०४

(१.४)

अथ मन्वन्तरावताराः ।

मन्वन्तरावतारोऽसौ प्रायः शक्रारि-हत्यया

**तत्-सहायो मुकुन्दस्य प्रादुर्भावः सुरेषु यः ॥१॥
बलदेवः- **मन्वन्तरावतारान् निर्णेतुम् आह—अथेति । मनोः अन्तरं समयः । तत्र योऽवतारः, स मन्वन्तरावतारः

वस्तु-मध्ये तथा छिद्रे व्यवसायेऽन्तर्-आत्मनि । अवकाशे बहिर्-योगे विशेषेऽवसरेऽन्तरम् ॥ इति हलायुधः ॥

तल्-लक्षणम् आह—मन्वन्तरेति । तत्-तन्-मन्वन्तरीय-तत्-तद्-इन्द्र-शत्रु-हननेन तत्-तद्-इन्द्र-साहाय्य-कर-भगवद्-अवतारत्वम् ॥१॥

**युक्ते कल्पावतारत्वे यज्ञादीनाम् अपि स्फुटम् ।
मन्वन्तरावतारत्वं तत्-तत्-पर्यन्त-पालनात् ॥२॥
बलदेवः- **ननु मन्वन्तराणां कल्पानतिरेकात् एषां कल्पावतारता वाच्या? तत्राह—युक्ते इति । तथापि मन्वन्तर-पर्यन्त-पालनात् तत्त्वम् उच्यते इत्य् अर्थः ॥२॥

**मन्वन्तरेष्व् अमी स्वायम्भुवीयादिष्व् अनुक्रमात् ।
अवतारास् तु यज्ञाद्या बृहद्-भान्व्-अन्तिमा मताः ॥३॥
प्रथमे स्वायम्भुवीये यज्ञः
यज्ञस् तु पूर्वम् एवोक्तस् तेनात्र न विलिख्यते ॥४॥
बलदेवः- **क्रमेण तान् आह । यज्ञः स्वायम्भुवीयान्तरावतारः, स तु लीलावतारे प्रोक्तत्वाद् इह नोच्यते ॥४॥

द्वितीये स्वारोचिषीये विभुः । यथा अष्टम-स्कन्धे [भा।पु। ८.१.२१-२२]—

ऋषेस् तु वेदशिरसस् तुषिता नाम पत्न्य् अभूत् ।
तस्यां जातस्
1** ततो देवो विभुर् इत्य् अभिविश्रुतः ॥५॥**

**बलदेवः- **स्वरोचिषोऽग्नेः पुत्रः स्वारोचिषः, स एव मनुः । तदीयेऽन्तरे विभुः अवतारः । अवतारस्य परिकरास् त्व् अष्टमे बोध्याः । एवं सर्वत्र ॥ ऋषेर् इति । वेदशिरसः पितुः सकाशात् तुषितायां मातरि जातो विभु-नामा ॥५॥

अष्टाशीति-सहस्राणि मुनयो ये धृत-व्रताः ।
अन्वशिक्षन् व्रतं तस्य कौमार-ब्रह्मचारिणः ॥६॥
तृतीये औत्तमीये सत्यसेनः । [भा।पु। ८.१.२५-२६]—
धर्मस्य सूनृतायां तु भगवान् पुरुषोत्तमः ।
सत्यसन इति ख्यातो जातः सत्यव्रतैः सह ॥७॥
साऽनृत-व्रत-दुःशीलान् असतो यक्ष-राक्षसान् ।
भूत-द्रुहो भूत-गणान् अवधीत्
2** सत्यजित्-सखः ॥८॥ इति ।**

बलदेवः- तृतीये इति । उत्तमः प्रियव्रत-सुतो मनुः, तदीयेऽन्तरे इत्य् अर्थः ॥ धर्मस्येति धर्म-नाम्नः पितुः सकाशात् सूनृतायां मातरि सत्यव्रतैः भ्रातृभिः सह जातो भगवान् सत्यसेन-नामा ॥ भूत-द्रुहः प्राणि-पीडकान् । सत्यजितः इन्द्रस्य सखा सन् ॥७-८॥

