०३

तृतीयः परिच्छेदः

लीलावतार-निरूपणम्
अथ लीलावताराश् च विलिख्यन्ते यथा मति

**श्रीमद्-भागवतस्यानुसारेण प्रायशस् त्व् अमी ॥१॥
बलदेवः- **लीलावतारान् वक्तुम् आह—अथेति ॥१॥

**तत्र (१) श्री-चतुःसनः, श्री-प्रथमे [भा।पु। १.३.६]—
स एव प्रथमं देवः कौमारं सर्गम् आश्रितः ।
चचार दुश्चरं ब्रह्मा ब्रह्मचर्यम् अखण्डितम् ॥ इति ॥२॥
बलदेवः- **तान् आह—तत्र श्री-चतुःसन इत्य्-आदिभिः । अत्र प्रकरणे सङ्ख्येयावतार-नाम-निर्देशोत्तराः पञ्चविंशतिर् अङ्काः, ते द्वि-बिन्दवः पुरातनाः; टीका-क्रम-लाभाय नवीनास् तु निर्बिन्दवो ज्ञेयाः ॥

स एवेति । सः गर्भोदकशयः कृष्णस्य स्वांशः । कौमारं चतुः-सन-रूपं सर्गम्ब्रह्मा विप्रः भूत्वा । इह प्रथम-द्वितीयादि-शब्दाः सङ्ख्या-पूर्त्य्-अपेक्षा, न तु क्रमापेक्षा । सामयिकः क्रमस् त्व् एतद्-ग्रन्थ-रचित इति बोध्यम् ॥२॥

चतुर्भिर् अवतारोऽयम् एक एव सतां मतः ।
सन-शब्दाच् चतुर्ष्व् एव चतुः-सन इति स्मृतः ॥३॥
शुद्ध-ज्ञानस्य भक्तेश् च प्रचारार्थम् अवातरत् ।
पञ्चषाब्दिक-बालाभो गौरः कमल-योनितः ॥४॥
श्री-नारदः तत्रैव [भा।पु। १.३.८]—
तृतीयम् ऋषि-सर्गं वै देवर्षित्वम् उपेत्य सः ॥
तन्त्रं सात्वतम् आचष्ट नैष्कर्म्यं कर्मणां यतः ॥ इति ॥५॥
बलदेवः- तृतीयम्
इति । ऋषि-सर्गम् उपेत्य तत्रैव देवर्षित्वं नारदत्वं च, उपेत्येति योज्यम् । सात्वतं तन्त्रं नारद-पञ्चरात्रम् । यतः तन्त्रात् कर्मणां नैष्कर्म्यं भगवद्-अर्पण-गुण-योगात् परिशोधित-विष-पारद-न्यायेन कर्म-बन्ध-हारित्वं भवति ॥५॥

प्रवर्तनाय लोकेऽस्मिन् स्व-भक्तेर् एव सर्वतः ।
हरिर् देवर्षि-रूपेण चन्द्र-शुभ्रो विधेर् अभूत् ॥६॥
आविर्भूयादिमे ब्राह्मे कल्प एव चतुःसनः

नारदश् चानुवर्तते कल्पेषु सकलेष्व् अपि ॥७॥
श्री-वराहः तत्रैव [भा।पु। १.३.७]—
द्वितीयं तु भवायास्य रसातल-गतां महीम् ।
उद्धरिष्यन्न् उपादत्त यज्ञेशः
1** शौकरं वपुः ॥८॥**

मुद्रितामुद्रितेषु बहुवेव श्रीमद्-भागवतेषु “यज्ञेशः” इति पाठो दृश्यते । टीकाकृद्भिस् तु “यज्ञेशः” इत्य् अत्र “सदेवः " इत्य् एव पाठः परिगृहीत इति विद्वद्भिर् अवधेयम्।

बलदेवः- द्वितीयं त्व् इति । अस्य विश्वस्य, भवाय उद्भवाय । विष्णु-धर्मोत्तर-निर्णयात् प्रलये रसातल-गतां महीम् उद्धरिष्यन्, स देवः शौकरं वपुः उपादत्त प्रकटितवान् । स्वायम्भुव-मन्वन्तरीयोऽयम् अवतारः ॥८॥

श्री-द्वितीये च [भा।पु। २.७.१]—

**
यत्रोद्यतः क्षिति-तलोद्धरणाय बिभ्रत्
क्रौडीं तनुं सकल-यज्ञ-मयीम् अनन्तः ।
अन्तर् महार्णव उपागतम् आदि-दैत्यं
तं दंष्ट्रयाद्रिम् इव वज्र-धरो ददार ॥ इति ॥९॥
द्विर् आविरासीत् कल्पेऽस्मिन्न् आद्ये स्वायम्भुवान्तरे ** घ्राणाद् विधेर् धरोद्धृत्यै चाक्षुषीय तु नीरतः ॥१०॥
हिरण्याक्षं धरोद्धारे निहन्तुं दंष्ट्रि-पुङ्गवः
चतुष्पात् श्री-वराहोऽसौ
2** नृ-वराहः क्वचिन् मतः ॥११॥ **

**बलदेवः- **चाक्षुष-मन्वन्तरीयं तम् आह—यत्रेति । **क्रौडीं **शौकरीं तनुं बिभ्रत् प्रकटयन् । उपागतं मिलितम् । आदि-दैत्यं हिरण्याक्षम् । दंष्ट्रया ददार विदीर्णम् चकार ॥

ननु प्रथम-स्कन्ध-वाक्ये धरोद्धाराय वराहो यः, स कस्मात् कदा अभूत्? द्वितीय-स्कन्ध-वाक्ये च धराम् उद्धर्तुं जातः सन् हिरण्याक्षं न्यवधीत्, स च कस्मात् कदा अभूत्? तत्र तत्र च किं-वर्णः किम्-आकारश् च सः? इति सन्देहं छेत्तुम् आह—द्विर् इति । यावन् मत्स्यावतारम्, अस्मिन् ब्राह्मे कल्पे वराहो द्विर् आविरासीत् । तत्राद्ये स्वायम्भुवीयेऽन्तरे विधेर् घ्राणाज् जातो धराम् उद्दधार, यः प्रथम-वाक्येनोक्तः, यस् तु द्वितीय-वाक्येनोक्तः, स तु चाक्षुषीये षष्ठेऽन्तरे नीराज् जातः सन् धराम् उद्दधार हिरण्याक्षं च जघानेति । नीरत इत्य् अपूर्वत्वम् ॥ क्वचित् पाद्मादौ ॥९-११॥

