-नारायणत्वं तव, सत्यमेव—पारमार्थिकं, न तु माया—_नानित्यम् इत्य् अर्थः । तथा च परस्परयापि त्वत् पुत्रत्वात् मेऽपराधः क्षन्तव्य इति भावः ॥१४८॥
**अत्र कारिकाः—
जगत्-त्रयेति पद्येन श्री-नारायणतां वदन् ।
कृष्णस्याथ स्वयं दृष्ट्वा परमैश्वर्यम् अद्भुतम् ॥
पर्यप्ताजाण्ड-नियुतं स्वयं भीति-भराकुलः ।
नारायणस् त्वं नेत्य् आह सापराध इवात्मभूः ॥१४९॥
बलदेवः- **पद्यं व्याचष्टे, जगद् इति । स्वयं भीतिभरेति_—_पूर्णस्य स्वांशतोक्तेर् भयोदयः ॥१४९॥
**हे अधीशेत्य् अजाण्डौघ-स्थितान्तर्यामि-पूरुषाः ।
ईशास् तेभ्योऽधिकोऽधीशो हि यतः सर्व-देहिनाम् ॥
समष्टीनां स-वैकुण्ठ-जीवानां त्वं प्रकाशकः ।
तेषाम् अखिल-लोकानां साक्षी द्रष्टाप्य् असि स्वयम् ॥१५०॥
अतो यो नरभू-नीरायनान्-नारायणः स्मृतः ।
स तेऽङ्गमंशः पूर्णस्य चिन्-माया-शक्ति-वैभवैः ॥
चातुष्पादिकम् ऐश्वयं तव तस्य तु पादिकम् ॥१५१॥
बलदेवः- **स्मृत इति_—“आपो नारा इति प्रोक्ताः” [वि।पु। २.४.६] इत्य्-आदि स्मृति-वाक्येनोक्त इत्य् अर्थः । चिन्-मायेति—चिच्-छक्तेर् माया-शक्तेश् च वैभवः, पूर्णस्य तव ऐश्वर्यं, चातुष्पादिकं—_पूर्णं, पुरुष-नारायणस्य तु माया-शक्ति-वैभवम् ऐश्वर्यम् एकपादिकम् इति । तथा च चतुष्पाद्-विभूतेर् एकपाद-विभूतित्वं वदन्तो भ्रान्ता इति ॥१५१॥
विष्टभ्याहम् इदं कृत्स्नम् एकांशेनेति ते वचः ।
तच् छांशत्वं भवेत् सत्यं विराड्वन् न तु मायिकम् ॥१५२॥
श्री-ब्रह्म-संहितायां [५.४८]—
यस्यैक-निश्वसित-कालम् अथावलम्ब्य
जीवन्ति लोम-विलजा जगद्-अण्ड-नाथाः ।
**विष्णुर् महान् स इह यस्य कला-विशेषो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ॥१५३॥
बलदेवः- **गर्भोदशयस्य कृष्णांशत्वे ब्रह्म-वाक्यम् आह—यस्येति । **यस्य_ **गर्भोदशयस्य पुरुषस्य एक-निःश्वसित-कालम् अवलम्ब्य **जगद्-अण्ड-नाथाः **ब्रह्म-विष्ण्व्-ईशाः **जीवन्ति **तत्-तत्-कार्याधिकारितया वर्तन्ते, समाकृष्टे श्वासे प्रलये सति तत् तत् कार्याधिकारा न भवन्तीति ईदृशो विष्णुः, सः, यस्य—गोविन्दस्य, कला-विशेषः—_स्वांशः, भवतीति ॥१५३॥
**अतः पुरुष एवास्य कृष्णस्यांशो भवेद् यदि ।
तद्-विलासस् तु नितरां भवेत् क्षीराब्धि-नायकः ॥१५४॥
बलदेवः- **सिद्धान्तार्थः नियोजयति, अत इति । यदि गर्भोदशयः पुरुषो ऽस्य कृष्णस्य अंशो वाक्याद् अवगतो भवेत्, तर्हि तद् विलासः क्षीराब्धि पतिर् नितरां कृष्णस्यांश इति नात्र सन्देह-गन्ध इति ॥१५४॥
ननु द्वितीय-स्कन्धे तु योऽवतीर्णो! यदोः कुले ।
**किं विधात्रा स हि सित-कृष्ण-केशतयोदितः ॥१५५॥
बलदेवः- **निरस्तोऽपि प्रतिवादी निस्त्रपत्वात् वाक्यार्थाभासम् आश्रित्य पुनः प्रत्यवतिष्ठते, नन्व् इति_—_यदि क्षीराधि-पतेर् अंशः कृष्णो न स्यात्, तर्हि भूमे सुरेतरेत्य् एतद् वाक्यं नारदं प्रति ब्रह्मणः कथं सङ्गच् छेतेत्य् अर्थः ॥१५५॥
**तथा हि [भा।पु। २.७.२६]—
भूमेः सुरेतर-वरूथ-विमर्दितायाः
क्लेश-व्ययाय कलया सित-कृष्ण-केशः ।
जातः करिष्यति जनानुपलक्ष्य-मार्गः ।
कर्माणि चात्म-महिमोपनिबन्धनानि ॥१५६॥ इति ।
बलदेवः- **सुरेतरेषाम्_—असुराणां, वरूथैः—सैन्यैः, विमर्दितायाः, भूमेर् इत्य् अर्थः । एतद् वाक्यं खलु भारतानुयायि । भारत वाक्यश् च—_“स चापि केशौ हरिर् उद्ववर्हे शुक्लम् एकम् अपरं चापि कृष्णम् । तौ चापि केशावाविशतां यदूनां कुले स्त्रियौ रोहिणीं देवकीं च ॥ तयोर् एको बलभद्रो बभूव योऽसौ श्वेतस् तस्य देवस्य केशः । कृष्णो द्वितीयः केशवः सम्बभूव केशो योऽसौ वर्णतः कृष्ण उक्तः ॥” इत्य् एतत् । तस्मात् क्षीराब्धि-नाथांशत्वं कृष्णस्य असन्देहम् ॥१५६॥
मैवं भोः24** श्रूयताम् अस्य पद्यस्यार्थो विधीयते । **
कलया शिल्प-नैपुण्य-विशेष-विधिना सिताः ।
बद्धाः कृष्णा अतिश्यामाः केशा येनेति विग्रहः ।
स एवेत्यस्य वैदग्धी-विशेषोत्कर्ष25** ईरितः ॥१५७॥**
**बलदेवः- **वसुदेव-गृहे साक्षात् [भा।पु। १०.१.२२] इत्य्-आदि पद्य प्रघट्टकेन “कृष्णस् तु भगवान् स्वयम्” इत्य् अनेन च त्वच् छङ्काया दूरापास्तत्वात्, तस्य पद्यस्य तद् अर्थ-गन्धोऽपि न सम्भाव्य इत्य् आह—मैवम् इति । कस् तर्हि तद् अर्थः? तत्राह—कलयेति । कलया_—चातुर्येण, सिताः—निबद्धाः, कृष्णाः—_अतिश्यामाः, केशा येन, इति रसिक-शिरोऽवतंसत्व-व्यञ्जनात् कृष्णत्वं प्राप्यते इत्य् अर्थः ॥१५७॥
**किं वा यः कलयांशेन स्यात् सित-श्याम-केशकः ।
स एवात्रावतीर्णोऽभूच् छ्री-लीला-पुरुषोत्तमः ॥१५८॥
बलदेवः- **ननु भारतोत्था शङ्का नापैतीति चेत्? तत्राह—किंवेति । यः सित-कृष्ण-केशो भारतोक्तः क्षीराधिशयः, सोऽपि य कलयैव भवति, स कृष्णो जातः सन् कर्माणि करिष्यतीत्यर्थात् तच् छङ्काव्युदासः ॥ नन्व् एवम् अपि केशोद्वर्हणा_—तत् प्रवेश-हेतुकायाः शङ्काया दुर्वारत्वम् इति चेत्? अत्राहुः—_केश-शब्दोऽयम् अंशुवाची, “अंशवो ये प्रकाशन्ते मम ते केश-सञ्ज्ञिताः । सर्वज्ञाः केशवं तस्मात् माम् आहुर् मुनि-सत्तमाः ॥” [म।भा।शा।प। ३४१.४०] इति नारायणीये अर्जुनं प्रति कृष्णोक्तः, क्षीरोदशयस्य शुक्ल-कृष्णावंशू तयोर् गर्भस्थौ बल-कृष्णौ प्रविष्टाव् इत्य् अर्थात् तच् छङ्कापि निरस्ता । अतस् तत्र सर्वत्र केश-शब्द प्रयोगः । नानावर्णां शूनां नारदेन तत्र दृष्टत्वाच् च, अवतरति स्वयं भगवति तद् अंशानां तत् प्रवेशस्य “महद् अंश युक्तः” [भा।पु। ३.२.१५] इत्य् अनेनोक्त त्वाच्च, मुख्यार्थोऽपि नानुपपन्नः । तथा चेयम् अपि शङ्का भ्रान्ति विजृम्भितैवेत्य् अवसितम् ॥१५८॥
किं च—
मार्कण्डेयेन वज्राय विष्णु-धर्मोत्तरे स्फुटम् ।
लयाब्धि-स्थोऽनिरुद्धोऽयं पिता ते इति कीर्तितम् ॥१५९॥
तत्र वज्र-प्रश्नः—
कस् त्व् असौ बाल-रूपेण कल्पान्तेषु26** पुनः पुनः** ।
“कल्पान्तेषु” इत्य् अत्र “लयान्तेषु” इति पाठान्तरम् ।
दृष्टो यो न त्वया ज्ञातस् तत्र कौतूहलं मम ॥१६०॥
मार्कण्डेयोत्तरं—
भूयो भूयस् त्व् असौ दृष्टो मया देवो जगत्-पतिः ।
कल्प-क्षये न विज्ञातः स मया27** मोहितेन वै ॥१६१॥**
“स मया” इत्य् अत्र “स यया” इति, “स माया” इति न पाठान्तरम् ।
**कल्प-क्षये व्यतीते तु तं तु देवं पितामहात् ।
अनिरुद्धं विजानामि पितरं ते जगत्-पतिम् ॥ इति ॥१६२॥
बलदेवः- **प्रतिवादिनां भ्रान्तत्वं बोधयितुं विष्णु-धर्म-प्रक्रियाम् आह—किं चेत्य्-आदि_—प्रकटार्थम् ॥ कस्त्वसाविति ॥ पितामहात्—_विरिञ्चेः ॥१५९-१६२॥
**अत्र कारिका—
अन्यथा मुनि-वर्योऽयम् अवदिष्यद् इदं तदा ।
तं श्री-कृष्णं विजानामि प्रपितामहम् एव ते ॥१६३॥
बलदेवः- **कारिकया अनुपपत्तिः प्रकटयति, अन्यथेति । मुनि-वर्यः_—_मार्कण्डेयः । प्रपितामहम् इति—वज्रस्य पिता अनिरुद्धः, पितामहः प्रद्युम्नः, प्रपितामहस् तु कृष्ण इत्य् अर्थः ॥१६३॥
**अतः केशावतारत्व-भ्रमोऽप्य् आरात् पराहतः ॥१६४॥
बलदेवः- **अत इति_—_विष्णु-धर्मोत्तरोक्त युक्त्यनुपपत्तितः, कुचोद्यम् एतद् दूरे निरस्तम् इत्य् अर्थः; “आराद् दूर-समीपयोः” इत्य् अमरः ॥१६४॥
नन्व् अस्तु पुरुषादिभ्यः श्रैष्ठ्यं तस्याघ-विद्विषः ।
किन्तु श्री-वासुदेवो ऽत्र सर्वैश्वर्य-निषेवितः ॥
त्रिपात्-पाद-विभूत्योश् च नाना-रूप इव स्थितः ।
उन्मीलद्-बाल-मार्तण्ड-परार्ध-मधुर-द्युतिः ।
क्वचिन् नव-घन-श्यामः क्वचिज् जाम्बूनद-प्रभः ॥
महा-वैकुण्ठ-नाथस्य विलासत्वेन विश्रुतः ।
**परमात्मा बल-ज्ञान-वीर्य-तेजोभिर् अन्वितः ॥१६५॥
बलदेवः- **एवं पुरुषादिभ्यः कृष्णस्य श्रेष्ठये स्थिते, नारायणे कान्ती तस्य स्वयं-रूपत्वम् असहमानः प्रत्यवतिष्ठते, नन्व् इति । आदिना नृसिंह-रामाभ्यां च । किन्त्विति_—_नारायणस्य परम-व्योमाधिपतेः प्रथम-व्यूहो वासुदेव एव कृष्णोऽस्तु, स्वयं-रूपस् तु नारायणोऽसाविति भावः । वासुदेवं विशिनष्टि, सर्वैश्वर्येत्य् आदिभिः ॥७९॥
महावस्थाख्यया ख्यातं यद्-व्यूहानां चतुष्टयम् ।
**तस्याद्योऽयं तथोपास्यश् चित्ते तद्-अधिदैवतम् ।
तथा विशुद्ध-सत्त्वस्य यश् चाधिष्टानम् उच्यते ॥१६६॥
बलदेवः- **महावस्थेति । महा-वैकुण्ठ-नाथस्य व्यूहानां यत् चतुष्टय महावस्थाख्यया ख्यातं, तस्य_—चतुष्टयस्य, अयं—वासुदेवः, आद्यः—_प्रधानभूत इत्य् अर्थः ॥१६६॥
**निजांशो यस्य भगवान् श्री-सङ्कर्षण इष्यते ।
यस्त सङ्कर्षणो व्यूहो द्वितीय इति सम्मतः ।
जीवश् च स्यात् सर्व-जीव प्रादुर्भावास्पदत्वतः ॥१६७॥
बलदेवः- **निजेति । यस्य_—वासुदेवस्य, निजांशः—_विलासः, भगवान् श्री-सङ्कर्षण इत्य् अन्वयः । यः सङ्कर्षणः सर्व-जीव-प्रादुर्भावकत्वात् जीव उच्यते इत्य् अर्थः ॥१६७॥
**पूर्ण-शारद-शुभ्रांशु-परार्ध-मधुर-द्युतिः ।
उपास्योऽयम् अहङ्कारे शेष-न्यस्त-निजांशकः ॥
स्मरारातेर् अधर्मस्य सर्पान्तक-सुर-द्विषाम् ।
अन्तर्यामित्वम् आस्थाय जगत्-संहार-कारकः ॥१६८॥
बलदेवः- **शेषति_—_अतः शेषस्यापि संहर्तृत्वम् उक्तं—
पाताल-तलम् आरभ्य सङ्कर्षण-मुखानलः । दहन्न् ऊर्ध्व-शिखो विष्वग् वर्धते वायुनेरितः ॥ [भा।पु। ११.३.१०]
इत्य्-आदिना एकादशे—सर्पेति । अन्तकः_—_यमः ॥१६७॥
व्यूहस् तृतीयः प्रद्युम्नो विलासो यस्य विश्रुतः ।
यः प्रद्युम्नो बुद्धि-तत्त्वे बुद्धिमद्भिर् उपास्यते ॥
स्तुवत्या च श्रिया देव्या निषेव्यत इलावृते ।
**शुद्ध-जाम्बूनद-प्रख्यः क्वचिन् नील-घन-च्छविः ॥
निदानं विश्व-सर्गस्य काम-न्यस्त-निजांशकः ।
विधेः प्रजा-पतीनां च रागिणां च स्मरस्य च ।
अन्तर्यामित्वम् आपन्नः सर्गं सम्यक् करोत्य् असौ ॥१६९॥
बलदेवः- **व्यूह इति । यस्य_—सङ्कर्षणस्य ॥ कामे—कन्दर्पे, न्यस्तः, निजांशः—स्रष्टृत्व-लक्षणः, येन सः । रागिणां—_विषयिणां देव-मानवादीनाम् ॥१६९॥
**व्यूहस्तुर्योऽनिरुद्धाख्यो विलासो यस्य शस्यते ।
योऽनिरुद्धो मनस्-तत्त्वे मनीषिभिर् उपास्यते ॥
नील-जीमूत-सङ्काशो विश्व-रक्षण-तत्परः ।
धर्मस्यायं मनूनां च देवानां भूभुजां तथा ।
अन्तर्यामित्वम् आस्थाय कुरुते जगतः स्थितिम् ॥१७०॥
बलदेवः- **व्यूहस्तुर्य इति । यस्य_—प्रद्युम्नस्य । शस्यते—कथ्यते ॥ स्थितिः—_पालनम् ॥१७०॥
मोक्ष-धर्म तु मनसः स्यात् प्रद्युम्नोऽधिदैवतम् ।
अनिरुद्धस् त्व् अहङ्कारस्येति तत्रैव कीर्तितम् ॥१७१॥
बलदेवः- मतान्तरम् आह—मोक्षधर्मे त्व् इति ॥१७१॥
सर्वेषां पञ्चरात्राणाम् अप्य् एषा प्रक्रिया मता ॥१७२॥
बलदेवः- सर्वेषाम् इति । एषा_—_पूर्वोदिता ॥१७२॥
**पाद्मे तु परम-व्योम्नः पूर्वाद्ये दिक्-चतुष्टये ।
वासुदेवादयो व्यूहाश् चत्वारः कथिताः क्रमात् ॥१७३॥
तथा पाद-विभूतौ च निवसन्ति क्रमादिमे ।
जलावृति-स्थ-वैकुण्ठा-स्थित-वेदवती-पुरे ॥
सत्योर्ध्वे वैष्णवे लोके नित्याख्ये द्वारका-पुरे ।
शुद्धोदाद् उत्तरे श्वेत-द्वीपे चैरावती-पुरे ॥
क्षीराम्बुधि-स्थितानन्त-क्रोड-पर्यङ्क-धामनि ॥१७४॥
बलदेवः- **तथा पादेति । पाद-विभूतौ वेदवतीपुरे वासुदेवः, रूपान्तरेण प्रपञ्चेऽवस्थितेर् नारायणीयेन सहाविरोधः, सत्योर्ध्वे वैष्णवे लोके सङ्कर्षणः, नित्याख्ये द्वारकापुरे प्रद्युमः, श्वेतद्वीपे चैरावतीपुरे अनिरुद्धो निवसति ॥१७४॥
**सात्वतीये क्वचित् तन्त्रे नव व्यूहाः प्रकीर्तिताः ।
चत्वारो वासुदेवाद्या नारायण-नृसिंहकौ ।
हयग्रीवो महा-क्रोडो ब्रह्मा चेति नवोदिताः ।
तत्र ब्रह्मा तु विज्ञेयः पूर्वोक्त-विधया हरिः ॥१७५॥
बलदेवः- **चतुरो व्यूहानुक्त्वा नव तान् आह—सात्वतीये इति । पूर्वोक्त विधयेति_—_“भवेत् क्वचिन् महा-कल्पे” इत्य्-आद्य्-उक्त-रीत्या इत्य् अर्थः ॥१७५॥
किन्तु व्यूहास् तु चत्वारो राजद्-भुज-चतुष्टयाः ।
**अजस्र-परमैश्वर्य-मर्यादा-परिभूषिताः ॥१७६॥
बलदेवः- **नवसु वासुदेवादीनां चतुर्णाम् अतिशयम् आह—किं त्व् इति ॥१७६॥
**अत्रापि वासुदेवोऽयं सम्पूर्णानन्द-सम्प्लवः ।
ऐश्वर्यादौ निर्विशेषः परम-व्योम-नायकात् ।
आद्यानाम् अपि सर्वेषाम् आदिभूतः सुपर्वणाम् ॥१७७॥
बलदेवः- **चतुर्णां मध्ये वासुदेवस्य तम् आह—अत्रापीति । ऐश्वर्यादाविति । तथा च कृष्णादतिशयी नारायण इति मनसि क्षोभो न विधेय इति बहिष्ठो भाव इत्य् अर्थः । हृद्गतं कौटिल्यं व्यञ्जयति, आद्यानाम् इति । सर्वेषां सुपर्वणां_—_परम-व्योम-पार्षदानां देवानाम् इत्य् अर्थः । सोऽपि तद्वत् पार्षद-विशेष इति भावः ॥१७७॥
इत्य् आशङ्के स एवायं कृष्णाख्यः सन्न् अवातरत् ।
**वासुदेवतया यस्मात् सर्वत्रैष सुविश्रुतः ॥१७८॥
बलदेवः- **विवक्षितम् आह—इत्य् आशङ्क इति । सः_—वासुदेव एव, कृष्णाख्यः सन् अवातरत्, यस्मात्, सर्वत्र—पुरुणेषु इतिहासेषु च, एषः—कृष्णः, वासुदेवतया, सुविश्रुतः—_ख्यातः ॥१७८॥
नैव युक्तं शृणु ततः समाधानं विधीयते ।
**आद्य-व्यूहाद् अपि श्रेष्टः कथ्यते देवकी-सुतः ॥१७९॥
बलदेवः- **एवं प्राप्ते परिहरति, नैवं युक्तम् इति । केन प्रमाणेन मद् उक्तेर् अयुक्तता? तत्राह—शृण्विति ॥१७९॥
**तथा च श्री-प्रथमे [भा।पु। १.३.२८]—
एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् ॥ इति ॥१८०॥
बलदेवः- **प्रमाणम् आह—एते चेति । कृष्णस्य वासुदेवत्वे स्वयम् इति व्यर्थं स्याद् इत्य् अर्थः ॥१८०॥
अत्र कारिके—
पुं-नाम्नः पुरुषस्यैते श्री-वराह-ऋषादयः ।
अंशा अत्रावताराः स्युः कुमाराद्याः कला मताः ॥
तुर् भिन्नोपक्रमे कृष्णो भगवान् पुरुषोत्तमः ।
**स्वयम् इत्य् अपयातास्य वासुदेवावतारता ॥१८१॥
बलदेवः- **तुर् भिन्नोपक्रमे इति_—_“तुः स्याद् भेदेऽवधारणे” इत्य् अमरः ॥१८१॥
श्री-दशमे चैवम् एवोक्तम् [भा।पु। १०.१४.२]—
**
अस्यापि देव-वपुषो मद्-अनुग्रहस्य
स्वेच्छामयस्य न तु भूतमयस्य कोऽपि** ।
नेशे महि त्व् अवसितुं मनसान्तरेण
साक्षात् तवैव किम् उतात्म-सुखानुभूतेः ॥१८२॥ इति ।
बलदेवः- वासुदेवात् कृष्णस्यातिशये प्रमाणान्तरम् आह—अस्यापीति । अस्य—गोप-राज-कुमारस्य स्वयं भगवतः कृष्णस्य, तव, साक्षात्—मद्-दृग्-गोचरस्य, महि—माहात्म्यं, देव-वपुषाः—देवपदाञ्चित-विग्रहात् वासुदेवाद् अपि, अतिशयितं, कोऽपि—ब्रह्मापि, अहम्, आन्तरेण—निरुद्धेन एकाग्रेण, मनसा ज्ञातुं, नेशे—समर्थो न भवामि । कीदृशस्य तव? इत्य् आह—मद्-अनुग्रहस्येति—श्री-गोपालोपनिषद्-अनुसारेण सर्व-मद्-धित-कारिण इत्य् अर्थः; तद् उपनिषदि खलु कृष्ण-दत्ताष्टादशार्णः ब्रह्मा जगत्-स्रष्टाभूद् इति प्रस्फुटं; यद् वा, अनुग्रहात् मां प्रति दर्शित-विविधाश्चर्य-रूपस्येत्य् अर्थः । स्वेच्छामयस्य—भक्तेच्छानुसारीच्छस्येत्य् अर्थः । नत्विति—चिद्-घनस्येत्य् अर्थः । एवं चेत्, आत्म-सुखानुभूतेः—“चयस् त्विषाम्” इति न्यायेन अनभिव्यक्त-रूप-गुण-लीला-विशेषात् व्यापक-स्वप्रकाशानन्दात् ब्रह्मणः सकाशात्, तव अतिशयितं माहात्म्यं वक्तुमहं नेशे इति किमुत वक्तव्यम्? इति न्यूनातिन्यूनतायाम् इदं कैमुत्यम् ॥१८२॥
अत्र कारिकाः—
देवः स्व-नाम्नि देवेति ख्यातं यस्य वपुः स हि ।
व्यूहानाम् आदिमो वासुदेवो देव-वपुर् मतः ॥
ततोऽपि महि माहात्म्यं साक्षाद् एवात्र ते सतः ।
को विधाताप्य् अवसितुं28** ज्ञातुं नेशेऽस्मि न क्षमः ॥**
“को विधाताप्यव” इत्य् अत्र “कोऽपि धाताप्यव” इति पाठान्तरम् ।
**किम् उताहो आत्म-सुखानुभूतेर् ब्रह्म-रूपतः ॥१८३॥
बलदेवः- **कारिकाभिः पद्यार्थः विवृणोति, देवः स्व-नाम्नीत्यादिना । देव-पदाञ्चितत्वं वासुदेव-विग्रहस्य प्रस्फुटं, तेन वासुदेवादपीति लब्धम्; एवं लोकेऽपि प्रयुज्यते भर्तृहरिर् हरिर् इति । ततः_—_वासुदेवादपीत्य् अर्थः ॥१८३॥
**एवम् अर्थोऽस्य पद्यस्य कैमुत्य-न्याय-संस्थितः ॥१८४॥
बलदेवः- **वासुदेवादप्यधिकः कृष्णस्य महिमा, यो ब्रह्मणापि ज्ञातुम् अशक्य इत्य् अर्थः । कुत इति चेत्? न्यून कैमुत्याद् इत्य् आह—एवम् अर्थोऽस्ये ति ॥१८४॥
**न्यूनेऽधिके च कैमुत्यं तत्र न्यूने भवेद् यथा ।
कौस्तुभस् तु महा-तेजाः सूर्य-कोटि-शताद् अपि ।
अयं किम् उत वक्तव्यं प्रदीपाद् दीप्तिमान् इति ॥१८५॥
बलदेवः- **ननु कैमुत्यं किं द्वि-विधम् अस्तीति चेत्? अस्ति तत् प्रतिपादयति, न्यूनेऽधिके चेत्य्-आदिना ॥१८५॥
**अथाधिके यथा ध्वान्तैः शक्यो दीपोऽपि नार्दितुम् ।
स तु मार्तण्ड-कोटीभिः समः किम् उत कौस्तुभः ॥१८६॥
अतो न्यूनादपि न्यूने कैमुत्यम् इह तु स्थितम् ॥१८७॥
बलदेवः- **प्रकृते तु न्यूनकैमुत्यं योजयति, अत इति । वासुदेवादपि कृष्णस्य महिमा अधिकश्चेत्, तदा ब्रह्मतः सोऽ धिक इति किं वक्तव्यम्? इति न्यूनन्यूनतायां स न्यायोऽत्र बोध्यः ॥१८७॥
मय्य् एवानुग्रहो यस्येत्य् अनुग्रह-भरो यतः ।
**मय्य् एव विहितो भूयान् अपूर्वाश्चर्य-दर्शनात् ॥१८८॥
बलदेवः- **अपूर्वेति_—_ब्रह्मणा पूर्वं यानि न दृष्टानि, तानि चतुर् भुजानि चिद्-घनानि सदेवगणैश्-चतुर् विंशति-तत्त्वैः स्तूयमानानि अनन्त-दिव्य-विभूतिमन्ति अद्भुतानि, तेषां दर्शनाद् इत्य् अर्थः ॥१८८॥
**स्वेच्छामयस्य भक्तानां कामायाखिल-कर्मणः ।
न तु भूतमयस्येति पुरुषत्वश् च खण्डितम् ।
यद् एष सर्व-जीवानां पुरुषः परमाश्रयः ॥१८९॥
बलदेवः- **स्वेच्छेति_—भक्तेच्छाधीनेच्छस्येत्य् अर्थः । न तु भूतमयस्येति विशेषणेन, पुरुषत्वञ्च—कारणार्णवशायि-सङ्कर्षणत्वं, कृष्णस्य निरस्तम् इत्य् अर्थः । कुतः खण्डितं? तत्राह—यदेष इति । एषः—_कारणार्णवशायी, पुरुषः । भूत-शब्दोऽत्र जीववाची, “भूतं क्ष्मादौ पिशाचादौ जन्तौ क्लीबं त्रिषूचिते ।” इति मेदिनीकोषात् । सर्व-जीवाश्रयत्वात् पुरुषो नारायणो भूतमयः, तद्-विलक्षणत्वात् कृष्णो भूतमयो नेत्युक्तः ॥१८९॥
**आन्तरेण निरुद्धेन मनसेत्य् एकतानता ।
ज्ञातुं स्यान् महिमा शक्यो यद्य् अप्य् एभिर् विशेषणैः ।
ज्ञातुं तथापि नेशेऽस्मीत्य् अचित्यैश्वर्यतोदिता ॥१९०॥
बलदेवः- **एकतानतेति_—_“एकतानोऽनन्यवृत्तिः” इत्य् अमरः; तथा च महिमावगमे मनसो योग्यतोक्ता । ज्ञातुं स्याद् इति—यद्यप्य् एतैर् विशेषणैर् महिमा गोचरो भवेत्, तथापि नेत्युक्तिस्तस्याचिन्त्यैश्वर्यतां बोधयतीत्य् अर्थः ॥१९०॥
जानता वासुदेवाच् च ब्रह्मतश् चाधिकाधिकम् ।
**माहात्म्यं कृष्ण-चन्द्रस्य विरिञ्चेन समर्थितम् ॥१९१॥
अतो मन्व्-अक्षरमनोर् ध्याने स्वायम्भुवागमे ।
चत्वारो वासुदेवाद्याः कृष्णस्यावृतिर् ईरिताः ॥१९२॥
बलदेवः- **निगमयति, अत इति_—यस्मात् वासुदेवादप्यधिकः स्वयं भगवान् एव श्री-कृष्णो भवतीत्य् अर्थः । मन्व्-अक्षरेति—_चतुर् दशार्णस्य तन्-मन्त्रस्येत्य् अर्थः ॥१९१-१९२॥
क्रमादि-दीपिकायां च वस्व्-अक्षर-मनोर् विधौ ।
**गोकुलेशावृतित्वेन वासुदेवादयो मताः ॥१९३॥ **
॥ इति वासुदेवादि भ्रम निरासः ॥
**बलदेवः- **क्रमादीति । वस्व्-अक्षर-मनोः_—_अष्टाक्षरस्य तन्-मन्त्रस्येत्य् अर्थः । अन्यथा तद्-ग्रन्थ-द्वयं व्याकुप्यद् इत्य् अर्थः ॥१९३॥
अनु श्रैष्ठ्यं मुकुन्दस्य ब्रह्मतो युज्यते कथम् ।
यद् ब्रह्म-श्री-भगवतोर् ऐक्यम् एव प्रसिध्यते ॥
पुरुषः परमात्मा च ब्रह्म च ज्ञानम् इत्य् अपि ।
स एको भगवान् एव शास्त्रेषु बहुधोच्यते ॥१९४॥
**
बलदेवः-** “तडागं तरीतुम् असमर्थः सागरं किमुत तरीत” इत्य् अधिके कैमुत्यं हृदि कृत्वा ब्रह्मतः श्रैष्ठ्यम् असहमानः कश्चिद् आह—ननु श्रैष्ठ्यम् इति । यद् ब्रह्मेति—न खलु स्वस्मात् स्वयम् अधिको वक्तुं युक्त इत्य् अर्थः ॥१९४॥
तथा च स्कान्दे—
**
भगवान् परमात्मेति प्रोच्यतेऽष्टाङ्ग-योगिभिः** ।
ब्रह्मेत्य् उपनिषन्-निष्ठैर् ज्ञानश् च ज्ञान-योगिभिः ॥१९५॥
**
बलदेवः- **भगवान् इत्य्-आदि । तथा च ब्रह्म-परमात्म-भगवच्-छब्दा घट-कलश-कुम्भवत् एकवाच्य-वाचि-लक्षणाः पर्याय-शब्दाः, इति वस्तु-भेदो नास्तीत्य् अर्थः ॥१९५॥
श्री-प्रथमे च [भा।पु। १.२.१२]—
**
वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् ।
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते ॥१९६॥ इति ।
बलदेवः- **वदन्तीति । ब्रह्मेति वेदान्तिभिः, परमात्मेति योगिभिः, भगवानिति भागवतैः, शब्दयते इत्य् अर्थः । स्कान्दे भगवदादि-वस्तुनो ज्ञानत्वं विधीयते, प्रथमे तु ज्ञानस्य ब्रह्मादित्वम्, इति व्यतिहारात्29 न हि वस्तुनि वैलक्षण्य-गन्ध इत्य् अभिमतम् ॥१९६॥
परस्पराभेदात्
सत्यम् उक्तं शृणु ततस् तृतीये कापिलं वचः30** ॥१९८॥**
“तृतीय कापिलं वचः” इत्य् अत्र “तृतीयस्कन्धकीर्तितम्” इति पाठान्तरम् ।
यथा [भा।पु। ३.३२.३२]—
**यथेन्द्रियैः पृथग्-द्वारैर् अर्थो बहु-गुणाश्रयः ।
एको नानेयते तद्वद् भगवान् शास्त्र-वर्त्मभिः ॥ इति ॥१९९॥
बलदेवः- **अर्धमङ्गीकृत्याह—सत्यम् उक्तम् इति । तर्हि तारतम्य भणितिः किं हेतुकेति चेत्? तत्राह—शृणु तत इति—तारतम्यावेदक-वाक्यानां सत्त्वादेवेत्य् अर्थः ॥१९८॥
अत्र कारिकाः—
तत् तत् श्री-भगवत्य् एव स्वरूपं भूरि विद्यते ।
उपासनानुसारेण भाति तत्-तद्-उपासके ॥२००॥
यथा-रूप-रसादीनां गुणानाम् आश्रयः सदा ।
क्षीरादिर् एक एवार्थो ज्ञायते बहुधेन्द्रियैः ॥२०१॥
दृशा शुक्लो रसनया मधुरो भगवांस् तथा ।
उपासनाभिर् बहुधा स एकोऽपि प्रतीयते ॥२०२॥
जिह्व यैव यथा ग्राह्यं माधुर्यं तस्य नापरैः ।
यथा च चक्षुर् आदीनि गृह्णन्त्य् अर्थं निजं निजम् ॥२०३॥
तथान्या बाह्य-करण-स्थानीयोपासनाखिला ।