**चतुर्थे तामसीये हरिः [भा।पु। ८.१.३०]—
तत्रापि जज्ञे भगवान् हरिण्यां हरिमेधसः ।
हरिर् इत्य् आहृतो येन गजेन्द्रो मोचितो ग्रहात् ॥ इति ॥९॥
बलदेवः- **उत्तम-भ्राता तामसः, तदीयान्तरे ॥ तत्रापीतिहरि-मेधसः पितुः सकाशात् हरिण्यां मातरि जातो भगवान् **हरि-**नामा ॥९॥

स्मर्यतेऽसौ सदा प्रातः सदाचार-परायणैः ।
सर्वानिष्ट-विनाशाय हरिर् दन्तीन्द्र-मोचनः ॥१०॥
पञ्चमे रैवतीये वैकुण्ठः । [भा।पु। ८.५.४-५]—
पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठैः सुर-सत्तमैः ।
तयोः स्व-कलया जज्ञे वैकुण्ठो भगवान् स्वयम् ॥११॥
वैकुण्ठः कल्पितो येन लोको लोक-नमस्कृतः ।
रमया प्रार्थ्यमानेन देव्या तत्-प्रिय-काम्यया ॥ इति ॥१२॥
बलदेवः- रैवतः
तामस-सोदरः, तदीये इत्य् अर्थः ॥ पत्नीतिशुभ्रात् पितुः विकुण्ठायां मातरि वैकुण्ठः भ्रातृभिः सह जातो भगवान् वैकुण्ठ-नामा, वैकुण्ठो येन कल्पित इत्य् अर्थः ॥११-१२॥

**महा-वैकुण्ठ-लोकस्य व्यापकस्याव्ययात्मनः ।
प्रकटीकरणं सत्योपरि कल्पनम् उच्यते ॥१३॥
बलदेवः- **तद्-व्याचष्टे—महा-वैकुण्ठेतिकल्पितः कॢपू सामर्थ्ये धातुर् इत्य् अर्थात् । स्व-सामर्थ्येन सत्य-लोकोपरि प्रकाशित इत्य् अर्थः ॥१३॥

**षष्ठे चाक्षुषीये अजितः । [भा।पु। ८.५.९-१०]—
तत्रापि देवः सम्भूत्यां वैराजस्याभवत् सुतः ।
अजितो नाम भगवान् अंशेन जगती-पतिः ॥१४॥
पयोधिं येन निर्मथ्य सुराणां साधिता सुधा ।
भ्रममाणोऽम्भसि धृतः कूर्म-रूपेण मन्दरः ॥१५॥ इति ।
बलदेवः- **चक्षुषः पुत्रः **चाक्षुषः_ **मनुः, तदीये इत्य् अर्थः ॥ तत्रापि देव इति । **वैराजात् **पितुः **सम्भूत्यां _**मातरि जातो भगवान् अजित-नामा ॥१४-१५॥

वैवस्वतान्तरे व्यक्तः पुरैवोक्तः स वामनः ।
बलदेवः- वैवस्वतीयान्तरावतारो वामनः
, स तु पूर्वम् उक्तः इति नात्रोच्यते । विवस्वतः सूर्यस्य पुत्रो वैवस्वतः_ _श्राद्ध-देवो मनुः, तदीयेऽन्तरे वामन इत्य् अर्थः ॥

**भविष्याः सप्त कथ्यन्ते ते सावर्ण्यन्तरादिषु ॥१६॥
बलदेवः- **सूर्याच् छायायां जातः **सावर्णिः_ _**मनुः, तदीये इत्य् अर्थः ॥१६॥

**अष्टमे सावर्णीये सार्वभौमः । [भा।पु। ८.१३.१७]—
देवगुह्यात् सरस्वत्यां सार्वभौम इति प्रभुः ।
स्थानं पुरन्दराद् धृत्वा बलये दास्यतीश्वरः ॥१७॥ इति ।
बलदेवः- **देवेति । **देवगुह्यात्_—**पितुः, सरस्वत्यां—_मातरि, जातो भगवान् सार्वभौमनामा ॥१७॥