कदाचिज् जलद-श्यामः कदाचिच् चन्द्र-पाण्डरः3

“पाण्डरः” इत्य् अत्र “पाण्डुरः” इति पाठान्तरम्।

यज्ञ-मूर्तिः स्थविष्ठोऽयं वर्ण-द्वय-युतः स्मृतः ॥१२॥
बलदेवः- कदाचिद्
इति । आद्ये आद्यता4, द्वितीये द्वितीयता ॥१२॥

दक्षात् प्राचेतसात् सृष्टिः श्रूयते चाक्षुषेऽन्तरे **।
अतस् तत्रैव जन्मास्य हिरण्याक्षस्य युज्यते ॥१३॥
बलदेवः- **ननु चाक्षुषेऽन्तरे वराहो नीराद् आविर्भूय आदि-दैत्यं जघानेत्य् एतत् “यत्र” इति वाक्यात् न प्रतीतम् इति चेत्? तत्राह—दक्षाद् इति ॥१३॥

तथा हि श्री-चतुर्थे [भा।पु। ४.३०.४९]—

चाक्षुषे त्व् अन्तरे प्राप्ते प्राक्-सर्गे काल-**विद्रुते **।

**यः ससर्ज प्रजा इष्टाः स दक्षो दैव-चोदितः ॥ इति ॥१४॥
बलदेवः- **अत्र प्रमाणं—चाक्षुषे त्व् इति । दैवेन परेशेन, चोदितः प्रेरितः ॥१४॥

**उत्तानपाद-वंश्यानां तनयस्य प्रचेतसाम् **।

**दक्षस्यैव दितिः पुत्री हिरण्याक्षो दितः सुतः ॥१५॥
बलदेवः- **ननु तत्रैव चाक्षुषेऽन्तरे हिरण्याक्षस्य जन्मेति कथं मन्तव्यम्? तत्राह—उत्तानपादेति ॥१५॥

कल्पारम्भे तदा नास्ति सुतोत्पत्तिर् मनोर् अपि

**क्वासौ प्राचेतसो दक्षः क्व दितिः क्व दितेः सुतः ॥१६॥
बलदेवः- **ननु स्वायम्भुवीयेऽन्तरे प्रादुर्भूतो वराहो हिरण्याक्षं जघानेति कुतो न मन्यते? तत्राह—कल्पारम्भे तदेतिकल्पस्य ब्राह्मस्य, आरम्भे स्वायम्भुवीयेऽ न्तरे, मनोर् अपि स्वायम्भुवस्य सुतोत्पत्तिर् नास्ति । मनोः सुताभ्यां सुतासु च उत्पत्तिस् तदा न, केवलं मनोः कन्या-पुत्रादीनाम् उत्पत्ति-दर्शनात् । एवं चेत् क्वासाव् इत्य्-आदि । एतद् उक्तं भवति—स्वायम्भुवस्य मनोर् उत्तानपादः पुत्रः, तद्-वंशोद्भवाः प्रचेतसः, तेषां तनयो दक्षः, तत् पुत्र्यां दित्यां कश्यपात् हिरण्याक्षोऽभूद् इति कथास्ति । ततश् चातिचिर-कालोत्तर-जातं हिरण्याक्षं स्वायम्भुवीयेऽन्तरे जातो वराहो जघानेति न सम्भवति । तस्मात् तत्र जातोऽसौ धरोद्धार-मात्रं चकार, इत्य् एव वक्तव्यम् ॥१६॥

अतः काल-द्वयोद्भूतं श्री-वराहस्य चेष्टितम्

**एकत्रैवाह मैत्रेयः क्षत्तुः प्रश्नानुरोधतः॥१७॥
बलदेवः- **ननु स्वायम्भुवीये धरोद्धार-मात्रं चकार, चाक्षुषीय तु धरोद्धार-दैत्य-वधौ इति विवेकस् तृतीय-स्कन्धेनोपलभ्यते? तत्राह—**अत **इति । विवेकस्य साधितत्वाद् एव, काल-द्वयोद्भूतं वराह-चेष्टितं मिथो विविक्तम् अपि तद्-अवतारत्व-सामान्यात् एकीकृत्य, क्षत्तुः विदुरस्य, प्रश्नानुरोधात् मैत्रेयोऽब्रवीद् इति न काचिद् अनुपपत्तिः ॥१७॥

मध्ये मन्वन्तरस्यैव मुनेः शापान् मनुं प्रति

**प्रलयोऽसौ बभूवेति पुराणे क्वचिद् ईर्यते ॥१८॥
बलदेवः- **ननु प्रलयं विना धराया मज्जनं न स्यात्, ततः प्रलय-शून्ये स्वायम्भुवीये तस्या अमज्जनात् किम्-अर्थं तत्र वराहोऽभूद् इति चेत्? तत्राह—मध्ये इति । मनुं स्वायम्भुवं प्रति, मुनेः अगस्त्यस्य शापात् तन्-मध्ये प्रलयो बभूव, तेन मग्नाया धराया उद्धाराय वराहाविर्भावः । पुराणे मात्स्ये ॥१८॥

अयम् आकस्मिको जातश् चाक्षुषस्यान्तरे मनोः

**प्रलयः पद्मनाभस्य लीलयेति च कुत्रचित् ॥१९॥
बलदेवः- **ननु चाक्षुषीये केन हेतुना प्रलयोऽभूत्, येन धराया मज्जनम् ? तत्राह—अयम् इति । भगवद्-इच्छया अकस्मात् प्रलयोऽभूत्, तेन तस्या मज्जनं, तद्-उद्धाराय तद्-आविर्भाव इति । कुत्रचित्—विष्णु-धर्मोत्तरादौ । पुराण-द्वय-वचनानि तु मृग्याणि ॥१९॥