**भक्तिस् तु चेतः स्थानीया तत् तत् सर्वार्थ-लाभतः ॥२०४॥
बलदेवः- **यथेन्द्रियैर् इति । बहु-गुणाश्रयः, अर्थः—द्रव्यं क्षीरादिः, एक एव, यथा चक्षुरादिभिर् इन्द्रियैर् नाना गृह्यते, तथैक एव भगवान् उपासनादिभिर् बहुभिर् नाना गृह्यते इत्य् अर्थः । तथा च य उपासकस् तद्-गुणान् ग्रहीतुं न शक्नोति, स एव तं गुणिनम् अपि निर्गुणं भणति; यथा चक्षुर् दुग्धं शुक्लम् एव गृह्णाति, न तु मधुरं, यथा च रसना मधुरम् एव गृह्णाति, न तु शुक्लम् इति । अत्र चित्तं यथा दुग्धं माधुर्यादि-निखिल-गुणोपेतं गृह्णाति, तथा भक्तिर् एव तं तत्-तत्-सर्व-गुणोपेतं गृह्णातीति ब्रह्मत्वेनापि सा गृह्णातीत्य् अर्थः ॥२०१-२०४॥
**इति प्रवर-शास्त्रेषु तस्य ब्रह्म-स्वरूपतः ।
माधुर्यादि-गुणाधिक्यात् कृष्णस्य श्रेष्टतोच्यते ॥२०५॥
बलदेवः- **इति प्रवरेति—यद्य् अपि अगृहीत-गुणकः कृष्ण एव ब्रह्मेति न वस्तुभेदः, तथापि निर्भात-गुणत्वानिर्भात-गुणत्वाभ्यां तारतम्यम् अवर्जनीयम् इति तद्-भणितिः सिध्यत्येव । पूर्वत्र “चयस् त्विषाम्” इति न्यायेन नानोपासन-भक्त्योर् दूरत्वान्तिकत्वे उपमे, इह तु तयोर् बहिर् इन्द्रियान्तर् इन्द्रिये ते दर्शिते इति बोध्यम् ॥२०५॥
तथा च श्री-दशमे [भा।पु। १०.१४.६-७]—
**
तथापि भूमन्! महिमागुणस्य ते विबोद्धुम् अर्हत्य् अमलान्तर् आत्मभिः ।
अविक्रियात् स्वानुभवाद् अरूपतो ह्य् अनन्य बोध्यात्मतया न चान्यथा ॥२०६॥
बलदेवः- **यथेन्द्रियैर् इत्य्-आदि पद्योक्तं भावं स्पष्टयितुं प्रमाणम् आह—तथापीति द्वाभ्याम् । हे भूमन्!—विभो!, यद्यप्य् अगुणः स-गुणश् च त्वम् एव, तथापि, अगुणस्य—अनभिव्यक्त-गुणस्य ब्रह्म-शब्दितस्य, ते महिमा, विबोद्धुं—बोध-गोचरी-भवितुम्, अर्हति; “पच्यते ओदनः स्वयमेव” इतिवत् कर्मणः कर्तृत्वम् । कुतो निमित्तात्? इत्य् आह—अमलैः—विशुद्धैः, अन्तरात्मभिः—चित्तः, स्वानुभवात्—स्वकर्मकात्-अनुभवात् । ननु अनुभवस्य चित्त-वृत्तित्वेन विकार-प्रायत्वात् कथं निर्विकारस्य ब्रह्मणस्तेन विषयीकरणं ? तत्राह—अविक्रियाद् इति—नास्ति विकारो यत्र तादृशात्, इत्य् अनुभवो विशिष्यते, निर्विकार-ब्रह्मोपरागेण लवणाकरनिपात-न्यायेन निर्विकाराद् इत्य् अर्थः । ननु चित्त-वृत्तिः खलु रूपवद्-वस्तु विषयीकरोति, ब्रह्म तु नीरूपमेव, ततः कथं तद् विषयं कुर्याद् इति चेत्? तत्राह—अरूपत इति—रूपं तद्-विषयस् तद्-रहितात्, इति नीरूपतयैव तद्-गृह्यते इत्य् अर्थः । चक्षुर्यथा रूपि-द्रव्यं गृह्णाति तथा नीरूपम् अपि रूपं गृह्णाति, तद्वद् इत्य् अर्थः । तद्-बोधे विधान्तरम् आह—अनन्यबोध्य आत्मा स्वरूपं यस्य तत्-तया, स विबोध्यः न चान्यथा—नैवान्यया विधयेति । तत्-प्रवणायां चित्त-वृत्तौ तद्-ब्रह्म स्वयम् एव स्फुरतीत्य् अर्थः । तथा च निर्विकार-नीरूप-विज्ञान-वस्तुतया तद्-बोधो भवतीति नहि प्रभामण्डल-बोधो रवि-बोधवत् दुःशक इति भावः ॥२०६॥
**गुणात्मनस् तेऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरेऽस्य ।
कालेन यैर् वा विमिताः सु-कल्पैर् भू-पांशवः खे मिहिका द्युभासः ॥२०७॥ इति ।
बलदेवः- **स-गुणस्य तव बोधस् तु दुःशक इत्य् आह—गुणात्मन इति । अपिस्त्वर्थे । “अनन्त-कल्याण-गुणात्मकोऽसौ” [वि।पु। ६.५.८४] इति श्री-वैष्णव-वचनात् स्वानुबन्धि-गुण-विशिष्टस्य तु ते, गुणान्—सार्वज्ञ-सार्वैश्वर्य-सौहार्द-कारुण्य-सौन्दर्य-माधुर्य-लावण्य-विचित्रानन्त-विभूतित्वादीन् असङ्ख्यातान्, विमातुं—सङ्ख्यातुं, के ईशिरे? न केऽपि, भव-पाद्मादयोऽपि तत्-सङ्ख्याने समर्था नेत्य् अर्थः । कीदृशस्य? इत्य् आह—अस्य—विश्वस्य, हितायावतीर्णस्य । वेति—वितर्के । यैः, सु-कल्पैः—परम-समर्थैः, भू-पांशवः-कालेन महता, विमिताः—सङ्ख्याताः, खे मिहिकाः—हिमकणाः, दिवि भासः—सूर्यादि-किरण-परमाणवश् च, विमिताः, तेऽपि नेशिरे इत्य् अन्वयः ॥२०७॥
ननु प्राकृत-रूपत्वान्-मृग-तृष्णोपमा-जुषाम् ।
**गुणानां गणना न स्याद् इति कात्र विचित्रता ॥२०८॥
बलदेवः- **निर्गुण-ब्रह्मवादी प्रत्यवतिष्ठते, नन्व् इति । मृग-तृष्णेति—नभोनैल्यवत् आरोपितत्वात् मृषाभूतानाम् इत्य् अर्थः ॥२०८॥
मैवं गुणानाम् एतस्य प्राकृतत्वं न विद्यते ।
**तेषां स्वरूप-भूतत्वात् सुख-रूपत्वम् एव हि ॥२०९॥
बलदेवः- **परिहरति, मैवम् इति । प्राकृतं खलु आरोप्यते, न तु स्वरूपानुबन्धि, अविषये तद् असम्भवाच् चेत्य् अर्थः ॥२०९॥
तथा च ब्रह्म-तर्के—
गुणैः स्वरूप-भूतैस् तु गुण्य् असौ हरिर् ईश्वरः ।
**न विष्णोर् न च मुक्तानां क्वापि भिन्नो गुणो मतः ॥२१०॥
बलदेवः- **गुणानां स्वरूपानुबन्धित्वे प्रमाणं, गुणैर् इति ॥२१०॥
श्री-विष्णु पुराणे [वि।पु। १.९.४२]—
**
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥२११॥
बलदेवः- **ब्रह्मणि प्राकृत गुणाभावे प्रमाणं—सत्त्वादयो न सन्तीति । शुद्धत्वम् अत्र स्वरूपानुबन्धी गुणो बोद्धव्यः ॥२११॥
तथा च तत्रैव [वि।पु। ६.५.७९]—
**
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः** ।
**भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥२१२॥
बलदेवः- **तत्रैव—श्री-विष्णु-पुराणे, भगवच्-छब्दार्थ-कथने ज्ञान-शक्तीति वाक्यम् । विना हेयैर् गुणादिभिर् इति—पापा जरादयः प्राकृता गुणा निषिध्यन्ते । नन्व् एवं निराकर्तव्यो निर्गुणवाद प्रसङ्गः? मैवं, गुणित्वेन स्फुरणात् ॥२१२॥
पाद्मे च [प।पु।उ।ख। २५५.३९-४०]—
**
योऽसौ निर्गुण इत्य् उक्तः शास्त्रेषु जगद्-ईश्वरः** ।
**प्राकृतैर् हेय-संयुक्तैर् गुणैर् हीनत्वम् उच्यते ॥२१३॥
बलदेवः- **उपोद्वलकं वाक्य-द्वयम् आह—योऽसाव् इत्य्-आदि ॥२१३॥
श्री-प्रथमे च [भा।पु। १.१६.३०]—
**
इमे चान्ये च भगवन्! नित्या यत्र महागुणाः ।
प्रार्थ्या महत्त्वम् इच्छद्भिर् न वियन्ति स्म कर्हिचित् ॥ इति ॥२१४॥
बलदेवः- **नित्या यत्रेति—गुणानाम् अप्राकृतत्वं, तेन स्वानुबन्धित्वं चेति ॥२१४॥
**अतः कृष्णोऽप्राकृतानां गुणानां नियुतायुतैः ।
विशिष्टोऽयं महा-शक्तिः पूर्णानन्द-घनाकृतिः ॥२१५॥
बलदेवः- **निगमयति, अतः कृष्ण इति । पूर्णेति—सान्द्रानन्द-विग्रह इत्य् अर्थः ॥२१५॥
**ब्रह्म निर्धर्मकं वस्तु निर्विशेषम् अमूर्तिकम् ।
इति सूर्योपमस्यास्य कथ्यते तत् प्रभोपमम् ॥२१६॥
बलदेवः- **ननु ब्रह्म-स्वरूपं ज्ञान-मात्र पठ्यते, यत् खलु विप्र-पुत्रानयन-प्रसङ्गे हरि-वंशे पार्थेन प्रकाश-मयम् अनुभूतम् उक्तम्, इति चेत्? तत्राह—ब्रह्मेति । निर्धर्मकं_—रूप-रसादि-गुण-रहितं, निर्विशेषं—यतो विशेषैर् भूम्यादिभिर् अस्पृष्टम्, अतः, अमूर्तिकं—_मूर्तत्व-शून्यम् इत्य् अर्थः । ईदृशं यत् ब्रह्म, तत् खलु सूर्योपमस्य कृष्णस्य “चयस् त्विषाम्” इति न्यायेन प्रभोपमं कथ्यते । सूर्यो यथा तेजोराशिः सर्वैः प्रतीयते, दत्त-दृष्टैस् तद् उपासकैस् तु दिव्य-रथारूढो देवाकारः, तथा ज्ञान-प्रधानैश् चैतन्यराशिः परमात्मा प्रतीयते, भक्ति-प्रधानस् तु पुरुषाकारस् तद् राशिः; इति नास्ति वस्त्वन्यत्वं यद्य् अपि, तथापि निराकार-चैतन्य-राशेर् आकारवत् तद् राशी माधुर्यादि-गुण-योगात् अतिशयोऽस्ति, इति ब्रह्म-प्रकाशात् कृष्ण-प्रकाशस्य श्रेष्ठ्यम् इति ॥२१६॥
तथा च श्री-गीतासु [गी। १४.२६-२७]—
“यो माम् अव्यभिचारेण भक्ति-योगेन सेवते ।
**स गुणान् समतीत्यैतान् ब्रह्म-भूयाय कल्पते ॥२१७॥
बलदेवः- चित्त-स्थानीयया भक्त्या ब्रह्म-प्रकाशस्यापि ग्रहणम् इति “यथेन्द्रियैः” [भा।पु। ३.३२.३२] इत्य् अनेनोक्तं, श्री-गीता-वाक्येन दर्शयति, यो माम् इति । अव्यभिचारेण_ _—ऐकान्तिकेन । ब्रह्मभूयाय_—_ब्रह्मत्वाय, निराकार-चैतन्य-राशिर्यो मे ब्रह्म-प्रकाशस् तद् भावाय, योग्यो भवति, इति यद्य् अप्यापातात् प्रतीयते, तथापि तत् सदृशत्वाय इत्य् एवार्थः, “निरञ्जनः परमं साम्यम् उपैति” [मु।उ। ३.१.२] इति श्रुतेः । तद् भावस्तु न, “परमात्मात्मनोर् योगः परमार्थ इतीष्यते । **मिथ्यैतद् अन्य-द्रव्यं हि नैत्य् अन्य-द्रव्यतां यतः ॥” [वि।पु। २.१४.२७] इति श्री-वैष्णवे तस्य मिथ्यात्वोक्तेः, न खलु अणुद्रव्यं विभु भवेत् ॥२१७॥
**ब्रह्मणो हि प्रतिष्ठाहम् अमृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥२१८॥ इति ।
बलदेवः- ननु वसुदेव-सुतस्य तव भक्त्या कथं तादृशस्य तस्य प्राप्तिः? तत्राह—ब्रह्मणो हीति । ब्रह्मणः_—_निराकारस्य चैतन्य-राशेः, अहं, प्रतिष्ठा-प्रतिष्ठीयते अस्याम् इति व्युत्पत्तेः परमाश्रय इत्य् अर्थः । **अव्ययस्यामृतस्य_—नित्य मुक्तेः, तथा, शाश्वतस्य—नित्यस्य, धर्मस्य—श्रवणादि-भक्ति-योगस्य, तथा, ऐकान्तिकस्य सुखस्य—_प्रेम-लक्षणस्य च, अहं प्रतिष्ठा, इति मद् भक्त्या ब्रह्मणस् तादृशस्य प्राप्तिर् न चित्रेति ॥२१८॥
**अत्र कारिकाः—
स ब्रह्म-भावम् आसाद्य लीला-विग्रहम् आश्रयन् ।
माम् आनन्द-घनं प्रेम्णा भजेद् इत्य् अयम् आशयः ॥२१९॥
बलदेवः- **पद्य-द्वयम् एतत् कारिकाभिर् व्याचष्टे, स ब्रह्मेत्यादिना । सः—कृताव्यभिचारि-भक्तिर् विद्वान्, ब्रह्मणि_—भगवद्-अङ्ग-त्विट्-चय-रूपे, भावं—लयम्, आसाद्य, प्रागनुष्ठित-भक्ति-सामर्थ्यात् तत्रैव आस्थितं लीला-विग्रहम् आश्रयन्, मां—_ब्रह्मणस् तस्य प्रतिष्ठाभूतं, भजेद् इत्य् अर्थः ॥२१९॥
भक्तेर् अव्यभिचारायाः प्रेम सेवैव यत् फलम् ।
**केवलं ब्रह्म-भावस् तु विद्वेषेणापि लभ्यते ॥२२०॥
बलदेवः- **ननु चित्-परमाणोर् जीवस्य चिद्-राशौ तस्मिन् ब्रह्मणि लयेनैव भाव्यम्, न पुनस्ततो निःसृत्य तद् आश्रयस्य कृष्णस्य सेवनं सम्भवेद् इति चेत्? तत्राह—भक्तेर् इति । तस्मिन् ब्रह्मणि विलीनतया स्थितिस् तु भगवता कृष्णेन निहतानां विद्वेषिणाम् अपि भवेत्, “सिद्ध-लोकस् तु तमसः पारे यत्र वसन्ति हि । सिद्धा ब्रह्म-सुखे मग्ना दैत्याश् च हरिणा हताः ॥” [ब्रह्माण्ड-पुराणे ] इति स्मरणात् । तस्मात् तल्-लीनतामात्रं भक्तेः फलं न भवतीति । तमसः_—अष्टमावरणात् प्रकृति-मण्डलात्, पारे, ब्रह्म-लोकः—“चयस् त्विषाम्” इति न्यायेन निराकार-चित्-पुञ्ज-रूपं स्थानम् इत्य् अर्थः । सिद्धाः—अनवज्ञात-भगवद्-अङ्घ्रयस् तादृग्-ब्रह्म-चिन्तकाः तच्-चिन्तनात् विध्वस्तलिङ्गाः, तत्र, वसन्ति—लीयन्ते; हरिणा—_श्री-कृष्णेन, हता दैत्याश् च । तच्-चरणावज्ञातॄणान् तु ज्ञान-लव-दग्धानामधः पातो भवति, “येऽन्येऽरविन्दाक्ष! विमुक्त-मानिनस् त्वय्य् अस्तभावाद् अविशुद्ध बुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्य् अधोऽनादृत युष्मद् अङ्घ्रयः ॥” [भा।पु। १०.२.३२] इति श्री-भागवतात् ॥२२०॥
**ननु ते यादवस्यास्य भजनाद् ब्रह्मता कथम् ।
इत्य् आह ब्रह्मणो हीति हि यतोऽहं पुरस् तव ।
स्थितोऽयं विविधानन्द-पूर्ण-चिद्-घन-विग्रहः ।
ब्रह्मणश् चित्-स्वरूपस्य प्रतिष्ठा परमाश्रयः ।
रविस् तेजो-घनाकारः करौघस्य यथा भवेत् ॥२२१॥
बलदेवः- **कृष्ण-भजनात् ब्रह्म-भूयः प्राप्तिः कथम्? इत्य् अर्जुनः शङ्कते, नन्व् इति । यादवस्य_—इतर-राज-कुमारवत् सत्त्वोत्कृष्टेन कर्मणा देवक्याम् उत्पन्नस्य मनुष्यस्य् एत्य् अर्थः । परिहरति, ब्रह्मणो हीति—_व्याख्यात-प्रायम् । “त्वं परा प्रकृतिः सूक्ष्मा” [वि।पु। ५.२.७] इति वैष्णवोक्तः परात्मिकायां देवक्याम् अविच्युत-स्वरूप-शक्तिकस्य परेशस्य मम प्राकटय मात्रम् एव जन्म, प्राच्याम् इव भानोः प्रदर्शनम्, “अजोऽपि सन्न् अव्ययात्मा” [गी। ४.६] इत्य्-आदि पूर्वोक्तेः । न तु मानुष्याम् अन्य-राज-पुत्रस्य् एव विनष्ट-पूर्वार्जित-विद्यादिकस्य तद् देह-लब्ध-पिण्डस्योत्पत्तिर् इति मद्-भजनात् मच्-छवि प्राप्तिर् नाद्भुता । न खलु सूर्यं गच्छतस् तत् प्रभासु प्रवेशो दुर्घटः ॥२२१॥
अव्ययेनामृतेनेह नित्य-मुक्तिर् उदीर्यते ।
शाश्वतेन तु धर्मेण भगवद्-धर्म उच्यते ॥२२२॥
ऐकान्तिक-सुखेनात्र प्रेम-भक्ति-रसोत्सवः ।
येन मोक्ष-सुखस्यापि तिरस्कारो विधीयते ॥२२३॥
किं च, ब्रह्म-संहितायां [५।४०]—
**
यस्य प्रभा प्रभवतो जगद्-अण्ड-कोटि-
कोटिष्व् अशेष-वसुधादि-विभूति-भिन्नम्** **।
तद् ब्रह्म निष्कलम् अनन्तम् अशेष-भूतं
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ॥२२४॥
अत्र कारिके—
निष्कलादि स्वरूपं तद् ब्रह्माण्डार्बुद-कोटिषु ।
विभूतिभिर् धराद्याभिर् भिन्नं भेदम् उपागतम् ॥
सदा प्रभाव-युक्तस्य ब्रह्म यस्य प्रभा भवेत् ।
तं गोविन्दं भजामीति पद्यस्यार्थः स्फुटीकृतः ॥२२५॥
बलदेवः- **नराकृतेः सान्द्र-चैतन्य-राशेः कृष्णस्य निराकारश् चैतन्य-राशिः प्रभा-स्थानीयो ब्रह्म-प्रकाशत्वेनोच्यते, इत्य् अत्र प्रमाणं वाचनिकम् आह—यस्य प्रभेत्यादि । प्रभवतो यस्य प्रभा, तद् ब्रह्म, तं गोविन्दम् अहं भजामि इत्य् अन्वयः । कीदृशं ब्रह्म? इत्य् आह—जगद्-अण्ड-कोटि-कोटिषु असङ्ख्यातेषु जगद्-अण्डेषु, **वसुधादिभिर् विभूतिभिर् भिन्नं, **कारणात्मना एकं तत्-कार्यात्मना असङ्ख्यातम् इत्य् अर्थः ॥२२४॥
ननु सोऽकामयत बहु स्याम् [तै।उ। २.६] इत्य्-आदौ प्रभोर् एव परेशात् कार्यं श्रुतं, न तु तत् प्रभाया इति चेत्? उच्यते । प्रभोः प्रभैव कार्य-निष्पादिकेति विवक्षया तद्-उक्तिर् इति तत्-प्रभयैव क्षुब्धा प्रकृतिर् जगद्-अण्डान्य् असूतेत्य् अर्थः । केवलाद्वैतिभिर् यद् ब्रह्म स्वरूपं निर्णीयते, तद् अत्र नाभिमतं । तद् धि निर्धर्मकं शब्दा वाच्यम् अद्वितीयश् च । इदं तु विशुद्धत्व-प्रकाश-मयत्वादि-धर्म-युक्, शास्त्र वाच्यं, जगत्-कारणत्वात् स द्वितीयश् चेति महद्-अन्तरम् ।
किं च, तद्-अभिमतं ब्रह्म तु न श्रद्धेयं, तस्मिन् प्रमाणाभावात्; न तावत् तत्र प्रत्यक्षं प्रमाणं, रूपादि-विरहात् । नाप्य् अनुमानं, तद् व्याप्य-लिङ्गाभावात्, न च शब्दः, प्रवृत्ति-निमित्तस्य जात्यादेर् अभावात्, न च लक्षणा, सर्व-शब्दा-वाच्ये तस्या असम्भवात्, न च तत्-पक्षे ततः सृष्टिः, तद्-धेतोः सङ्कल्प-शक्तेर् विरहात्, न चोपदेशः, उपदेष्टुर् उपदेश्यस्य चाभावात् ।
ननु भ्रान्त्या तत्-तत्-सिद्धिः? मैवम् । क्व भ्रमः, ब्रह्मणि जीवे वा ? नाद्यः विज्ञान-राशेस् तस्य तद्-असम्भवात् । नान्त्यः प्राग्-अभ्रान्तेस् तस्यैवाभावात्, इति तुच्छं तत् ॥२२५॥
ननु भोस् तव भावोऽयं ज्ञात एव मया ध्रुवम् ।
**पर-व्योम-पतेः शौरिर् अवतारस् त्वयोच्यते ॥२२६॥
बलदेवः- **अथ श्री-वैष्णवाः प्रत्यवतिष्ठन्ते । ते हि मन्यन्ते, पर-व्यूह-विभवान्तर्याम्य्-अर्चात्मना परमात्मा विभाति । तत्र परः_—नारायणः स्वयं प्रभुः, व्यूहाः—वासुदेवादयश् चत्वारः, विभवाः—मत्स्य-कूर्मादयः, अन्तर्यामी—प्रतिप्राणि-हृद्-वर्त्य्-अङ्गुष्ठमात्रः, अर्चा तु—_श्रीरङ्ग-जगन्नाथादिः । विभवेषु नृसिंहो रघुनाथः कृष्णश् च श्रेष्ठाः, तेष्व् ऐश्वर्याधिक्यात् कृष्णो नारायणानन्तरो भविष्यति, विभवाश् च नित्य-विग्रहा इति । तान् निराकर्तुं तद्-भाषणमनुवदति, नन्व् इति ।
तव_—कृष्णपारम्यवादिनः, भावः—_अभिप्राय इत्य् अर्थः । कोऽसौ? तम् आह—परेति ॥२२६॥
जन्मादि-लीला-प्राकट्याद् अवतारतयाप्य् असौ ।
**प्रोक्तो विलास एव स्यात् सर्वोत्कर्षाति-भूमतः॥२२७॥
बलदेवः- **ननु मत्स्य-कूर्मादिर् इव कृष्णोऽस्त्ववतार इति चेत्? नैवम् इत्य् आह—जन्मादीति । प्रपञ्चाविर्भाव-मात्रेण कृष्णोऽवतारत्वेनोक्तः, वस्तुतस् तु नारायण एवानाविष्कृत-कियद्-धर्म-कृष्ण इत्य् अर्थः । तत्र हेतुः, सर्वोत्कर्षेति_—_नृसिंह-रामाभ्याम् अप्य् अतिशयाभिधानाद् इत्य् अर्थः ॥२२७॥
**यः पर-व्योम-नाथः स्याद् असमानोर्ध्व-वैभवः ।
श्रुति-स्मृति-महा-तन्त्र-वर्णितोत्कर्ष-सौष्ठवः ।
लोक-सृष्टेः पुरा ब्राह्मे कल्पे यः परमेष्ठिने ।
महा-वैकुण्ठ-लोक-स्थं स्वम् आत्मानम् अदर्शयत् ॥२२८॥
बलदेवः- **तं विशिनष्टि, यः परेति ॥२२८॥
तथा हि श्री-द्वितीय-स्कन्धे [भा।पु। २.९.९-१६]—
तस्मै स्व-लोकं भगवान् सभाजितः
सन्दर्शयामास परं न यत् परम् ।
**व्यपेत-सङ्क्लेश-विमोह-साध्वसं
स्व-दृष्टवद्भिः पुरुषैर् अभिष्टुतम् ॥२२९॥
बलदेवः- **तस्मै स्वेति । तस्मै_—ब्रह्मणे चतुर् मुखाय, सभाजितः—तेन भक्त्याराधितः, भगवान्—परम-व्योम-नाथः, स्व-लोकं—परम-व्योमाख्यं स्व-स्थानम्, अदर्शयत् । यत्—यतः, परम्—अन्यत्, वैकुण्ठं, परं—श्रेष्ठं, नास्ति । व्यपेताः सङ्क्लेशादयो यस्मात्, सङ्क्लेशाः—अविद्यास्मिता-राग-द्वेषाभिनिवेशाः, विमोहः—अविवेकः, साध्वसं—पातभयम् । स्वस्य, दृष्ट—दर्शनं, तद्वद्भिः साक्षात्-कृत-तद्-रूपैः, पुरुषैः—_तल्-लोकिभिः, अभिष्टुतम् ॥२२९॥
प्रवर्तते यत्र रजस् तमस् तयोः
सत्त्वश् च मिश्रं न च काल-विक्रमः ।
**न यत्र माया किम् उतापरे हरेर्
अनुव्रता यत्र सुरासुरार्चिताः ॥२३०॥
बलदेवः- **रजस् तमश् च, तयोः सहचरं मिश्रं सत्त्वश् च, यत्र_—लोके, कालविक्रमश् च, न प्रवर्तते—नास्ति, यत्र मायैव नास्ति, अपरे—_तत्-कार्यभूता महद्-अहङ्कारादयश् च, न सन्तीति किम् उत वक्तव्यम् । कालमाययोर् अभावेन नित्यानन्द-स्वप्रकाश-रूपत्वं लोकस्य दर्शितम् । पार्षद-मञ्जुलत्वं लोकस्याह—हरेर् अनुव्रता इत्य्-आदिना ॥
रजस् तमश् च, तयोः सहचरं मिश्रं सत्त्वश् च, यत्र_—लोके, काल-विक्रमश् च, न प्रवर्तते—नास्ति, यत्र मायैव नास्ति, अपरे—_तत्-कार्य-भूता महद्-अहङ्कारादयश् च, न सन्तीति किम् उत वक्तव्यम् । कालमाययोर् अभावेन नित्यानन्द-स्वप्रकाश-रूपत्वं लोकस्य दर्शितम् । पार्षद-मञ्जुलत्वं लोकस्याह—हरेर् अनुव्रता इत्य्-आदिना ॥
श्यामावदाताः शत-पत्र-लोचनाः
पिशङ्ग-वस्त्राः सुरुचः सुपेशसः ।
**सर्वे चतुर्-बाहव उन्मिषन्-मणि-
प्रवेक-निष्काभरणाः सुवर्चसः ॥
बलदेवः- सुपेशसः_ **सौकुमार्यवन्तः । उन्मिषन्त इव प्रभावन्तः, **मणि-प्रवेकाः **मण्य्-उत्तमाः, येषु तादृशानि निष्काद्य्-आभरणानि येषां ते । **निष्कं _**पदकम् ॥२३०॥
**प्रवाल-वैदूर्य-मृणाल-वर्चसः
परिस्फुरत्-कुण्डल-मौलि-मालिनः ॥२३१॥
बलदेवः- प्रवालेति_ _**तत्-तद्-वर्ण-भगवद्-उपासनया तत्-तत्-सारूप्यवन्त इत्य् अर्थः ॥२३१॥
भ्राजिष्णुभिर् यः परितो विराजिते
लसद्-विमानावलिभिर् महात्मनाम् ।
विरोचमानः प्रमदोत्तमा-द्युभिः
स-विद्युद्-अभ्रावलिभिर् यथा नभः ॥२३२॥
बलदेवः- भ्राजिष्णुभिर् इति । **महात्मनां_ **तल्-लोकिनां, भ्राजिष्णुभिर् लसद्-विमानावलिभिः, **यः **लोकः परितो विराजते । **प्रमदोत्तमानां **वर-तरुणीनां, **द्युभिः **कान्तिभिः, **विरोचमानः **दीप्तिमान्तन् । तत्र दृष्टान्तः, सविद्युद् अभ्रावलिभिः, नभः—_आकाशः, यथेति तासां नीलसाटीविशिष्टत्वं द्योत्यते ॥२३२॥
**श्रीर् यत्र रूपिण्य् उरुगाय-पादयोः
करोति मानं बहुधा विभूतिभिः **।
**प्रेङ्खाश्रिता या कुसुमाकरानुगैर्
विगीयमाना प्रिय-कर्म गायती ॥२३३॥
बलदेवः- श्रीः_ **लक्ष्मीः, **रूपिणी **दिव्य-रूपवती, **विभूतिभिः **सेवा-परिच्छदैः, **उरुगायस्य **हरेः पादयोः । **मानं **पूजां करोति । यद् वा, **श्रीः **सम्पद्-रूपा **रूपिणी **मूर्ता इति प्राग्वत् । कीदृशी सा? इत्य् आह—**प्रेङ्खां **दोलाम्31 **आश्रिता **आरूढा । **कुसुमाकरः **वसन्त-र्तुः, तद्-**अनुगैः **ग्रीष्माद्य्-ऋतुभिर् मूर्तिमद्भिः, विशेषेण गीयमाना । **प्रियस्य **हरेः **कर्म _**चरितं गायतीति ॥२३३॥
“प्रेङ्खां-दोलाम्” इत्य् अत्र “प्रेङ्खम् आन्दोलम्” इति पाठान्तरम् ।
ददर्श तत्राखिल-सात्वतां पतिं
श्रियः पतिं यज्ञ-पतिं जगत्-पतिम् ।
सुनन्द-नन्द-प्रबलार्हणादिभिः
स्व-पार्षदाग्र्यैः परिषेवितं विभुम् ॥
भृत्य-प्रसादाभिमुखं दृग्-आसवं
प्रसन्न-हासारुण-लोचनाननम् ।
**किरीटिनं कुण्डलिनं चतुर्भुजं
पीतांशुकं वक्षसि लक्षितं श्रिया ॥
अध्यर्हणीयासनम् आस्थितं परं
वृतं चतुः-षोडश-पञ्च-शक्तिभिः ।
युक्तं भगैः स्वैर् इतरत्र चाध्रुवैः
स्व एव धामन् रममाणम् ईश्वरम् ॥२३४॥ इति ।
बलदेवः- लोकं दृष्ट्वा तल्-लोकनाथं हरिं ब्रह्मा अदर्शद् इत्य् आह—ददर्शेति । कीदृशम्? इत्य् आह—अखिलेति । सातिः सुखार्थः सौत्रः, ततः क्विपि तु, सात्_—सुखरूपो हरिः, स येषाम् अर्च्यतयास्ति, ते, सात्वन्तः—तद्-भक्ताः, तेषाम् अखिलानां, पति—_स्वामिनम् । दृग्-आसवं_—_सौन्दर्येण नेत्रोन्मादकम् इत्य् अर्थः । श्रिया_—_रेखारूपया, वक्षसि, लक्षितः _—_चिह्नितम् । अध्यर्हणीयं_—सर्व-पूज्यं, यत्, आसनं—राज-पद-रूपं, तत् आस्थितं—_तस्मिन् विराजमानम् इत्य् अर्थः । चतुः-षोडश-पञ्च-शक्तिभिर् वृतं_—_तत्र-ह्लादिनी-कीर्ति-करुणा-तुष्टयश् चतस्रः, श्र्यादयः सप्त, विमलादयो नवेति षोडश; साङ्ख्य-योग-वैराग्य-तपो-भक्तयः पञ्च; इत्य् एताभिः पञ्च-विंशत्या शक्तिभिः परिवृतम्, आसनम् इति योज्यम् । भगैः_—धर्म-ज्ञानैश्वर्य-वैराग्यैः, स्वैः—असाधारणैः, युक्तं—_विशिष्टम् । कीदृशैस् तैः? इत्य् आह—इतरत्र_—विरिञ्च्यादौ, अध्रुवैः—_अस्थिरैः । **स्फुटम् अन्यत् ॥२३४॥
**अत्र कारिकाः—
यद् यतः परम् उत्कृष्टं पदम् अन्यन् न हि क्वचित् ।
सङ्क्लेशाः पञ्च-विद्याद्या विमोहो निर्विवेकता ॥
बलदेवः- **पद्यानि कारिकाभिर् व्याख्याति—यद् यतः परम् इत्य्-आदिभिः । स्व-दृष्टम् इति—भावे निष्ठा ॥