नवमे दक्ष-सावर्णीये ऋषभः [भा।पु। ८.१३.२०]—
आयुष्मतोऽम्बुधारायाम् ऋषभो भगवान् किल
3** । **

काल इन् ओथेर् वेर्सिओन्स्।

**भविता येन संराद्धां त्रिलोकीं भोक्ष्यतेऽद्भुतः ॥१८॥ इति ।
बलदेवः- दक्ष-सावर्णिः_ **वरुण-पुत्रो मनुः, तदीये इत्य् अर्थः ॥ **आयुष्मतः **पितुः सकाशात् **अम्बुधारायां **मातरि जातो भगवान् ऋषभ-नामा । **येन संराद्धाम् **अर्जितां, त्रिलोकीम् **अद्भुतः _**इन्द्रः भोक्ष्यते ॥१८॥

दशमे ब्रह्म-सावर्णीये विष्वक्सेनः [भा।पु। ८.१३.२२]—
विष्वक्सेनो विषूच्यां तु शम्भोः सख्यं करिष्यति

**जातः स्वांशेन भगवान् गृहे विश्वजितो विभुः ॥१९॥
बलदेवः- **उपश्लोक-पुत्रः **ब्रह्म-सावर्णिः_ **मनुः, तदीये इत्य् अर्थः ॥ विष्वग् इति । **विश्वजितः **पितुः **विषूच्यां _**मातरि जातो भगवान् विष्वक्सेन-नामा, शम्भु-नाम्नः इन्द्रस्य सख्यं करिष्यति ॥१९॥

एकादशे धर्म-सावर्णीये धर्मसेतुः [भा।पु। ८.१३.२६]—
आर्यकस्य सुतस् तत्र धर्मसेतुर् इति स्मृतः ।
वैधृतायां हरेर् अंशस् त्रि-लोकीं धारयिष्यति ॥२०॥ इति ।
बलदेवः- धर्म-सावर्णिः
मनुः, तदीये इत्य् अर्थः ॥ आर्यकेति । **आर्यकात्_ **पितुः, **वैधृतायां _**मातरि जातो भगवान् धर्मसेतु-नामा, त्रिलोकीं धारयिष्यति ॥२०॥

**द्वादशे रुद्र-सावर्णीये सुधामा [भा।पु। ८.१३.२९]—
सुधामाख्यो हरेर् अंशः साधयिष्यति तन् मनोः ।
अन्तरं सत्यसहसः सूनृतायाः सुतो विभुः ॥२१॥
बलदेवः- रुद्र-सावर्णिः_ **मनुः, तदीये इत्य् अर्थः ॥ सुधामेति । **सत्यसहसः **पितुः **सूनृतायाश् च _**मातुः सुतः सन् सुधामाख्यो भगवान् तस्य मनोर् अन्तरं साधयिष्यति ॥२१॥

**त्रयोदशे देव-सावर्णीये योगेश्वरः [भा।पु। ८.१३.३२]—
देवहोत्रस्य तनय उपहर्ता दिवस्पतेः।
योगेश्वरो हरेर् अंशो बृहत्यां सम्भविष्यति ॥२२॥ इति ।
बलदेवः- **देव-सावर्णिः_—मनुः, तदीये इत्य् अर्थः ॥ देवेति । **देवहोत्रात् **पितुः **बृहत्यां **मातरि जातो भगवान् योगेश्वर-नामा, **दिवस्पतेः **इन्द्रस्य **उपहर्ता _**कार्य-साधकः भविष्यति ॥२२॥

चतुर्दशे इन्द्र-सावर्णीये बृहद्भानुः । [भा।पु। ८.१३.३५]—
सत्रायणस्य तनयो बृहद्-भानुस् तथा हरिः ।
विनतायां महाराज क्रिया-तन्तून् वितायिता
4** ॥२३॥ इति ।**

विभाविता इन् सोमे वेर्सिओन्स्।

**बलदेवः- **इन्द्र-सावर्णिः_ _मनुः, तदीये इत्य् अर्थः ॥ सत्रेति । **सत्रायणात् **पितुः **विनतायां **मातरि जातो हरिर् बृहद्भानु-नामा, क्रिया-तन्तून् कर्म-सन्ततीः विस्तारयिष्यति ॥२३॥