सर्व-मन्वन्तरस्यान्ते प्रलयो निश्चितं भवेत्

**विष्णु-धर्मोत्तरे त्व् एतन् मार्कण्डेयेन भाषितम् ॥२०॥
बलदेवः- **स्वायम्भुवीये चाक्षुषीये च अन्तरे धरा प्रलयाम्भसि मग्ना अभूत्, तद्-उद्धाराय वराहो द्विः आविर्वभूव । वस्तुतस् तु सर्वेषां मन्वन्तराणामवसाने प्रलयो भवेदेव, तत्र तत्र धरा प्रलयाम्भसा अदृश्या तिष्ठेत्, न तु प्रलयाम्भसि निमज्जेत्, इति मुख्यं मतं दर्शयितुम् आह—सर्वेति ॥२०॥

तथा हि—
मन्वन्तरे परिक्षीणे देवा मन्वन्तरेश्वराः ।

महर्-लोकम् अथासाद्य तिष्ठन्ति गत-कल्मषाः ॥२१॥

बलदेवः- विष्णु-धर्मोक्ति दर्शयितुं—तथा हीति ॥ मन्वन्तरेऽतीते शक्रादीनाम् अधिकारे परिक्षीणे सति, मन्वन्तरेश्वरा देवाः महर्-लोकम् आसाद्य, प्रलयोदधिं पश्यन्तस् तिष्ठन्ति ॥२१॥

मनुश् च सह शक्रेण देवाश् च यदुनन्दन

**ब्रह्म-लोकं प्रपद्यन्ते पुनर्-आवृत्ति-दुर्लभम् ॥२२॥
बलदेवः- **ततः, ब्रह्म-लोकं सत्यं प्रपद्यन्ते । कीदृशम् ? इत्य् आह—पुनर् आवृत्तिभिः सम्मुख-युद्ध-मृतैः, दुर्लभं दुःखेन लभ्यम् । ते तत्र चिरं न वसन्ति, पुण्य-क्षये तस्मात् पतन्ति, आ ब्रह्म-भुवनाल् लोकाः पुनर् आवर्तिनोऽर्जुन [गीता ८.१६] इति स्मृतेः । अधिकारिणस् तु तत्रैव निवसन्तः ब्रह्मणा सह विमुच्यन्ते,

ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ [गीता ८.१६] इति स्मृतेः ।

प्रतिसञ्चरः प्राकृतिकः प्रलयः ॥२२॥

भूतलं सतलं वज्र तोय-रूपी महेश्वरः

ऊर्मि-माली महा-वेगः सर्वम् आवृत्य तिष्ठति ॥२३॥
बलदेवः- भूतलं
पृथिवीं, तलेन पृथिव्य्-अधो-भागेन पाताल-सप्तकेन, सहितम् इत्य् अर्थः । वज्रेति कृष्ण-प्रपौत्रस्य सम्बोधनम् ॥२३॥

भूर्-लोकम् आश्रितं सर्वं तदा नश्यति यादव

न विनश्यन्ति राजेन्द्र विश्रुताः कुल-पर्वताः ॥२४
बलदेवः- सर्वं
वस्तु नश्यतिकुल-पर्वताः हिमालयादयोऽष्टौ5 न विनश्यन्ति, किन्तु देवैर् दृश्यमाना वर्तन्ते इत्य् अर्थः ॥२४॥

महेन्द्रो मलयः सह्यः शुक्तिमान् ऋक्ष पर्वतः ।

विन्द्यश् च पारियात्रश् च सप्तैते कुल पर्त्वताः ॥ हिमालय-रहिताश् च।

नौर् भूत्वा तु तदा देवी मही यदु-कुलोद्वह

धारयत्य् अथ बीजानि सर्वाण्य् एवाविशेषतः ॥२५॥
बलदेवः- महीदेवी
धराधिष्ठात्री वराह-पत्नी ॥२५॥

भविष्यश् च मनुस् तत्र भविष्या ऋषयस् तथा

तिष्ठन्ति राज-शार्दूल सप्त ते प्रथिता भुवि ॥२६॥
बलदेवः- ऋषयः सप्त
इत्य् अन्वयः । तत्र—नावि ॥२६॥

मत्स्य-रूप-धरो विष्णुः6** शृङ्गी भूत्वा जगत्-पतिः** ।

आकर्षति तु तां नावं स्थानात् स्थानन् तु लीलया ॥२७॥

हिमाद्रि-शिखरे नावं बद्धा देवा जगत्-पतिः ।
मत्स्यस् त्व् अदृश्यो भवति ते च तिष्ठन्ति तत्रगाः ॥२८॥
बलदेवः- तत्रगा
इति नावि स्थिता इत्य् अर्थः ॥२८॥

कृत-तुल्यं ततः कालं यावत् प्रक्षालनं स्मृतम् ।
आपः शमम् अथो यान्ति यथा-पूर्वं नराधिप! ।
ऋषयश् च मनुश् चैव सर्व कुर्वन्ति ते
7** तदा ॥२९॥ इति ।**

“ते तदा” इत्य् अत्र “पूर्ववत्ऽ इति पाठान्तरम्।

बलदेवः- कृत-तुल्यं सत्य-युग-समम् । सर्वं कुर्वन्ति प्रजा-सर्जन-तत्-पालनादि कार्यं प्रवर्तयन्तीत्य् अर्थः ॥२९॥

**मनोर् अन्ते लयो नास्ति मनवेऽदर्शि मायया
विष्णुनेति ब्रुवाणैस् तु स्वामिभिर् नैष मन्यते ॥३०॥
बलदेवः- **अत्र श्रीधर-स्वामिनां मतम् [भा।पु। १.३.१५, ८.२४.४६ टी।] आह—मनोर् इति । मनोर् अन्ते लयो नास्ति, किन्तु कल्पान्त एवेत्य् अर्थः । माययेति स्वाप्निकवत् प्रातीतिक इत्य् अर्थः । एष मन्वन्तर-प्रलयः । इदं विष्णु-धर्मेण विरुध्यते ॥३०॥

श्री-मत्स्यः श्री-प्रथमे [भा।पु। १.३.१५]—

**
रूपं स जगृहे मात्स्यं चाक्षुषोदधि-सम्प्लवे ।
नाव्य् आरोप्य मही-मय्याम् अपाद् वैवस्वतं मनुम् ॥३१॥
बलदेवः- **एवं प्रासङ्गिक समाप्य प्रकृतम् अवतारम् उदाहरति—श्री-मत्स्य इत्य्-आदिना ॥ रूपं स इति । चाक्षुष-मन्वन्तरान्ते य उदधि-सम्प्लवः, तस्मिन् मात्स्यं रूपं सः जगृहे प्रकटितवान् । वैवस्वतं भावि तन्-नामानं सत्यव्रतम् अपात् पालितवान् ॥३१॥