साध्वसं पाततो भीतिर् न सन्त्य् एतानि यत्र तम् ।
स्व-दृष्टम् आत्मनः साक्षात् कारस् तद्वद्भिर् ईडितम् ॥२३५॥
रजस् तमश् च नो यत्र सत्त्वं सध्र्यक् तयोर् न च ।
गुणा यत्र प्रकृतिजा न सन्तीति प्रदर्शितम् ॥
बलदेवः- सध्र्यग् इति_ । _सहाञ्चतीति सध्र्यक्, सहस्य सध्रिर् आदेशः, सहचरम् इत्य् अर्थः । ननु मिश्रं सत्त्वं नास्तीत्य् उक्तेर् विशुद्धं तत् यत्रास्तीति लभ्यते, विशुद्ध-सत्त्वं तव धाम शान्तं तपो-मयं ध्वस्त-रजस्-तमस्कम् [भा।पु। १०.२७.४] इत्य्-आदि स्मरणाच् च, तच् च प्राकृतम् एव भवेद् इति चेत्? न, न यत्र माया इत्य् अनेन तस्यापि व्युदासात् । यत् तु विशुद्ध-सत्त्वं तव धाम इत्य् अनेनोक्तं, तत् खलु मायेतरत् ज्ञानात्मकं स्व-प्रकाशं वस्तु इत्य् एके, भगवद्-अभिन्ना या परा शक्तिः ह्लादिनी सन्धिनी संवित् [वि।पु। १.१२.९६] इत्य् एवं त्रिवृत् पठ्यते, तद्-भूतम् एव तत् इत्य् अपरे इत्य् अन्यत्र बहुतरम् ॥
**न काल-विक्रमो यत्र सर्व-विध्वंस-कारिता ।
परं मूलम् अनर्थानां यत्र मायैव नास्ति हि ॥
अपरे तत्र किम् उत विकारा महद्-आदयः ।
अतो वैकुण्ठ-लोकस्य कथिता नित्य-सिद्धता ॥२३६॥
हरेर् अनुव्रता यत्र श्यामारुण-हरित्-सिताः ।
तत्-तद्-वर्णम् उपास्येशं तत्-सारूप्यम् उपागताः ॥
तत्-तद्-वर्णं_ _**श्यामादि-रूपम् ॥
**अथवा नित्य-सिद्धत्वात् तद्-रुचाम् अप्य् अनादिता ॥२३७॥
श्रीः सम्पद्-रूपिणी मूर्ता यत्र पद्मांश-सम्भवा ।
मानं सेवां रचयति विविधाभिर् विभूतिभिः ॥
कुसुमाकर-शब्देन ऋतूनाम् अधिपो मतः ।
तेन तस्यानुगैर् ग्रीष्म-वर्षाद्यैर् ऋतुभिश् च या ॥
ऋतूनाम् अधिपः_ _**राजा वसन्तः ॥
**विशेषाद् गीयमानापि प्रियकर्मैव गायती ।
शत्रन्तेन पदेनात्र तिङ्-अन्ता लक्षिता क्रिया ॥२३८॥
तत्रेश्वरं ददर्शासौ कथम्भूतं दृग्-आसवम् ।
सान्द्रानन्दैर् दृशां सुष्टु मादकत्वात् स आसवः ॥२३९॥
बलदेवः- सान्द्रानन्दैर् **इति—सौन्दर्य-माधुर्य-सौरभ्य-लावण्य-लक्षणैर् इत्य् अर्थः । **स_ **हरिर् एव । **आसवः _**मधु-स्थानीय इत्य् अर्थः ॥२३९॥
पीतांशुकं पदेनास्य ध्वन्यते32** श्याम-वर्णता ॥२४०॥ **
“पदेनास्य ध्वन्यते” इत्य् अत्र “पदेनात्र ध्वनिता” इति पाठान्तरम् ।
**बलदेवः- **पीतांशुकेति । श्यामेति पीताम्बरस्य शोभाधायित्वाद् इत्य् अर्थः ॥२४०॥
अध्यर्हणीय-शब्देन महा-योगाख्य-पीठकम् ।
श्री-पाद्मोत्तर-खण्डोक्तम् अत्रैवाग्रे प्रवक्ष्यते ॥२४१॥
चतस्रो ह्लादिनी-कीर्ति-करुणा-तुष्टयः स्मृताः ।
शक्तयः षोडशात्रैव पूर्वम् एव प्रदर्शिताः ॥२४२॥
विद्यायाः पञ्च-पर्वाणि साङ्ख्यादीन्य् अत्र पञ्च च ॥२४३॥
तानि पञ्चरात्रे—
साङ्ख्य-योगौ तु वैराग्यं तपो भक्तिश् च केशवे ।
पञ्च-पर्वेति विद्येयं यया विद्वान् हरिं विशेत् ॥ इति ॥२४४॥
इत्य् एताभिर् वृतं पञ्च-विंशत्या शक्तिभिः सदा ।
भगैर् ऐश्वर्य-धर्माद्यैः स्वैर् असाधारणोदयैः ॥
इतरत्र विरिञ्च्य्-आदाव् अध्रुवैर् अस्थिरैः कृशैः ॥
स्व एव धाम्नि वैकुण्ठे रतिं विदधतं सदा ।
**किं वा स्वरूप-भूतत्वाच् छ्रियस् तस्याः स्वधामता ॥२४५॥
बलदेवः- **स्व एवेति । **रतिम्_ **अभिरुचिम् । किं वेति _एतत्-पक्षे रतिं सम्भोगम् ॥२४५॥
तथा च भार्गव-तन्त्रे—
**
शक्ति-शक्तिमतोश् चापि न विभेदः कथञ्चन ।
अविभिन्नापि स्वेच्छादि-शब्दैर् अपि विभाष्यते ॥२४६॥ इति ।
बलदेवः- **ननु श्रीर् हरि-धामेति कथं धाम-शब्दस्य विग्रह-वाचित्वात्, धाम देहे गृहे रश्मौ इति मेदिनी, नहि श्रीर् हरेर् विग्रह इति चेत्? तत्राह—शक्तीति । ह्लादिनी शक्तिः खलु श्रीः, तद्-अभिन्नत्वात् तद्-विग्रह-रूपैव सेति किम् अनुपपन्नम् ? विशेष-बलात् तु भेद-कार्यं भविष्यत्य् एव, सत्ता सती इत्य्-आदिवत् । यद्यप्य् अभिन्ना शक्तिः, तथापि **स्वेच्छादि-शब्दैर् **उच्यते, विशेष-सामर्थ्यात् ॥२४६॥
किं च, पाद्मोत्तर-खण्डे [प।पु। ६.२५५.५७-६४]—
प्रधान-परम-व्योम्नोर् अन्तरे विरजा नदी ।
**वेदाङ्ग-स्वेद-जनित-तोयैः प्रस्राविता शुभा ॥२४७॥
बलदेवः- **परिपोषाय महा-वैकुण्ठ-लोकं पाद्म-वाक्यैर् वर्णयति प्रधानेति ॥२४७॥
तस्याः पारे पर-व्योम्नि त्रिपाद्-भूतं सनातनम् ।
अमृतं शाश्वतं नित्यम् अनन्तं परमं पदम् ॥
शुद्ध-सत्त्व-मयं दिव्यम् अक्षरं ब्रह्मणः पदम् ।
अनेक-कोटि-सूर्याग्नि-तुल्य-वर्चसम् अव्ययम् ॥
सर्व-वेद-मयं शुभ्रं सर्व-प्रलय-वर्जितम् ।
असङ्ख्यम् अजरं सत्यं जाग्रत्-स्वप्नादि-वर्जितम् ॥
हिरण्मयं मोक्षपदं ब्रह्मानन्द-सुखाह्वयम् ॥
समानाधिक्य-रहितम् आद्य्-अन्त-रहितं शुभम् ॥
तेजसात्य्-अद्भुतं रम्यं नित्यम् आनन्द-सागरम् ।
एवम् आदि-गुणोपेतं तद् विष्णोः परमं पदम् ॥
न तद् भासयते सूर्यो न शशाङ्को न पावकः ।
**यद् गत्वा न निवर्तन्ते तद् धाम परमं हरेः ॥२४८॥
बलदेवः- **शाश्वतं_—नवायमानम् ॥ शुभ्रं—निर्मलम् । असङ्ख्यम्—_अपरिमितम् ॥
हिरण्मयं_—_चिद्-घनम् ॥२४८॥
तद् विष्णोः परमं धाम शाश्वतं नित्यम् अच्युतम् ।
**न हि वर्णयितुं शक्यं कल्प-कोटि-शतैर् अपि ॥२४९॥
तत्रैवाग्रे [प।पु। ६.२५६.९-२१]—
श्रीशाङ्घ्रि-भक्ति-सेवैक-रस-भोग-विवर्धिताः ।
महात्मानो महाभागा भगवत्-पाद-सेवकाः ।
तद् विष्णोः परमं धाम यान्ति प्रेम-सुख-प्रदम् ॥२५०॥
बलदेवः- **तद्-गमनाधिकारिण आह—श्रीशाङ्ग्रीति ॥२५०॥
नाना-जनपदाकीर्णं वैकुण्ठं तद् धरेः पदम् ।
**प्राकारैश् च विमानैश् च सौधै रत्न-मयैर् वृतम् ॥२५१॥
तन्-मध्ये नगरी दिव्या सायोध्येति प्रकीर्तिता ।
मणि-काञ्चन-चित्राड्य प्राकारैस् तोरणैर् वृता ।
चतुर्द्वार-समायुक्ता रत्न-गोपुर-संवृता ॥२५२॥
बलदेवः- **अयोध्येति_—मायया योद्धुमावरीतुम् अशक्यत्वाद् इत्य् अर्थः । तोरणैः—वन्दन-मालाभिः । गोपुरैः—पुर-द्वारैः, संवृता—_विशिष्टा, “पुर-द्वारन् तु गोपुरम्” इत्य् अमरः ॥२५२॥
**चण्डादि-द्वार-पालैश् च कुमुदायैः सुरक्षिता ।
चण्ड-प्रचण्डौ प्राग्-द्वारे याम्ये भद्र-सुभद्रकौ ।
वारुण्यां जय-विजयौ सौम्ये धातृ-विधातरौ ॥२५३॥
कुमुदः कुमुदाक्षश् च पुण्डरीकोऽथ वामनः ।
शङ्कु-कर्णः सर्व-नेत्रः सुमुखः सुप्रतिष्ठितः ।
एते दिक्-पतयः प्रोक्ताः पुर्याम् अत्र शुभानने ॥२५४॥
बलदेवः- **यत्र पुर्यां कुमुदादयोऽष्टौ दिक्-पालाः सन्तीत्याह—कुमुद इत्य्-आदि ॥२५४॥
कोटि-वैश्वानर-प्रख्य-गृह-पङ्क्तिभिर् आवृता ।
आरूढ-यौवनैर् नित्यैर् दिव्य-नारी-नरैर् युता ॥२५५॥
अन्तःपुरं तु देवस्य मध्ये पुर्या मनोहरम् ।
मणि-प्राकार-संयुक्तं वर-तोरण-शोभितम् ॥
विमानैर् गृह-मुख्यैश् च प्रासादैर् बहुभिर् वृतम् ।
**दिव्याप्सरोगणैः स्त्रीभिः सर्वतः समलङ्कृतम् ॥२५६॥
मध्ये तु मण्डपं दिव्यं राज-स्थानं महोत्सवम् ।
माणिक्य-स्तम्भ-साहस्र-जुष्टं रत्न-मयं शुभम् ।
नित्य-मुक्तैः समाकीर्णं साम-गानोपशोभितम् ॥२५७॥
बलदेवः- **नित्य-मुक्तैः_—_नित्य-निवृत्त-तमोभिः ॥२५७॥
मध्ये सिंहासनं रम्यं सर्व-वेद-मयं शुभम् ।
धर्मादि-दैवतैर् नित्यैर् वृतं वेद-मयात्मकैः ।
धर्म-ज्ञान-महैश्वर्य-वैराग्यैः पाद-विग्रहैः ॥२५८॥
**
बलदेवः- **पीठ-पादा विग्रहा येषां तैः, पीठपादतया स्थितैर् इत्य् अर्थः ॥२५८॥
तत्रैव [प।पु।उ।ख। २५६.२३-५४]—
वसन्ति मध्यमे तत्र वह्नि-सूर्य-सुधांशवः ।
कूर्मश् च नागराजश् च वैनतेयस् त्रयीश्वरः ॥
छन्दांसि सर्व-मन्त्राश् च पीठ-रूपत्वम् आस्थिताः ।
**सर्वाक्षर-मयं दिव्यं योग-पीठम् इति स्मृतम् ॥२५९॥
बलदेवः- **वसन्तीति । त्रयीश्वरः_—वेदमयः, वैनतेयः—_गरुडः ॥२५९॥
**तन्-मध्येऽष्टदलं पद्मम् उदयार्क-सम-प्रभम् ।
तन्-मध्ये कर्णिकायां तु सावित्र्यां शुभ-दर्शने! ।
ईश्वर्या सह देवेशस् तत्रासीनः परः पुमान् ॥२६०॥
बलदेवः- **तन्-मध्ये इति_—_गायत्री-रूपायां पद्म-कर्णिकायाम् इत्य् अर्थः । हे शुभ-दर्शने!—गौरि! ॥२६०॥
इन्दीवर-दल-श्यामः सूर्य-कोटि-सम-प्रभः ।
**युवा कुमारः स्निग्धाङ्गः कोमलावयवैर् युतः ॥२६१॥
बलदेवः- **कुमारः_—_क्रीडापरः ॥२६१॥
फुल्ल-रक्ताम्बुज-निभ-कोमलाङ्घ्रि-कराब्जवान् ।
प्रबुद्ध-पुण्डरीकाक्षः सुभ्रू-लत-युगाङ्कितः ॥२६२॥
सुनासः सुकपोलाढ्यः सुशोभ-मुख-पङ्कजः ।
**मुक्ताफलाभ-दन्ताढ्यः सुस्मिताधर-विद्रुमः ॥२६३॥
परिपूर्णेन्दु-सङ्काश-सुस्मितानन-पङ्कजः ।
तरुणादित्य-वर्णाभ्यां कुण्डलाभ्यां विराजितः ॥२६४॥
सुस्निग्ध-नील-कुटिल-कुन्तलैर् उपशोभितः ।
मन्दार-पारिजाताढ्य कवरी-कृत-केशवान् ॥२६५॥
बलदेवः- **मन्दारादिभिः आढ्याः कबरीकृताः केशाः सन्त्यस्यति तथा, मन्दारादि-पुष्पैः कृत-केश-विन्यास-विशेषः कवरी ॥२६५॥
**प्रातर् उद्युत्-सहस्रांशु-निभ-कौस्तुभ-शोभितः ।
हार-स्वर्ण-स्रगासक्त-कम्बु-ग्रीवा-विराजितः ॥२६६॥
बलदेवः- **हाराः_—_मुक्तास्रजः, स्वर्ण-स्रजश् च, ताभिरासक्ता या कम्बुग्रीवा, तया विराजितः; “रेखा-त्रयाञ्चिता ग्रीवा कम्बु-ग्रीवेति कथ्यते ।” इति हलायुधः ॥२६६॥
सिंह-स्कन्ध-निभैः प्रोच्चैः पीनैर् अंसैर् विराजितः ।
**पीन-वृत्तायत-भुजैश् चतुर्भिर् उपशोभितः ॥२६७॥
बलदेवः- **सिंहेति । अंसैः_—_स्कन्धैः ॥२६७॥
अङ्गुलीयैश् च कटकैः केयूरैर् उपशोभितः ॥
बालार्क-कोटि-सङ्काशैः कौस्तुभाद्यैः सुभूषणैः ।
**विराजित-महा-वक्षा वन-माला-विभूषितः ॥२६८॥
बलदेवः- **कटकैः_—_चतुर्भिः कङ्कणैर् इत्य् अर्थः ॥२६८॥
विधातुर् जनन-स्थान-नाभि-पङ्कज-शोभितः ।
**बालातप-निभ-श्लक्ष्ण-पीत-वस्त्र-समन्वितः ॥२६९॥
बलदेवः- **विधातुर् जनन-स्थानेति_—एतस्मात् गर्भोदकशयस्य अद्वैताद् इत्य् अर्थः । बालातपेति—बाल-सूर्योपमेत्य् अर्थः । उद्बाहुभ्याम्—ऊर्ध्वबाहुभ्याम् । इतराभ्याम्—_अधोबाहुभ्याम् ॥२६९॥
नाना-रत्न-विचित्राङ्घ्रि-कटकाभ्यां विराजितः ॥
सज्योत्स्न-चन्द्र-प्रतिम-नख-पङ्क्तिभिर् आवृतः ॥२७०॥
कोटि-कन्दर्प-लावण्यः सौन्दर्य-निधिर् अच्युतः ।
दिव्य-चन्दन-लिप्ताङ्गो वन-माला-विभूषितः ॥
शङ्ख-चक्र-गृहीताभ्याम् उद्बाहुभ्यां विराजितः ।
वरदाभय-हस्ताभ्याम् इतराभ्यां तथैव च ॥२७१॥
वामाङ्क-संस्थिता देवी महा-लक्ष्मीर् महेश्वरी ।
**हिरण्य-वर्णा हरिणी सुवर्ण-रजत-स्रजा ॥२७२॥
बलदेवः- **हरिणी_—_मनोहरा, स्वर्ण-प्रतिमोपमत्वात्; “हरिणी हरितायाश् च नारीभिद्-वृत्त-भेदयोः । सुवर्ण-प्रतिमायाश् च” इति मेदिनी ॥२७२॥
सर्व-लक्षण-सम्पन्ना यौवनारम्भ-विग्रहा ।
रत्न-कुण्डल-संयुक्ता नीलाकुञ्चित-शीर्षजा ॥२७३॥
दिव्य-चन्दन-लिप्ताङ्गी दिव्य-पुष्पोपशोभिता ।
मन्दार-केतकी-जाती-पुष्पाञ्चित-सुकुन्तला ॥२७४॥
सुभ्रूः सुनासा सुश्रोणी पीनोन्नत-पयोधरा ।
परिपूर्णेन्दु-सङ्काश सुस्मितानन-पङ्कजा ॥२७५॥
तरुणादित्य-वर्णाभ्यां कुण्डलाभ्यां विराजिता ।
तप्त-काञ्चन-वर्णाभा तप्त-काञ्चन-भूषणा ॥२७६॥
हस्तैश् चतुर्भिः संयुक्ता कनकाम्बुज-भूषिता ।
नाना-रत्न-विचित्राढ्य-कनकाम्बुज-मालया ।
हार-केयूर-कटकैर् अङ्गुरीयैश् च भूषिता ॥२७७॥
भुज-युग्म-धृतोदग्र-पद्म-युग्म-विराजिता ।
**गृहीत-मातुलुङ्गाख्य-जाम्बूनद-कराञ्चिता ॥२७८॥
बलदेवः- **गृहीतं मातुलुङ्गाख्यं जाम्बूनदं येन तादृशेन करेणाञ्चिता, स्वर्ण-मय-बीजपूर-फल-शोभित-करेइति लीलया तद्-ग्रहणं; “फलपूरो बीजपूरो रुचको मातुलुङ्गके ।” इत्य् अमरः ॥२७८॥
एवं नित्यानपायिन्या महा-लक्ष्म्या महेश्वरः ।
मोदते परम-व्योम्नि शाश्वते सर्वदा प्रभुः ॥२७९॥
बलदेवः- एवम् इति—वर्णित-रूपयेत्य् अर्थः ॥२७९॥
पार्श्वयोर् अवनी-लीले समासीने शुभानने ।
**अष्ट-दिक्षु दलाग्रेषु विमलाद्याश् च शक्तयः ॥२८०॥
बलदेवः- **पार्श्वयोर् इति । अवनी-लीले_—_भू-देवी-लीला-देव्यौ लक्ष्म्याः सख्यौ, पाश्र्वयोर् वर्तते, लक्ष्मीस् तु वामाङ्गे इति ज्ञेयम् ॥२८०॥
विमलोत्कर्षिणी ज्ञाना क्रिया योगा तथैव च ॥
प्रह्वी सत्या तथेशाना महिष्यः परमात्मनः ॥
गृहीत्वा चामरान् दिव्यान् सुधाकर-सम-प्रभान् ।
सर्व-लक्षण-सम्पन्ना मोदन्ते पतिम् अच्युतम् ॥२८१॥
दिव्याप्सरोगणाः पञ्च-शत-सङ्ख्याश् च योषितः ।
अन्तःपुर-निवासिन्यः सर्वाभरण-भूषिताः ॥
पद्म-हस्ताश् च ताः सर्वाः कोटि-वैश्वानर-प्रभाः ।
**सर्व-लक्षण-सम्पन्नाः शीतांशु-सदृशाननाः ॥
ताभिः परिवृतो राजा शुशुभे परमः पुमान् ॥२८२॥
अनन्त-विहगाधीश-सेनान्य्-आद्यैः सुरेश्वरैः ॥
अन्यैः परिजनैर् नित्यैर् मुक्तैश् च परिसंवृतः ॥
मोदते रमया सार्धं भोगैश्वर्यैः परः पुमान् ॥२८३॥ इति ।
बलदेवः- **मोदन्ते_—मोदयन्तीत्य् अर्थः ॥ अनन्तः—शेषः, विहगाधीशा—गरुडः, सेनानीः—_विष्वक्सेनः ॥२८३॥
**अत्र कारिकाः—
अर्थतः शब्दतश् चात्र यत् पुनः पुनर् उच्यते ।
तद्-असम्भाव्य-वस्तुत्वात् प्रतीत्यै हेतुवादिनाम् ॥२८४॥
बलदेवः- **पाद्म-पद्यार्थान् कारिकाभिः सङ्कलयति, अर्थत इत्य्-आदिभिः । शब्दार्थयोः पुनः पुनर् उक्तिर् अस्ति, सा तु, हेतुवादिनां_—_तर्कपराणां, प्रतीत्यर्थत्वात् न दोषः, दुरूहोऽर्थः खलु असकृद् उपदिष्टो हृदयम् आरोहतीति ॥२८४॥
श्रीश-निश्वास-रूपाणां वेदानां तत्र मूर्तता ।
ततस् तद्-अङ्गतो जाताः स्वेदाः परम-पावनाः ॥२८५॥
त्रिपाद्-विभूतेर् धामत्वात् त्रिपाद्भूतं तु तत् पदम् ।
**विभूतिर् मायिकी सर्वा प्रोक्ता पादात्मिका यतः ॥२८६॥
बलदेवः- **त्रिपाद्-विभूतेर् इति_—_एकपान्मायिकी विभूतिस् तत्र नास्त्येवेत्य् अर्थः ॥२८६॥
**अमृतं सुष्ठु मधुरं शाश्वतन् तु मुहुर् नवम् ।
शुद्ध-सत्त्वन् तु तत्-प्रोक्तं सत्त्वम् अप्राकृतन् तु यत् ।
नित्याक्षरादि-शब्दैस् तु षड्-भाव-परिवर्जनम् ॥२८७॥
किञ्चानुत्थापितानाम् अपि कारिकाः—
आद्यम् आवरणं दिक्षु पूर्वादिषु किलाष्टसु ।
व्यूहैर् लक्ष्म्यादि-सहितैर् वासुदेवादिभिर् मतम् ॥२८८॥
बलदेवः- **पाद्मोत्तर-खण्डे महा-वैकुण्ठस्य विस्तरेण वर्णनम् अस्ति, तत् सङ्क्षेपेण दर्शयति, आद्यम् इत्य्-आदिभिः । पूर्वादिषु दिक्षु वासुदेवादयश् चत्वारो व्यूहाः, आग्नेय्यादिषु विदिक्षु तु लक्ष्मी-सरस्वती-रति-कान्तयस् तत्-प्रेयस्यो निवसन्तीति प्रथमावरणस्यावरकाः ॥२८८॥
पुर्यो लक्ष्म्याः सरस्वत्या रतेः कान्तेर् अनुक्रमात् ।
विदिक्षु परम-व्योम्न आग्नेय्यादिषु कीर्तिताः ॥२८९॥
केशवाद्यैर् इह चतुर् विंशत्या तु द्वितीयकम् ।
**अष्टासु किल काष्टासु तेषां ज्ञेयं त्रयं त्रयम् ॥२९०॥
बलदेवः- **केशवाद्यैर् इति_—_एकैकस्यां दिशि त्रयस् त्रयो निवसन्तीति पाद्मोत्तर-खण्डाद् एव बोध्यं, विस्तरभयान्नात्र लिखितम् ॥२९०॥
**दशभिर् मत्स्य-कूर्माद्यैर् दश-दिक्षु तृतीयकम् ॥२९१॥
बलदेवः- **तृतीयस्यावरणस्यावरकान् आह—दशभिर् इति । अत्र ब्राह्म-दिशि कृष्णो यद् यप्यावरणत्वेनोक्तस् तथापि तद् दिशस् तद् ऊर्ध्वत्वात् तद् वर्तिनस् तस्य पारम्यं वेदितव्यं, ग्रन्थस्य तल्-लोक परत्वेन तत् पक्षपातित्वेऽपि वस्तु-स्थितेर् अत्यागात् ॥२९१॥
सत्याच्युतानन्त-दुर्गा-विष्वक्सेन-गजाननैः **।
शङ्ख-पद्म-निधिभ्यां च तुर्यम् अष्टासु दिक्ष्व् इदम् ॥२९२॥
बलदेवः- **चतुर्थस्यावरणस्य् आह—सत्याच्युतेति । दुर्गा_-_गजाननावत्र नैव प्राकृत-देहौ, “न यत्र माया” इत्य् उक्तेः, किन्तु चिद्-विग्रहौ तत्-पार्षदाविति ज्ञेयम् ॥२९२॥
**ऋग्-वेदादि-चतुष्केण सावित्र्या गरुडेन च ।
तथा धर्म-मखाभ्याश् च पञ्चमं पूर्ववन् मतम् ॥२९३॥
बलदेवः- **पञ्चमस्य् आह—ऋग्-वेदादीति । अत्रैते मूर्ता ज्ञेयाः, “यत्र मूर्तिर् धराः कलाः” इत्य् उक्तेः । मख-शब्देन क्रियाधिष्ठातृ-देवता मूर्तैव ज्ञेया ॥२९३॥
शङ्ख-चक्र-गदा-पद्म-खड्ग-शार्ङ्ग-हलैस् तथा ।
**मुषलेन च षष्ठं स्याद् इन्द्राद्यैः सप्तमं तथा ॥२९४॥
बलदेवः- **षष्ठस्याह—शङ्खेति । इन्द्राद्यैर् अष्टभिस् तु सप्तमं ज्ञेयम् ॥२९४॥
**साध्या मरुद्-गणाश् चैव विश्वेदेवास् तथैव च ।
नित्याः सर्वे परे धाम्नि ये चान्ये त्रिदिवौकसः ।
ते वै प्राकृत-नाकेऽस्मिन् न नित्यास् त्रिदिवेश्वराः ॥२९५॥
बलदेवः- **ननु इन्द्रादयो देवताः प्रपञ्च-लोकाङ्ग-भूताः ख्याताः, कथम् अप्रपञ्च-लोकाङ्गतयोच्यते? तत्राह—साध्या इत्य्-आदि सार्धकं पाद्मोत्तर-खण्डीयम् एव [प।पु।उ।ख।२५६.६४-६५] प्रापञ्चिक-देवता प्रसाद्यास्तास् तन्निवासिन्य इति बोध्यम् ॥२९५॥
वासुदेवादि-मूर्तीणां सप्ततेस् तु चतुर् युजः ।
**लोकास् तु तावत्-सङ्ख्याकाः परे धाम्नि चकासति ॥२९६॥
बलदेवः- **महा-वैकुण्ठावरण-देवतानां चतुः-सप्तति-सङ्ख्यानां वासुदेवादीनं स्थानानि तत्-तद्-दिक्षु दिव्यानि सन्तीत्याह—वासुदेवादीति । लोकाः_—_भुवनानि, “लोकस् तु भुवने जने” इत्य् अमरः ॥२९६॥
त्रिषु पुंसोऽवतारेषु रुद्रात् पद्मभवात् तथा ।
भृग्वादिकृत-निर्धाराद्-विष्णुर् एव महत्तमः ॥
किं पुनः पुरुषस् तत्र वासुदेवोऽत्र किन्तराम् ।
**तत्रापि किन्तमां सोऽयं महा-वैकुण्ठ-नायकः ॥२९७॥
बलदेवः- **ननु महा-वैकुण्ठ-नाथस्य विष्णोर् इदं पारम्य-निरूपणं श्रद्धा-जाड्य-कृतम् एव, “एका मूर्तिस्त्रयो देवा ब्रह्म-विष्णु-शिवात्मकाः ।” इत्य्-आदि स्मृतिभिर् ब्रह्म-शिवयोश् च तल्-लाभात्? इति त्रि-देव्यैक-वादिभिर् आक्षिप्ते प्राह—विष्व् इति । पुंसः_—_गर्भोदकशयस्य, त्रिषु, ब्रह्म-विष्णु-शिवेषु, अवतारेषु मध्ये, रुद्रात् पद्म-भवाच् च सकाशात् विष्णुर् एव महत्-तमः, न रुद्रः, न च पद्म-भवः । कुतः? इत्य् आह—भृग्वादीति । कथा तु श्री-दशमे त्रि-देवी-परीक्षायां [भा।पु। १०.८९] द्रष्टव्या । एवं चेत् तेषां33 त्रयाणाम् अवतारी पुरुषो गर्भोदकशयः कारणोदकशयश् च महत्-तम इति किं वाच्यं, ततो वासुदेवस् तथेति किं तरां, ततो महा-वैकुण्ठ-नायको व्यूही पराख्यस् तथेति किन् तमां वाच्यम् इत्य् अर्थः । तथा च सर्वेषाम् अंशी स्वयं-रूपोऽयम् इति निष्कर्षः ॥२९७॥
ब्रह्म-विष्णु-शिवानाम्
**सदाशिवाख्यो यः शम्भुः स चैशान्यावृतिर् मता ॥२९८॥
बलदेवः- **ननु महा-शैवैः स्व-निर्णये सदाशिवो मूलं तत्त्वं पठ्यते, उदाह्रियते च लिङ्ग पुराण-वाक्यं “सदाशिवः कारण-कारणं परं तस्माच् च सर्वे प्रभवन्ति देवाः” इत्य्-आदि, तथा सति कथमस्य स्वयं-रूपत्वं? तत्राह—सदेति । तस्य34 तल्-लोकै35शान्य-दिग्-आवरण-देवतात्वेन कीर्तनात् ततोऽस्य36 श्रैष्ठ्यम् असन्देहम् इत्य् अर्थः । इदम् अत्र बोध्यं_—_ब्रह्म-संहितोक्तः सदाशिवः कृष्ण-विलासो नारायणः, लिङ्गोक्तस् तु तद्-आवरणस्थ-तत्-स्वांश37 इति ॥२९८॥
सदाशिवस्य
महा-वैकुण्ठस्य
महा-वैकुण्ठ-नाथस्य
लिङ्ग-पुराणोक्त श्री-सदाशिवस् तु महा-वैकुण्ठस्य ऐशान्यावरण-देवतात्वेन तदीयथांश-भूत इत्य् अर्थः
अतो ब्रुवेऽनयोः प्रायो वैलक्षण्यं द्वयोर्न हि ।
**दीपोत्थ-दीप-तुल्यत्वात् स्याद् विलास-विलासिनोः ॥२९९॥
बलदेवः- **एवं महा-वैकुण्ठ-नाथं साङ्गं निरूप्य तद् उपासको विवक्षितं स्फुटयति, अत इति । कृष्णस्य स्वयं भगवत्त्वे प्रमाण-लाभात् नारायणस्यानादि-सिद्ध-महेश्वर्य-विशिष्ट-स्वरूपतायां प्रमाण-प्रचयाच्चानयोः कृष्ण-नारायणयोः प्रायो वैलक्षण्यं मत्स्यादि-नारायणयोर् इव नास्त्य् एव, किन्तु पूर्वोत्तरयोर् दीपयोर् इव सालक्षण्यम् अस्तीति पूर्व-दीप इव नारायणः स्वयं, कृष्णस् तु तद् दीपोत्थ-दीप इव तत्-तुल्यस् तद्-विलास इति ॥२९९॥
**मैवं वादीर् महावादिन् अधुना त्वम् अपेशलः ।
गहनैश्वर्य-विज्ञान-रसास्वादयोर् असि ॥३००॥
बलदेवः- **परिहरति, मैवम् इति । हे महावादिन्! अव्यक्तार्थक बहु वाक्यालापिन्न् इत्य् अर्थः । एवं, मा वादीः_—न बृहीत्य् अर्थः । यस् त्वम् अधुना कृष्णस्य गहनैश्वर्य-विज्ञान-रसास्वादनयोः, अपेशलः—_अनिपुणः, “पेशलो रुचिरे दक्षे” इति मेदिनी ॥३००॥
सर्व-वेदान्ततः सारं वेद-कल्पतरोः फलम् ।
**श्री-भागवतम् एवात्र प्रमाणं सर्वतो वरम् ॥३०१॥
बलदेवः- **ननु त्वं केन प्रमाणेन कृष्णस्य स्वयं-रूपस्य तद्-द्वयं38 प्रतिपादयसीति चेत्? तत्राह—सर्वेति_—_“सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते । तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥” [भा।पु। १२.१३.१५] इति श्री-भागवतात्; येन श्री-बादरायणस्य हृत्-तापो निवृत्त इति वर्ण्यते ॥३०१॥
महैश्वर्यं महा-माधुर्यश् चेति
तथा हि श्री-तृतीये [भा।पु। ३.२.२१]—
**
स्वयन्त्व् असाम्यातिशयस् त्र्य्-अधीशः
स्वाराज्य-लक्ष्म्य्-आप्त-समस्त-कामः** ।
**बलिं हरद्भिश् चिर-लोक-पालैः
किरीट-कोटीडित-पाद-पीठः ॥ इति ॥३०२॥
बलदेवः- **एवं पूर्व-पक्षे प्राप्ते निरपेक्ष-रव-स्वरूप-श्रुति-वाक्येन, श्री-कर्तृक-कृष्ण-स्पृहया, सर्वातिशायि-कृष्ण-नाम-महिम-रूप-लिङ्गेन च श्रीनाथाद् अपि कृष्ण-रूपस्याधिक्यं वक्तुं प्रवर्तते । अत्र श्रुति-रूपं श्री-भागवतीयम् उद्धव-वाक्यम् आह—। उद्धवो हि ज्ञानि-वर्यः, “नोद्धवोऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः । अतो मद्-वयुनं लोकं ग्राहयन्न् इह तिष्ठतु ॥” [भा।पु। ३.४.३१] इति भगवद्-वाक्यात् । ततस् तद्-वाक्यस्य प्रमाणकत्वम् असन्देहम् । तद् एवं तद्-वाक्यार्थः_—तुर् अवधारणे, कृष्णः स्वयम् एव, “स्वयं दासास् तपस्विनः” इतिवत् अन्यानपेक्ष-स्वरूपैश्वर्य इत्य् अर्थः । अतः असाम्यातिशयः—परम-व्योमाधीशपर्यन्त-तत्-स्वरूपैः साम्यं तौल्यं, तेषाम् अतिशयश् च कृष्ण-स्वरूपाद्-आधिक्यं, तद्-उभयं यत्र नेत्य् अर्थः । त्रयाणां—गोकुलादीनां धाम्नां परम-व्योमोर्धवर्तिनाम्, अधीशः—स्वामी । स्वाराज्य-रूपया, लक्ष्म्या—अतिसम्पदा, आप्ताः समस्ताः, कामाः—दिव्य-रस-गन्धादयो भोग्याः, यम्, इति स्वान्यानपेक्ष-महैश्वर्य इत्य् अर्थः; स्वाराज्यञ्च—पूर्ण-गुणेन स्वरूपेण स्वात्म् अभूतया शक्त्या वा पराख्यया राजनम् । बलिं हरद्भिः—आज्ञावहैः, चिर-लोक-पालैः—_एतज्-जगद्-अण्डाधिकारि-विरिञ्च्याद्य्-अपेक्षया चिर-काल-वर्तिभिर् अधिकैश्वर्यैर् विरिञ्च्याद्यैः कर्तृभिः, स्वकिरीट-कोटिभिः करणैः ईडित-पाद-पीठ इति स्वयं-रूपत्वं निर्णीतम् ॥३०२॥