यज्ञ-वामनयोस् तत्र पुनर्-उक्ततया द्वयोः

**मन्वन्तरावतारास् तु सङ्ख्यायां द्वादशोदिताः ॥२४॥
इति मन्वन्तरावताराः **।

बलदेवः- यज्ञेति । पूर्व-सङ्ख्यायां द्वादशैव मिश्रणीया इति भावः ॥२४॥

एतेन मन्वन्तरावतारा निरूपिताः ।

॥।

**अथ युगावताराः ।
कथ्यते वर्ण-नामभ्यां शुक्लः सत्य-युगे हरिः ।
रक्तः श्यामः क्रमात् कृष्णस् त्रेतायां द्वापरे कलौ ॥२५॥
बलदेवः- **युगावतारान् वक्तुम्–अथेतिवर्ण-नामभ्याम् इति चतुर्षु योज्यम् । कलौ कृष्ण इति सामान्यतः सर्वेषु कलिषुः; कृष्णः कलि-युगे विभुः इति श्री-हरि-वंशात् । यस्मिन् कलौ स्वर्ण-गौरः कृष्ण-चैतन्यः स्यात्, तदा कृष्णः स तत्रान्तर् भवेद् इति बोध्यम् । एते चैकादशे [भा।पु। ११.९.२०-३२] करभाजनेनोक्ता द्रष्टव्याः ॥२५॥

**उपासना-विशेषार्थं सत्यादिषु युगेष्व् असौ ।
मन्वन्तरावतारस् तु तथावतरति क्रमात् ॥२६॥
बलदेवः- **ननु युगावतारः कस्मात् आविः स्यात्? तत्राह—उपासनेति । यो हि मन्वन्तरावतारः, स एव मन्वन्तरस्य तत्-तद्-युगेषु तथा तथा आविः स्यात्, न तु गर्भोदकशय इत्य् अर्थः ॥२६॥

अथ अवतार-सङ्ख्य

कल्प-मन्वन्तर-युग-प्रादुर्भाव-विधायिनः

**अवतारा इमे त्व् एक-चत्वारिंशद् उदीरिताः ॥२७॥
बलदेवः- **सर्वान् अवतारान् सङ्ख्याति–कल्पेतिकल्पावताराः पञ्चविंशतिः, मन्वन्तरावतारा द्वादश, युगावतारास् तु चत्वारः, इति मिलितास् त्व् एक चत्वारिंशत् ॥२७॥

वृत्ता ब्राह्मादयः कल्पाः पाद्मान्तास् ते सहस्रशः

वर्तमानस् तु कल्पोऽयं श्वेत-वाराह उच्यते ॥२८॥
बलदेवः- वृत्ता
इति_ । अतीता इत्य् अर्थः । **श्वेत-वाराहः _**द्वितीय-परार्ध-गतो बोध्यः ॥२८॥

ब्राह्म-कल्प-प्रथम-जे व्यक्ताः स्वायम्भुवान्तरे

कुमार-नारदाद्याश् च चाक्षुषीयादिषूत्तरे ॥२९॥
बलदेवः- ब्राह्मेति
ब्राह्म-कल्पस्य आद्ये स्वायम्भुवेऽन्तरे कुमाराद्यास् त्रयोदश बभूवुः, चाक्षुषषीये तु नृसिंहादयो द्वादश, वराह-मत्स्यौ च अत्रापि बभूवतुः, आद्ये व्यक्ताः कुमाराद्याः [ABOVE २१] इति प्राग्-उक्तेः । अन्यस्मिन् अन्ये ॥२९॥

**प्रायः स्वायम्भुवाद्य्-आख्याः कल्पे कल्पे भवन्त्य् अमी ।
मनवस् तेऽवताराश् च तथा यज्ञादि-नामकाः ॥३०॥
बलदेवः- **मनूनां मन्वन्तरावताराणां च प्रतिकल्पं तुल्य नामताम् आह—प्राय इति_ । _अगूढार्थम् ॥३०॥