श्री-द्वितीये च [भा।पु। २.७.१२]—

**
मत्स्यो युगान्त-समये मनुनोपलब्धः
क्षोणीमयो निखिल-जीव-निकाय-केतः** ।

विस्त्रंसितान् उरु-भये सलिले मुखान् म
आदाय तत्र विजहार ह वेद-मार्गान् ॥३२॥
बलदेवः- मत्स्यो युगान्तेति
। मनुना—सत्यव्रतेन, दृष्टो मत्स्यः । क्षोणीमयः—पृथ्वी-प्रधानः, तत्-समाश्रय इत्य् अर्थः; अत एव निखिलानां जीवनिकायानां, केतः—निवासभूतः । मे—मम ब्रह्मणः, मुखात्, विस्त्रंसितान्—स्खलितान्, वेद-रूपान् मार्गान् आदाय, तत्र—युगान्तसलिले, विजहार ॥३२॥

पाद्मे च—
एवम् उक्तो हृषीकेशो ब्रह्मणा परमेश्वरः ।
मत्स्य-रूपं समास्थाय प्रविवेश महोदधिम् ॥३३॥ इति ।
बलदेवः- एवम्
इति, मम मुखाद् वेदा दैत्येन हृताः, वेद-पालक! रक्ष इत्य्-आद्य्-उक्त इत्य् अर्थः । अन्यत् स्फुटार्थम् ॥३३॥

मत्स्योऽपि प्रादुरभवद् द्विः कल्पेऽस्मिन् वराहवत् ।
आदौ स्वायम्भुवीयस्य दैत्यं घ्नन्न् आहरच् छ्रुतीः ।
अन्ते तु चाक्षुषीयस्य कृपां सत्यव्रतेऽकरोत् ॥३४॥
बलदेवः- सङ्कीर्ण-मत्स्य-चरितं विभजति—मत्स्योऽपीतिअस्मिन् ब्राह्मे कल्पे मत्स्यो द्विः प्रादुरभूत्स्वायम्भुवीयस्य मन्वन्तरस्य आदौ श्रुति-चौरं दैत्यं
हयग्रीवं घ्नन् विनाशयन् श्रुतीर् आहरत् आनीतवान् । चाक्षुषीयस्य तु तस्य अन्ते सत्यव्रते कृपाम् अकरोत्, नावि तत्-प्रभृतीन् निधाय पालितवान् इत्य् अर्थः ॥३४॥

अन्त्येन सार्ध-पद्येन प्रोक्तम् आद्यस्य चेष्टितम् ।
पूर्व-सार्धेन चान्त्यस्य मत्स्यो
8** ज्ञेयो वराहवत् ॥३५॥ **

“मत्स्यो ज्ञेयो वराहवत्” इत्य् अत्र “मत्स्यौ ज्ञेयौ वराहवत्” इति पाठान्तरम् ।

**बलदेवः- **मत्स्य-चरितं विभज्यं तद् विषयकं प्रमाणं विभजति—**अन्त्येन इत्य्-आदिनारूपं सः [भा।पु। १.३.१५] इत्य्-आदीनां त्रयाणां पद्यानां मध्ये, अन्त्येन विस्त्रंसितान् [भा।पु। २.७.१२] इत्य्-आदिकेन सार्ध-पद्येन, आद्यस्य स्वायम्भुवीयान्तर-जातस्य मत्स्यस्य, दैत्य-हनन-वेदानयनं चेष्टितम् उक्तम् । तत्-सार्धकं तत्र प्रमाणम् । **पूर्व-सार्धकेन तु—रूपं सः इत्य्-आदिकेन, चाक्षुषीयान्तर-जातस्य तस्य सत्यव्रते कृपालोस् तत्-पालनं चेष्टितम् उक्तम् । तत्-सार्धकं तत्र प्रमाणम् इत्य् अर्थः ॥३५॥

उपलक्षणम् एवैतद् अन्य-मन्वन्तरस्य च

**विष्णु-धर्मोत्तराज् ज्ञेयाः प्रादुर्भावाश् चतुर्दश ॥३६॥
बलदेवः- **न चैतत्-पद्य-त्रयात् मत्स्यस्य द्विर् एव व्यक्तिः । किन्तु सर्व-मन्वन्तरान्ते तद् व्यक्तिर् इति मन्तव्यं, तत्र यस्य तद्-उपलक्षणत्वाद् इत्य् आह—उपलक्षणम् इति । वाचनिकम् आह—विष्णुधर्मेति । तथा च मत्स्यस्य प्रतिकल्पं चतुर्दश-कृत्वो व्यक्तिर् इति ॥३६॥

श्री-यज्ञः श्री-प्रथमे [भा।पु। १.३.१२]—

ततः सप्तम आकूत्यां रुचेर् यज्ञोऽभ्यजायत ।
स यामाद्यैः सुर-गणैर् अपात् स्वायम्भुवान्तरम् ॥ इति ॥३७॥
त्रयाणाम् एव लोकानां महार्ति-हरणाद् असौ ।
मातामहेन मनुना हरिर् इत्य् अपि शब्दितः
9** ॥३८॥**

“हरिर् इत्य् अपि शब्दितः” इत्य् अत्र “हरिर् इत्य् अभिशब्दितः” इति पाठान्तरम्।

बलदेवः- तत इति** । रुचेः**—पितुः, आकूत्यां—मातरि, यज्ञोऽजायत** । **स—यज्ञः, यामाद्यैः—सुपुत्रैः, सुर-गणैः, स्वायम्भुवं मन्वन्तरम् अपात्—सदा स्वयम् इन्द्रोऽभूद् इत्य् अर्थः ॥ मनुना—स्वायम्भुवेन ॥३७-३८॥

श्री-नर-नारायणौ ॥


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

॥ तत्रैव [भा।पु। १.३.९]—
तुर्ये धर्म-कला-सर्गे नर-नारायणाव् ऋषी ।
भूत्वात्मोपशमोपेतम् अकरोद् दुश्चरं तपः ॥ इति ॥३९॥
बलदेवः- तुर्ये
इति । धर्मस्य कला भागः, तद्-भार्येत्य् अर्थः, अर्धो वा एष आत्मनो यत् पत्नी इति श्रवणात्, तस्याः सर्गे, स देवो नर-नारायणाव् ऋषी भूत्वेति । अन्यत् प्रकटार्थम् ॥३९॥