**अत्र कारिकाः—
विद्येते नान्य-साम्यातिशयौ यत्रेति विग्रहे ।
सर्वेभ्यस् तत्-स्वरूपेभ्यः कृष्णोत्कर्ष-निरूपणात् ।
आधिक्यं परम-व्योम-नाथाद् अप्य् अस्य दर्शितम् ॥३०३॥
बलदेवः- **कारिकाभिः पद्यार्थं विस्तृणाति, विद्येते इत्य्-आदिना । अन्यसाम्येति_—_मुक्त-प्रग्रह-न्यायात् अन्य-शब्देन परम-व्योम-नाथ-पर्यन्तं धावनं, “गोलोक-नाम्नि निज-धाम्नि तले च तस्य देवी-महेश-हरि-धामसु तेषु तेषु । ते ते प्रभाव-निचया विहिताश् च येन गोविन्दम् आदि-पुरुषं तमहं भजामि ॥” [ब।सं। ५.४२] इति ब्रह्म-वाकयाच् च ॥ १२१॥३०३॥
स्वयं-पदेन चास्यान्य-नैरपेक्ष्यम् उदीरितम् ॥३०४॥
रामोऽप्य् अधिक-साम्याभ्यां मुक्त-धामेत्य् अवादि यत् ।
तत्र स्वयं-पदाभावात् कृष्णेनैक्येन तस्य तत् । **नर-लीलादि-साधर्म्यात् प्रेष्टं रूपं तद् अस्य यत् ॥३०५॥
बलदेवः- **ननु नवमे “अधिक-साम्य-विमुक्त-धाम्नः” [भा।पु। ९.११.२०] इति रामस्य विशेषणात् तस्य स्वयं-रूपत्वं स्याद् इति चेत्? तत्राह—रामोऽपीति । तस्य स्वयं-रूपत्वं न वाच्यं, तत्र_—_श्री-भागवत वाक्ये नवमस्थे, स्वयं-पदाभावाद् इत्य् अर्थः । तर्हि “अधिक-साम्य-विमुक्त” इति कथं सङ्गतिमद् इति चेत्? तत्राह—रामोऽपीति । कृष्णैक्येन तद् अभिधानान्नातिव्याप्तिः । यत् तु श्री-रामायणेऽपि “आदिकर्ता स्वयं प्रभुः” [वा।रा।यु।का। ११९.७] इति रामं प्रति ब्रह्म-वाक्यं, तद् अपि तेनैक्याद् इति गृहाण । रामस्य कृष्णैक्ये को हेतुर् इति चेत्? तम् आह—नर-लीलेति । आदि-शब्दात् आकारैक्यं स्वभावैक्यं च ग्राह्यम् ॥३०५॥
तथा हि ब्रह्माण्डे श्री-कृष्ण-वाक्यम्—
**अन्तरङ्ग-स्वरूपा मे मत्स्य-कूर्मादयस् त्व् अमी ।
सर्वात्मनायम् अत्रापि श्रीमद्-दशरथात्मजः ॥३०६॥ इति ।
बलदेवः- **कृष्णैक्ये प्रमाणम्, अन्तरङ्गेति । सर्वात्मनेति_—_लीलादि-साम्येनापीत्य् अर्थः ॥३०६॥
स्वयन् त्व् असाम्यातिशयः - कृष्णस् तु भगवान् स्वयम् ।
इत्य् अस्य परमेश्वर्य-विशेषस्यानुवर्णने ।
पदस्य स्वयम् इत्य् अस्य द्विरुक्तिर् बोधयत्य् असौ ।
**कृष्णस्यान्य-स्वरूपैक्याद् आधिक्यं नेति सर्वथा ॥३०७॥
बलदेवः- **स्वयं-पदाभ्यासाल्-लिङ्गाद् अपि कृष्णस्य स्वयं-रूपत्वे श्री-भागवतस्य तात्पर्यम् इत्य् आह—स्वयन् त्व् असाम्येत्यादि । पदाभ्यासश् च एक तात्पर्य-लिङ्गम्, “उपक्रमोपसंहाराव् अभ्यासो ऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्गं तात्पर्य-निर्णये ॥” [बृहत्-संहितायां] इति स्मरणात् । प्रथमे “कृष्णस् तु भगवान् स्वयम्” इति, तृतीये “स्वयन् तु” [भा।पु। ३.२.२१] इति, नवमे “अष्टमस् तु तयोरासीत् स्वयम् एव हरिः किल ।” [भा।पु। ९.२४.५५] इति स्वयं पदं तत्राभ्यस्यते, तस्मात् तस्यैव तत्त्वम् इत्य् अर्थः । एवं द्विरुक्तिर् इत्य् अत्र त्रिरुक्तिर् इति बोध्यम् । सा त्रिरुक्तिः, अन्येन_—महा-वैकुण्ठ-नायकेन, साधर्म्यैक्यात्39 कृष्णस्य, आधिक्यं—_स्वयं-रूपत्व-लक्षणं, सर्वथा नेति बोधयति, किन्त्व् अन्यानपेक्ष तादृशत्वम् एव बोधयतीत्य् अर्थः ॥३०७॥
“साधर्म्यैक्यात्” इत्य् अत्र “सार्धमैक्यात्” इति पाठान्तरम् ।
त्र्य्-अधीश इति गोलोक-मथुरा-द्वारकाभिधम् ।
यत् पद-त्रितयं तस्य सोऽधिपत्वाद् अधीश्वरः ॥
प्रकृतीश-विराड्-अन्तर्यामि-क्षीराब्धि-शायिनाम् ।
त्रयाणाम् उपरीशोऽयं त्र्य्-अधीश इति वा स्मृतः ॥३०८॥
स्वाराज्य-लक्ष्म्या तत्रापि प्राप्त-सर्व-समीहितः ।
स्वेनात्मना स्वया वात्म-भूतया शक्ति-वर्यया ।
राजतीति स्वराट् तस्य भावः स्वाराज्यम् उच्यते ॥
तद् एव लक्ष्मीः सर्वातिशायिनी सम्पद् एतया ।
**आप्ताः समस्ताः कामा यं कामाः प्रेष्ठार्थ-सिद्धयः ॥३०९॥
बलदेवः- **स्वयावेति_—_पराख्य-स्वरूप-शक्त्येत्य् अर्थः ॥३०९॥
चिरेति तु चिरायुष्का लोकपाः पद्मजादयः ।
**तेषां किरीट-कोटीभिर् मुकुटानां शतार्बुदैः ॥
ईडिते संस्तुते पाद-पीठे यस्येति विग्रहः ॥३१०॥
बलदेवः- **पाद-पीठे_—_पादुके ॥३१०॥
हीरादि-रत्न-मुकुटैः पाद-पीठाभि-घटनात् ।
जनितेन स्वनौघेन बाढम् उत्प्रेक्षिता स्तुतिः ॥३११॥
स्व-स्व-कर्मण्य् अवस्थित्या तैस् तैर् ब्रह्मादि-लोकपैः ।
आज्ञापालनम् एवास्य बलेर् हरणम् उच्यते ॥३१२॥
अथात्र प्रक्रिया ख्याता पौराण्य् एषा विलिख्यते ॥३१३॥
ब्रह्माण्डानाम् अनन्तानां प्रायो नानाविधात्मनाम् ।
**वृन्दानि भगवच्-छक्तौ विचित्राणि चकासति ॥३१४॥
बलदेवः- **ब्रह्माण्डानाम् अनन्तानाम् इति । अत्र वैष्णव-वाक्यम् “अण्डानां तु सहस्राणां सहस्राण्य् अयुतानि च । ईदृशानां तथा तत्र कोटि-कोटि-शतानि च ॥” [वि।पु। २.७.२७] इति; श्री-भागवते च “द्यु-पतय एव ते न ययुर् अन्तम् अनन्ततया त्वम् अपि यद्-अन्तराण्ड-निचया ननु सावरणाः ।” [भा।पु। १०.८७.४१] इति, “सृजतोऽण्डानि कोटिशः” [भा।पु। ११.१६.३९] इति च । एवं चैक-ब्रह्माण्ड-वादिनो मायिनो निरस्ताः ॥३१४॥
शत-कोटि-प्रमाणानि योजनानां तु कानिचित् ।
अजाण्डानि विराजन्ते शक्ति-वैचित्र्यतो हरेः ॥३१५॥
कानिचिच् च निखर्वेण तेषां पद्मायुतेन च ।
**तत्-परार्ध-शतेनापि विस्तृतानि तु कानिचित् ॥३१६॥
मध्ये तेषाम् अजाण्डेषु केषुचिद् विंशतिः कृता ।
भुवनानाश् च पञ्चाशत् कुत्रचित् सप्ततिस् तथा ।
शतं सहस्रम् अयुतं लक्षं क्वचन राजति ॥३१७॥
बलदेवः- **मध्ये तेषाम् इति—एतस्मिन् चतुर् मुख-ब्रह्माण्डे चतुर् दशैव भुवनानि, तेषु तु क्वचित् विंशतिर् भुवनानि, क्वचित् ततोऽप्यधिकानि, कुत्रचित् ततोऽप्यधिकानीति ॥३१७॥
ब्रह्माद्या लोकपास् तेषु नाना-रूपाश् चकासति ।
परमर्धि-सहस्रेण सेव्यमानाः समन्ततः ॥
क्वचिद् इन्द्रादयस् तेषु महा-कल्प-शतायुषः ।
महा-कल्प-पराद्धायुर् भाजो ब्रह्मादयस् तथा ॥३१८॥
ते ते ब्रह्म-सुरेशाद्याः कथिताश् चिर-लोकपाः ।
स्तुताङ्घ्रि-पीठः कृष्णोऽयं तेषां मुकुट-कोटिभिः ॥३१९॥
एकदा द्वारका-पुर्यां सुधर्मायां मुरान्तके ।
**विराजति तमागत्य द्वाराध्यक्षो न्यवेदयत् ।
दिदृक्षुर् देव! पादाब्जं ब्रह्मा द्वारेऽवतिष्ठते ॥३२०॥
बलदेवः- **न चैषा प्रक्रिया “एष वन्ध्यासुतो भाति” [अलङ्कार कौस्तुभे] इतिवत् वाच्य-हीना, अपि तु “उदयति भातुः” इत्य्-आदिवत् सवाच्येति भावेनाह—एकदेत्यादिना ॥३२०॥
आगतः कतमो ब्रह्मा द्वारीति परिपृच्छ तम् ।
इत्य् अच्युत-गिरं शृण्वन् एत्य द्वाराधिपः पुनः ।
पृष्ट्वा ब्रह्माणम् आगत्य कृष्णाग्रे च तम् अब्रवीत् ।
आगतः सनकादीनां जनकश् चतुराननः ॥३२१॥
आनयेति हरेर् वाचा तेन ब्रह्मा प्रवेशितः ॥
प्रणमन् दण्डवत् पृष्टः कृष्णेन किम् इहागतः ।
त्वम् इति प्राह तं ब्रह्मा देवागमन-कारणम् ।
वक्ष्ये पश्चाद् यद् आत्थाद्य ब्रह्मा कतम इत्य् अदः ।
ज्ञातुम् इच्छामि तन् नाथ! ब्रह्मा नान्योऽस्ति मद् यतः ॥३२२॥
अथ स्मित्वा मुकुन्देन द्वारवत्यां द्रुतं तदा ।
स्मृता ब्रह्माण्ड-कोटिभ्यो लोक-पालाः समागताः ॥
अष्ट-वक्त्राश् चतुः-षष्टि-वक्त्राः शत-मुखास् तथा ।
सहस्र-वक्त्रा लक्षास्याः कोटि-वक्त्रा विरिञ्चयः ॥
रुद्राश् च विंशति-मुखास् तथा पञ्चाशद्-आननाः ।
शत-वक्त्राः सहस्रास्या लक्ष-बाहु-शिरो-भृतः ॥
पुरन्दराश् च लक्षाक्षा नियुताक्षास् तथापरे ।
अपरे लोक-पालाश् च विविधाकृति-भूषणाः ॥
कृष्णस्य पुरतः प्राप्ताः पाद-पीठम् अवानमन् ।
तान् दृष्ट्वा विस्मयात् तस्मिन् उन्ममाद चतुर् मुखः ॥३२३॥
किं च—
विष्णु-धर्मोत्तरे प्रोक्तं सर्वे ब्रह्माण्ड-मण्डलाः ।
**देशतो जीवतश् चापि तुल्य-रूपा भवन्त्य् अमी ॥३२४॥
तथा हि—
एक-रूपास् तथैवाण्डाः सर्व एव नरेश्वर! ।
तुल्य-देश-विभागाश् च तुल्य-जन्तव एव च ॥ इति ॥३२५॥
बलदेवः- **किं चेति_—_एतद्-भिन्नार्था प्रक्रियारभ्यत इत्य् अर्थः, “किञ्चारम्भेऽपि साकल्ये” इति श्रीधरः । देशत इति । तुल्य-देशास् तुल्यायुष्क-विरिञ्च्यादि-जीवाः सर्वेऽपीत्य् अर्थः ॥३२४-३२५॥
**विरोधेऽत्र समुत्पन्ने समाधानं विधीयते ॥३२६॥
यतः श्री-कौर्मे —
विरोधो वाक्ययोर् यत्र नाप्रामाण्यं तद् इष्यते ।
यथाविरुद्धता च स्यात् तथार्थः कल्प्यते तयोः ॥३२७॥ इति ।
बलदेवः- **विरोधो वाक्ययोर् यत्रेति_—_यथा उदितानुदित-होमाभिधायिनोर् वाक्ययोः श्रुतित्वा-विशेषात् नाप्रामाण्यं, तथा सम-विषम-ब्रह्माण्डाभिधायिनोर् वाक्ययोः सर्वज्ञ-मुनि-भाषितत्वा-विशेषात् न तद् इत्य् अर्थः । यद् यपि वाक्य-द्वयान्-मत-द्वयम् अभिमतं, तथापि चिरायुष्कत्वम् अंशं केचित् न सहन्ते, प्राकृते प्रलये कार्य-मात्रस्य नाशाभिधानेन तद्-अंशस्यासम्भवत्वात् । तस्माद् ईश्वर-महिमातिशय-बोधन-मात्रेणोपक्षीणः सः ॥३२७॥
**युगपत् सकलाण्डानि जातु संहरते हरिः ॥३२८॥
बलदेवः- **न चैषा प्रक्रिया “एष वन्ध्यासुतो भाति” [अलङ्कार कौस्तुभे] इतिवत् वाच्य-हीना, अपि तु “उदयति भातुः” इत्य्-आदिवत् सवाच्येति भावेनाह—एकदेत्यादिना ॥३२०॥
****समाधत्ते, युगपद् इत्य्-आदिना ॥३२८॥
**तथा हि श्री-विष्णु-धर्मोत्तरे—
अनन्तानि तवोक्तानि यान्य् अण्डानि मया पुरा ।
सर्वाणि तानि संहृत्य सम-कालं जगत्-पतिः ।
प्रकृतौ तिष्ठति तदा सा रात्रिस् तस्य कीर्तिता ॥ इति ॥३२९॥
बलदेवः- **अत्र प्रमाणम्, अनन्तानीति । प्रकृतौ—स्वभावे, “स्वभावः प्रकृतिः शीलम्” इति धनञ्जयः, आत्मारामतायाम् इत्य् अर्थः । तस्य—जगत्-पतेरीश्वरस्य ॥३२९॥
**अतः संहृत्य सर्वाणि पुनर् अण्डान्य् असौ सृजन् ।
विषमाणि सृजेज् जातु कदाचिच् च समान्य् अपि ॥३३०॥
बलदेवः- **अत इति—सम-विषम जगद्-अण्ड-स्मरणात्, युगपत् सर्व-प्रलय-स्मरणाचेत्य् अर्थः ॥३३०॥
**इत्य् औपोद्घातिकं प्रोच्य प्रकृतं परिलिख्यते ॥३३१॥
बलदेवः- **इत्य् औपोद्घातिकम् इति—प्रकृते कृष्णस्य स्वयं-भगवत्ता-निरूपण-रूपेऽर्थे पोषकत्वात् विविध-जगद्-अण्ड-तद्-अधिकारि-वर्णनम् उपोदातः, स्वार्थे ठक विनयादित्वात्, “चिन्तां प्रकृत-सिद्धयर्थाम् उपोदातं विदु र्बुधाः ।” [जगदीश-कृतानुमितौ] इति वचनात् ॥३३१॥
किं च, तत्रैव [भा।पु। ३.२.१२]—
**
यन् मर्त्य-लीलौपयिकं स्व-योग
माया-बलं दर्शयता गृहीतम्** ।
**विस्मापनं स्वस्य च सौभग-र्द्धेः
परं पदं भूषण-भूषणाङ्गम् ॥३३२॥ इति ।
बलदेवः- **किं चेति । तत्रैव—तृतीये ॥ यद् इति । “आदायान्तर् अधाद् यस् तु स्व-बिम्बं लोक-लोचनम् ॥” [भा।पु। ३.२.११] इति पूर्वोक्तेः, यत्—बिम्बं, कृष्णेन, गृहीतं—लोकेऽस्मिन् प्रकटितम् । कीदृशेन तेन? इत्य् आह—स्व-योग-माया—पराख्या-स्व-शक्तिः, तस्या बलं, दर्शयता—बोधयतेत्य् अर्थः । बिम्बं कीदृक्? इत्य् आह—मर्त्येषु या लीलास् तासाम्, औपयिकम्—उपाय-भूतं, नराकृतित्वात् परमोपयोगीत्य् अर्थः; विनयादित्वात् स्वार्थिकष्ठक्, उपस्य ह्रस्वत्वञ्च; तादृग् आकृतिम् अन्तरा मनुष्येषु ता मनोज्ञ-लीला न स्युर् इत्य् अर्थः; मनुष्य-रीतिच्-छन्नाः पारमैश्वर्य-गर्भा लीलाः खल्व-धरस्थ-चित्र-मुकुरवत् अतिचारुत्व-भाजः, अतद्-गर्भाः केवल-नर-लीलास् तु पारदालिप्ताधरमुकुरवत् नानन्द-प्रदर्शिकाः, इति नराकृतेस् तद् बिम्बस्य तत्-परमोपयोगित्वम् इति भावः । पुनः कीदृक्? इत्य् आह—सर्वज्ञस्यापि स्वस्य परमाश्चर्यकरं, सौभग-सम्पदो मुख्यं स्थानं, भूषण-शोभाधायकावयवं चेति ॥३३२॥
**अत्र कारिकाः—
यद् बिम्बं मर्त्य-लीलानां भवेद् औपयिकं परम् ।
पूर्व-पद्य-स्थितं बिम्बं यत्-पदेनानुकृष्यते ॥३३३॥ **
**बलदेवः- **पद्यं कारिकाभिर् व्याचष्टे, यद् बिम्बम् इत्य्-आदिभिः ॥३३३॥
विविधाश्चर्य-माधुर्य-वीर्यैश्वर्यादि-सम्भवात् ।
**स्वस्य देवादि-लीलाभ्यो मर्त्य-लीला मनोहराः ॥३३४॥
बलदेवः- **विविधेति । स्वस्य—कृष्णस्य, मर्त्य-लीलाः; देवादि-लीलाभ्यः—नारायणादि क्रीडाभ्योऽपि, मनोहराः—कमनीयाः । कुतः? इत्य् आह—विविधानाम् आश्चर्य-भूतानां, माधुर्यैश्वर्याणां—मनुष्य-रीति-पिहितानाम्, ऐश्वर्याणाम्, उक्त-दृष्टान्तरीत्या तास्व् एव सम्भवाद् इत्य् अर्थः ॥३३४॥
ध्वन्यते बिम्ब-शब्देन सद्-गुणावलि-शालिनाम् ।
**सकल-स्व-स्व-रूपाणां मूलत्वं तस्य सर्वथा ॥३३५॥
बलदेवः- **ध्वन्यते इति । सकलानां स्व-स्वरूपाणां—महा-वैकुण्ठ-नाथ-पर्यन्तानाम् इत्य् अर्थः ॥३३५॥
अतस् तद् एव निःशेष-गुण-रूपास्पदत्वतः ।
विचित्र-नर-लीलानाम् अतियोग्यम् उदीर्यते ॥३३६॥
स्व-योग-माया चिच्-छक्ति-बलं तस्याः समर्थता ।
एतद्-दर्शयता साक्षात्-कुर्वता प्रकटीकृतम् ॥
अहो मदीय-चिच्-छक्तेः प्रभावं पश्यताद्भुतम् ।
दिव्यातिदिव्य-लोकेषु यद् गन्धोऽपि न सम्भवेत् ॥
तज्-जगन्-मोहनं रूपं ययाविकृतम् ईदृशम् ।
**स्व-योग-मायेत्य् आधस्य भावोऽयम् इति गम्यते ॥३३७॥
बलदेवः- **स्व योगेति । गृहीतम् इत्य् अस्य प्रकटीकृतम् इत्य् अर्थः, स्वरूपस्य गृहणासम्भवाद् इति भावः, “अनादेयम् अहेयञ्च” [ब्रह्माण्ड-पुराणे] इत्य्-आदि वक्ष्यते ॥३३७॥
स्वस्यात्मनोऽपि परम-व्योमेशाद्य्-आत्म दर्शिनः ।
विस्मापनं नवोद्दाम-चमत्कृति-करं परम् ॥३३८॥
सौभग-र्द्धिर् महश्चर्य-सौन्दर्य-परमावधिः ।
तस्याः परं पदं नित्योत्कर्ष-सम्पद्-वरास्पदम् ॥३३९॥
यत् तु कौस्तुभ-मीनेन्द्र-कुण्डलायं हि भूषणम् ।
**तस्यापि भूषणान्य् अङ्गान्य् अस्येति सति विग्रहे ॥
तस्य श्री-विग्रहस्येदम् असमोर्ध्वत्वम् ईरितम् ॥३४०॥
बलदेवः- **असमोर्ध्वत्वम् ईरितम् इति—श्री-भागवते तत्-स्व-रूपाणां तादृशत्वेनाभिधानाद् इत्य् अर्थः । यद् बिम्बं स्वस्य च विस्मापनम् इत्य् उक्तेर् देह-देहिनोर् भेदः, स च सिद्धान्त-विरुद्ध इति चेत्? तत्राह—सच्-चिद् इति—प्रकटार्थम् । तथा च भेदाभावेऽपि “सत्ता सती” इत्य्-आदिवत् विशेष-बलाद् एव देह-देहि-भाव-व्यवहार इत्य् अर्थः ॥३४०॥
सच्-चिद्-आनन्द-सान्द्रत्वात् द्वयोर् एवाविशेषतः ।
औपचारिक एवात्र भेदोऽयं देहि-देहनोः ॥३४१॥
तथा च श्री-कौर्मे—
**
देह-देहि-भिदा चात्र नेश्वरे विद्यते क्वचित् ॥३४२॥ इति ।
बलदेवः- **भेदाभावे प्रमाणं, देह-देहीति ॥३४२॥
किं च, श्री-दशमे श्री-पुर-स्त्रीणाम् उक्तौ [भा।पु। १०.४४.१४]—
गोप्यस् तपः किम् अचरन् यद् अमुष्य रूपं
लावण्य-सारम् असमोर्ध्वम् अनन्य-सिद्धम् ।
**दृग्भिः पिबन्त्य् अनुसवाभिनवं दुरापम्
एकान्त-धाम यशसः श्रिय ऐश्वरस्य ॥३४३॥
बलदेवः- स्वयं-रूपत्वे वचनान्तरम् आह—गोप्यस् तपः किम् अचरन्न् इति । असमोर्ध्वं—साम्याधिक्य-रहितम् । **अनन्य-सिद्धं—स्वयं-सिद्धम् इत्य् अर्थः ॥३४३॥
तथा हि श्री-बलदेवं प्रति श्री-कृष्णोक्तौ [भा।पु। १०.१५.८]—
धन्येयम् अद्य धरणी तृण-वीरुधस् त्वत्
पाद-स्पृशो द्रुमलताः करजाभिमृष्टाः ।
**नद्योऽद्रयः खग-मृगाः सदयावलोकैर्
गोप्योऽन्तरेण भुजयोर् अपि यत्-स्पृहा श्रीः ॥३४४॥ इति ।
बलदेवः- **अथ महा-वैकुण्ठाधीश-महिष्या लक्ष्म्याः कृष्ण-स्पृहा-रूपेण लिङ्गेन तद् अधीशात् कृष्णस्याधिक्यं दर्शयति—धन्येयम् इति । हे आर्य ! श्री-बलदेव! अद्य इयं वृन्दावन-धरणी धन्या श्लाघ्या । अस्यां यास् तृण-वीरुधस् तास् तव पाद-स्पर्शेन, द्रुम-लताः तव करजाभिमर्षेण पुष्पाणि गृह्णतो नख-स्पर्शेन, नद्यः यमुनाद्याः, अद्रयः गोवर्धनाद्याः तव सदयावलोकैः कृपा-कटाक्षैः, गोप्यः श्याम-लताः, पक्षे गोप्यः वल्लव्यः भुजयोर् अन्तरेण तव वक्षसा, धन्या इति योज्यं सर्वत्र । वक्षो विशिनष्टि—यत्-स्पृहा श्रीः वैकुण्ठ-महिषी यत् स्पृहयति परिरब्धुं “प्रायो वीर-रताः स्त्रियः” इति वचनात् वीरो भवान्, प्रलम्बादि-महा-दैत्य-घातित्वात् । पूर्व-राग-वर्णनम् एतत् ॥३४४॥
**अत्र कारिकाः—
श्री-वृन्दावन-तद्-वासि-माधुर्योल्लोल-चेतसा ।
तत्-स्तवे हरिणारब्धे निजोत्कर्षावसायिनम् ।
तम् आलोच्य ततो रामम् अपदिश्य व्यधायि सः ॥३४५॥
बलदेवः- **पद्यार्थं कारिकाभिर् व्याख्याति, श्री-वृन्दावनेति । उल्लोलेति—“लोलश् चल सतृष्णयोः” इति नानार्थ-वर्गात्, अतिसतृष्ण-चित्तेनेत्य् अर्थः । निजोत्कर्षेति—स्व-मुखेन स्व-स्तुतेः कर्तुम् अयुक्तत्वात् रामापदेशेन तद्-विधानम् इति भावः, अन्यथा श्रियो रामोरः—स्पृहोक्तिर् अयुक्तति बोध्यम् ॥३४५॥
अतोऽत्र नैव तात्पर्यं रामोत्कर्षानुवर्णने ।
**सख्य-भावात् तदा रामे नर्मणैवेदम् ईरितम् ॥३४६॥
बलदेवः- **नन्व् एवं चेत् स्व-रहस्यस्य रामे सूचनं कथं? तत्राह—सख्य-भावाद् इति ॥३४६॥
भुजान्तरन् तु वक्षस् ते तेन धन्या व्रजाङ्गनाः ।
**यत्-स्पृहा वक्षसे यस्मै श्रीर् अप्य् आचरति स्पृहाम् ॥३४७॥
तत् स्पृहैव परं तस्या न तु तत्-प्राप्ति-योग्यता ॥३४८॥
बलदेवः- **यत् स्पृहेति—स्पृहामात्रोक्तेः प्राप्तिर् नाभूद् इति व्यज्यते ॥३४८॥
सदा वक्षः स्थल-स्थापि वैकुण्ठेशितुर् इन्दिरा ।
**कृष्णोरः-स्पृहयास्यैव रूपं विवृणुतेऽधिकम् ॥३४९॥
बलदेवः- **वक्तव्यम् आह—सदा वक्षः स्थलस्थेति । अस्य—कृष्णस्य एव, रूपं स्व-नाथाद् अप्य्-अधिकम्, इन्दिरा—लक्ष्मीः, विवृणुते—प्रदर्शयतीत्य् अर्थः ॥३४९॥
**पौराणिकम् उपाख्यानम् अत्र सङ्क्षिप्य लिख्यते ॥३५०॥
बलदेवः- **पौराणिकम् इति—पाद्मीयं बोध्यम् ॥३५०॥
श्रीः प्रेक्ष्य कृष्ण-सौन्दर्य तत्र लुब्धा ततस् तपः ।
कुर्वतीं प्राह तां कृष्णः किन्ते तपसि कारणम् ॥
विजिहीर्षे त्वया गोष्टे गोपी-रूपेति साब्रवीत् ।
तद् दुर्लभम् इति प्रोक्ता लक्ष्मीस् तं पुनर् अब्रवीत् ॥
स्वर्ण-रेखेव ते नाथ! वस्तुम् इच्छामि वक्षसि ।
एवम् अस्त्व् इति सा तस्य तद्-रूपा वक्षसि स्थिता ॥३५१॥
**
बलदेवः- **तपः कुर्वतीम् इति—तस्यास् तपः-स्थलं तु श्री-वनम् इति प्रसिद्धम् ॥३५१॥
यथोकं श्री-दशमे नाग-पत्नीभिः [भा।पु। १०.१६.३६]—
यद्-वाञ्छया श्रीर् ललनाचरत् तपो
विहाय कामान् सुचिरं धृत-व्रता ॥ इति **॥३५२॥
बलदेवः- **श्री-भागवतेऽप्य् एतद् वृत्तम् अस्तीति दर्शयति, यद् वाञ्छयेति । यस्य—तव अङ्घ्रि-रजसः, वाञ्छया, कामान्—वैकुण्ठ-गतान् दिव्य-रस-गन्धादीन्, विहाय—त्यक्त्वेति । न च लक्ष्म्या रतेर् अनेक-पुरुष-निष्ठत्वेन स्थायि-वैरूप्यात् रसाभासतेति वाच्यं, श्रीश-कृष्णयोर् अद्वैतेन अनेक-पुरुषत्वाभावात्, “सिद्धान्ततस् त्व् अभेदेऽपि श्रीश-कृष्ण स्वरूपयोः । रसेनोत्कृष्यते कृष्ण-रूपमेषा रसस्थितिः ॥” [भ।र।सि।पू। २.३२] इति ॥३५२॥
नाम्नोऽपि महिमैतस्य सर्वतोऽधिक ईर्यते ॥३५३॥
यथा श्री-ब्रह्माण्डे—
सहस्र-नाम्नां पुण्यानां त्रिर् आवृत्त्या तु यत् फलम् ।
**एकावृत्त्या तु कृष्णस्य नामैकं तत् प्रयच्छति ॥३५४॥
बलदेवः- नामातिमहिम्ना लिङ्गेन श्री-कृष्णस्य श्रीशाद्-आधिक्यम् आह—सहस्रेति । वैशम्पायनोक्तानां सहस्र-नाम्नां त्रिर् आवृत्त्या यत् फलं, तत्, कृष्णस्य एकं नाम—ब्रह्माण्ड-पुराणगताष्टोत्तर-शत-नामस्थं कृष्णावतार-सम्बन्ध्य् एकम् एव नाम, एकावृत्त्या प्रयच् छतीत्य् अर्थः । तेषु सर्व-स्वाविर्भावत्व-विशिष्टस्य नामान्य् उक्तानि, इह तु कृष्णत्वेन विशिष्टस्येति विशेषः, तद् गतात् एतद् गतं तद् एव नाम बहु फलं, भगवद्-वाक्यान्तरात् भगवद्-गीतावद् इति बोध्यम् । **स्कान्दे चेति ॥३५४॥
स्कान्दे च—
मधुर-मधुरम् एतन् मङ्गलं मङ्गलानां
सकल निगम-वल्ली-सत्-फलं चित्-स्वरूपम् ।
**सकृद् अपि परिगीतं श्रद्धया हेलया वा
भृगु-वर! नर-मात्रं तारयेत् कृष्ण-नाम ॥३५५॥ इति ।
बलदेवः- **मधुर मधुरम् एतद् इति—सर्वातिशायि-माहात्म्य-पर्यवसायित्वं द्योत्यते । भृगु वर! हे शौनक! ॥३५५॥
अतः स्वयं-पदादिभ्यो भगवान् कृष्ण एव हि ।
**स्वयं-रूप इति व्यक्तं श्रीमद्-भागवतादिषु ॥३५६॥
बलदेवः- निगमयति, अत इति । **स्वयं पदादिभ्यः—त्रिभ्य इत्य् अर्थः ॥३५६॥
यथोक्तं श्री-ब्रह्म-संहितायाम् [ब।सं।५.१]—
ईश्वरः परमः कृष्णः सच्-चिद्-आनन्द-विग्रहः ।
अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥३५७॥ इति ।
यथा च [ब।सं। ५.३९]—
रामादि-मूर्तिषु कला-नियमेन तिष्ठन्
नानावतारम् अकरोद् भुवनेषु किन्तु ।
**कृष्णः स्वयं समभवत् परमः पुमान्यो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ॥३५८॥
बलदेवः- **उक्तं पुष्णाति, यथा च रामादीति । न च रामादीनाम् अपि कृष्णाद्-अभेदात् तदादित्वेऽपि कदाचित् सर्वाः शक्तयो व्यक्ताः स्युर् इति वाच्यं, तेषु, कलानां—शक्तीनां, नियमेन व्यक्तेः । इदं च प्राग् एव निर्णीतम् ॥३५८॥
**तस्मात् परम-वैकुण्ठ-नाथोऽप्य् अस्य विलासकः ॥३५९॥
बलदेवः- **तस्माद् इति—उक्तात् हेतु-प्रचयात्, अस्य—कृष्णस्य, पर-व्योम-नाथोऽपि विलास एव, न तु तस्य विलासः श्री-कृष्ण इत्य् अर्थः ॥३५९॥
अतो मिलित्वा श्रुतिभिः स्व-सारो यः स्तवः कृतः ।