**तथा हि श्री-विष्णु-धर्मोत्तरे श्री-वज्र-प्रश्नः–
य एते भवता प्रोक्ता मनवश् च चतुर्दश **।

**नित्यं ब्रह्म-दिने प्राप्ते एत एव क्रमाद् द्विज **।

भवन्त्य् उतान्ये धर्मज्ञ एतं मे छिन्धि संशयम् ॥३१॥
श्री-मार्कण्डेयोत्तरम्—

**
एत एव महाराज मनवश् च चतुर्दश **।

कल्पे कल्पे त्वया ज्ञेया नात्र कार्या विचारणा ॥३२॥
एक-रूपास् त्वया प्रोक्ता
5** ज्ञातव्याः सर्व एव हि ॥**

“प्रोक्ता” इत्य् अत्र “कल्पा” इति पाठान्तरम्।

**केचित् किञ्चिद् विभिन्नाश् च मायया परमेशितुः ॥३३॥ इति ।
बलदेवः- **अत्रार्थे प्रमाणं दर्शयितुं, तथा हीतिय एत इत्य्-आदिकम् अगूढार्थम् ॥३१-३३॥

॥।

अथ आवेशावताराः ।

अवताराश् चतुर्धा स्युर् आवेशाः प्राभवा अपि

**अथैव वैभवावस्थाः परावस्थाश् च तत्र ते ॥३४॥
बलदेवः- **उक्तान् अवतारान् विधान्तरेण विभजति—अवतारा इति ॥३४॥

तत्रावेशावतारास् तु ज्ञेयाः पूर्वोक्त-रीतितः

**यथा कुमार-देवर्षि-वेणाङ्ग-प्रभवादयः ॥३५॥
बलदेवः- **यथेति । कुमारेषु नारदे च ज्ञान-कलया भक्ति-कलया च, पृथौ परशुरामे कल्किनि च शक्ति-कलया हरेरावेशः ॥३५॥

**यथा पाद्मे—
आविष्टोऽभूत् कुमारेषु नारदे च हरिर् विभुः ॥३६॥
यथा तत्रैव—
अविवेश पृथुं देवः शङ्खी चक्री चतुर्भुजः । इति ॥३७॥
आविष्टो भार्गवे चाभूद् इति तत्रैव कीर्तितम् ॥३८॥
तथा हि—
एतत् ते कथितं देवि जामदग्नेर् महात्मनः ।
शक्त्यावेशावतारस्य चरितं शार्ङ्गिणः प्रभोः ॥३९॥ इति ।
बलदेवः- **आविष्टोऽभूद् इत्य्-आदिकं स्फुटार्थम् ॥ **भार्गवे_ **परशुरामे ॥ तत्रैव पाद्मे एव ॥ तद् दर्शयति—तथा हीति ॥ एतत् _कार्तवीर्य-वधादिकम् ॥३९॥

आवेशत्वं कल्किनोऽपि विष्णु-धर्मे विलोक्यते ॥४०॥
यथा—
प्रत्यक्ष-रूप-धृग्-देवो दृश्यते न कलौ हरिः ।
कृतादिष्व् इव तेनैव
6** त्रि-युगः परिपठ्यते ॥४१॥**

“तेनैव इत्य् अत्र “तेनासौ” इति पाठान्तरम्।

कलेर् अन्ते च सम्प्राप्ते कल्किनं ब्रह्म-वादिनम् ।
अनुप्रविश्य कुरुते वासुदेवो जगत्-स्थितिम् ॥४२॥
पूर्वोत्पन्नेषु भूतेषु तेषु तेषु कलौ प्रभुः
7** । **

“प्रभुःऽ इत्य् अत्र “हरिः” इति पाठान्तरम्।

कृत्वा प्रवेशं कुरुते यद् अभिप्रेतम् आत्मनः ॥ इति ॥४३॥
बलदेवः- प्रत्यक्षेति
कृतादिष्व् एव त्रिषु युगेषु देवः प्रत्यक्ष-रूप-धृक् दृश्यते, न तु कलौ, अतोऽसौ त्रियुगः कथ्यते । न चैवं कृष्ण-चैतन्यस्य प्रत्यक्ष-रूपत्वं न स्याद् इति वाच्यं, तस्य कलि-युगावतारत्वाभावातः प्रति-कलि कृष्ण-वर्णोऽवतारः स्मर्यते, स च जीव-विशेष एव, कलि-विशेषे तु गर्गोक्तः पीतः साक्षात् ईश्वर एव, तदा कृष्ण-वर्णस् तत्र प्रविष्ट इति सर्वं सुस्थम् ॥४१-४३॥