**शास्त्रेऽन्यौ हरि-कृष्णाख्याव् अनयोः सोदरौ स्मृतौ ।
एभिर् एकोऽवतारः स्याच् चतुर्भिः सनकादिवत् ॥४०॥
बलदेवः- **विषयान्तरम् आह—शास्त्रे इति—नारायणीये इति बोध्यम् । एतौ गृहिणौ बभूवतुर् इति तत्रैवोच्यते ॥४०॥

श्री-कपिलः तत्रैव [भा।पु। १.३.१०]—

पञ्चमः कपिलो नाम सिद्धेशः काल-विप्लुतम् ।
प्रोवाचासुरये साङ्ख्यं तत्त्व-ग्राम-विनिर्णयम् ॥ इति ॥४१॥
बलदेवः- पञ्चम इति । तत्त्व-ग्रामस्य
प्रकृत्य्-आदि-तत्त्व-वर्गस्य स-पुरुषस्य, विवेकेन निर्णयो यत्र तत्, साङ्ख्यम् आसुरये तन्-नाम्ने विप्राय प्रोवाच ॥४१॥

देवहूत्यां कर्दमतः प्रादुर्भावम् असौ गतः ।
प्रोक्तः कपिल-वर्णत्वात् कपिलाख्यो विरिञ्चिना ॥४२॥
पाद्मे—
कपिलो वासुदेवांशस्
10** तत्त्वं साङ्ख्यं जगाद ह**

“वासुदेवांश” इत्य् अत्र “वासुदेवाख्य” इति पाठान्तरम्।

**ब्रह्मादिभ्यश् च देवेभ्यो भृग्वादिभ्यस् तथैव च ।
तथैवासुरये सर्व-वेदार्थैर् उपबृंहितम् ॥४३॥
बलदेवः- **ननु श्री-भागवतोक्तः कपिलः सेश्वरः, स कथं निरीश्वरं साङ्ख्यमकरोत्? इति सन्देहं छेत्तुम् आह—कपिल इति । वासुदेवः कार्दमिः कपिलः ॥

अन्यस् तु जीवोऽग्नि-वंशजः; यद् उक्तं वन-पर्वणि अग्नि वंश-वर्णने मार्कण्डेयेन-

कपिलं परमर्षिं च यं प्राहुर् यतयः सदा । अग्निः स कपिलो नाम साङ्ख्य-योग-प्रवर्तकः ॥ [म।भा। ३.२२०.२२] इति ।

तथा च नाममात्रेण न भ्रमितव्यम् इति ॥४३॥

सर्व-वेद विरुद्धं च कपिलोऽन्यो जगाद ह ।
साङ्ख्यम् आसुरयेऽन्यस्मै कुतर्क-परिबृहितम् ॥४४॥
श्री-दत्तः श्री-द्वितीये [भा।पु। २.७.४]—
अत्रेर् अपत्यम् अभिकाङ्क्षत आह तुष्टो
दत्तो मयाहम् इति यद् भगवान् स दत्तः
**।
यत् पाद-पङ्कज-पराग-पवित्र-देहा **

योगर्धिम् आपुर् उभयीं यदु-हैहयाद्याः ॥४५॥

बलदेवः- अत्रेर् इति** । मया अहम्** एव तुभ्यं दत्त इति यत् भगवान् आह—ततः नाम्ना दत्तोऽभवत्** । उभयीं** भोग-मोक्ष-रूपाम्** । हैहयः** कार्तवीर्यः ॥४५॥

श्री-प्रथमे [भा।पु। १.३.१२]—
षष्ठम् अत्रेर् अपत्यत्वं वृतः प्राप्तोऽनसूयया ।
आन्वीक्षिकीम् अलर्काय प्रह्लादादिभ्य ऊचिवान् ॥४६॥ इति ।
बलदेवः- षष्ठम्
इति । अनसूयया अत्रि-पत्न्या वृतः सन्, अत्रेर् अपत्यत्वं प्राप्तः । चरितम् आह—आन्वीक्षिकीम् आत्म-विद्याम् ॥४६॥

श्री-ब्रह्माण्डे तु कथितम् अत्रि11-पत्न्यानसूयया ।

अत्रेः इन् सोमे वेर्सिओन्स्।

**प्रार्थितो भगवान् अत्रेर् अपत्यत्वम् उपेयिवान् ॥४७॥
बलदेवः- **प्रथम-स्कन्ध-वचनार्थ पुष्णाति—श्री-ब्रह्माण्डे त्व् इति ॥४७॥

तथा हि—
वरं दत्त्वानसूयायै विष्णुः सर्व-जगन्मयः ।
अत्रेः पुत्रोऽभवत् तस्यां स्वेच्छा-मानुष-विग्रहः ।
दत्तात्रेय इति ख्यातो यति-वेष-विभूषितः ॥४८॥
बलदेवः- स्वेच्छ
या मानुषाकारी विग्रहो यस्य सः, अभेदेऽपि भेद-व्यपदेशो विशेषाद् बोध्यः । अत्रिणा तत्-सदृश-पुत्रोत्पत्ति-मात्रं प्रकटं प्रार्थितम् इति चतुर्थाद्य्-अभिप्रायः । प्रथम-वाक्ये तु अनसूयया साक्षात् पुत्रत्वं प्रार्थितम् इति लब्धं, तत्-पोषकं तु ब्रह्माण्ड-वाक्यम् ॥४८॥

श्री-हयशीर्षा श्री-द्वितीये [भा।पु। २.७.११]—

**
सत्रे ममास भगवान् हयशीरषाथो
साक्षात् स यज्ञ-पुरुषस् तपनीय-वर्णः ।
छन्दोमयो मखमयोऽखिल-देवतात्मा
वाचो बभूवुर् उशतीः श्वसतोऽस्य नस्तः ॥ इति ॥४९॥
बलदेवः- सत्रे** इति । मम ब्रह्मणः । श्वसतः अस्य हयशीर्ष्णः, नस्तः नासिकातः, वाचः वेद-लक्षणाः बभूवुः जाताः । उशतीः उशत्यः कमनीया इत्य् अर्थः ॥४९॥