**तत् तात्पर्य-कृती कृष्णम् एव देवर्षिर् आनमत् ॥३६०॥
बलदेवः- **पुनः पुष्णाति, अतो मिलित्वेति । अन्यथा सर्व-श्रुति-सारं स्तवं श्रुततवता नारदेन श्रीश एव प्रणम्येत, न तु कृष्ण इत्य् अर्थः । तस्मात् कृष्णस्य स्वयं-रूपत्वं श्रुति-तात्पर्याद् अपि लब्धम् इत्य् अर्थः ॥३६०॥
**नमस् तस्मै भगवते कृष्णाय [भा।पु। १०.८७.४६] इत्य्-आदि ॥३६१॥
नन्व् एष द्वापरस्यान्ते प्रादुर्भूतो यदूद्वहः ।
स वैकुण्ठेश्वरोऽनादिस् तद्-विलासः कथं भवेत् ॥३६२॥
बलदेवः- **एवं निर्जितोऽपि श्रीश-पारम्यवादी सकोपः प्रति-विधत्ते, नन्व् एष इति । प्रादुर् भूत इति—शान्त्वोदित इत्य् अर्थः । अनादिः—नित्योदितः, कूटस्थ इति यावत् ॥३६२॥
मैवम् अस्यादि शून्यस्य जन्म-लीलाप्य् अनादिका ।
**स्वच्छन्दतो मुकुन्देन प्राकट्यं नीयते मुहुः ॥३६३॥
बलदेवः- **परिहरति, मैवम् इति । अनाद्यया गोपालोपनिषदा परार्धादौ कृष्ण-कर्तृकस्य ब्रह्म-कर्मकस्योपदेशस्याभिधानात्, प्रह्लादस्य प्रिय-व्रतस्य चातिप्राचीनस्य कृष्णोपासकत्व-स्मरणाच् च, आदिशुन्यस्य—पूर्व-कोटि-रहितस्य, कृष्णस्य जन्म-लीलाप्यादि शून्यैव, स्वेच्छयैव साविर्भाव्यते; द्वापरावसाने इति सादित्व-वचनं रभसादेवेत्य् अर्थः ॥३६३॥
तथा च श्री-तृतीये [भा।पु। ३.२.१५]—
स्व-शान्त-रूपेष्व् इतरैः स्व-रूपैर्
अभ्यर्द्यमानेष्व् अनुकम्पितात्मा ।
**परावरेशो महद्-अंश-युक्तो
ह्य् अजोऽपि जातो भगवान् यथाग्निः ॥३६४॥ इति ।
बलदेवः- **कृष्णस्यानादित्वे प्रमाणम् आह—स्वेति । स्वेषु शान्त-रूपेषु—भक्तेषु वसुदेवादिषु, इतरैः—तद् विरुद्धैः, सुष्टु अरूपैः—विकृत-भयङ्कराकारः कंसादिभिः, अभ्यर्द्यमानेषु सत्सु, अनुकम्पितात्मा—दया-हृदयः, भगवान्—षड्-ऐश्वर्य पूर्णः श्री-कृष्णः, अजोऽपि—अपूर्व-देहेन्द्रिय-योग-रहित एव सन्, अरणेर् अग्निर् इव स्वाधिष्ण्यात्, जातः—प्रादुरासीत् । कीदृशः? परेषाम्—अप्राकृतानाम्, अवरेषां—प्राकृतानां च, लोकानामीशः, महतां—वैकुण्ठाधीश_–तद्-वयूह–तद्-अंश-पुरुष–_तद्-अंश-लीलावताराणां परम-व्योम-निलयानां तत्-तन्-निलये स्थितानाम् एव, अंशैः—रूपान्तरैः, युक्तः सन्नित्य् अर्थः । दिग्-विजयाय गच्छन्तं सार्व-भौमं यथा मण्डलाधिपाः, तथा जगत्य्-अवतितीर्षुं कृष्णं स्वयं-प्रभुं ते तद्-विलासादयः स्व-स्वांशैर् अनुगच्छेयुर् इति भावः । यथारणौ वह्निः पूर्व-सिद्धस्तथा परम-व्योमो-परि कृष्णोऽपीति प्रमाण-लाभात् सादित्व-वचनम् असूययैवोद्गीर्णम् इति भावः ॥३६४॥
**अत्र कारिकाः—
स्वे भक्ताः स्वे च ते शान्त-रूपाश् चेत्य् अत्र विग्रहः ।
शान्तिस् तन्-निष्टता बुद्धेः शान्तास् तन्-निष्ट-बुद्धयः ॥३६५॥
बलदेवः- **पद्यं कारिकाभिर् व्याख्याति, स्वे भक्ता इत्य्-आदिभिः । शान्त पदं व्याचष्टे, शान्तिर् इति—“शमो मन्-निष्ठता बुद्धः” [भा।पु। ११.१९.३६] इति एकादशे भगवद्-वाक्यात् ॥
परावरेशपदं व्याचष्टे, परे मायति ॥३६५॥
तेषु शूर-सुतायेषु नन्दादिषु च साधुषु ।
इतरैस् तद्-विरुद्धैस् तु कंसाद्यैर् असुरादिभिः ।
स्वरूपैः सुष्ट्व्-अरूपैर् इत्य् अरूपत्वं विरूपता ।
घोरातिविकटाकारैर् इत्य् अर्थः स्फुटम् ईरितः ॥३६६॥
अभ्यर्द्यमानेष्व् अभितः क्रियमाण-महार्तिषु ।
अनुकम्पा-युत-मनाः परे मायान्वयोज्झिताः ।
गोलोक-मुख्या अवरे मायिकाजाण्ड-मण्डलाः ।
परेषाम् अवरेषाश् च तेषाम् ईशोऽधिनायकः ॥३६७॥
स्युर् महान्तोऽतिपरम-महत्तमतया स्मृताः ।
**ते परव्योम-नाथश् च व्यूहाश् च वसु-सङ्ख्यकाः ॥३६८॥
बलदेवः- **महद्-अंश-युक्त-पदं व्याचष्टे, स्युर् महान्तोऽतीति । वसु-सङ्ख्यका इति—कृष्ण-व्यूहानां नारायण-व्यूहानां च आगतत्वाद् इत्य् अर्थः ॥३६८॥
वासुदेवादयो व्यूहाः परव्योमेश्वरस्य ये ।
तेभ्योऽप्य् उत्कर्षभाजोऽमी कृष्ण-व्यूहाः सतां मताः ॥
इत्येते परम-व्योम-नाथ-व्यूहैः सहैकताम् ।
**स्व-विलासैर् इहाभ्येत्य प्रादुर्भावम् उपागताः ॥३६९॥
बलदेवः- **इत्येते इति—कृष्ण-व्यूहानां विलासा नारायण-व्यूहा इत्य् अर्थः ॥३६९॥
**अंशास् तस्यावतारा ये प्रसिद्धाः पुरुषादयः ।
तथा श्री-जानकी-नाथ-नृसिंह-क्रोड-वामनाः ।
नारायणो नर-सखो हयशीर्षाजितादयः ॥३७०॥
एभिर् युक्तः सदा योगम् अवाप्यायम् अवस्थितः ॥३७१॥
अतो वृन्दावने तत्-तल्-लीलाप्रकटतेक्ष्यते ॥३७२॥
बलदेवः- **महद्-अंश-युक्ततायां ज्ञापकम् आह—अतो वृन्दावने तत्-तद् इति । तत्-तद्-रूपैः—वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धाकारैर् इत्य् अर्थः ॥३७२॥
वैकुण्ठेश्वर-लीलात्र दर्शिता या विरिञ्चये ।
सेश्वराणाम् अजाण्डानां कोटिर् वृन्दावनेऽद्भुता ॥
सैव ज्ञेया यतः स्वांश-द्वारैवासौ प्रकाशिता ॥३७३॥
वासुदेवादि-लीलास् तु मथुरा-द्वारकादिषु ।
तत्-तद्-रूपैर् व्रजान्तस् तु बाल्येहाभिश् च दर्शिताः ॥
यथा श्रीदाम्नि तार्क्ष्यत्वं प्राप्ते सोऽपि चतुर् भुजः ।
**आदित्येष्व् अथ लब्धेषु बभौ द्वादशभिर् भुजैः ॥३७४॥
बलदेवः- **श्रीदाम्नि वृषभानु-राज-पुत्रे स्व-सखे इत्य् अर्थः । आदित्येषु द्वादशसु युगपत् प्रणमत्सु युगपत् तन्-मूर्धसु हस्तार्पण-प्रसादाय द्वादश-भुजोऽभूद् इत्य् अर्थः ॥३७४॥
तथा साङ्कर्षणी लीला दैत्य-संहारिकापि च ।
मूर्तयो माथुरे भान्ति श्री-प्रद्युम्नानिरुद्धयोः ।
याः श्री-गोपाल-तापन्यां वाराहादिषु च श्रुताः ॥३७५॥
एवं पुरुष-लीलानां प्राकट्यम् इह माथुरे ।
अनन्त-शायि-रूपाभिः क्रियते सुष्ठु मूर्तिभिः ॥३७६॥
यदा यदा च सा लीला कृष्णेन प्रकटीकृता ।
भवेत् तत्-तद्-उपाख्यानं पुराणेष्व् इति विश्रुतम् ॥३७७॥
यानि रामादि-रूपाणि प्रादुश्चक्रे स्व-केलिषु ।
**तान्य् अधिष्टान-रूपेण राजन्तेऽद्यापि माथुरे ॥३७८॥
बलदेवः- **अधिष्ठान-रूपेण—तत्-तत्-प्रतिमात्मना ॥३७८॥
गो-परार्ध-पयः पूरैर् जनितः क्षीर-वारिधिः ।
ममन्थाजित-रूपस् तं गोपैर् देवा-सुरीकृतैः ॥३७९॥
अत एव ब्रह्माण्डे—
यो वैकुण्ठे चतुर् बाहुर् भगवान् पुरुषोत्तमः ।
य एव श्वेतद्वीपेशो नरो नारायणश् च यः ।
स एव वृन्दावन-भू-विहारी नन्द-नन्दनः ॥३८०॥
एतस्यैवापरेऽनन्ता अवतारा मनोहराः ।
महाग्नेर् इह यद्वत् स्युर् उल्काः शत-सहस्रशः ।
तत्रैव लीना एकत्वं व्रजेयुस् ते हरौ तथा ॥ इति ॥३८१॥
इति सिद्धा प्रभोर् अस्य महद्-अंशैस् तु युक्तता ॥३८२॥
अत एव पुराणादौ केचिन् नर-सखात्मताम् ।
महेन्द्रानुजतां केचित् केचित् क्षीराब्धि-शायिताम् ।
सहस्र-शीर्षतां केचित् केचिद् वैकुण्ठ-नाथताम् ।
ब्रूयुः कृष्णस्य मुनयस् तत्-तद्-वृत्तानुगामिनः ॥३८३॥
बलदेवः- अत इति** । **कृष्ण-स्वरूपे स्थितैर् बदरीशादि-रूपैस् तल्-लीलानाम् आविष्कारात् तन्-मात्र-दृष्टयो मुनयस् तं तत-तद्-रूपम् आहुः । तद्-वाक्यानि च भगवान् व्यासोऽन्ववादीद् इति सिद्धान्त-विदां पद्धतिः । यथा शल्यः कृष्णाद् अधिकः कर्णस् तु फाल्गुनाद् [म।भा। ८.२२.५३?]40 इति लोकोक्तेर् अनुवादः, तेन कर्ण-पर्वणि कृतो दृष्टः, तद्वत् ॥३८३॥
**उपोद्घातं समाप्याथ प्रकृतं लिख्यते पुनः ॥३८४॥
अजो जन्म-विहीनोऽपि जातो जन्माविराचरत् ॥३८५॥
बलदेवः- **अजो जन्मेति—अजायमानो बहुधा विजायते [मुद्गलोपैषद् ३.१] इति श्रुतेः, अजोऽपि सन्न् अव्ययात्मा [गी। ४.६] इत्य्-आदि स्मृतेश् च ॥३८५॥
नन्व् एकस्य किलाजत्वं जन्मित्वश् च विरुध्यते ।
**इत्य् आशङ्कयाह भगवान् अचिन्त्यैश्वर्य-वैभवः ॥३८६॥
बलदेवः- **नन्व् अज एव चेदाविर्भवति, तदा गजेन्द्र-ध्रुवादाव् इव आगतिमात्रं वाच्यं, पिता-मातृ-देह-सम्बन्धः कथम् उच्यते? तत्राह—नन्व् एकस्येति । परिहरति, भगवानिति । स्वरूप-गुण-विभूति-शीलेषु, विकार-लेशाभावाद्-अजत्वं, धातु-योगं विनैव प्राच्यामिन्दोर् इव तद्-देहे आविर्भावात्41 जन्मित्वम्, इत्य् अचिन्त्यैश्वर्यात् इदं सर्वं भवतीति न काचिच् छङ्केत्य् अर्थः ॥३८६॥
“तद् देहे आविर्भावात्” इत्य् अत्र “तद् देहाविर्भावात्” इति पाठान्तरम् ।
**तत्र तत्र यथा वह्निस् तेजो-रूपेण सन्न् अपि ।
जायते मणि-काष्ठादेर् हेतुं कञ्चिद् अवाप्य सः ॥
अनादिम् एव जन्मादि-लीलाम् एव तथाद्भुताम् ।
हेतुना केनचित् कृष्णः प्रादुष्कुर्यात् कदाचन ॥३८७॥
बलदेवः- **मणिकाष्ठादेर् इति । मणेः—पाषाण-विशेषात्, यथा लोहाघातेन हेतुना, यथा च, काष्ठस्य—अरणेः, मथनेन हेतुना, पूर्वं सत एव वह्नेर् व्यक्तिस् तथेत्य् अर्थः ॥ ** **अनादि—नित्याम् इत्य् अर्थः । कदाचन—वैवस्वत-मन्वन्तरीयाष्टाविंशति-चतुर् युगीय-द्वापरावसान इत्य् अर्थः । इत्थं च शान्तोदितत्वोक्तिर् दूरापास्ता ॥३८७॥
स्व-लीला-कीर्ति-विस्तारात् लोकेष्व् अनुजिघृक्षुता ।
अस्य जन्मादि-लीलानां प्राकटये हेतुर् उत्तमः ॥३८८॥
तथा भयङ्करतरैः पीड्यमानेषु दानवैः **।
प्रियेषु करुणाप्य् अत्र हेतुर् इत्य् उक्तम् एव हि ॥३८९॥
भूमि-भारापहाराय ब्रह्माद्यस् त्रिदशेश्वरैः ।
अभ्यर्थनन् तु यत् तस्य तद् भवेद् आनुषङ्गिकम् ॥३९०॥
बलदेवः- **ननु कृष्णस्य जगति प्रादुर्भावे को हेतुर् इति चेत्? तत्राह—स्व-लीलेति । लोकेषु—साधक-भक्त-जनष्व् इत्य् अर्थः । अयम् अर्थः—न खलु भू-भारापहारस् तत्-प्रादुर्भावस्य मुख्य-हेतुः, तस्य तद्-आविष्टैर् अपि जीवैः सम्भवात्, पराशरेण अनेक-राक्षसा ध्रुवेण च नाशिता इति स्मरणात्; किन्तु केषाञ्चित् साधकानां तत्-स्वरूप-गुणैक-निरतानां तत्-साक्षात्कारमाकाङ्क्षतां तेन विनातिव्यग्राणां श्रुतदेव-बहुलाश्व-प्रभृतीनां स्व-साक्षात्-कृत्या आनन्द-प्रदानं, तथा पूर्वम् आविर्भावितेषु वसुदेवादिषु प्रेष्ठेषु तद्-विद्रोहि-कंसादि-विनाशेन अनुकम्पा च, इति मुख्य हेतु-द्वयं; भू-भार-हरणन् तु आनुषङ्गिकं—गौणम् इति ॥३८८-३९०॥
चेद् अद्यापि दिदृक्षेरन् उत्कण्ठार्ता निज-प्रियाः ।
**तां तां लीलां ततः कृष्णो दर्शयेत् तान् कृपा-निधिः ॥३९१॥
बलदेवः- **जन्मादि-लीला अनादिकेत्य् उक्तं, तत्-प्रतिपादयति, चेदद्यापीत्यादिभ्याम् । न ह्य् असती शक्या दर्शयितुम्, अतो नित्या सा इति पुरः स्फुटीभविष्यति ॥३९१॥
कैर् अपि प्रेम-वैवश्य-भाग्भिर् भागवतोत्तमैः ।
अद्यापि दृश्यते कृष्णः क्रीडन् वृन्दावनान्तरे ॥३९२॥
किञ्चास्य पार्षदादीनाम् अप्य् उक्ता नित्य-मूर्तिता ।
तस्येश्वरेशितुर् नित्य-मूर्तित्वे का विचित्रता ॥३९३॥
**
बलदेवः- **आविर्भावक-नित्यत्वे आविर्भाव्य-लीलाया नित्यता स्याद् इति तन्-नित्यतां कैमुत्येन दर्शयति, किं चेति । “एको वशी सर्वगः कृष्ण ईडयः” [गो।ता।पू। २०] इत्य् उपक्रम्य “नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् ।” [गो।ता।पू। २१] इति श्रवणात् । यः—कृष्णः, नित्यश् चेतन एकः, नित्यानां चेतनानां बहूनां—“गोप-गोपी-गवावीतम्” [गो।ता।पू। १०] इति पूर्वत्र पठितानां परिकराणां, कामान्—वाञ्छितान्, विदधाति—प्रकाशयन् नस्तीति तद् अर्थः ॥३९३॥
तथापि शुष्क-वादैक-निष्ठानां हेतु-वादिनाम् ।—
**तूष्णीम् भावाय वचनं पुराणादेर् विलिख्यते ॥३९४॥
बलदेवः- **यद्यप्येवं, तथापीति—स्फुटार्थोदाहरण-वाहुल्येन तेषां निरासः सम्भवेद् इत्य् अर्थः ॥३९४॥
तथा हि श्री-भागवते ब्रह्म-स्तुतौ [भा।पु। १०.१४.२२]—
**त्वय्य् एव नित्य-सुख-बोध-तनाव् अनन्ते
मायात उद्यद् अपि यत् सद् इवावभाति ॥३९५॥
बलदेवः- **त्वय्येवेति । सदिव—स्वतन्त्रम् इव, “सत्त्वं स्वातन्त्र्यम् उद्दिष्टं तच् च कृष्णे न चापरे । अस्वातन्त्र्यात् तद् अन्येषाम् असत्त्वं विद्धि भारत! ॥” इति महाभारत-वचनात् ॥३९५॥
श्री-ब्रह्माण्डे च—
अनादेयम् अहेयं च रूपं भगवतो हरेः ।
आविर्भाव-तिरोभावाव् अस्योक्ते ग्रह-मोचने ॥३९६॥
श्री-बृहद्-वैष्णवे —
नित्यावतारो भगवान् नित्य-मूर्तिर् जगत्-पतिः ।
**नित्य-रूपो नित्य-गन्धो नित्यैश्वर्य-सुखानुभूः ॥३९७॥
बलदेवः- **चेद् एवं, तर्हि “जगृहे पौरुष रूपं” [भा।पु। १.३.१], “हरिर् अपि तत्यज आकृतिं त्र्यधीशः [भा।पु। ३.४.२८] इति कथं? तत्राह—अनादेयम् इति, नित्यावतार इति च ॥३९७॥
पाद्मे श्री-व्यासाम्बरीष-संवादे श्री-कृष्णं प्रति श्री-व्यास-वचनं [प।पु।पा।ख। ७३.१२-१२]—
**त्वाम् अहं द्रष्टुम् इच्छामि चक्षुर्भ्यां मधुसूदन! ।
यत् तत् सत्यं परं ब्रह्म जगद्-योनिं जगत्-पतिम् ॥
वदन्ति वेद-शिरसश् चाक्षुषं नाथ! मेऽस्तु तत् ॥३९८॥
बलदेवः- **सपार्षद् अस्य कृष्णस्य नित्य-मूर्तितां स्फुटयति, त्वाम् अहम् इत्य्-आदिना । स्वयं-रूपस्य मम पूर्णतमत्वम् एतद्-वेशस्य एतत् परिकरस्य एतल् लीलस्य चेति भावः ॥३९८॥
श्री-कृष्ण-वाक्यं [प।पु।पा।ख ७३.१७-१९]—
पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-गोपितम् ।
ततोऽपश्यम् अहं भूप! बालं कालाम्बुद-प्रभम् ।
गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः ।
कदम्ब-मूल आसीनं पीत-वाससम् अच्युतम् ॥३९९॥
तत्रैवाग्रे [प।पु।पा।ख ७३.२३-२५]—
ततो माम् आह भगवान् वृन्दावन-चरः स्मयन् ।
यद् इदं मे त्वया दृष्टं रूपं दिव्यं सनातनम् ।
निष्कलं निष्क्रियं शान्तं सच्-चिद्-आनन्द-विग्रहम् ।
पूर्ण पद्म-पलाशाक्षं नातः परतरं मम ॥४००॥
इदम् एव वदन्त्य् एते वेदाः कारण-कारणम् ॥
सत्यं व्यापि परानन्दं चिद्-घनं शाश्वतं शिवम् ॥४०१॥
श्री-वासुदेवोपनिषदि [वा।उ ३.५]—
**मद्-रूपम् अद्वयं ब्रह्म मध्याद्य्-अन्त-विवर्जितम् ॥
स्वप्रभं सच्-चिद्-आनन्दं भक्त्या जानाति चाव्ययम् ॥४०२॥ इति ।
बलदेवः- **मद्-रूपम् इति—मन्-मूर्तिर् इत्य् अर्थः, देह-देहि-भेद-विरहाद् इति भावः । एतेन सा दुरापास्ता ॥४०२॥
नन्व् अरूपः स्वतः कृष्णो दृश्यो मायिक-रूपतः ॥४०३॥
**
बलदेवः- स्थूणा-निखात-न्यायेनाशङ्कय समादधद् आह—नन्व् इति । **ज्ञानानन्दत्वात् स्वतोऽदृश्यः कृष्णो मायिक-विशुद्ध-सत्त्व-विग्रह-योगात् तु दृश्य इत्य् अर्थः ॥४०३॥
तथा हि—मोक्ष-धर्मे श्री-भगवद्-वचनं यथा [म।भा।शा।प। ३४१.४३-४५]—
एतत् त्वया न विज्ञेयं रूपवान् इति दृश्यते ।
**इच्छन् मुहूर्तान् नश्येयम् ईशोऽहं जगतां गुरुः ॥४०४॥
बलदेवः- **एतद् अर्थकं वाक्यम् आह—एतत् त्वयेति—रूपित्वात् अन्यवत् भगवान् दृश्यते इति त्वया, न विज्ञेयम् । चेद् इच्छामि तर्हीदं त्वद् दृष्टं रूपं हित्वा, नश्येयम्—अदृश्यः स्याम्, यत् अहम्, ईशः—ईदृग्-रूप-ग्र्हण-हानयोः समर्थः; मद्-अन्यो हि तत्र समर्थो न भवेत् ॥४०४॥
**माया ह्य् एषा मया सृष्टा यन् मां पश्यसि नारद! ।
सर्व-भूत-गुणैर् युक्तं नैवं त्वं ज्ञातुम् अर्हसि ॥ इति ॥४०५॥
बलदेवः- **ननु चेत् अरूपस्त्वं वस्तुतस् तर्हीदं रूपं कथं बिभर्षि? तत्राह—माया ह्य् एषेति—मायिकं ममेदं रूपम् इत्य् अर्थः । सर्व-भूत-गुणैः—शब्दादिभिः पञ्चभिर् इत्य् अर्थः । नैवं त्वम् इति—नीरूपं विज्ञानानन्दं मां जानीहीत्य् अर्थः ॥४०५॥
तथा च पाद्मे—
अनाम-रूप एवायं भगवान् हरिर् ईश्वरः ।
अकर्तेति च यो वेदैः स्मृतिभिश् चाभिधीयते ॥४०६॥ इति ।
अत्र समाधानं यथा श्री-वासुदेवाध्यात्मे—
अप्रसिद्धेस् तद् गुणानाम् अनामासौ प्रकीर्तितः ।
**अप्राकृतत्वाद् रूपस्याप्य् अरूपोऽसाव् उदीर्यते ॥
सम्बन्धेन प्रधानस्य हरेर् नास्त्य् एव कर्तृता ।
अकर्तारम् अतः प्राहुः पुराणं तं पुराविदः ॥४०७॥ इति ।
बलदेवः- **निरस्यति, अप्रसिद्धेर् इति—कार्त्स्न्येन अवाच्यत्वाद् इत्य् अर्थः, “कार्त्स्न्येन नाजोऽप्य् अभिधातुम् ईश” [भा।पु। १२.४.३९] इति स्मरणात्; अनाम-शब्दस्य साकल्यावाच्यत्वं प्रवृत्ति-निमित्तम् इत्य् अर्थः । अरूप-शब्दस्य त्व् अप्राकृत-रूपत्वं तत् ॥ सम्बन्धेनेति—अकर्तृ-शब्दस्य प्रधान-सम्बन्धाधीन-कर्तृत्व-रहितत्वं तद् इत्य् अर्थः । स्वतः कर्तृत्वं तु वर्तत एव, “तद् ऐक्षत” [छा।उ। ६.२.२], “सोऽकामयत” [तै।उ। २.६] इत्य् आदौ तत्-सम्बन्धात् प्राग् अपि तच्-छ्रवणात्, प्रकृति-गन्ध-शून्यऽपि प्रदेशे विविध-क्रीडाभिधानाच् च । तच् च “तस्मै स्व-लोकम्” इत्य्-आदिना प्राक् प्रतीतम् एव ॥४०७॥
अतश् च मोक्ष-धर्मीय-वचनं योग्यम् एव तत् ॥४०८॥
**बलदेवः- **चेद् एवं तर्हि मोक्ष-धर्म-वचनं कथं तथाह—इति चेत्? तत्राह—अतश् चेति—हरेः प्राकृतेतर-रूपत्वाद् इत्य् अर्थः । त्वया तु दुर्बुद्धिना प्राकृत-रूपतया शङ्कितम् इति ॥४०८॥
**तथा हि—
रूपीति हेतोर् दृश्येत यथैव प्राकृतो जनः ।
तथासौ दृश्यत इति त्वया मा स्म विचार्यताम् ॥४०९॥
बलदेवः- **तद्-वाक्यस्य वास्तवम् अर्थ दर्शयति, तथाहीति ॥४०९॥
**इत्य् उक्त्वा स्वस्य रूपित्वेऽप्य् अदृश्यत्वम् उदीरितम् ।
ततो निज-स्वरूपस्याप्राकृतत्वश् च दर्शितम् ॥४१०॥
बलदेवः- **रूपित्वेऽपीति—रूपवत्त्वेऽपि अदृश्यत्व-वचनं तद्-रूपस्याप्राकृतत्वं द्योतयतीत्य् अर्थः ॥४१०॥
**तद् दर्शने त्व् अकुण्ठात्मा ममेच्छैव च कारणम् ।
इत्याहेच्छन् मुहूर्ताद् इत्य् अर्ध-पद्यं स्वयं पुनः ॥
नश्येयम् इत्य् अदृश्यः स्यां यतो नशिर् अदर्शने ॥४११॥
बलदेवः- **अप्राकृत-स्वरूपस्य तस्य कथं दृशा ग्रहणम् इत्यवाह—तद् दर्शने त्व् इति । तद् दर्शने तद् अदर्शने च मद् इच्छैव कारणम् इत्य् अर्थः । यद् दृशोर् भक्त्य् अञ्जनं रञ्जयामि, स तत् पश्यतीत्य् अर्थः ॥४११॥
तथापि भूत-गुणवत्त्वेन मां त्वं यद्-ईक्षसे ।
**एषा माया मया सृष्टा नैवं त्वं ज्ञातुम् अर्हसि ॥४१२॥
बलदेवः- **तथापीति । माया—प्रतारण-शक्तिः, “माया दम्भे कृपायाश् च” इति विश्वः, “माया स्याच् छाम्बरीबुद्धयोः” इति त्रिकाण्ड-शेषः । यद् वा, ननु चेत् चिद्-घन-रूपस्त्वं, तर्हि दृशा तस्य ग्रहणं कथमिति? तत्राह—यन् मां त्वं पश्यसि, एषा, माया—मद् इच्छा-रूपा कृपा-परपाया चिद्-रूपा शक्तिः, मया, सृष्टा—प्रकटिता ॥१४७॥
माया-शब्देन कुत्रापि चिच्-छक्तिर् अभिधीयते ॥४१३॥
**
स्वरूप-भूतया नित्य-शक्त्या मायाख्यया युतः** ।
**अतो माया-मयं विष्णुं प्रवदन्ति सनातनम् ॥
[चतुर् वेद-शिखायाम्]—
इत्येषा दर्शिता मध्वाचार्यैर् भाष्ये निजे श्रुतिः ॥४१४॥
बलदेवः- **माया-शब्दस्य तद् अर्थत्वे प्रमाणं, स्वरूप-भेदभूतयेति । “आत्म-माया तद् इच्छा स्यात्” इति महा-संहितोक्तेः, “माया वयुनं ज्ञानम्” इति निघण्टूक्तेश् च । तस्मात् चिद्-घन-रूपं मां त्वं जानीहि, सर्व भूत-गुणैर् युक्तं—प्राकृत-गुणवद्-विग्रहं, मां ज्ञातुं नार्हसीति ॥४१४॥
तत्र स्वेच्छैक-प्रकाशत्वं मोक्ष-धर्म एव [म।भा।शा।प। ३३८.१२-२०]—
प्रीतस् ततोऽस्य भगवान् देव-देवः सनातनः ।
**साक्षात् तं दर्शयाम् आस सोऽदृश्योऽन्येन केन चित् ॥४१५॥
बलदेवः- **स्वेच्छया—कृपया, प्रत्यक्षत्वं द्रढयन् विशदयति, प्रीतस्ततोऽस्यति । तम्—उपरिचरं वसुं प्रति, आत्मानम् इति शेषः ॥४१५॥
बृहस्पतिस् ततः क्रुद्धः स्रुचम् उद्यम्य वेगितः ।
**आकाशं घ्नन् स्रुचः पातै रोषाद् अश्रूण्य् अवर्तयत् ॥४१६॥
बलदेवः- **स्रुचं—यज्ञाङ्गं पात्रं, येन हविर् निक्षिप्यते । वेगितः—त्वरितः सन् ॥४१६॥
“उद्यता यज्ञ-भागा हि साक्षात् प्राप्ताः सुरैर् इह ।
किम् अर्थम् इह न प्राप्तो दर्शनं स हरिर् विभुः ॥४१७॥
ततः स तं समुद्भूतं भूमिपालो महावसुः ।
**प्रसादयाम् आस मुनिं सदस्यास् ते च सर्वशः ॥४१८॥
बलदेवः- **उद्यतः—त्वया अर्पितः । अध्वर्ययुणा बृहस्पतिना दत्ता भागाः सर्वैः सुरैर् गृहीताः, तत्र सर्वे देवाः प्रत्यक्षाः सन्तो भागान् जगृहुः, विष्णुस् त्व् अप्रत्यक्ष एवं सन् भागं जग्राह—ततस् तस्याध्वर्योः क्रोधोऽभूत्, तदा वस्वादिभिस् तस्य प्रसादनं कृतम् इति ॥ तं—बृहस्पतिं, समुद्भूतम्—अतिक्रुद्धम् । महावसुः—उपरिचरः ॥४१७-४१८॥
**“अरोषणो ह्य् असौ देवो यस्य भागोऽयम् उद्यतः ।
न शक्यः स त्वया द्रष्टुम् अस्माभिर् वा बृहस्पते! ।
यस्य प्रसादं कुरुते स वै तं द्रष्टुम् अर्हति ॥४१९॥
बलदेवः- **उद्यताः—अर्पिताः ॥४१९॥
तत्रैकत-द्वित-त्रित-वाक्यम् [म।भा।शा।प। ३३८.२५-२७]—
अथ व्रतस्यावभृथे वाग् उवाचाशरीरिणी ।
**स्निग्ध-गम्भीरया वाचा प्रहर्षण-करी विभोः ॥
“यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं विभुम् ॥४२०॥ इति ।
बलदेवः- तत्रैवेति । एकतादयः—मुनयस् त्रयः, तेषां वाक्यम् ॥ **वाक्—गीर्देवी, अशरीरिणी—अदृश्या सती, उवाच ॥४२०॥
ततः स्वयं प्रकाशत्व-शक्त्या स्वेच्छा-प्रकाशया ।
**सोऽभिव्यक्तो भवेन् नेत्रे न नेत्र-विषयत्वतः ॥४२१॥
बलदेवः- **उदाहृत-वाक्यानां तात्पर्यम् आह—ततः स्वयम् इति । तथा च कृपा-शक्त्या धातृ-नेत्रयोर् हरेः प्रकाशः, न तु कृपां विना तयोस् तत्र सामर्थ्यम्, इति स्वप्रकाश-चिद्-घन-रूपत्वं सिद्धम् इति ॥४२१॥
यथा श्री-नारायणाध्यात्मे—
नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निज-शक्तितः ।
ताम् ऋते परमात्मानं कः पश्येताम् इतं प्रभुम् ॥ इति **॥४२२॥
बलदेवः- **एतत् स्फुटयति, नित्याव्यक्तोऽपीति द्वाभ्याम् । निज-शक्तितः—कृपातः ॥४२२॥
पाद्मे च—
**सच्-चिद्-आनन्द-रूपत्वात् स्यात् कृष्णोऽधोक्षजोऽप्य् असौ ।
निज-शक्तेः प्रभावेन स्वं भक्तान् दर्शयेत् प्रभुः ॥४२३॥ इति ।
बलदेवः- **अधोक्षजः—अधः-कृत-चक्षुर् जन्य-ज्ञानः, अचाक्षुषोऽपीत्य् अर्थः ॥४२३॥
**य एव विग्रहो व्यापी परिच्छिन्नः स एव हि ।
एकस्यैवैकदा चास्य द्विरूपत्वं विराजते ॥४२४॥
बलदेवः- **हरेर् लीला अनादिकेत् युक्तं; नित्या सेति वक्ष्यते । तत्रैवं विमुख-शङ्का—परिच्छिन्नस्यैव खलु लीला, न तु नभोनिभस्य विभोः सास्ति; यद्य् आद्यस्य वाच्या, तर्हि तस्य अनित्यत्वात् तत्-कृतायास्तस्याश् च तत् असन्देहम्, इति चेत्? तत्राह—य एवेति । परिच्छिन्नस्य व्यापकत्वं युगपद्-असङ्ख्य-सिद्ध-भाव-ध्यातृ-गोचरत्वात् बोध्यम् ॥४२४॥