**अतोऽमीष्व् अवतारत्वं परं स्याद् औपचारिकम् ॥४४॥
बलदेवः- **अत इति । **अमीषु_ _**कुमारादिषु कल्क्य्-अन्तेषु पञ्चसु ॥४४॥

॥।

अथ प्राभव-वैभवाः

हरि-स्वरूप-रूपा ये परावस्थेभ्य ऊनकाः ।
शक्तीनां तारतम्येन क्रमात् ते तत्-तद्-आख्यकाः ॥४५॥
बलदेवः- अथेति
प्राभव-वैभवानाम् उभयेषां सामान्य-लक्षणं–हरीति । तेषां भेदकम् आह—शक्तीति । प्राभवेषु अल्पाः शक्तयः, वैभवेषु तेभ्योऽधिकास् ता इत्य् अर्थः ॥४५॥

**प्राभवाश् च द्विधा तत्र दृश्यन्ते शास्त्र-चक्षुषा ।
एके नातिचिर-व्यक्ता नातिविस्तृत-कीर्तयः ।
ते मोहिनी च हंसश् च शुक्लाद्याश् च युगानुगाः ॥४६॥
अपरे शास्त्र-कर्तारः प्रायः स्युर् मुनि-चेष्टिताः ।
धन्वन्तर्य्-ऋषभौ व्यासो दत्तश् च कपिलश् च ते ॥४७॥
बलदेवः- **प्राभवान् विभजति–प्राभवाश् चेति । विभाजकान् धर्मान् आह—एके नातिचिर-स्थितयः मोहिन्य्-आदयः षट् ॥ चिर-स्थितयो मुनि-चेष्टितास् तु धन्वन्तर्य्-आदयः पञ्च । इत्य् उभयेऽमी एकादश प्राभवाः ॥४६-४७॥

**अथ स्युर् वैभवावस्थास् ते च कूर्मो ऋषाधिपः ।
नारायणो नर-सखः श्री-वराह-हयाननौ ॥४८॥
पृश्नि-गर्भः प्रलम्ब-घ्नो यज्ञाद्याश् च चतुर्दश ।
इत्य् अमी वैभवावस्था एक-विंशतिर् ईरिताः ॥४९॥
बलदेवः- **सामान्यतो लक्षितान् वैभवान् विशिष्याह—अथ स्युर् इति । नारायण-नर-सखयोः ऐक्यात् एकविंशतिर् इत्य् उक्तिः सङ्गच्छते । यज्ञाद्याः मन्वन्तरावताराः ॥४८-४९॥

**तत्र क्रोड-हयग्रीवौ नव-व्यूहान्तरोदितौ ।
मन्वन्तरावतारेषु चत्वारः प्रवरास् तथा ॥५०॥
ते तु श्री-हरि-वैकुण्ठौ तथैवाजित-वामनौ ।
षड् अमी वैभवावस्थाः परावस्थोपमा मताः ॥५१॥
बलदेवः- **एकविंशति-सङ्ख्येषु वैभवेषु मध्ये वराहादीनां विशेषम् आह—तत्रेति । एकविंशताव् इत्य् अर्थः । नवेति

चत्वारो वासुदेवाद्या नारायण-नृसिंहकौ । हयग्रीवो महाक्रोडो ब्रह्मा चेति नवोदिताः ॥

इति ये नव-व्यूहाः, तन् मध्योदितौ क्रोड-हयग्रीवौ, मन्वन्तरावतारेषु हरि-वैकुण्ठाजित-वामनाः चत्वारः, अमी षट् वैभवावस्थाः **परावस्थ-**तुल्या भवन्ति, इति एकविंशतौ एषां षण्णां वैशिष्ट्यं, शक्त्य्-आधिक्य-प्रकटनात् ॥५०-५१॥