प्रादुर्भूयैष यज्ञाग्नेर् दानवौ मधु-कैटभौ ।
हत्वा प्रत्यानयद् वेदान् पुनर् वागीश्वरी-पतिः ॥५०॥
श्री-हंसः श्री-द्वितीये [भा।पु। २.७.१९]—
तुभ्यं च नारद भृशं भगवान् विवृद्ध-
भावेन साधु परितुष्ट उवाच योगम्

ज्ञानं च भागवतम् आत्म-सतत्त्व-दीपं
यद् वासुदेव-शरणा विदुर् अञ्जसैव ॥ इति ॥५१॥
बलदेवः- तुभ्यं चेति
। चात् सनकादिभ्यः । हे नारद! विवृद्धेन, भावेन—प्रेम्णा, योगं—भक्ति-लक्षणम्, उवाच । ज्ञानं च कीदृशं? भागवतं—भगवद्-विषयकम्; आत्मनः—जीवस्य, यत्, सतत्त्वं—स्वरूप, तस्य दीपं, तद् विषयकं च । यत् वासुदेव-शरणाः, अञ्जसैव—आयासं विनैव, विदुः, अन्ये तु कष्टेनापि सम्यक् न बुद्ध्यन्ते इति भावः ॥५१॥

**शक्तोऽखिल-विवेकेऽहं क्षीर-नीर-विभागवत् ।
इति व्यञ्जन्नयं राज-हंसो व्यक्तिं जलाद्-गतः ॥५२॥
श्री-ध्रुव-प्रियः तत्रैव [भा।पु। २.७.८]—
विद्धः सपत्न्य्-उदित-पत्रिभिर् अन्ति राज्ञो
बालोऽपि सन्न् उपगतस् तपसे वनानि **।

तस्मा अदाद् ध्रुव-गतिं गृणते प्रसन्नो
दिव्याः स्तुवन्ति मुनयो यद् उपर्य्-अधस्तात् ॥ इति ॥५३॥
बलदेवः- विद्ध
इति । बालोऽपि ध्रुवः । राज्ञः उत्तानपादस्य पितुः, अन्ति समीपे, मातुः सपत्न्याः सुरुच्याः उदित-पत्रिभिः वाग्-बाणैः विद्धः सन्, क्षात्रत्वात् असहिष्णुः तपसे तपः कर्तुं, वनान्य् उपगतः गृणते स्तवते, तस्मै भगवान् प्रसन्नः सन् ध्रुव-गतिम् अदात्यत् यां गतिम् उपरि-स्थिता भृग्व्-आदयो दिव्याः स्तुवन्ति, अधः-स्थितास् तु सप्त-र्षयः ॥५३॥

स्वायम्भुवेऽवतारोक्तेर् नाम्नश् चाकथनाद् इह

**यज्ञादीनां च तत्रोक्त्या पारिशेष्य-प्रमाणतः ॥
प्रसिद्ध्या पृश्नि-गर्भेति तद्-आख्यास्य निगद्यते **।

**हन्तायम् अद्रिर् इत्य् आदौ पद्ये गोवर्धनाद्रिवत् ॥५४॥
बलदेवः- **नन्व् एष किम् अकस्मात् वैकुण्ठाद् आगत्य ध्रुवाय वरं दत्त्वा तम् अगात् । किं वा, मातापितृभ्याम् अस्याभिव्यक्तिर् अस्ति? इति सन्देहो न निवर्तते, वाक्यात् विशेषालाभात्, इत्य् अत्राह—स्वायम्भुवे इति । एतद् उक्तं भवति—स्वायम्भुवीये यज्ञादयः स-चरित्रा उक्ताः, तत्रैव पृश्निगर्भो ऽचरित्र उक्तः, ध्रुव-प्रियोऽपि तत्रैवाभाणि, न च तन् नाम, ध्रुवाय वरप्रदानं चरितं तु उक्तं, न चायं ध्रुव-वरदानकृत् यज्ञादिष्वन्तर्भाव्यः, स्वायम्भुवान्तरपालनस्य तच् चरितस्योक्तत्वात्, तस्मात् पृश्निगर्भोऽयं तद् दान चरितकृद् इति सिद्धम् । सामान्यस्य विशेषपरत्वे दृष्टान्तः, हन्तायम् इति [भा।पु। १०.२१.१८] । तत्र प्रकरणात्, इह तु पारिशेष्याद् इति बोध्यम् ॥५४॥

तथा श्री-दशमे [भा।पु। १०.३.३२,४१]—

त्वम् एव पूर्व-सर्गेऽभूः पृश्निः स्वायम्भुवे सति ।
तदायं सुतपा नाम प्रजापतिर् अकल्मषः ॥
अहं सुतो वाम् अभवं पृश्निगर्भ इति स्मृतः ॥ इति ॥५५॥
बलदेवः- त्वम् एवेति
कृष्ण-वाक्यम् । हे सति! देवकि! मातः! । अयं वसुदेवः ॥५५॥

अस्यात्र चरितानुक्त्या नामानुक्त्या च तत्र वै ।
परस्परम् अपेक्षित्वाद् युक्ता चैकत्र सङ्गतिः ॥५६॥
बलदेवः- अस्यात्रेति
अस्य पृश्निगर्भस्य । अत्र श्री-दशमे । तत्र श्री-द्वितीये ॥५६॥

अत्रागमन-मात्रेण यदि स्याद् अवतारता

**अन्यत्रापि प्रसज्येत यथेष्टं तत्-प्रकल्पना ॥५७॥
बलदेवः- **ननु पृश्निगर्भो ध्रुवम् आगत्य वरं तस्मै प्रादाद् इति पृथग् अयम् अवतारोऽस्तु? मैवं, तथा सति दाशरथिः कृष्णश् च बहून् प्रति गत इति तत्र तत्रापि पृथग् अवतारता वक्तव्या स्याद् इति ॥५७॥

श्री-ऋषभः ॥


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

**॥ श्री-प्रथमे [भा।पु। १.३.१२]—
अष्टमे मेरु-देव्यां तु नाभेर् जात उरुक्रमः ।
दर्शयन् वर्त्म धीराणां सर्वाश्रम-नमस्कृतम् ॥ इति ॥५८॥
बलदेवः- **ऋषभावतारम् आह—अष्टमे इति । **उरुक्रमः_ **हरिः । **नाभेः **अग्नीध्र-पुत्रात् मेरु-देव्यां जातोऽभूत् । चरितम् आह—सर्वाश्रम-नमस्कृतं **धीराणां वर्त्म _**पारमहंस्याश्रमं दर्शयान्न् इति ॥५८॥