यथा श्री-दशमे [भा।पु। १०.९.१३-१४]—
**न चान्तर् न बहिर् यस्य न पूर्व नापि चापरम् ।
पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ॥
तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् ।
गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ इति ॥४२५॥
बलदेवः- **एकस्योभय-धर्म-शालितायां प्रमाणं, न चान्तर् इति । अयमस्य वर्तुलितोऽर्थः—यस्यान्तर् बहिरादि-देश-परिच्छेदो नास्ति, अतो यो जगतः पूर्वादिषु देशेषु युगपत् वर्तते, यश् च क्षेत्र-ज्ञ-प्रकृतिमान् जगन्-मयस्तम्, आत्मजं—सुतं, गोपी—व्रजेश्वरी, “गोप्याददे त्वयि कृतागसि दाम तावत्” [भा।पु। १.८.३१] इति कुन्ती-वाक्यात्, सापराधं मत्वा उलखले दाम्ना बबन्ध । तं कीदृशम्? इत्य् आह—मर्त्य-लिङ्गं—“द्विभुजं मौन-मुद्राढ्यम्” [गो।ता।पू। १०] इति श्रुतेः मनुष्याकृतिम् अधोक्षजं—परित्यक्तैन्द्रियक-सुखं, स्वरूपानुबन्धि-नित्यानन्त-सुखम् इति ॥४२५॥
**अनेन पद्य युग्मेन व्रज-राज-सुतस्य हि ।
दाम-बन्धन-वेलायाम् एव व्यक्ता द्विरूपता ॥४२६॥
बलदेवः- **उदाहरणार्थ ग्राहयति, अनेनेति ॥४२६॥
तथैव च पुराणेषु श्रीमद्-भागवतादिषु ।
**श्रूयते कृष्ण-लीलानां नित्यता स्फुटम् एव हि ॥४२७॥
बलदेवः- **तथैवेति—यथा कृष्णस्याचिन्त्य-शक्तितो द्विरूपतोक्ता, तथैव लीला तस्य तत एव नित्योच्यते इत्य् अर्थः । अत्र प्रत्य्-अवतिष्ठन्ते—लीलायाः क्रियात्वात् प्रत्य्-अंशम् अप्य्-आरम्भ-पूर्तिभ्यां तस्याः सिद्धिर् वाच्या, ते विना तत्-स्वरूपं न सिध्येत्, तथा च तद् उभयवत्त्वेन विनाश-ध्रौव्यात् कथं सा नित्येति? अत्रोच्यते परेशे हरौ “एकोऽपि सन् बहुधा यो विभाति” [गो।ता।पू। २०], “एकानेक स्वरूपाय” [वि।पु। १.२.२] इत्य्-आदि प्रामाण्येन आकारानन्त्यात्, “स एकधा भवति द्विधा” [छा।उ। ७.२६.२] इत्य्-आदि प्रामाण्येन पार्षदानन्त्यात्, “परमं पदम् अवभाति भूरि” इत्य्-आदि प्रामाण्येन स्थानानन्त्याच् च नानित्यत्वं तस्याः । तत्-तद्-आकारादि-गतयोस् तत्-तद्-आरम्भ-पूर्त्योः सत्त्वेऽप्य् एकत्रैकत्र तत्-तल्-लीलांशा यावत् समाप्यन्ते न वा, तावद् एवान्यत्रान्यत्रारब्धास् ते भवेयुर् इत्य् एवम् अविच्छेदात् सिद्धं नित्यत्वम् । ननु अस्तु अविच्छेदः, पृथग्-आरम्भात् अन्यत्वं दुर्निवारम् इति चेत्? उच्यते । काल-भेदेनोदितानामप्य् एक-रूपाणां लीलानामैक्यं यथा “द्विः पाको ऽनेन कृतो न तु द्वौ पाकाव् इति द्विर् गो-शब्दो ऽयम् उच्चरितो न तु द्वौ गो-शब्दाविति” [ब्र्।सू। १.३.२८ श।भा।; ३.३.११ गो।भा।] पाकैक्यं शब्दैक्यश् च मन्यन्ते, तद्वत् तत्-तद्-आकारादीनां चतुर्णामैक्याच् च न काचिच् छङ्का । इत्थश् च “एको देवो नित्य-लीलानुरक्तो भक्त-व्यापी भक्त-हृद्य्-अन्तरात्मा ।” इत्य्-आदि श्रुतेर् वक्ष्यमाण स्मृतीनाञ्चानुग्रहः ॥४२७॥
यथा च श्री-प्रथमे श्री-द्वारका-वासि-वचनम् [भा।पु। १.१०.२६]—
अहो अलं श्लाघ्यतमं यदोः कुलम्
अहो अलं पुण्यतमं मधोर् वनम् ।
यद् एष पुंसाम् ऋषभः श्रियः प्रियः
स्व-जन्मना चङ्क्रमणेन चाञ्चति ॥ इति ॥४२८॥
**
बलदेवः- **एवं सिद्धां लीला-नित्यतां प्रमाण-वचनैर् द्रढयति । अहो अलम् इति । हस्तिनावासि-वचनम् एतत् द्वारका-वासि-वचनत्वेनोक्तं, तद्-वासिनां द्वारका-परिकरत्वाद् इति बोध्यम् । यदोः, कुलं—वंशः, “कुलं जन-पदे गोत्रे सजातीय-गणेऽपि च ।” इति मेदिनी; यत्र नन्दो वसुदेवश् च बभूव । यत्—यतः, एषः—श्री-कृष्णः, जातः सन् । पुंसां—त्रयाणाम्, ऋषभः—श्रेष्ठः, अंशीत्य् अर्थः । श्रियः—लक्ष्म्याः, श्री-राधायाः श्री-रुक्मिण्याश् च, प्रियः—कान्तः । चङ्क्रमणेन—विहारेणेत्य् अर्थः ॥४२८॥
**अञ्चतीति पदं वर्तमान-कालोपपादकम् ।
द्वारका-वासिनाम् उक्तौ लीलानां वक्ति नित्यताम् ॥४२९॥
बलदेवः- **अञ्चतीति—वर्तमाने लट्, वर्तमानत्वं प्रारब्धापरिसमाप्तत्वम् ॥४२९॥
श्री-दशमे श्री-शुकोक्तौ [भा।पु। १०.९०.४८]—
**
जयति जननिवासो देवकी-जन्म-वादो
यदु-वर-परिषत् स्वैर् दोर्भिर् अस्यन्न् अधर्मम्** ।
**स्थिर-चर-वृजिन-घ्नः सुस्मित-श्री-मुखेन
व्रज-पुर-वनितानां वर्धयन् काम-देवम् ॥४३०॥
बलदेवः- **कृष्णस्य मौषल-लीला वक्ष्यन् श्री-शुकः राज्ञस् तद्-एकान्तिनः प्रमोदाय स्व-सिद्धान्तमादौ कथ यति, जयतीति । एतावता ग्रन्थेन यो निगदित-महिम-लीलः, स खलु भगवान् कृष्णस्ताद्-अवस्थ्येनाधुनापि चकास्तीति त्वया ज्ञेयं, न तु मौषल-चरित-श्रुत्या विपरीतं भाव्यं; यद् असौ बहिर् दृष्टि-जनागोचरस् तथैव व्रजे पुरे च, वनितानाम्—अनुरागार्तानां प्रेयसीनां, कामदेवं वर्धयन् जयतीति, “वनिता जनितात्यर्थानुरागायाश् च योषिति ।” इत्य् अमरः । देवक्यां—श्री-यशोदायां देवक-पुत्र्यां च, जन्मेति, वादः—प्रसिद्धिः, यस्य सः, “द्वे नाम्नी नन्दभार्या यशोदा देवकीर्ति च ।” इति आदिपुराण-वचनात्, तत्-तद्-आत्मजत्वाभिमानीत्य् अर्थः तत्त्व-बुभुत्-सुकथा हि वादः । यदु-वराः—श्री-नन्दादयः श्री-वसुदेवादयश् च, ते, परिषदः—परिकराः, यस्य सः, स्वैः—स्वभुज-तुल्यैः श्रीदामादिभिः सात्यक्यादिभिश् च, अधर्मं निरस्यन् । यदा शुकः कथामाख्यत् ततोऽतिपूर्वं हरोस् तिरोधानम् अभूत्, तथापि वर्तमान-प्रयोगस् तल्-लीलाया नित्यतायाम् एव सम्भवेत्, नान्यथा ॥४३०॥
श्री-स्कान्दे श्री-मथुरा-खण्डे श्री-युधिष्ठिरं प्रति श्री-नारद-वाक्यम्—
वत्सैर् वत्सतरीभिश् च साकं क्रीडति माधवः ।
वृन्दावनान्तरगतः स-रामो बालकैर् वृतः ॥ इति ॥४३१॥
यदानयोस् तु संवादो द्वारवत्यां हरिस् तदा ।
तथापि वर्तमानत्वेनोक्तिस् तन् नैत्य-वाचिका ॥४३२॥
बलदेवः- अनयोर् इति युधिष्ठिर-नारदयोः । नैत्य नित्यता ब्राह्मणादित्वात् भावे ष्यष्, हलो यमां यमि इति य-लोपः ॥४३२॥
पाद्मे पाताल-खण्डे श्री-पार्वतीं प्रति श्री-रुद्र-वाक्यम्—
अहो मधु-पुरी धन्या यत्र तिष्ठति कंसहा ।
तत्र देवा मुनिः सर्वे वासम् इच्छन्ति सर्वदा ॥४३३॥ इति ।
बलदेवः- मधु-पुरीति मथुरा-मण्डलं बोध्यते ॥४३३॥
**लीला-परिकराः प्रेष्ट-जनाः स्युर् यादवास् तथा ।
देवाश् च ब्रह्म-जम्भारि-कुवेर-तनयादयः ॥
नारदायाश् च दनुज-नाग-यक्षादयश् च ते ॥४३४॥
बलदेवः- **लीलाः परिकरैः सम्बन्धा भवन्त्यतस्तान् आह—लीलेति । जम्भारिः—इन्द्रः । दनुजः—केशी, नागः—कालियः, यक्षः—शङ्खचूडः, तत्-प्रभृतयस् तत्-परिकरास् तद्-अङ्गानीत्य् अर्थः । नित्य-धाम्नि दनुजादय एते दुर्गादिवत् अप्राकृता बोध्याः; “न यत्र माया” इति प्रामाण्यात् तत्र प्राकृतानाम् अभावात् । तत्र लीलास्ता अनुकरण-रूपा एव ॥४३४॥
प्रकटाप्रकटा चेति लीला सेयं द्विधोच्यते ॥४३५॥
**
बलदेवः- **लीला सा द्वेधेत्य् आह—प्रकटेति ॥४३५॥
तथा हि—
सदानन्तैः प्रकाशैः स्वैर् लीलाभिश् च स दीव्यति ।
तत्रैकेन प्रकाशेन कदाचित् जगद्-अन्तरे ॥
सहैव स्व-परीवारैर् जन्मादि कुरुते हरिः ॥४३६॥
द्वैविध्यं दर्शयति, तथाहीति । स दीव्यति—प्रपञ्चागोचरेषु धामसु । तत्रेति—तेषु प्रकाशेषु मध्ये । जगद्-अन्तरे—प्रपञ्च-मध्ये, जगन्ति अन्तरे यस्य तस्मिन् वृन्दावने वा इत्य् एके । एकेन प्रकाशेन स्व-परीवारैः सह प्रादुर्भूय हरिर् जन्मादि कुरुते ॥४३६॥
कृष्ण-भावानुसारेण लीलाख्या शक्तिर् एव सा ।
**तेषां परिकराणां च तं तं भावं विभावयेत् ॥४३७॥
बलदेवः- **ननु ब्रह्मादयश् चेत् लीला-परिकरास्तेषां भगवति प्रातिकूल्याचारः कथम्? तत्राह—कृष्ण-भावेति—कृष्ण-चेष्टानुगत्येत्य् अर्थः । तं तं, भावं—स्वभावम् । अयम् अभिप्रायः—“अस्मत् प्रातिकूल्येनापि चेत् प्रभोस् तत्-तल्-लीला सिध्येत्, तर्हि भवतु तद् अस्माकम्” इति तेषाम् इच्छायां सत्यां तल्-लीला-शक्तिस् तत् प्रति-पादयति, इति न भगवति किञ्चित् असामञ्जस्यम् ॥४३७॥
प्रपञ्च-गोचरत्वेन सा लीला प्रकटा स्मृता ।
**अन्यास् त्व् अप्रकटा भान्ति तादृश्यस् तद्-अगोचराः ॥४३८॥
बलदेवः- **प्रकटाप्रकटे लीले लक्षयति, प्रपं चेति । तद्-अगोचराः—प्रपञ्चादृश्याः ॥४३८॥
तत्र प्रकट-लीलायाम् एव स्यातां गमागमौ ।
**गोकुल मथुरायाश् च द्वारवत्याश् च शार्ङ्गिणः ॥४३९॥
बलदेवः- **गोकुले, शाऋङ्गिणः—शृङ्ग-धरस्य, शृङ्गम् एव शार्ङ्गं, स्वार्थिकः प्रज्ञाद्यण्, “वेणु-शृङ्ग-धरस् तु वा” इति श्रवणात् ॥४३९॥
यास् तत्र तत्राप्रकटास् तत्र तत्रैव सन्ति ताः ।
**इत्य् आह जयतीत्य्-आदि-पद्यादिकम् अभीक्ष्णशः ॥४४०॥
बलदेवः- **तत्र तत्र—गोकुलादिष्व् एवादृश्येषु प्रकाशेषु । ननु प्राकृतिके प्रलये प्रपञ्च-विनाशात् तद्-गता लीला न स्यात्, ततस् तद्-अनित्यत्वम् इति चेत्? मैवं भ्रमितव्यं, प्रपञ्च-गोचरत्वाभावेऽपि लीलाव्यक्तेर् अनाशात्, “शिखी ध्वस्तः” इति वत् ॥४४०॥
**देवाद्य्-अंशावतरणे प्रवृत्ते पद्मजाज्ञया ।
वसुदेवादिकानां ये स्वर्गेऽंशाः कश्यपादयः ।
नित्य-लीलान्तर-स्थैस् ते वसुदेवादिभिर् गताः ।
सायुज्यम् अंशिभिस् तत्र जायन्ते शूर-मुख्यतः ॥४४१॥
बलदेवः- **अथ प्रकटायाश् च प्रवृत्तौ प्रकारम् आह—देवाद्य् अंशेति । पद्मजाज्ञया—“गिरं समाधौ गगने समीरितां निशम्य वेधास् त्रिदशान् उवाच ह । गां पौरुषीं मे शृणुतामराः! पुनर् विधीयताम् आशु तथैव मा चिरम् ॥ पुरैव पुंसावधृतो धराज्वरो भवद्भिर् अंशैर् यदुषूपजन्यताम् । स यावद् उर्व्या भरम् ईश्वरेश्वरः स्वकाल-शक्त्या क्षपयंश् चरेद् भुवि ॥"[भा।पु। १०.१.२१-२२] इति श्री-दशमोक्त-प्रकारेण देवान् प्रति ब्रह्म-निदेशेन, देवाद्य्-अंशावतरणे प्रवृत्ते सति ये स्वर्गे वसुदेव-नन्दादिकानां नित्य-परिकराणाम्, अंशाः—उपसर्ज्जनीभूताः कश्यप-द्रोणादयः, ते नित्य-लीलान्तरस्थैस् तैर् वसुदेव-नन्दादिभिर् अंशिभिर् अवतरद्भिः सह, सायुज्यं—सहयोगं, गताः सन्तः शूर-पर्जन्यादिभ्यो जायन्ते । तेऽपि वसुदेवादि-नामानोभवन्तीति वसुदेव-नन्दादीनां तन् नित्य-परिकरत्वम् । “अथ ब्रह्मादि-देवानां तथा प्रार्थनया भुवः । आगतोऽहं गणाः सर्वे जातास्तेऽपि मया सह । एते हि यादवाः सर्वे मद्-गणा एवं भामिनि! । सर्वदा मत्-प्रिया देवि! मत्-तुल्य-गुण-शालिनः ॥” इति पाद्मे भामां प्रति कृष्णोक्तः; तत्रैव, “पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-गोपितम् । ततो ऽपश्यम् अहं भूप! बालं कालाम्बुद-प्रभम् । गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः ॥” इत्य् अम्बरीषं प्रति श्री-व्यासोक्तेश् च । गोप-बालकैर् इति नन्दादीनामाक्षेपकम् ॥४४१॥
**यद्-विलासो महा-श्रीशः स लीला-पुरुषोत्तमः ।
आविर्बुभूषुर् अत्राविष्कृत्य सङ्कर्षणं पुरः ।
अन्तःस्थिताविष्कर्तव्य-तद्-अन्य-व्यूह ईश्वरः ।
हृदये प्रकटस् तस्य भवत्य् आनकदुन्दुभेः ॥४४२॥
बलदेवः- **एवं पित्रादिष्व् अवतीर्णेषु कृष्णस्यावतारम् आह—यद् विलास इति । लीला-पुरुषोत्तमः—श्री-कृष्णः, अत्र—गोकुले मधुपुरे च । तद् अन्येति—प्राद्युम्नानिरुद्धौ बोध्यौ । आनकदुन्दुभेर् हृदये प्रकटो भवति, “आविवेशांश-भागेन मन आनकदुन्दुभेः ॥” [भा।पु। १०.२.१६] इति श्री-शुकोक्तेः ॥४४२॥
**भूमि-भार-निरासाय देवानाम् अभियाच्ञया ।
द्वापरस्यावसानेऽस्मिन्न् अष्टाविंशे चतुर् युगे ।
क्षीराब्धि-शायि-यद्-रूपम् अनिरुद्धतया स्मृतम् ।
तद् इदं हृदयस्थेन रूपेणानकदुन्दुभेः ।
ऐक्यं प्राप्य ततो गच्छेत् प्राकटयं देवकी-हृदि ॥४४३॥
बलदेवः- **ननु लीला-पुरुषोत्तमस्य कृष्णस्य क्षीरसिन्धु-लीला व्रजे कस्मात्? तत्राह—भूमीति । द्वापरस्येति—श्वेतवाराह-कल्पे वैवस्वत-मन्वन्तरे अष्टाविंशे चतुर् युगे द्वापर-शेषे इत्य् अर्थः । एवम् उक्तं मात्स्ये—“अस्माद् राथन्तरात् कल्पात् त्रयो-विंशतिमो यदा । वाराहो भविता कल्पस् तस्मिन् मन्वन्तरे शुभे ॥ वैवस्वताख्ये सम्प्राप्ते सप्तमे सप्त-लोक-धृक् । द्वापराख्यं युगं तस्मिन्न् अष्टाविंशतिमं यदा ॥ तस्यान्ते च महा-लीलो वासुदेवो जनार्दनः । भारावतारणार्थाय त्रिधा विष्णु-भविष्यति । द्वैपायनो मुनिस् तद्वत् रोहिणेयोऽथ केशवः ॥” इति । अनिरुद्धतया भारते स्मृतं यद् रूपं क्षीराब्धिशायि, तद् इदम् आनकदुन्दुभेर् हृदयस्थेन स्वयं भगवता रूपेण कृष्णेन सहैक्यं प्राप्य देवकी-हृदि प्राकटयं गच्छेद् इत्य् अन्वयः, “ततो जगन्-मङ्गलम् अच्युतांशं समाहितं शूर-सुतेन देवी । दधार सर्वात्मकम् आत्म-भूतं काष्ठा यथानन्द-करं मनस्तः ॥” [भा।पु। १०.२.१८] इति श्री-शुकोक्तेः । यद्य् अपि देवकी-हृदीत्य् उक्तं, तथापि तद्-गर्भस्थितिर् बोध्या, “दिष्टयाम्ब! ते कुक्षि-गतः परः पुमान्” [भा।पु। १०.२.४१] इति देवस्तोत्रात् ॥४४३॥
**प्रेमानन्दामृतैस् तस्या वात्सल्यैक-स्वरूपिभिः ।
लाल्यमानो हरिस् तत्र वर्धते चन्द्रमा इव ॥४४४॥
बलदेवः- **प्रेमानन्देत्यादि—सार्वत्रिकम् अगूढार्थम् ॥४४४॥
**अथ भाद्रपदाष्टम्याम् असितायां महा-निशि ।
तस्या हृदस् तिरोभूय कारायां सूति-सद्मनि ।
देवकी-शयने तत्र कृष्णः प्रादुर्भवत्य् असौ ॥४४५॥
बलदेवः- **अथेति—सार्ध-द्वयं स्फुटार्थम् ॥४४५॥
**जनयित्री प्रभृतिभिस् ताभिर् इत्य् अवगम्यते ।
लौकिकेन प्रकारेण सुखं शिशुर् अजायत ॥४४६॥
अयं चतुर् भुजत्वेऽपि द्विभुजत्वेऽपि कृष्णताम् ।
न त्यजत्य् एव तद्-भाव-गुण-रूपात्म-वृत्तितः ॥४४७॥
बलदेवः- **ननु, “यदोर् वंशं नरः श्रुत्वा सर्व-पापैः प्रमुच्यते । यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति ॥” [वि।पु। ४.११.२] इति श्री-वैष्णवात् द्विभुजं कृष्ण-रूपं ब्रह्म विज्ञायते, देवक्यान् तु चतुर्भुजं तत् उदभूत, “चतुर् भुजं शङ्ख-गदाद्य् उदायुधम् " [भा।पु। १०.३.९] इति श्री-शुकोक्तेः । तद् इदं विरुद्धम् इति चेत्? तत्राह—अयम् इति । कृष्णतां—नराकृति-ब्रह्मताम् । कुतः? इत्य् अत्राह—तद्-भावेति । तद्-भावः—मनुष्यवच्-चेष्टितं, गुणः—सार्वज्ञेऽपि सति मुग्धता, रूपं—तद् अनुयायि-प्रभावः, तेषाम् अनुवर्तनात् ॥४४७॥
**तथापि द्विभुजत्वस्य कृष्णे प्राधान्यम् उच्यते ।
गूढत्वाद् एव च क्वापि गौणत्वम् इव कीर्त्यते ।
“गूढं परं ब्रह्म मनुष्य-लिङ्गम्” इति हि प्रथा ॥४४८॥
बलदेवः- **तथापीति—रूप-द्वयवत्त्वेऽपीत्य् अर्थः । गूढत्वाद् एवेति । द्वि-भुजत्वस्य प्रधानस्य क्वचित् गौणत्वम् इव कीर्त्य्ते । कुतः? इत्य् आह—गूढत्वात्—महैश्वर्यापिहितत्वात् । तथा च मुख्यत्वम् एवेति हृद्-गतम् । अत्रार्थे प्रमाणम् आह—गूढम् इति—सप्तमे [भा।पु। ७.१०.४८, ७.१५.७५] युधिष्ठिरं प्रति नारद-वाक्यम् । मनुष्य-लिङ्गं—नराकृतिकं, परं ब्रह्म महैश्वर्यैः, गूढं—पिहितं सत, येषां युष्माकं गृहानावसतीति सम्बन्धः ॥४४८॥
अथ व्रजेश्वरी-गेहे विशन्न् आनकदुन्दुभिः ।
**तत्र न्यस्य सुतं तस्याः सुताम् आदाय निःसरेत् ॥४४९॥
बलदेवः- **जन्मोत्तरं चरितम् आह—अथेति । तस्या—व्रजेश्वर्याः ॥४४९॥
**सोऽयं नित्य-सुतत्वेन तस्या राजत्य् अनादितः ।
कृष्णः प्रकट-लीलायां तद्-द्वारेणाप्य् अभूत् तथा ॥४५०॥
बलदेवः- **ननु प्रकट-लीलायां कृष्णो देवक्या यशोदायाश् च औरस्यः पुत्रः पठ्यते, अप्रकट-लीलायां पुत्र-भावोऽस्ति न वा? इति वीक्षायाम् आह—सोऽयम् इति । योऽनादितः, तस्याः—देवक्या यशोदायाश् च, नित्य-सुतत्वेन, राजति—सदा विराजन्न् अस्ति, स श्री-कृष्णः प्रकट-लीलायां, तद्-द्वारेण—देवकीमात्रा, अपि-शब्दात् यशोदामात्रा च, तथा—लोक-रीत्या, प्रादुर्बभूव । ननु अप्रकट-प्रकाशे युगपत् अनादि-सिद्धानां देवकी-वसुदेव-कृष्णानां यशोदा-नन्द-कृष्णानाश् च पूर्वोत्तर-भावेनावगम्यमानो माता-पितृ-पुत्र-भावः कथं सम्भवेत् इति चेत्? उच्यते, भाव-निमित्तकस् तद्-भाव इति गृहाण, “भाव-ग्राह्यमनीडाख्यम्” इति मन्त्र-वर्णात् । गुरु-लघु-भावस् तु पद्म-पत्र-गणवद्-युगपत् सिद्धो बोध्यः । प्रकट-प्रकाशे तु देवक्या यशोदायाश् च गर्भात् कृष्णस्य जन्म श्री-शुकेनोक्तम् । तत्र पूर्वस्या गर्भात् स्फुटम् उक्तं, परस्या गर्भात् तु अस्फुटम् उक्तं, तथैव स्वामीष्टेः, जन्म-प्रकरणे एव, “निशीथे तम-उद्भूते जायमाने जनार्दने । देवक्यां देव-रूपिण्यां विष्णुः सर्व-गुहा-शयः । आविरासीद् यथा प्राच्यां दिशीन्दुर् इव पुष्कलः ॥” [भा।पु। १०.३.८] इति । उत्तरत्र च, “यशोदा नन्द-पत्नी च जातं परम् अबुध्यत । न तद् वेद परिश्रान्ता निद्रयापगत-स्मृतिः ॥” [भा।पु। १०.३.५२] इति । पूर्वस्यार्थः ।—देवक्याम् इति—देहलीप्रदीप-न्यायेन मध्ये पाठ-सामर्थ्याच् च उभयत्रान्वेति । तमसा—अन्ध-कारेण, उद्भूते—व्याप्ते, भाद्र-पद-कृष्णाष्टम्याः, निशीथे—अर्धरात्रे, देवक्यां—यशोदायां, जनार्दने—कृष्णे, जायमाने —प्रदुर्भवति, देवक्यां—देवक-पुत्र्यां, विष्णुः—जनार्दनः, आविरासीद् इत्य् एकदेव उभयत्र प्राकट्यम् । “गर्भ-काले त्व् असम्पूर्णे अष्टमे मासि ते स्त्रियौ । देवकी च यशोदा च सुषुवाते समं तदा ॥” इति श्री-हरि-वंशाच् च । समं—युगपत्, इत्य् उक्तेर् द्वयोः पुत्राव् अभूतां, देव्याः पश्चाज्-जातत्वात् । तच् च, “ततश् च शौरिर् भगवत्-प्रचोदितः सुतं सम् आदाय स सूतिका-गृहात् । यदा बहिर् गन्तम् इयेष तर्ह्य् अजा या योग-मायाजनि नन्द-जायया ॥ [भा।पु। १०.३.४७] इति श्री-शुक-वाक्यात् । अतः कृष्णानुजेति सोच्यते! । अतः किञ्चित् पूर्वोत्तर-भावेन पुत्र-कन्या-रूपम् अपत्य-द्वयं तच् च क्रमाद्-वसुदेव-यशोदाभ्यां न दृष्टम् इति ज्ञेयम् । देव-रूपिण्याम् इत्य् उक्तेस् तयोः परात्वं बोध्यते, तेन तद्-गर्भ-सम्बन्धात् अपुमर्थत्वं नेत्य् आगतं, न खलु रत्न-मन्दिरे सुरभिणि स्थितोऽपुरुषार्थी नृ-पतिः प्रतीतः । पुष्कल इति—जातस्य पूर्णत्वं च । द्वितीयस्यार्थः ।—वसुदेव-पत्नीव नन्द-पत्नी च भगवल्-लक्षणान्य्-अवलोक्य, परम् एव स्व-गर्भा-जातम् अबुध्यत—परेशोऽयम् इत्यवैत् । ननु कन्याप्यस्या अभूत्, ताश् च तत्रागतो वसुदेवो नीत्वा स्व-पुत्रश् च तत्र निधाय गतवानित्य् एतत् सर्वं कुतो नाबुध्यत? तत्राह “न तद् वेद” इति । तत्—कन्या-वसुदेवागमादिकं, न वेदेति । न तल्-लिङ्गम् इति क्वचित् पाठः । तत् कन्या-जन्म-तद्-आगमादेश्चिह्नं नाबुध्यतेति सम्बन्धः, “लिङ्गं चिह्नानुमानयोः” इति विश्व-लोचन-कोषः । तद् बोधे हेतुः, परीत्यादिः । आदिपुराणे च स्फुटम् उक्तं—“नन्द-गोप-गृहे पुत्रो यशोदा-गर्भ-सम्भवः ।” इति श्री-नारदेन । एवं च सति “नन्दस् त्व् आत्मज उत्पन्ने” [भा।पु। १०.५.१] “भगवान् गोपिका-सुतः” [भा।पु। १०.९.२१] इत्य्-आदीनि वाक्यानि मुखार्थान्य् एव स्युः । “उपगुह्यात्मजाम्” [भा।पु। १०.८.७] इति वाक्यन् तु “अष्टमो मे गर्भः कन्यैवाभूत्” इति स्व-पुत्र-गोपन-फलकम् औपचारिकं धीपूर्वकम् एव, मुनिना तु तद्-अनु उक्तम् इति नाक्षेपकं तत् । ननु यशोदायां तज्-जन्म गूढ-भावेन कथम् उक्तम् इति चेत्? स्वामीष्टयेति गृहाण । “नन्द-गेहे वसुदेव-गेहे च मे प्राकटयं भविष्यति, स्थितिस् त्व् एक-रूप्येण नन्द-गेहे, द्वैरूप्येण स्थितौ कंसो मां विज्ञाय पित्रोः क्लेशं निक्षिपेत्, त्वयापि मच्-चरित-गायकेन तथैव गातवं यथा रहस्यं न भज्येत” इति स्वामिन इष्टिः । तां च तद्-इष्टं निर्णेताप्य् एष ग्रन्थ-कृत् तद्-अनुसारेण व्याञ्जयामास च, अपि-शब्दाद् इति ॥४५०॥
**अथ प्रकटतां लब्धे व्रजेन्द्र-विहिते महे ।
तत्र प्रकटयत्य् एष लीला-बाल्यादिकाः क्रमात् ।
करोति याः प्रकाशेषु कोटिशोऽप्रकटेष्व् अपि ॥४५१॥
बलदेवः- **अथ प्रकटताम् इत्य्-आदिकं सार्ध-त्रयं विस्फुटार्थम् ॥४५१॥
प्रेष्टानन्दैर् व्रजे तैस् तैर् आत्मनोऽपि विमोहनैः ।
लीलोल्लासैर् विलसति श्री-लीला-पुरुषोत्तमः ॥४५२॥
असमोर्ध्वेन भगवान् वात्सल्येन व्रजेशयोः ।
**सुतत्वे नैव स तयोर् आत्मानं वेत्ति सर्वदा ॥४५३॥
केचिद् भागवताः प्राहुर् एवम् अत्र पुरातनाः ।
व्यूहः प्रादुर् भवेत् आद्यो गृहेष्व् आनकदुन्दुभेः ।
गोष्ठे तु मायया सार्धं श्री-लीला-पुरुषोत्तमः ॥४५४॥
बलदेवः- कृष्णस्य नन्द-वसुदेव-पुत्रतायां मतान्तरम् आह—केचिद् इत्य्-आदिना । **आद्यः—वासुदेव-व्यूहः ॥४५४॥
गत्वा यदु-वरो गोष्ठं तत्र सूती-गृहं विशन् ।
कन्याम् एव परं वीक्ष्य ताम् आदायाव्रजत् पुरम् ।
प्राविशद् वासुदेवस् तु श्री-लीला-पुरुषोत्तमम् ॥४५५॥
एतच् चातिरहस्यत्वान् नोक्तं तत्र कथा-क्रमे ।
किन्तु क्वचित् प्रसङ्गेन सूच्यते श्री-शुकादिभिः ॥४५६॥
**
यथा श्री-दशम [भा।पु। १०.५.१]—** **
नन्दस् त्व् आत्मज उत्पन्ने जाताह्लादो महा-मनाः ॥४५७॥
बलदेवः- **नन्दस् त्व् आत्मज इति—औरस्ये कृष्णे इत्य् अर्थः ॥४५७॥
तथा तत्रैव [भा।पु। १०.६.४२]—
नन्दः स्व-पुत्रम् आदाय प्रोष्यागत उदारधीः ॥४५८॥
तथा च [भा।पु। १०.९.२१]—
नायं सुखापो भगवान् देहिनां गोपिका-सुतः ॥४५९॥
**
बलदेवः- **गोपिका-सुतः—यशोदा-गर्भाज्-जात इत्य् अर्थः ॥४५९॥
तथा च तत्र श्री-ब्रह्म-स्तवे [भा।पु। १०.१४.१]—
वन्य-स्रजे कवल-वेत्र-विषाण-वेणु-
लक्ष्म-श्रिये मृदु-पदे पशुपाङ्गजाय ॥४६०॥
**
बलदेवः- **पशुपाङ्गजायेति—पशुपो नन्दस् तस्याङ्गाज्-जातायेत्य् अर्थः ॥४६०॥