केषाञ्चिद् एषां स्थानानि लिख्यन्ते शास्त्र-दृष्टितः ।
यत्र यत्र विराजन्ते यानि ब्रह्माण्ड-मध्यतः ॥
विष्णु-धर्मोत्तरादीनां वाक्यं तत्र प्रमाण्यते ॥५२॥
बलदेवः- केषाञ्चित्
धामानि वैशिष्ट्यावरोधाय वाच्यानीत्य् आह—केषाञ्चिद् इति ॥५२॥

**तथा हि—
तस्योपरिष्टाद् अपरस् तावान् एव प्रमाणतः ।
महातलेति विख्यातो रक्त-भौमश् च पञ्चमः ॥
सरोवरं भवेत् तत्र योजनानां दशायुतम् ।
स्वयश् च तत्र वसति कूर्म-रूप-धरो हरिः ॥५३॥
बलदेवः- **कूर्मस्य तावद् आह—तस्योपरीति द्वाभ्याम् । तस्य तलातलस्य ॥५३॥

**तस्योपरिष्टाद् अपरस् तावान् एव प्रमाणतः ।
तत्रास्ते सरसी दिव्या योजनानां शत-त्रयम् ॥
तस्यां स वसते देवो मत्स्य-रूप-धरो हरिः ॥५४॥
बलदेवः- **मत्स्यस्याह—तस्येति सार्धकेन । अपरः रसातलः ॥५४॥

**नारायणो नर-सखो वसते बदरी-पदे ॥५५॥
बलदेवः- **नारायणस्याह—नारायण इत्य् अर्धकेन ॥५५॥

**नृ-वराहस्य वसतिर् महर्-लोके प्रकीर्तिता ।
योजनानां प्रमाणेन अयुतानां शत-त्रयम् ॥५६॥
बलदेवः- **नराकार वराहस्याह—नृ-वराहस्येत्य् एकेन । कीदृशं तत्? इत्य् आह—योजनानाम् इति । प्रमाणेन अयुतानां योजनानां शत-त्रयं, तत्-परिमितं तद् इत्य् अर्थः ॥५६॥

**अयुतानि च पञ्चाशच् छेष-स्थानं मनोहरम् ॥५७॥
बलदेवः- **अथ शेषस्याह—अयुतानि चेत्य् अर्धकेन ॥५७॥

स एव लोको वाराहः कथितस् तु स्वयं-प्रभः8** ॥ **

“स्वयम्प्रभः” इत्य् अत्र “स्वयम्प्रभुः” इति पाठान्तरम्।

लोकोऽयम् अण्ड-संलग्नः सर्वाधस्तान् मनोहरः ।
वराह-रूपी भगवाश् छ्वेत-रूप-धरो वसेत्
9** ॥५८॥**

**बलदेवः- **चतुष्पाद्-वराहस्याह—स एवेति सार्धकेन । शेष-स्थान-सम इत्य् अर्थः ॥५८॥

तस्योपरिष्टाद् अपरस् तावान् एव प्रमाणतः ।
पीत-भौमश् चतुर्थस् तु गभस्ति-तल-सञ्ज्ञकः ॥
तत्रास्ते भगवान् विष्णुर् देवो हयशिरोधरः

**शशाङ्क-शत-सङ्काशः शातकुम्भ-विभूषणः ॥५९॥
बलदेवः- **हयग्रीवस्याह—तस्योपरीति द्वयेन ॥५९॥

**पृश्निगर्भस्य वसतिर् ब्रह्मणो भुवनोपरि ॥६०॥
बलदेवः- **पृश्निगर्भस्याह—**पृश्नीत्य् **अर्धकेन ॥६०॥

**वासस् तत्र प्रलम्बारेर् यत्रैवाघरिपोर् भवेत् ॥६१॥
बलदेवः- **बलदेवस्याह—वासस् तत्रेत्य् अर्धकेन । यत्र गोकुलादौ, कृष्णस्य वासः, तत्रैव इति द्वयोर् नित्य-संयोग उक्तः ॥६१॥