**शुक्लः परमहंसानां धर्मं ज्ञापयितुं प्रभुः **।

**व्यक्तो गुणैर् वरिष्ठत्वाद् विख्यात ऋषभाख्यया ॥५९॥
बलदेवः- **अस्य नाम व्यञ्जयन्न् आह—शुक्ल इति ॥५९॥

श्री-पृथुः ॥


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

॥ तत्रैव [भा।पु। १.३.१४]—

**
ऋषिभिर् याचितो भेजे नवमं पार्थिवं वपुः ।
दुग्धेमां ह्य् ओषधीर् विप्रास् तेनायं स उशत्तमः ॥ इति ॥६०॥
बलदेवः- ऋषिभिर्** इति । हरिः ऋषिभिर् याचितः सन् **पार्थिवं वपुः_ **राज-देहं भेजे । चरितम् आह—**इमां **पृथिवीम् **ओषधीः **निखिलानि वसूनि अदुग्ध, अड्-अभाव आर्षः । हे विप्राः! शौनकादयः! **तेन **पृथिवी-दोहनेन कर्मणा **सः **पृथुर् अवतारः, **उशत्तमः _**अतिरम्यः ॥६०॥

मथ्यमानान् मुनि-गणैर् असव्याद् वेणबाहुतः ।
प्रादुर्भूतो महाराजः शुद्ध-स्वर्ण-रुचिः पृथुः ॥६१॥

**बलदेवः- **नामास्य व्यनक्ति–मथ्यमानाद् इति । **असव्यात्_ _**दक्षिणात् । चतुर्थे [भा।पु। ४.१५-२३] ख्यातम् अस्य चरितम् ॥६१॥

आद्ये व्यक्ताः कुमाराद्याः पृथ्व्-अन्ताश् च त्रयोदश

कोल-मत्स्यौ पुनर् व्यक्तिं चाक्षुषीये तु जग्मतुः ॥६२॥
बलदेवः- कोल-मत्स्याव्
इति_ _आपाततः । प्रति मन्वन्तरं मत्स्यस्य व्यक्तेः ॥६२॥

अथ श्री-नृसिंह ॥


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

॥ तत्रैव [भा।पु। १.३.१८]—
चतुर्दशं नारसिंहं बिभ्रद् दैत्येन्द्रम् ऊर्जितम् ।
ददार करजैर् ऊराव् एरकां कट-कृद् यथा ॥ इति ॥६३॥
बलदेवः- चतुर्दशम्
इति । **दैत्येन्द्रं_ **हिरण्यकशिपुम्, ऊरौ निपात्य ददार । **एरकां _**निग्रन्थि-तृण-विशेषं, यथा कटकृद् दारयति ॥६३॥

अस्य लक्ष्मी-नृसिंहाद्या विलासा बहवः स्मृताः ।
तत्र पद्म-पुराणादौ नाना-वर्ण-विचेष्टिताः ॥६४॥
षष्ठेऽन्तरेऽब्धि-मथनान् नृहरेः पूर्व-भाविता

**अतः प्राग् एष कूर्मादेर् व्यक्तिं षष्ठेऽन्तरे गतः ॥६५॥
बलदेवः- अस्येति_ । _**नृसिंहस्य कथास् तु पाद्मादौ द्रष्टव्याः ।

नानाकारा नृसिंहास् ते नाना-चेष्टा समन्विताः । जन-लोके च वैकुण्ठे नित्य-धाम्नि चकासति ॥

इति तत्रत्यं वाक्यम् एतत् ॥ व्यक्ति-समयं तस्याह—षष्ठेऽन्तरे इति । अब्धि-मथनात् पूर्वं नृसिंहो जातः । स्फुटम् अन्यत् ॥६४-६५॥

श्री-कूर्मः तत्रैव [भा।पु। १.३.१६]—

**
सुरासुराणाम् उदधिं मथ्नतां मन्दराचलम् ।
दध्रे कमठ-रूपेण पृष्ठ एकादशे विभुः ॥ इति ॥६६॥
बलदेवः- सुरासुराणाम्** इति । कमठः कूर्मः, तद्-रूपेण पृष्ठे मन्दराचलं दध्रे विभुः अजितः ॥६६॥

पाद्मे प्रोक्तं दधे क्षोणीम्12** अयम् एवार्थितः सुरैः** ।

क्षौनीम् इस् अनोथेर् वेर्सिओन् [इन् थे चोम्मेन्तर्य् अस् wएल्ल्]

शास्त्रान्तरे तु भूधारी कल्पादौ प्रकटोऽभवत् ॥६७॥
बलदेवः- पाद्मे
इति । अयं पृष्ठ-धृत-मन्दरः सुरैर् अर्थितोऽधस्तात् क्षोणीं दधे इति पाद्म-मतम् । शास्त्रान्तरे विष्णु-धर्मोत्तरादौ तु कल्पादौ यो भूधारी कूर्मः, स एव मन्दरं धर्तुं प्रकटोऽभूत् । एष पक्षः सुलग्नत्वात् उत्तरत्वाच् च सिद्धान्तो बोध्यः ॥६७॥

श्री-धन्वन्तरि-मोहिन्यौ तत्रैव [भा।पु। १.३.१७]—
धान्वन्तरं द्वादशमं त्रयोदशमम् एव च ।
अपाययत् सुरान् अन्यान् मोहिन्या मोहयन् स्त्रिया ॥ इति ॥६८॥
बलदेवः- धान्वन्तरम्
इति । द्वादशमं धान्वन्तर-रूपं, त्रयोदशमं च हरे रूपम् अभूत् । चरितम् आह—अपाययद् इति । सुधाम् इति शेषः । मोहिन्या स्त्रिया तद्-वपुषा । अन्यान् असुरान् मोहयन्न् इति । धन्वन्तरि-वपुषा सुधाम् आनीय मोहिनी-वपुषा असुरान् मोहयन् तां सुरान् अपाययद् इत्य् अर्थः ॥६८॥