तथा श्री-यामल-वचनं समुदाहरन्ति—
कृष्णोऽन्यो यदु-सम्भूतो यः पूर्णः सोऽस्त्य् अतः परः ।
**वृन्दावनं परित्यज्य स क्वचिन् नैव गच्छति ॥४६१॥
बलदेवः- **अस्मिन् मते ग्रन्थ-कृताम् अस्वारस्यम् एव; तत्र सति व्रजौकसां तद्-विरहाभिधानासम्भवात्, उद्धव-प्रेषणस्य, कुरुक्षेत्रे व्रजौकसां गमनस्य, द्वारकातो व्रजे कृष्णागमनस्य च वैयर्थ्यात् । न चान्तर् गताद्य-व्यूहश् च नन्द-सूनोर् मथुरादौ गतत्वात् तस्यैव द्वारकातः समागमाच् च तत् तत् सङ्गच्छेतेति वाच्यं, तथा सति यामल-वचन-व्याकोपात्; स्व-मते तु अप्रकट-प्रकाशम् आदाय सङ्गति मत् ॥४६१॥
**द्विभुजः सर्वदा सोऽत्र न कदाचिच् चतुर्भुजः ।
गोप्यैकया युतस् तत्र परिक्रीडति नित्यदा ॥४६२॥ इति ।
अथ प्रकट-रूपेण कृष्णो यदु-पुरीं व्रजेत् ।
व्रजेशजत्वम् आच्छाद्य स्वां व्यञ्जन् वासुदेवताम् ।
यो वासुदेवो द्विभुजस् तथा भाति चतुर्भुजः ॥४६३॥
बलदेवः- **स्व-मते मथुरादि-लीलाः दर्शयति, अथ प्रकट-रूपेणेत्यादिना । व्रजेशजत्वम् आच्छाद्येति—तद्-आच्छादनं माथुराणां स्व-सम्बन्धेन प्रेम-वर्धनार्थम् । स्वां—स्व-निष्ठां, वासुदेवतां—वसुदेव-पुत्रतां, व्यञ्जन्—प्रकाशयन् ॥४६३॥
**तास् ता मधु-पुरे लीलाः प्रकटय्य यदूद्वहः ।
द्वारवत्यां तथा याति तां तां लीलां प्रकाशकः ॥४६४॥
बलदेवः- **तां तां लीलां प्रकाशक इति—“तुमुन्-ण्वुलौ क्रियायां क्रियार्थायाम्” [पा। ३.३.१०] इति सूत्रात् ण्वुल्, तास् ता लीलाः प्रकाशयितुम् इत्य् अर्थः ॥४६४॥
तत्राविष्कुरुते व्यूहं प्रद्युम्नाख्यं तृतीयकम् ।
यतो व्यूहोऽनिरुद्धाख्यस् तुर्यः प्रकटतां व्रजेत् ॥४६५॥
इति व्यूह-चतुष्कस्य लोकोत्तर-चमत्क्रियाः ।
विवाहाद्याश् च बहुधा लीलास् तत्रैव वर्णिताः ॥४६६॥
बलदेवः- इति व्यूह-चतुष्कस्य इति—स्वस्मिन्न्42 एव आद्य-व्यूहत्व स्फुरणाद् इति भावः ॥४६६॥
तस्मिन्न् इन् सोमे एदितिओन्स्।
व्रजे प्रकट-लीलायां त्रीन् मासान् विरहोऽमुना ।
**तत्राप्य् अजनि विस्फूर्तिः प्रादुर्भावोपमा हरेः ॥
त्रिमास्याः परतस् तेषां साक्षात् कृष्णेन सङ्गतिः ॥४६७॥
बलदेवः- **ननु मथुरादौ विहरता कृष्णेन व्रजौकसां स्वैक-जीवातूनां किं समाधानं कृतम्? इत्य् अत्राह—व्रजे प्रकट्अ- इति । मास-त्रयन् तु तेषां विरह-वह्नौ निमग्नम् अभूत्, तत्रापि तद्-विस्फूर्त्या स्वात्म-धारणम्, इति विरहानन्दास्वाद-निर्भरो मास-त्रयम् इत्य् अर्थः । विस्फूर्तिः—विशिष्टा स्फूर्तिः, यद् असौ हरेः प्रादुर्भावोपमेति—कषायित-वस्त्र-राग-वृद्धि-न्यायेन विरह-सुखस्य संयोग-सुख-वृद्धि-करत्वम्, इति स्व-प्रेष्ठेषु तेषु विरहावस्था-प्रकाशनं बोध्यम् । अथ संयोगम् आह—त्रिमास्या इति ॥४६७॥
**आविर्भावागतिभ्यां सा द्वि-प्रकारास्य सम्भवेत् ॥४६८॥
तत्र आविर्भावः—
वैश्लेषिक-क्लमोद्रेक-विवशीकृत-चेतसाम् ।
प्रेष्ठानां सहसैवाग्रे व्यग्रः प्रादुर्भवेद् असौ ॥४६९॥
बलदेवः- **सा—कृष्णेन सह सङ्गतिः ॥ सहसा—अतर्कितम् इत्य् अर्थः ॥४६९॥
उद्धवात् कृष्ण-सन्देश एभिर् यद्-अवधि श्रुतः ।
**प्रादुर्भावस् तद्-अवधि स्याद् व्रजे वन-मालिनः ॥४७०॥
बलदेवः- **ननु प्रादुभावः कं कालमारभ्य? इत्य् अत्राह—उद्धवाद् इति । मासत्रयेऽतिक्रान्ते उद्धवो व्रजमागतः, तत आरभ्य हरेस् तत्र प्रादुर्भाव इत्य् अर्थः ॥४७०॥
व्रजे द्वारवती-स्थस्य प्रादुर्भावो मुरद्विषः ।
बृहद्-विष्णु-पुराणादाव् असकृद् बहुधोच्यते ॥४७१॥
व्रजे विहर-माणेऽस्मिन् प्रादुर्भूय हरौ तदा ।
**भवेत् तस्य पुरे यात्रा स्वप्नवद् व्रज-वासिनाम् ॥४७२॥
बलदेवः- **ननु मथुरायां गतस्य हरेर् अकस्माद्-दर्शने विहारे चानुभूते सति व्रजौकसः किं विमृशन्ति? तत्राह—व्रजे विहरेति—अस्मान् हित्वा स कदाचिद् अप्य् अन्यत्र न गच्छेत्, तथापि तस्य मथुरायां गतिख्यातिरस्मत् स्वप्न इत्य् अर्थः ॥४७२॥
**अथ आगमनम्—
प्रेम सन्दर्शयन् स्वेषु स्व-वचः-सत्यताश् च सः ।
पुनः प्रिय हरि-गोष्ठम् आगच्छति रथादिना ॥४७३॥
बलदेवः- **अथागतिम् आह—प्रेमेति ॥४७३॥
स्व-वचः, यथा श्री-दशमे [भा।पु। १०.३१.३५]—
**तास् तथा तप्यतीर् वीक्ष्यि स्व-प्रस्थाने यदूत्तमः ।
सान्त्वयामास स-प्रेमैर् आयास्य इति दौत्यकैः ॥४७४॥
बलदेवः- **मथुरां गच्छतो हरेः “शीघ्रम् आगमिष्यामि” इति दूत-द्वारा गोपीः प्रति वाक्यं, तास् तथा इति ॥४७४॥
तथा [भा।पु। १०.४५.२२]—
**यात यूयं व्रजं तात! वयं च स्नेह-दुःखितान् ।
ज्ञातीन् वो द्रष्टुम् एष्यामो विधाय सुहृदां सुखम् ॥ इति ॥४७५॥
बलदेवः- **तच् च वाक्यं, पितरं नन्दं प्रत्य्-उवाच, यात यूयम् इति । ज्ञातीन्—स-गोत्रान् । सुहृदाम्—उग्रसेनादीनाम् ॥४७५॥
**निज-प्रियतमस्यापि वचसा यदु-मन्त्रिणः ।
एतद् एव वचः स्वीयं पुनस् तेनोज्ज्वलीकृतम् ॥४७६॥
बलदेवः- **तद् एव वाक्यम् -उद्धव-मुखेन स्पष्टम् अभूद् इत्य् आह—निजेति । उज्ज्वली-कृतम्—असन्दिग्धतां नीतम् ॥४७६॥
यथा तत्रैव [भा।पु। १०.४६.३५]—
**हत्वा कंसं रङ्ग-मध्ये प्रतीपं सर्व-सात्वताम् ।
यद् आह वः समागत्य कृष्णः सत्यं करोति तत् ॥४७७॥ इति ।
बलदेवः- **उद्धव-वचश् चाह—हत्वा कंसम् इति । यत्—वचः, “यात यूयम्” [भा।पु। १०.४५.२२] इत्य्-आदि प्राह । करोतीति—“वर्तमान-सामीप्ये वर्तमान-वद्वा” [पा। ३.३.१३१] इति सूत्रात् लट्; शीघ्रम् एवायास्यतीत्य् अर्थः ॥४७७॥
**तत् सत्यता प्रकटिता द्वारका-वासिनां गिरा ॥४७८॥
बलदेवः- “आयास्ये” इत्य् अस्य “यात यूयम्” इत्य्-आदिकस्य च वचसः सत्यत्वं तु द्वारका-वासि-वचनात् अवगतम् इत्य् आह—तत् सत्यतेति । **सत्य-भाषी खलु कृष्णः, “नानृतं हि वचो विप्र! प्रोक्तपूर्वं मयानघ!” [ह।वं। १२५.३७] इति हरि-वंशे देवर्षि प्रति कृष्ण-वाक्यात्, “सत्य-वाक् सत्य-सङ्कल्पः” इति ब्रह्माण्डे तन् नामस्तोत्राच् च; यः कदाचिद् अपि कुत्राप्य् अनृतं न वक्ति, सोऽतिप्रियेषु कथं तद् वदेद् इति ॥४७८॥
**यथा श्री-प्रथमे [भा।पु। १.११.९]—
यर्ह्य् अम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद्-दिदृक्षया ॥ तत्राब्द-कोटि-प्रतिमः क्षणो भवेद् रविं विनाक्ष्णोर् इव नस् तवाच्युत! ॥ इति ॥४७९॥
बलदेवः- **वाक्यार्थाचारम् आह—यर्ह्य् अम्बुजाक्षेति । हे अम्बुजाक्ष! यर्हि अस्मान्, अपहाय—त्यक्ता, भवान् पाण्डवानां सुहृदां दिदृक्षया कुरून् अपससार, नन्दादीनां सुहृदां दिदृक्षया मधून् वा देशान्, अपससार—गच्छति स्म, तदा, नः—अस्माकं, क्षणः कोट्यब्द-तुल्यो भवेत् । रविं विनाक्ष्णोर् इति—यथा रविं विना नेत्रयोरान्ध्यं, तथास्माकं त्वां विनेति ॥४७९॥
**अत्र कारिके—
भो अम्बुजाक्ष! सुहृदां नन्दादीनां दिदृक्षया ।
भवान् अपससारास्मान् अपहाय गतो मधून् ।
मथुराम् इति विस्पष्टं मथुरा-मण्डले व्रजम् ।
तदानीं सुहृदां तत्र मधुपुर्याम् अभावतः ॥४८०॥
बलदेवः- **कारिकाभ्यां पद्यं व्याचष्टे, भो अम्बुजाक्षेत्यादिना । ननु मधु-शब्देन मथुरा आयाति, व्रजः कथम् इति चेत्? तत्राह—व्रजस्य मथुरा-मण्डल त्वाद् ग्रहणम् । एतच् च कस्मात्? तत्राह—तदानीम् इति—“तत्र योग-प्रभावेन नीत्वा सर्व-जनं हरिः ।” [भा।पु। १०.५०.५७] इति सर्व-शब्दोपादानेन तस्यां प्रजामात्राणामभावात् तद्-वर्तिनः सुहृदस् तद्-एक-देशस्था नन्दादयो गृहीता इत्य् अर्थः ॥४८०॥
किं च—
**
रथेन मथुरां गत्वा दन्तवक्रं निहत्य च** ।
**स्पष्टं पाद्मे पुराणेऽस्य कृष्णस्योक्ता व्रजागतिः ॥४८१॥
बलदेवः- **“रथादिना हरिर् गोष्ठम् आगच्छति” इति अस्मात् वाक्यान् न लब्धं, तत् पाद्म-वाक्येनोपलम्भयितुम् आह—किं च, रथेनेत्यादिना । च-कारात् तद्-भातरं विदूरथं चेति ज्ञेयम् ॥४८१॥
तद्-गद्यं पद्यश् च यथा [प।पु।, उ।ख। २७९.२४-२६]—
**
कृष्णोऽपि तं हत्वा यमुनाम् उत्तीर्य नन्द-व्रजं गत्वा सोत्कण्ठौ पितराव् अभिवाद्याश्वास्य ताभ्यां साश्रु-सेकम् आलिङ्गितः सकल-गोप-वृद्धान् प्रणम्य् आश्वास्य बहु-रत्न-वस्त्राभरणादिभिस् तत्रस्थान् सर्वान् सन्तर्पयाम् आस ॥४८२॥
कालिन्द्याः पुलिने रम्ये पुण्य-वृक्ष-समाचिते** ।
**गोप-नारीभिर् अनिशं क्रीडयाम् आस केशवः ॥
रम्य-केलि-सुखेनैव गोप-वेश-धरः प्रभुः ।
बहु-प्रेम-रसेनात्र मास-द्वयम् उवास ह ॥ इति ॥४८३॥
बलदेवः- **मास-द्वयं व्याप्य, उवास—प्रकटं चिक्रीड इत्य् अर्थः ॥४८३॥
**अत्र कारिका—
यद् उत्तीर्येत्य् उत्तरणं तद्-आप्लवनम् उच्यते ।
दुष्टं हत्वा व्रजे यानं स्नान-पूर्वम् इहोचितम् ॥४८४॥
बलदेवः- **पाद्म-वाक्यं व्याख्याति यत् उत्तीर्येति । दुष्टं—दन्तवक्रम् ॥४८४॥
**अतः प्रकट-लीलायाम् अप्य् अयोगोऽल्प एव हि ॥
इति धाम-त्रये कृष्णो विहरत्य् एव सर्वदा ॥४८५॥
बलदेवः- **प्रकरणं योजयति, अत इति । अल्पः—त्रै-मासिकः । धाम-त्रये लीला नित्येति योजयति, इतीति ॥४८५॥
**व्रजागमन-काले च पाद्मोक्तेऽन्यच् च वर्तते ॥४८६॥
बलदेवः- **ननु पाद्मे नन्दादीनां वैकुण्ठ-गतेर् उक्तत्वात् व्रजे तत्-सम्बन्धा लीला न स्यात्, ततः कथं व्रज-लीला नित्या? इति शङ्कां विहन्तुम् आह—व्रजागमनेति ॥४८६॥
यथा [प।पु।, उ।ख। २७९.२७]—
**
अथ तत्रस्था नन्द-गोपादयः सर्वे जनाः पुत्र-दारादि-सहिताः पशु-पक्षि-मृगादयश् च वासुदेव-प्रसादेन दिव्य-रूपधरा विमानम् आरूढाः परमं वैकुण्ठ-लोकम् अवापुः ॥४८७॥** **
बलदेवः- **पाद्म-वाक्यम् आह—अथ तत्रेति । वासुदेवस्य—वसुदेवाद्-आगतस्य नन्द-सूनोः, प्रसादेन—अनुग्रहेणेत्य् अर्थः ॥४८७॥
**अत्र कारिके—
व्रजेशादेर् अंश-भूता ये द्रोणाद्या अवातरन् ।
कृष्णस् तान् एव वैकुण्ठे प्राहिणोद् इति साम्प्रतम् ॥४८८॥
बलदेवः- **गद्यार्थं सङ्गमयति, व्रजेशादेर् इति । द्रोणाद्या इति—आद्य-पदात् तत्-परिकराणां ग्रहणम् ॥४८८॥
**प्रेष्ठेभ्योऽपि प्रियतमैर् जनैर् गोकुल-वासिभिः ।
वृन्दारण्ये सदैवासौ विहारं कुरुते हरिः ॥४८९॥
बलदेवः- **नन्दादींस् तु व्रजस्य अप्रकटे प्रदेशे स्थापयामास, स्वयं च तैः सार्ध तस्थाव् इत्य् आह—प्रेष्ठेभ्योऽपीति ॥४८९॥
**स्कान्दायोध्या-महिमनि सौमित्रेः श्रूयते यथा ॥४९०॥
बलदेवः- **ननु नन्दादिषु द्रोणादीनां संयोगः पुनस् तेभ्यस् तेषां निष्कासनं, वैकुण्ठे नयनम् इत्य् अपूर्वम् इव किम् उच्यते? इत्य् अत्र दृष्टान्तत्वेना ह, स्कान्दायोध्येति ॥४९०॥
तथा हि—
ततः शेषात्मतां यातं लक्ष्मणं सत्य-सङ्गरम् ।
**उवाच मधुरं शक्रः सर्वस्य च स पश्यतः ॥४९१॥
बलदेवः- **तत इति । शेषात्मतां—शेषसं-योगं, यातं लक्ष्मणम् ॥४९१॥
इन्द्र उवाच—
लक्ष्मणोत्तिष्ठ शीघ्रं त्वम् आरोहस्व पदं स्वकम् ।
देव-कार्यं कृतं वीर! त्वया रिपु-निषूदन ॥
वैष्णवं परमं स्थानं प्राप्नुहि स्वं सनातनम् ।
भवन्-मूर्तिः समायाता शेषोऽपि विलसत्-फणः ॥ इत्य्-आदि ॥४९२॥
ततश् च—
**इत्य् उक्त्वा सुर-राजेन्द्रो लक्ष्मणं सुर-सङ्गतः ।
शेष प्रस्थाप्य पाताले भू-भार-धरण-क्षमम् ॥
लक्ष्मणं यानम् आरोप्य प्रतस्थे दिवम् आदरात् ॥४९३॥ इति ।
बलदेवः- **अयम् अर्थः ।—श्री-रामेण सहावतीर्णे सङ्कर्षण-व्यूहे लक्ष्मणे पाताल-तलस्थो भू-धारी शेषः सायुज्यं प्राप्य अस्थात्, देव-कार्ये निर्वृत्ते लक्ष्मणात् शेषो निष्क्रम्य पातालम् अगात्, लक्ष्मणस् तु वैष्णवं पदम्, इत्य् अंशिन्यंश-योगस् ततो निर्गमश् चेति नापूर्वम्, अपि तु शास्त्रा-सिद्धम् एवेति ॥४९२-४९३॥
लीलाश् चाप्रकटां तत्र द्वारवत्यां चिकीर्षुणा ।
स्वयं प्रकाश्यते तेन मुनि-शापादि-कैतवम् ॥४९४॥
देवाद्य्-अंशावतरणे ये तु वृष्णिष्व् अवातरन् ।
**क्षीराब्धि-शायि-रूपस् तैः सार्धं स्व-पदम् आप्नुयात् ॥४९५॥
नित्य-लीला-परिकरा ये स्युर् यदु-वरादयः ।
तैः सार्धं भगवान् कृष्णो द्वार्वत्याम् एव दीव्यति ॥४९६॥
बलदेवः- **एवम् एव द्वारकायां नित्य-लीलां निर्णेतुम् आह—लीलां चेति । स्वयं भगवति कृष्णे ऽवतरति सति क्षीराब्धि-निलयोऽनिरुद्धस् तत्र प्राविशत्, देवांशास् तु यदुषु । अथ कृष्णे द्वारवत्याम् एवान्तर्धित्सौ क्षीराब्धि-नाथो देवांशाश् च स्व-स्वपदं जग्मुः, कृष्णस् तु स्वीयैः सार्धं द्वारवत्याम् एव व्यराजद् इति ॥४९४-४९६॥
धामास्य द्वि-विधं प्रोक्तं माथुरं द्वार्वती तथा ।
माथुरं च द्विधा प्राहुर् गोकुलं पुरम् एव च ॥४९७॥
बलदेवः- प्राग् उक्तं धाम-त्रयं कृष्णस्याह—धामास्येति ॥४९७॥
यत् तु गोलोक-नाम स्यात् तच् च गोकुल-वैभवम् ।
**स गोलोको यथा ब्रह्म-संहितायाम् इह श्रुतेः ॥४९८॥
बलदेवः- **ननु गोलोको ऽपि तस्य धाम पठ्यते, स किं रूप इति चेत्? तत्राह—यत् त्विति—गोकुलस्य विभूतिः स इत्य् अर्थः ॥४९८॥
गोलोक-नाम्नि निज-धाम्नि तले च तस्य
देवी-महेश-हरि-धामसु तेषु तेषु ।
**ते ते प्रभाव निचया विहिताश् च येन
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥४९९॥ **
[ब्र।सं। ५.४२] इति ।
**बलदेवः- **तं वर्णयति । देवीति व्युत्-क्रमेण योज्यं हरि-महेश-देवी-धामस्व् इत्य् अर्थः ॥४९९॥
तथा चाग्रे [ब्र।सं। ५.५६-५७]—
**
श्रियः कान्ताः कान्तः परम पुरुषः कल्प-तरवो
द्रुमो भूमिश् चिन्तामणि-गण-मयी तोयम् अमृतम्** ।
**कथा गानं नाट्यं गमनम् अपि वंशी प्रिय-सखी
चिद्-आनन्दं ज्योतिः परम् अपि तद् आस्वाद्यम् अपि च ॥५००॥
बलदेवः- **श्रिय इति । यत्र परम-पुरुषः कान्तः एकः, कान्तास् तु वह्वयः, ताश् च गोप्यः सर्वाः श्रियः एव । यत्र, ज्योतिः—चन्द्रादि-तेजः, चिद्-आनन्द, तद्-आस्वाद्यं रस-गन्धादि च तथा, परांशत्वात् ॥५००॥
**स यत्र क्षीराब्धिः सरति सुरभीभ्यश् च सुमहान्
निमेषार्धाख्योऽपि व्रजति न हि यत्रापि समयः ॥
भजे श्वेतद्वीपं तम् अहम् इह गोलोकम् इति यं
विदन्तस् ते सन्तः क्षिति-विरल-चाराः कतिपये ॥५०१॥ इति ।
बलदेवः- **निमेषार्धाख्यो वेति—प्रकाशान्तरेषु कालावयवानां सत्त्वाद् इति भावः । माया-गन्धा-स्पर्शात् श्वेतं, सर्वोर्ध्वत्वात् द्वीपं, न तु क्षीरसिन्धु-मध्य-स्थम् अनिरुद्ध-देवस्थानम् इत्य् अर्थः ॥१७५॥
तद्-आत्म-वैभवत्वश् च तस्य तन्-महिमोन्नतेः ॥५०२॥
**
बलदेवः- **ननु गोकुल-वैभवं गोलोक इति कथं मन्यामहे? तत्राह—तद्-आत्मेति । गोलोकाद् अपि गोकुल-महिमाधिक्याद् इत्य् अर्थः ॥५०२॥
**यथा पाताल-खण्डे—
अहो मधुपुरी धन्या वैकुण्ठाच् च गरीयसी ।
दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥५०३॥
बलदेवः- **तद्-आधिक्यं प्रमापयति, अहो इत्य्-आदिभिः । वैकुण्ठ-शब्देन गोलोक-पर्यन्तं ग्राह्यं, तस्य तद्-ऊर्ध्वाङ्गत्वात् । ननु सर्वोर्ध्वत्वाभावात् तत आवृत्ति-दर्शनात् तद्-वासिषु साम्प्रतिकेषु जरादि-दुःख-वीक्षणाश् च न गोलोकात् तस्य श्रेष्ठयं? मैवं, हरेर् इव सर्वान्तःस्थत्वेऽपि अचिन्त्य-शक्त्या सर्वोर्ध्वत्वात्, साधन-सम्पन्नानां तत्-प्राप्तानां ततोऽनावृत्तेः, हरौ नर-दारकत्वस्येव तद्-वासिषु जरादि-दुःखस्य दृष्टि-दोष-हेतुकत्वात् । तथा च न्यूनता नास्ति, आधिक्यन् तु वाचनिकमस्त्य् एव, तत् तु ग्रन्थ-कृद्भिर् एवोदाहृतम् ॥५०३॥
अयोध्या मथुरा माया काशी काञ्ची अवन्तिका ।
पुरी द्वारावती चैव सप्तैता मोक्ष-दायिकाः ॥५०४॥
एवं सप्त-पुरीणान् तु सर्वोत्कृष्टन् तु माथुरम् ।
श्रूयतां महिमा देवि! वैकुण्ठ-भुवनोत्तमः ॥५०५॥ इति ।
नित्य-लीलास्पदत्वश् च पूर्वम् एव प्रदर्शितम् ।
**अत एवास्य पाद्मे च श्रूयते नित्य-रूपता ॥५०६॥
बलदेवः- ननु प्रपञ्च-मध्य-गतत्वात् गोकुलम् अनित्यं स्यात्? इति शङ्का निराकर्तुम् आह—अत एवेत्यादि । **न खलु तन् मध्य-गतत्वात् अनित्य त्वम्, अन्तर्यामिणोऽपि हरेस् तद्-आपत्ति—प्रसङ्गात्, तस्मात् प्रमाणम् एव शरणम् ॥५०६॥
नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा ।
यमुनां गोप-कन्याश् च तथा गोपाल-बालकान् ॥५०७॥ इति ।
स तु माथुर-भू-रूपः परिच्छिन्नोऽप्य् अथाद्भुतः ।
**स्फारः सङ्कुचितश् च स्यात् कृष्ण-लीलानुसारतः ॥५०८॥
बलदेवः- **तस्माद् अपि तन् महिमाधिक्ये लिङ्गान्तराण्य् आह—स तु माथुर-भू-रूप इत्य्-आदिभिः ॥५०८॥
अत्रैवाजाण्ड-मालापि पर्याप्तिम् उपगच्छति ।
**वृन्दावन-प्रतीकेऽपि यानुभूतैव वेधसा ॥५०९॥
बलदेवः- **वृन्दावनेति—चतुर् मुखाख्ये तद्-एक-देश-स्थले इत्य् अर्थः ॥५०९॥
इत्य् अतो रास-लीलायां पुलिने तत्र यामुने ।
**प्रमदा-शत-कोट्योऽपि ममुर् यत् तत् किम् अद्भुतम् ॥५१०॥
बलदेवः- **प्रमदति—“अभूद् आकुलितो रासो वनिता-शत-कोटिभिः ।” इति स्मरणात् ॥ अपरैः—दृष्टय-योग्यैः, इति दृष्टान्तत्वेनोपादानम् ॥५१०॥
स्वैः स्वैर् लीला-परिकरैर् जनैर् दृश्यानि नापरैः ॥
तत्-तल्-लीलाद्य्-अवसरे प्रादुर्भावोचितानि हि ॥५११॥
आश्चर्यम् एकदैकत्र वर्तमानान्य् अपि ध्रुवम् ।
**परस्परम् असम्पृक्त-स्वरूपाण्य् एव सर्वथा ॥५१२॥
कृष्ण-बाल्यादि-लीलाभिर् भूषितानि समन्ततः ।
शैल-गोष्ठ-वनादीनां सन्ति रूपाण्य् अनेकशः ॥५१३॥ **
त्रिभिः कुलकम् ।
लीलाढ्योऽपि प्रदेशोऽस्य कदाचित् किल कैश्चन ।
शून्य एवेक्ष्यते दृष्टि-योग्यैर् अप्य् अपरैर् अपि ॥५१४॥
अतः प्रभोः प्रियाणां च धाम्नश् च समयस्य च ।
**अविचिन्त्य-प्रभावत्वाद् अत्र किं च, न दुर्घटम् ॥५१५॥
बलदेवः- **अविचिन्त्य-शक्तिरेवात्र हेतुर् इत्य् आह—अतः प्रभोर् इति ॥१७९॥
**एवम् एव द्वारकायां ज्ञेयं सर्व विचक्षणैः ॥५१६॥
बलदेवः- **एवम्भावो द्वार्वत्याम् अप्य् अस्तीत्य् अतिदिशति, एवम् एवेति ॥५१६॥
यथैकादशान्ते [भा।पु। ११.३१.२३-२४]—
**
द्वारकां हरिणा त्यक्तां समुद्रोऽप्लावयत् क्षणात्** ।
**वर्जयित्वा महाराज! श्रीमद्-भगवद्-आलयम् ॥
स्मृत्याशेषाशुभ-हरं सर्व-मङ्गल-मङ्गलम् ।
नित्यं सन्निहितस् तत्र भगवान् मधुसूदनः ॥ इति ॥५१७॥
बलदेवः- **द्वारकाम् इति । भगवद्-आलयं वर्जयित्वा हरिणा त्यक्तां द्वारकां समुद्रः क्षणात् अप्लावयत् । श्रीमद् इति—स्व-नित्य-पार्षदानां, यदु-वीराणां निवासैः सहितं, तैर् एव श्रीमत् त्व् असम्भवात् । आगन्तुक-लोक-समावेशाय याचयित्वा नीतां भूमिम् अप्लावयद् इत्य् अर्थः ॥ भगवद्-आलय-वर्जने हेतु-गर्भ-विशेषणानि स्मृत्येत्यादीनि ॥५१७॥
**अथान्यद् वैभवं तस्य व्यक्तं श्री-नारदेक्षया ।
यत्रकत्रैकदा नाना-रूपावसर-चित्रता ॥५१८॥
बलदेवः- **अथान्यद् इति । तस्य—भगवद्-आलयस्य द्वार्वती-धाम्न इत्य् अर्थः । यत्र एकस्मिन्न् एव तस्मिन्न्-आलये, एकदा—युगपद् एव, हरेर् नाना-रूपाणि, नानावसराश् च—प्रातः-सङ्गव-मध्याह्नादि-समयाः, तैः, चित्रता—अत्य् अद्भुतता । एतच् च नारद-कृत-योग-माया-महो-दय-दर्शनाध्याये [भा।पु। १०.६९] व्यक्तं मृग्यम् ॥५१८॥
प्रकृतेभ्यो ग्रहेभ्योऽन्ये चन्द्र-सूर्यादयस् तु ते ।
**लीला-स्थैर् अनुभूयन्ते तथापि प्राकृता इव ॥
इति धाम-त्रये कृष्णो विहरत्य् एव सर्वदा ॥५१९॥
बलदेवः- **ननु तत्-तद्-अवसराः सूर्य-चन्द्रादि-गति-घटिताः, ते च नियता एव स्युः, ततश् चैकदैव नानावसर-चित्रता इत्य् उक्तिः कथं? तत्राह—प्राकृतेभ्य इति । सूर्यादेर् ग्रहस्य समयस्य च भगवद्-आत्मकत्वात् तत् तत् सिद्धिर् इति भावः । लीलास्थैः—प्रकट-प्रकाश-गतैर् लीला-परिकरैः, तथापि, प्राकृता इवेति—प्राकृत-सूर्यादि-गति-घटित-तत्-तत्-समयसाम्येनैव, अप्राकृत-सूर्यादि-गति-घटिता अपि स्व-स्व-समया विज्ञायन्ते; प्रकाशान्तर-समय-विज्ञानस्य रसापोषित्वेन लीला-शक्त्य्-आच्छादनाद् इति भावः । एतद् एव ज्ञापितम् “आश्चर्यम् एकदैकत्र” इत्य्-आदिना । उपसंहरति, इति धाम-त्रये इति ॥५१९॥
**तत्रापि गोकुले तस्य माधुरी सर्वतोऽधिका ॥५२०॥
बलदेवः- **एवं स्वयं भगवन्तं कृष्णं नित्य-धामानं नित्य-पार्षदं नित्य-लीलश् च निरूप्य गोकुले तस्य वैशिष्टयम् आह—तत्रापि गोकुले तस्येति—धाम्नः पार्षदानाश् च वैशिष्टयम् इत्य् अर्थः ॥५२०॥
तथा च सम्मोहन-तन्त्र—
सन्ति तस्य महा-भागा अवताराः सहस्रशः ।
तेषां मध्येऽवताराणां बालत्वम् अति-दुर्लभम् ॥ इति ॥५२१॥
अत्र कारिका—
त्रिधा भवेद् वयो बाल्यं यौवनं वृद्धतेत्य् अपि ।
वर्षाद् आ-षोडशाद् बाल्यम् इति लोके मतान्तरम् ॥५२२॥
तथा च ब्रह्माण्डे—
**सन्ति भूरीणि रूपाणि मम पूर्णानि षड्-गुणैः ।
भवेयुस् तानि तुल्यानि न मया गोप-रूपिणा ॥ इति ॥५२३॥
बलदेवः- **तत्र प्रमाणं, सन्तीति । बालत्वं—नराकृति-किशोरत्वं गोप-रूपिण इत्य् अर्थः ॥५२३॥
इत्य् अत्रैव महा-मन्त्रा महा-माहात्म्य-मण्डिताः ।
दशार्णाष्टादशार्णाद्या बहु-तन्त्रेषु कीर्तिताः ॥५२४॥
सर्व-प्रमाणतः श्रेष्ठा तथा गोपाल-तापनी ।
**स्वयम् आदौ विधात्रे या प्रोक्ता गोपाल-रूपिणा ॥५२५॥
बलदेवः- **श्रुतिश् चैवमाहेति भावेनाह—सर्वेति । श्रेष्ठेति—श्रुति-शिरस्त्वाद् इत्य् अर्थः । “तद् उ होवाच हैरण्यो गोप-वेशम् अभ्राभं तरुणं कल्प-द्रुमाश्रितम्” [गो।ता।, पू। ८] इति तस्यां कृष्णस्य किशोरत्व-श्रवणाद् इत्य् अर्थः । नन्व् एतत् कैशोरं प्रकट-प्रकाश-गत-कृष्ण-निष्ठं, न त्व् अनादि, इति चेत्? तत्राह—स्वयम् इति । नियं तद् इत्य् अर्थः ॥५२५॥
चतुर्धा माधुरी तस्य व्रज एव विराजते ।
ऐश्वर्य-क्रीडयोर् वेणोस् तथा श्री-विग्रहस्य च ॥५२६॥
बलदेवः- गोकुले कृष्णस्य वैशिष्टये हेतून् असाधारणान् धर्मान् आह—चतुर्धति । ऐश्वर्येति—ब्रह्माद्य् अभिमानि-परिभावकः प्रभावो हि ऐश्वर्यम् ॥५२६॥
तत्र ऐश्वर्यस्य—