एतस्यैवांश-भूतोऽयं पाताले वसति स्वयम्

**नित्यं ताल-ध्वजो वाग्मी वनमाला-विभूषितः ।
धारयश् छिरसा नित्यं रत्न-चित्रां फणावलीम् ।
लाङ्गली मुषली खड्गी नीलाम्बर-विभूषितः ॥६२॥
बलदेवः- **ननु मही-धारिणः शेषस्य क्व धाम? इत्य् अत्राह—एतस्येति । प्रलम्बार्य्-अंशो भूधारी शेषस् तद्-आवेशीत्य् अर्थः । वाग्मी सनकादीन प्रति श्री-भागवतं कथयन्न् इत्य् अर्थः ॥६२॥

ब्रह्म-लोकोपरिष्टाच् च हरेर् लोको विराजते **॥६३॥
बलदेवः- **मन्वन्तरावतारेषु ये चत्वारो विशिष्टा हर्यादयः, तेषां धामान्याह—ब्रह्मलोकेति सार्ध द्वाभ्याम् ॥६३॥

स्वर् लोके वसतिर् विष्णोर् वैकुण्ठस्य महात्मनः ।
तथा वैकुण्ठ-लोके च स्वयम् आविष्कृतो हि यः ॥६४॥
अजितस्य निवासस् तु ध्रुव-लोके समर्थितः

भुवर् लोके तु वसतिर् वामनस्य महात्मनः ॥६५॥
त्रिविक्रमस्य वसतिस् तपो-लोके प्रकीर्तिता

तथास्य ब्रह्म-लोक-स्थो दिव्यो नारायणाश्रमः ।
ब्रह्म-लोकोपरिष्टाच् च निवासोऽनेन निर्मितः ॥६६॥
बलदेवः- त्रिविक्रमस्या
ह—त्रीत्यादित्रयेण । अनेन—त्रिविक्रमेण ॥ हरिवंश इति । यः—ब्रह्मलोकोपरि स्थितः त्रिविक्रमस्य निवासः ॥६६॥

हरि-वंशे सुरेन्द्रेण कथितो यः सुरर्षये ॥६७॥
तथा हि [ह।व। १२७.३७]—
इदं भङ्क्त्वा मदीयं तु भगवन् विष्णुना कृतम् ।
उपर्य् उपरि लोकानाम् अधिकं भुवनं मुने ॥६८॥ इति ।
बलदेवः- इदम्
इति । इदं मदीयं—स्वर्गाख्यं स्थान, भङ्क्त्वा—पादप्रहारेण भग्नं कृत्वेत्य् अर्थः । मुने!—हे नारद! । उपरि-लोकानाम् उपरीति योज्यम्, अन्यथा लोकान् इति द्वितीयया भाव्यम् । स्वर्गोपरि-तलेषु लोकेषु सत्यपर्यन्तेषु त्रिविक्रमेण भुवनानि दिव्यानि कृतानीति ॥६८॥

सर्वेषाम् अवताराणां पर-व्योम्नि चकासति

निवासाः परमाश्चर्या इति शास्त्रे निरूप्यते ॥६९॥
बलदेवः-
अथ परव्योम्नि सर्वेषाम् अवताराणां धामानि सन्तीति ज्ञापयितुम् आह—सर्वेषाम् इति ॥६९॥

तथा हि पाद्मे—
वैकुण्ठ-भुवने नित्ये निवसन्ति महोज्ज्वलाः ।
अवताराः सदा तत्र मत्स्य-कूर्मादयोऽखिलाः ॥७०॥ इति ।

इति अवतार तत्-स्थान निरूपणम् ।

**बलदेवः- **तत्र प्रमाणं, वैकुण्ठेति—स्फुटार्थः ॥७०॥

इति अवतारास् तेषां स्थानानि च निरूपिताः ॥

॥।

(१.५)


  1. जज्ञे ↩︎

  2. चावधीत् इन् सोमे वेर्सिओन्स्। ↩︎

  3.  ↩︎
  4.  ↩︎
  5.  ↩︎
  6.  ↩︎
  7.  ↩︎
  8.  ↩︎
  9. “श्वेतरूपधरो वसेत्” इत्य् अत्र “शतरूपधरोऽवसत्” इति पाठान्तरम्। ↩︎