कुत्राप्य् अश्रुत-पूर्वेण मधुरैश्वर्य-राशिना ।
सेव्यमानो हरिस् तत्र विहारं कुरुते व्रजे ॥५२७॥
यत्र पद्मज-रुद्रायः स्तूयमानोऽपि साध्वसात् ।
दृग्-अन्त-पातम् अप्य् एषु कुरुते न तु केशवः ॥५२८॥
यथा श्री-ब्रह्माण्डे श्री-नारद-वाक्यं—
**
ये दैत्या दुःशका हन्तुं चक्रेणापि रथाङ्गिना** ।
**ते त्वया निहताः कृष्ण नव्यया बाल्य-लीलया ॥
सार्धं मित्रैर् हरे! क्रीडन् भ्रू-भङ्गं कुरुषे यदि ।
स-शङ्का ब्रह्म-रुद्राद्याः कम्पन्ते ख-स्थितास् तदा ॥ इति ॥५२९॥
बलदेवः- **रथाङ्गिना—चक्र-पाणिना, द्वारका-नाथेन त्वयेत्य् अर्थः । स-शङ्का इति—द्वारकाधीशेन तु तेषां सत्-कारो ऽप्य् अस्तीति गोकुले महद्-ऐश्वर्यम् उक्तम् ॥५२९॥
क्रीडायाः, यथा पाद्मे—
चरितं कृष्ण-देवस्य सर्वम् एवाद्भुतं भवेत् ।
**गोपाल-लीलास् तत्रापि सर्वतोऽतिमनोहरा ॥५३०॥
बलदेवः- **गोपालेति—गोपाल्यश् च गोपालाश् च तैः संह लीलाः, “पुमान् स्त्रिया” [पा १.२.६७] इति सूत्रात् एक-शेषः । सर्वतः—मथुरादि-राज-लीलातः ॥५३०॥
श्री-बृहद्-वामने—
**सन्ति यद्यपि मे प्राज्या लीलास् तास् ता मनोहराः ।
न हि जाने स्मृते रासे मनो मे कीदृशं भवेत् ॥५३१॥ इति ।
बलदेवः- **तास्ताः—दाम-बन्धनाद्या लीलाः ॥५३१॥
वेणोः, यथा—
यावती निखिले लोके नादानाम् अस्ति माधुरी ।
तावती वंशिका-नाद-परमाणौ निमज्जति ॥५३२॥
चर-स्थावरयोः सान्द्र-परमानन्द-मग्नयोः ॥
भवेद् धर्म-विपर्यासो यस्मिन् ध्वनति मोहने ॥५३३॥
मोहनः कोऽपि मन्त्रो वा पदार्थो वाद्भुतः परः ।
श्रुति-पेयोऽयम् इत्य् उक्त्वा43** यत्रामुह्यश् छिवादयः ॥५३४॥**
“श्रुतिपेयोऽयम् इत्य् उक्त्वा” इत्य् अत्र “अतिपेयोऽयम् इत्य् उत्को” इति पाठान्तरम् ।
यथा श्री-दशमे [भा।पु। १०.३५.१४-१५]—
विविध-गोप-चरणेषु विदग्धो वेणु-वाद्य उरुधा निज-शिक्षाः ।
**तव सुतः सति! यदाधर-बिम्बे दत्त-वेणुर् अनयत् स्वर-जातीः ॥५३५॥
बलदेवः- **विविधेति—गोपीनां वाक्यम् ** । हे सति!—साध्वि श्री-यशोदे राज्ञि! तव सुतः कृष्णो विविधानि यानि गोपानां, चरणानि—क्रीडाः, तेषु, विदग्धः—प्रवीणः, यदा बिम्ब-तुल्ये अधरे दत्त-वेणुः सन्, स्वरजातीः—निषाद-र्षभादि-स्वर-भेदान्, अनयत्—आलापितवान् । **ताः कीदृशीः? इत्य् आहुः, वेणु-वाद्ये विषये, उरुधा—बहु प्रकारा, निजैव शिक्षा यासु ताः, न त्वन्यतो गृहीता इत्य् अर्थः ॥५३५॥
सवनशस् तद्-उपधार्य सुरेशाः शक्र-शर्व-परमेष्टि-पुरोगाः ।
**कवय आनत-कन्धर-चित्ताः कश्मलं ययुर् अनिश्चित-तत्त्वाः ॥ इति ॥५३६॥
बलदेवः- **तत्—तदा, सुरेशास्ता उपधार्य, सवनशः—अस-कृत्, कश्मलं—मोहं, ययुः । कीदृशास्ते? इत्य् आहुः, कवयः—सर्व-ज्ञा अपि, अनिश्चित-तत्त्वाः—यत् परमानन्द-मयं तत्त्वं पुरा निश्चिक्युः, तत् कथं नाद-रूपमभूद् इति तत्र सन्दिहाना इत्य् अर्थः । आनतकन्धर-चित्ताः—यतः प्रदेशात् वेणु-ध्वनिरायाति, तमनु आनताः कन्धराश् चित्तानि च येषां ते । एषा वेणु-माधुरी द्वारवतीशस्य नास्तीति ततोऽतिशयः ॥५३६॥
एकविंशे तथा पञ्चत्रिंशे चाध्याय ईडिता ।
माधुरी व्रज-देवीभिर् वेणोर् एव महाद्भूता ॥५३७॥
श्री-विग्रहस्य, यथा—
असमानोर्ध्व-माधुर्य-तरङ्गामृत-वारिधिः ।
जङ्गम् स्थावरोल्लासि-रूपो गोपेन्द्र-नन्दनः ॥५३८॥
यथा तन्त्रे—
कन्दर्प-कोट्य्-अर्बुद-रूप-शोभा-
नीराज्य-पादाब्ज-नखाञ्चलस्य **।
कुत्राप्य् अदृष्ट-श्रुत-रम्य-कान्तेर्
ध्यानं परं नन्द-सुतस्य वक्ष्ये ॥५३९॥
बलदेवः- **कुत्रापीति—श्री-मथुरा-द्वारकाधीशेऽपीत्य् अर्थः । यद्य् अपि स एव कृष्णस् तत्रापि, तथापि तादृश-स्थान-परिकराभावात् तद्-रूपं नोल्लसति, तद् योगे तूल्लसतीति, “तत्रापि शुशुभे ताभिर् भगवान् देवकी-सुतः । [भा।पु। १०.३३.६] इत्य्-आद्य्-उक्तेः ॥५३९॥
**श्री-दशमे च [भा।पु। १०.२९.४०]—
का स्त्र्य् अङ्ग ते कल-पदामृत-वेणु-गीत-
सम्मोहितार्य-चरितान् न चलेत् त्रिलोक्याम् ।
त्रैलोक्य-सौभगम् इदं च निरीक्ष्य रूपं
यद् गो-द्विज-द्रुम-मृगाः पुलकान्य् अबिभ्रन् ॥५४०॥ इति ।
इति श्री-लघु-भागवतामृते श्री-कृष्णामृतं नाम
पूर्व-खण्डं समाप्तम् ॥
बलदेवः- **रास-क्रीडायां वेणु-नादेनाहूतानां व्रजसुभ्रुवां कृष्णम् उदासीन्यभाषिणं प्रति-वचनं, का स्त्रीति । अङ्ग—हे कृष्ण! ते—तव, कल-पदामृत-रूपेण वेणु-गीतेन मोहिता सती, का स्त्री, आर्य-चरितात्—निज-धर्मात्, न चलेत्? पुमांसोऽपि शक्र-शर्वादयो येन मुमुहुस् तत्र का वार्ता स्त्रीणाम् इति भावः । किं च, त्रैलोक्य सौभगं रूपञ्चेदं निरीक्ष्येति । अबिभ्रन्—अबिभ्रुः । तथा च त्वद्बोधक-शब्दात् स्व-धर्म-त्यागो युक्तः, किं पुनस् त्वद्-अनुभवेन? इति उपपत्यं दोषावहम् इति न शक्यं वक्तुम् इति भावः ॥५४०॥
इति श्रीमद्-रूप-विरचिते श्री-लघु-भागवतामृते श्रीकृष्णामृतं नाम पूर्व-खण्डं व्याख्यातम् ।
॥।
(२)
**श्री-लघु-भागवतामृतम् ।
उत्तर-खण्डम् ।
अथ श्री-भक्तामृतम् ।
आराधनं मुकुन्दस्य भवेद् आवश्यकं यथा ।
तथा तदीय-भक्तानां नो चेद् दोषोऽस्ति दुस्तरः ॥१॥
बलदेवः- **
नित्यं निवसतु हृदये चैतन्यात्मा मुरारिनः ।
निरवद्यो निर्वृतिमान् गजपतिर् अनुकम्पया यस्य ॥
एवं स्वामिनः सर्वेश्वरस्य स्वरूप-गुण-विभूतियाथात्म्यं निरूप्य ततस् तत्-सेवकानां भक्तानां स्वरूपयाथात्म्यं निरूप्यम् इत्य् आह—अथ श्री-भक्तामृतम् इति । अथेति—आनन्तर्ये, तन् निरूपणेन एतन् निरूपणस्यानन्तर-भावात्; तस्मात् तेषां द्वैतं दर्शितम् ॥
आराधनम् इति—शास्त्र-कृतः प्रतिज्ञा-वाक्यम् ॥१॥
तथा हि पाद्मे—
मार्कण्डेयोऽम्बरीषश् च वसुर् व्यासो विभीषणः ।
पुण्डरीको बलिः शम्भुः प्रह्लादो विदुरो ध्रुवः ॥
दाल्भ्यः पराशरो भीष्मो नारदाद्याश् च वैष्णवैः ।
सेव्या हरिं निषेव्यामी नो चेद् आगः परं भवेत् ॥२॥
बलदेवः- उदाहरति, मार्कण्डेय इति । वसुः—उपरिचरः, तदेकान्ती । आगः—अपराधः, परम्—अनिवार्यम् ॥२॥
तथा च हरि-भक्त-सुधोदये [१६.७६]—
अर्चयित्वा तु गोविन्दं तदीयान् नार्चयन्ति ये ।
न ते विष्णोः प्रसादस्य भाजनं दाम्भिका जनाः ॥३॥
बलदेवः- दाम्भिकाः—छलिनः, विष्णु-वञ्चका इत्य् अर्थः ॥३॥
पाद्मोत्तर-खण्डे—
आराधनानां सर्वेषां विष्णोर् आराधनं परम् ।
तस्मात् परतरं देवि तदीयानां समर्चनम् ॥४॥
बलदेवः- तस्माद् इति विष्ण्व्-आराधनात् वैष्णवाराधनं परं श्रेष्ठं, तन्-मध्ये तद्-अन्तर्भावाद् इति भावः ॥४॥
तत्रैव—
अर्चयित्वा तु गोविन्दं तदीयान् नार्चयेत् तु यः ।
न स भागवतो ज्ञेयः केवलं दाम्भिकः स्मृतः ॥५॥
आदि-पुराणे—
मम भक्ता हि ये पार्थ न मे भक्तास् तु ते मताः ।
मद्-भक्तस्य तु ये भक्तास् ते मे भक्ततमा मताः ॥६॥
बलदेवः: मम इति । ये भक्त-प्रीति-शून्या मम भक्ताः, ते मम भक्ताः श्रेष्ठा न मताः भक्ततमा इत्य् उत्तरात् । श्रुतदेव-पूजायां व्यक्तम् एतत् ॥६॥
श्रीमद्-भागवते च [भा।पु। ११.१९.२१]—
मद्-भक्त-पूजाभ्यधिका ॥७॥ इति । [१]
बलदेवः: मद्-भक्तेति—मत्-पूजातोऽपि मद्-भक्त-पूजा अभ्यधिका, इति कुलादि-परीक्षा निरस्ता, पादोदकोच्छिष्टे च तेषां ग्राह्ये दर्शिते ॥७॥
एतेषाम् अपि सर्वेषां प्रह्लादः प्रवरो मतः ।
**यत् प्रोक्तं तस्य माहात्म्यं स्कान्द-भागवतादिषु ॥८॥
बलदेवः- **भगवतो यथा स्वयं-विलास-व्यूहादि-रूपत्वं तारतम्यं गुण-व्यक्त्य्-अव्यक्ति-कृतम् उक्तं, तथा भक्तानाम् अपि भक्ति-कृतं तद् आह—एतेषाम् अपि इत्य्-आदिना ॥८॥
यथा स्कान्दे श्री-रुद्र-वाक्यम् —
भक्त एव हि तत्त्वेन कृष्णं जानाति न त्व् अहम् ।
सर्वेषु हरि-भक्तेषु प्रह्लादोऽतिमहत्तमः ॥९॥
बलदेवः- भक्त एव इति । तद्-एकान्ती यः, स एवेत्य् अर्थः । न त्व् अहम् इति ममाधिकारित्वेन अन्यावेशात् तत्त्वेन तज्-ज्ञानं नास्तीति हीनत्व-प्रकाशनं निर्वेद-व्यञ्जकम् । तादृशं भक्तं दर्शयति–सर्वेष्व् इति ॥९॥
श्री-सप्तम-स्कन्धे श्री-प्रह्लादस्यैव वाक्यं [भा।पु। ७.९.२६]—
**
क्वाहं रजः प्रभव ईश तमोऽधिकेऽस्मिन्
जातः सुरेतर-कुले क्व तवानुकम्पा** **।
न ब्रह्मणो न च भवस्य न वै रमाया
यन् मेऽर्पितः शिरसि पद्म-करः प्रसादः ॥१०॥
बलदेवः- **भक्तेषु प्रह्लादस्य श्रेष्ठ्यम् आह—क्वाहम् इति । सुरेतर-कुले दैत्य-वंशे जातोऽहं क्व? तस्मिन् मयि तवानुकम्पा क्व? इति दुर्घटोऽयं सम्बन्ध इत्य् अर्थः । तत्-कुले कीदृशि? इत्य् आह—रजः-प्रभवे तमोऽधिके इति । अनुकम्पाम् आह—यः पद्म-करः प्रसादो ब्रह्मादि-शिरःसु नार्पितः, स मे शिरसि यत् त्वया अर्पित इति ॥१०॥
**तत्रैव श्री-नृसिंह-वाक्यं [भा।पु। ७.१०.२१]—
भवन्ति पुरुषा लोके मद्-भक्तास् त्वाम् अनुव्रताः ।
भवान् मे खलु भक्तानां सर्वेषां प्रतिरूप-धृक् ॥११॥ इति । [२]
बलदेवः- **भवन्तीति । त्वाम् अनुव्रताः त्वद्-अनुसारिणो भविष्यन्ति । मम सर्वेषां भक्तानां भवान् प्रतिरूप-धृक् एकतः सर्वे एकतो भवान् इति, सर्व-भक्त-श्रेष्ठ इत्य् अर्थः ॥११॥
पाण्डवाः सर्वतः श्रेष्ठाः प्रह्लादाद् ईदृशाद् अपि ।
श्री-भागवतम् एवात्र प्रमाणं स्फुटम् ईक्ष्यते ॥१२॥
तथा हि श्री-सप्तम-स्कन्धे श्री-नारद-वाक्यं [भा।पु। ७.१०.४८-५०, ७.१५.७५-७७]—
यूयं नृ-लोके बत भूरि-भागा
लोकं पुनाना मुनयोऽभियन्ति **।
येषां गृहान् आवसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्य-लिङ्गम् ॥१३॥
बलदेवः- **प्रह्लादाद् अपि पाण्डवानां श्रैष्ठ्यम् आह । प्रह्लाद-सौभाग्यं निशम्य स्वं निकृष्टं मन्वानं युधिष्ठिरं प्रति नारद-वाक्यं–यूयम् इति । ननु कुतो वयं भूरि-भागाः ? तत्राह—परं ब्रह्म येषां गृहान् आवसतीति विज्ञाय, लोकं पुनाना मुनयः मार्कण्डेयादयः, तान् युष्मद्-गृहान् अभितो यन्तीति ॥१३॥
**स वा अयं ब्रह्म महद्-विमृग्यं
कैवल्य-निर्वाण-सुखानुभूतिः ।
प्रियः सुहृद् वः खलु मातुलेय
आत्मार्हणीयो विधि-कृद् गुरुश् च ॥१४॥
बलदेवः- **ननु अस्मन्-मातुलेयस्य कथं पर-ब्रह्मत्वं? तत्राह—स इति । सोऽयं कृष्णः, महद्भिर् विमृग्यं ब्रह्म एव, वः युष्माकं, प्रियादि-भावेन वर्तते । ब्रह्मत्वे हेतुः–कैवल्यस्य विशुद्धस्य निर्वाण-सुखस्य मोक्षानन्दस्य अनुभूतिः साक्षात्-कारो यस्मात् सः । दृष्टं चेदं शिशुपाले । तम् एव विदित्वातिमृत्युम् एति [श्वे।उ। ३.८, ६.१५] इत्य्-आदि श्रुतिः, मुक्ति-प्रदाता सर्वेषां विष्णुर् एव न संशयः इति स्मृतिश् चैवम् आह । विधि-कृत् वचन-वर्तीत्य् अर्थः ॥१४॥
**न यस्य साक्षाद् भव-पद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजितः
प्रसीदताम् एष स सात्वतां पतिः ॥१५॥ इति ।
बलदेवः- **ननु कृष्णस्य सत्यभामादि-निरतत्व-प्रत्ययात् कथं ब्रह्मत्वम् आत्मारामत्व-रूपं प्रत्येतव्यम् ? तत्राह–न यस्य इति । यस्य रूपं स्वरूपं, भवादिभिर् अपि धिया स्व-बुद्ध्या वस्तुतया नोपवर्णितम्, “इदम् एव परं ब्रह्म” इति न निश्चितं, तेऽपि यत्र मोहं लभन्ते, यथा बाण-युद्धे, यथा वत्साहरणे, गोवर्धन-मखे च विदितम् एतत् । तथा च पराख्य-स्वरूप-शक्ति-विलासैः सत्यादिभिर् उपेतं तासु निरतं तद् आत्मारामं ब्रह्मैवेति तद्-एकान्तिभिर् विज्ञेयं, नाभिमानिभिर् अधिकृतैर् इति ॥१५॥
व्याख्यातं च श्री-स्वामि-पादैः—
अहो प्रह्लादस्य भाग्यम्, येन देवो दृष्टः, वयं तु मन्द-भाग्याः इति विषीदन्तं राजानं प्रत्याह—“यूयम्” इति त्रिभिः ॥१६॥
अस्य पद्य-त्रयस्य तात्पार्यार्थस् तैर् एव लिखितः—
न तु प्रह्लादस्य गृहे परं ब्रह्म वसति, न च तद् दर्शनार्थं44** मुनयस् तद्-गृहान् अभियन्ति, न च तस्य ब्रह्म मातुलेयादि-रूपेण वर्तते, न च स्वयम् एव प्रसन्नम्, अतो यूयम् एव ततोऽप्य् अस्मत्तोऽपि भूरि-भागा इति भावः ॥१७॥ **
दर्शनाय इन् Pउरिदस् एदितिओन्।
**बलदेवः- **एभिः पद्यैः प्रह्लादादपि पाण्डवानां श्रैष्ठ्यं श्रीधर-स्वाम्य्-उक्तेन निष्कर्षेण दर्शयति–न तु प्रह्लादस्य गृहे इत्य्-आदिना ॥१७॥
सदातिसन्निकृष्टत्वान् ममताधिक्यतो हरेः ।
**पाण्डवेभ्योऽपि यदवः केचिच् छ्रेष्ठतमा मताः ॥१८॥
बलदेवः- अथ पाण्डवेभ्योऽपि यदूनां श्रैष्ट्यम् आह—सदातीत्यादिना । **केचित् नित्य पार्षदाः ॥१८॥
तथा हि श्री-दशमे [भा।पु। १०.८२.२८,३०]
अहो भोज-पते! यूयं जन्म-भाजो नृणाम् इह ।
**यत् पश्यथासकृत् कृष्णं दुर्दर्शम् अपि योगिनाम् ॥१९॥
बलदेवः- **अहो इति । हे भोजपते!_—_उग्रसेन! ॥१९॥
**तद् दर्शन-स्पर्शनानुपथ-प्रजल्प
शय्यासनाशन-सयौन-सपिण्ड-बन्धः ।
येषां गृहे निरय-वर्त्म-निवर्ततां वः
स्वर्गापवर्ग-विरमः स्वयम् आस विष्णुः ॥२०॥
बलदेवः- **तद्-दर्शनेति । येषां वो गृहे, स्वयं विष्णुः—पूर्णः कृष्णः, आस—वर्तते स्म । यद् वा, स्वयम् आस, न तु साधन-वशतया; इति नित्य-पार्षदता तेषाम् । वः कीदृशानाम्? इत्य् आह—निरय-वर्त्मनः—संसृतिप्रवाहात्, निवर्ततां, नित्य-मुक्तानाम् इत्य् अर्थः । कीदृशोऽसौ? इत्य् आह—स्वर्गेति—स्वर्गस्य अपवर्गस्य च सुखैश्वर्य-प्रधानस्य विरमो येन सः; तं तं च यः स्वैकान्तिभ्यो न ददातीत्य् अर्थः । तस्य युष्मत्-कर्तृका ये दर्शनादयः, युष्मत्-सम्पृक्तानि यानि शय्यादीनि च, तैर् विशिष्टश्चासौ सयौन-सपिण्ड-बन्धश्चेति, मध्यम-पदलोपी कर्म-धारयः । तत्र, यौन-बन्धः—विवाह-सम्बन्धः, पिण्ड-बन्धः—दैहिक-सम्बन्धः, ताभ्यां सह वर्तमानोऽसाविति बहु-व्रीहि-गर्भता । अनुपथः—अनुगतिः । प्रजल्पः—गोष्ठी ॥२०॥
तथा [भा।पु। १०.९०.४६]—
शय्यासनाटनालाप-स्नान-क्रीडापनादिषु45** । **
Sओमे वेर्सिओन्स् हवे क्रीडा-स्नानाशनादिषु
**न विदुः सन्तम् आत्मानं वृष्णयः कृष्ण-चेतसः ॥२१॥ इति ।
बलदेवः- **नित्य-पार्षदत्वाद् एव तेषां कृष्णैकावेशम् आह—शय्यासनेति ॥२१॥
यदुभ्योऽपि वरिष्ठोऽसौ सर्वेभ्यः श्रीमद्-उद्धवः ।
**श्रीमद्-भागवते यस्य श्रूयते महिमाद्भुतः ॥२२॥
बलदेवः- **यदुषु उद्धवस्य श्रेष्ठ्यं दर्शयति, यदुभ्योऽपीति ॥२२॥
तथा हि एकादशे श्रीमद्-भगवद्-वाक्यं [भा।पु। ११.१४.१५]—
न तथा मे प्रियतम आत्म-योनिर् न शङ्करः ।
**न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् ॥२३॥
बलदेवः- **न तथेति । आत्म-योनिः ब्रह्मा, आत्मा श्री-विग्रहोऽहं च ॥२३॥
**तथा [भा।पु। ११.१६.२९]—
त्वं तु भागवतेष्व् अहम् । इति ॥२४॥
आबाल्याद् एव गोविन्दे भक्तिर् अस्याखिलोत्तमा ॥२५॥
बलदेवः- **श्रैष्ठ्य-हेतुं भक्त्य्-अतिशयम् आह—आबाल्याद् एव इति ॥२५॥
तथा च श्री-तृतीये [भा।पु। ३.२.२]—
यः पञ्च-हायनो मात्रा प्रातर् आशाय याचितः ।
तन्-नैच्छद् रचयन् यस्य सपर्यां बाल-लीलया ॥२६॥
बलदेवः- यः इति । पञ्च-हायनः पाञ्च-वार्षिकः । सपर्यां पूजाम् ॥२६॥
**अत एव तत्रैव श्री-भगवद्-वचनं [भा।पु। ३.४.३१]—
नोद्धवोऽण्व् अपि मन्-न्यूनो यद् गुणैर् नार्दितः प्रभुः ॥ इति ॥२७॥
बलदेवः- **नोद्धव इति—मया सार्धं तुलया मापितो लेशेनापि न न्यून इत्य् अर्थः ॥२७॥
**अस्यार्थः—यद् गुणैः—यस्य उद्धवस्य गुणैः, प्रभुर् अप्य् अहं न अर्दितः, न याचितः । यद् वा, यद् यस्मात्, उद्धवः गुणैः सत्त्वादिभिः, न अर्दितः, न पीडितः, गुणातीत इत्य् अर्थः । तत्र हेतुः—प्रभुः भक्ति-रसास्वादे प्रभविष्णुः ॥२८॥
बलदेवः- **अन्यत् तु व्याख्यातं शास्त्र-कृद्भिर् एव ॥२८॥
व्रज-देव्यो वरीयस्य ईदृशाद् उद्धवाद् अपि ।
**यद् आसां प्रेम-माधुर्यं स एषोऽप्य् अभियाचते ॥२९॥
बलदेवः- **अथोद्धवात् गोपीनां श्रैष्ठ्यं दर्शयति, व्रज-देव्य इति ॥२९॥
**तथा हि श्री-दशमे [भा।पु। १०.४७.५८]—
एताः परं तनु-भृतो भुवि गोप-वध्वो
गोविन्द एवम् अखिलात्मनि रूढ-भावाः ।
वाञ्छन्ति यद् भव-भियो मुनयो वयं च
किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥३०॥
बलदेवः- **अत्रार्थे प्रमाणम् आह—एता इति । एताः—श्री-नन्द-व्रजस्थिताः, परं—केवलं, तनुभृतः—उत्तम-तनु-विशिष्टाः, याः, निखिलात्मनि—सर्वांशिनि, गोविन्दे—गो-पाल-लीले कृष्णे, रूढ-भावाः—उद्भत-महा-भावाः, वर्तन्ते । यत्—यं भावं, भव-भियः—मुमुक्षवः शौनकादयः, मुनयः—मुक्ता नारदादयः, वाञ्छन्ति; वयञ्च—उद्धवादयो नित्य-तत्-संसर्गिणः, वाञ्छामः, भगवतस् तद्-वश्यतां प्रतीत्य तत्-परिमाणं46 वाञ्छामः, न तु प्राप्नुम इत्य् अर्थः । ईडृशोच्चभावालाभे चतुर् मुख-जन्मभिर् अप्य् अलम् इत्य् आह—अनन्तस्य—अपार-माधुरीकस्य तस्य, कथासु, अरसः—रागाभावः, यस्य तस्य, तज्-जन्मभिः किं? न किम् अपीत्य् अर्थः ॥३०॥
“तत्-परिमाणम्” इत्य् अत्र “तत्-परमाणुम्” इति पाठान्तरम् ।
श्री-बृहद्-वामने च भृग्व्-आदीन् प्रति श्री-ब्रह्म-वाक्यं—
षष्टि-वर्ष-सहस्राणि मया तप्तं तपः पुरा **।
नन्द-गोप-व्रज-स्त्रीणां पाद-रेणूपलब्धये ।
तथापि न मया प्राप्तास् तासां वै पाद-रेणवः ॥३१॥
बलदेवः- **उक्तपोषेण तन्-महिमातिशयम् उदाहरति, षष्टीति ॥३१॥
भृग्व्-आदि-वाक्यं—
वैष्णवानां पाद-रजो गृह्यते त्वद्-विधैर् अपि ।
सन्ति ते बहवो लोके वैष्णवा नारदादयः ॥
तेषां विहाय गोपीनां पाद-रेणुस् त्वयापि यत् ।
गृह्यते संशयो मेऽत्र को हेतुस् तद् वद प्रभो! ॥३२॥
श्री-ब्रह्म-वाक्यं—
न स्त्रियो व्रज-सुन्दर्यः पुत्राः! श्रेष्ठाः श्रियोऽपि ताः ।
**नाहं शिवश् च शेषश् च श्रीश् च ताभिः समाः क्वचित् ॥३३॥
बलदेवः- **श्रियो ऽपि सकाशात् ताः श्रेष्ठाः—अधिकाः ॥३३॥
आदि-पुराणे च श्रीमद्-अर्जुन-वाक्यं—
त्रैलोक्ये भगवद्-भक्ताः के त्वां जानन्ति मर्मणि ।
**केषु वा त्वं सदा तुष्टः केषु प्रेम तवातुलम् ॥३४॥
बलदेवः- **त्रैलोक्ये इति । यतो वशीभूतः ॥३४॥
श्री-भगवद्-वाक्यं—
**
न तथा मे प्रियतमो ब्रह्मा-रुद्रश् च पार्थिव** ।
**न च लक्ष्मीर् न चात्मा च यथा गोपीजनो मम ॥३५॥
भक्ता ममानुरक्ताश् च कति सन्ति न भू-तले ।
किन्तु गोपीजनः प्राणाधिक-प्रियतमो मम ॥३६॥
न मां जानन्ति मुनयो योगिनश् च परन्तप! ।
न च रुद्रादयो देवा यथा गोप्यो विदन्ति माम् ॥३७॥
बलदेवः- **नमाम् इति । न जानन्ति—तथा न विदन्तीत्य् अर्थः ॥३७॥
न तपोभिर् न वेदैश् च नाचारैर् न च विद्यया ।
वशोऽस्मि केवलं प्रेम्णा प्रमाणं तत्र गोपिकाः ॥३८॥
मन्-माहात्म्यं मत्-सपर्यां मच्-छ्रद्धां मन्-मनोगतम् ।
जानन्ति गोपिकाः पार्थ! नान्ये जानन्ति मर्मणि ॥३९॥
निजाङ्गम् अपि या गोप्यो ममेति समुपासते ।
ताभ्यः परं न मे पार्थ! निगूढ-प्रेम-भाजनम् ॥४०॥ इति ।
न चित्रं प्रेम-माधुर्यम् आसां वाञ्छेद् यद् उद्धवः ।
**पाद-रेणूक्षितं येन तृण-जन्मापि याच्यते ॥४१॥
बलदेवः- **तद्-भाव-वाञ्छायां कैमुत्यम् आह—न चित्रम् इति । येन—उद्धवेन ॥४१॥
तथा हि श्री-दशमे [भा।पु। १०.४७.६१]—
**
आसाम् अहो चरण-रेणु-जुषाम् अहं स्यां
वृन्दावने किम् अपि गुल्म-लतौषधीनाम्** ।
**या दुस्त्यजं स्व-जनम् आर्य-पथश् च हित्वा
भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥ इति ॥४२॥
बलदेवः- **आसाम् इति । वृन्दावने, आसां—व्रज-सुन्दरीणां, चरण-रेणून्, जुषन्ते—सेवन्ते, या गुल्म-लतौषध्यस् तासां मध्ये किम् अप्य् अहं तृण-रूपं स्याम्, इति तत्-पाद-रजोऽभिषिक्त-गुल्म-जन्म-स्पृहाभिधानात् तद्-भाव-स्पृहा तु दूरतः स्थिता ॥४२॥
**इति कृष्णं निषेव्याग्रे कृष्णस्योपासकैर् जनैः ।
सेव्याः प्रसाद-पुष्पाद्यैर् अवश्यं व्रज-सुभ्रुवः ॥४३॥
बलदेवः- **वक्तव्यम् आह—इति कृष्णम् इति । शास्त्र-सारार्थ-ज्ञानाम् उपासकानां व्रज-रामोपासना आवश्यकीति भावः ॥४३॥
तत्रापि सर्व-गोपीनां राधिकाति-वरीयसी ।
सर्वाधिक्येन कथिता यत् पुराणागमादिषु ॥४४॥
यथा पाद्मे—
यथा राधा प्रिया विष्णोस् तस्याः कुण्डं प्रियं तथ ।
**सर्व-गोपीषु सैवैका विष्णोर् अत्यन्त-वल्लभा ॥४५॥
आदि-पुराणे च—
त्रैलोक्ये पृथिवी धन्या यत्र वृन्दावनं पुरी ।
तत्रापि गोपिकाः पार्थ! तत्र राधाभिधा मम ॥४६॥ इति ।
इति श्री-लघु-भागवतामृते श्री-भक्तामृतं नाम उत्तर-खण्डं समाप्तम् ।
बलदेवः- श्री-राधायाः सर्वाभ्यः श्रैष्ठ्यं पाद्मादि-वाक्ये प्रमाणयति–यथा राधा इत्य्-आदिना । आगमो बृहद्-गौतमीयादिः–देवी कृष्ण-मयी प्रोक्ता राधिका पर-देवता । सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥ इत्य् एवम् आदि । आदि-शब्देन पुरुष-बोधिनी, यस्यां खलु गोकुलाख्ये माथुर-मण्डले इत्य् उपक्रम्य, गोविन्दोऽपि श्यामः इत्य्-आदि, द्वे पार्श्वे चन्द्रावली राधिका च इति चोक्त्वा यस्या अंशे लक्ष्मी-दुर्गादिका शक्तिः इति पठ्यते । **तथा च सर्व-भक्त-शिरोमणित्वं श्री-राधायाः सिद्धम् ॥४६॥
यद्-वाक्यात् साधवः कृष्णं संविदन्ति स-पार्षदम् ।
श्री-रूपस् तत्त्व-विद्-भूपः स मे कृपयतु प्रभुः ॥
श्री-विद्या-भूषणेनेयं लघु-भागवतामृते ।
टिप्पणी रचिता भूयात् तुष्टये राम-वर्णिनः ॥
इति श्री-लघु-भागवतामृतं व्याख्यातम् ।
शुभम् अस्तु ॥
॥।
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
-
“मैवं भोः” इत्य् अस्य पूर्वम् “अत्र कारिकाः” इत्य् अधिकः पाठः क्वचित् दृश्यते । ↩︎
-
“वैदग्धी-विशेषोत्कर्ष” इत्य् अत्र “वैदग्धी-विशेषात् कृष्ण” इति पाठान्तरम् । ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
-
शल्यो ह्य् अभ्यधिकः कृष्णाद् अर्जुनाद् अधिको ह्य् अहम् । ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎
- ↩︎