**तत्र श्री-धन्वन्तरिः—
षष्ठे च सप्तमे चायं द्विर् आविर्भावम् आगतः ॥६९॥
षष्ठेऽन्तरेऽब्धि-मथनाद् धृतामृत-कमण्डलुः ।
उद्गतो द्विभुजः श्याम आयुर्वेद-प्रवर्तकः ।
सप्तमे च तथा-रूपः काशीराज-सुतोऽभवत् ॥७०॥
बलदेवः- **तयोर् अवतारयोर् विशेष-धर्मान् अभिधातुं तौ विविच्य दर्शयति—तत्र श्री-धन्वन्तरिर् इत्य्-आदिना ॥ षष्ठे चाक्षुषीये । सप्तमे वैवस्वतीये ॥ तथा रूपः—द्वि-भुजादि लक्षणः ॥६९-७०

श्री-मोहिनी—
दैत्यानां मोहनायासौ प्रमोदाय च धूर्जटेः ।
अजितो मोहिनी-मूर्त्या द्विर् आविर्भावम् आगतः ॥७१॥
इति षष्ठेऽत्र चत्वारो नृसिंहाद्याः प्रकीर्तिताः ॥७२॥
बलदेवः- दैत्यानाम्
इति । धूर्जटेः शिवस्य । अजितः भगवान् । कूर्मादयस् त्रयोऽजितस्यावताराः ॥ चत्वार इति नृसिंह-कूर्म-धन्वन्तरि-मोहिन्यः चाक्षुषीये बभूवुर् इत्य् अर्थः ॥७१-७२॥

श्री-वामनः तत्रैव [भा।पु। १.३.१९]—
पञ्चदशं वामनकं कृत्वागाद् अध्वरं बलेः ।
पद-त्रयं याचमानः प्रत्यादित्सुस् त्रिविष्टपम्
13** ॥ इति ॥७३॥**

त्रिपिष्टपं इस् अनोथेर् वेर्सिओन् [इन् थे चोम्मेन्तर्य् अस् wएल्ल्]।

बलदेवः- पञ्चदशम् इति । वामनकं ह्रस्व-रूपं कृत्वा प्रकटय्य, बलेः अध्वरं यज्ञम् अगात्पद-त्रयं याचमानः सन् त्रिविष्टपं स्वर्गं, तस्मात् प्रत्यादित्सुः आच्छिद्य शक्राय दातुम् इच्छुः इति छलित्वं व्यज्यते ॥७३॥

वामनस् त्रिर् अभिव्यक्तिं कल्पेऽस्मिन् प्रतिपेदिवान् ।
तत्रादौ दानवेन्द्रस्य वास्कलेर् अध्वरं ययौ ॥
ततो वैवस्वतीयेऽस्मिन् धुन्धोर् मखम् असौ गतः ।
अदितौ कश्यपाज् जातः
14** सप्तमेऽस्य चतर्-युगे ॥**

“कश्यपाज् जातः” इत्य् अत्र “कश्यपाद् व्यक्तिः” इति पाठान्तरम्।

**प्रतिग्रह-कृते जातास् त्रय एव त्रिविक्रमाः ॥७४॥
बलदेवः- **वामनस्य विशेष-धर्मान् वक्तुं–वामनस् त्रिर् इत्य्-आदि । अस्मिन् ब्राह्मे कल्पे । तत्र ब्राह्म-कल्पे, आदौ स्वायम्भुवीयान्तरे ॥ अस्मिन् वैवस्वतीये वर्तमानेऽन्तरे, धुन्धोः तन्-नाम्नोऽसुरस्य । यद् उक्तं वामने—

धुन्धोर् यज्ञे वरारोहे भगवान् मधुसूदनः । देहं वामनकं कृत्वा गत्वायाचत् त्रिविष्टपम् ॥ इति ।

अस्य वैवस्वतीयस्य सप्तमे चतुर्-युगे कश्यपात् अदित्यां जातः ॥ त्रयोऽपि वामनाः प्रतिग्र्हिणी ऽभूवन्न् इत्य् आह—प्रतिग्रहेति ॥७४॥

श्री-भार्गवः तत्रैव [भा।पु। १.३.२०]—
अवतारे षोडशमे पश्यन् ब्रह्म-द्रुहो नृपान् ।
त्रिः-सप्त-कृत्वः कुपितो निःक्षत्राम् अकरोन् महीम् ॥ इति ॥७५॥
बलदेवः- अवतारे
इति । नृपान् ब्रह्म-द्रुहः विप्र-द्विषः पश्यन् कुपितो भगवान् परशुरामः सन् त्रिः त्रिगुणं यथा स्यात् तथा सप्त-कृत्वः सप्त-वारान्, एकविंशति-वारान् इत्य् अर्थः, महीं निःक्षत्राम् अकरोत् ॥७५॥

रेणुका-जमदग्निभ्यां गौरो व्यक्तिम् असौ गतः

**प्राहुः सप्तदशे केचिद् द्वाविंशेऽन्ये चतुर्युगे ॥७६॥
बलदेवः- **अस्य मातापितरौ जन्म-कालं चाह—रेणुकेतिप्राहुर् इति—वैवस्वतीयस्येति शेषः ॥७६॥

श्री-राघेवन्द्रः तत्रैव [भा।पु। १.३.२२]—

नर-देवत्वम् आपन्नः सुर-कार्य-चिकीर्षया ।
समुद्र-निग्रहादीनि चक्रे वीर्याण्य् अतः परम् ॥ इति ॥७७॥
बलदेवः- नरेति
नरदेवत्वं राजेन्द्रत्वं, श्री-राम-वपुषा प्राप्तः सन् । अतः परम् अष्टादशे अवतारे ॥७७॥

**कौशल्यायां दशरथान् नव-दूर्वा-दल-द्युतिः ।
त्रेतायाम् आविरभवच् चतुर्विंशे चतुर्युगे ।
बलदेवः- **अस्य मातापितरौ जन्म-कालं पार्षदाश् चाह—कौशल्यायाम् इति । चतुर्विंशे चतुर्युगे इति वैवस्वतीयस्येति बोध्यम् ॥

भरतेन सुमित्राया नन्दनाभ्यां च संयुतः ॥७८॥
अस्य शास्त्रे त्रयो व्यूहा लक्ष्मणाद्या अमी स्मृताः ।
भरतोऽत्र घनश्यामः सौमित्री कनकप्रभौ ॥७९॥
बलदेवः- शास्त्रे
इति । स्कान्दे श्री-राम-गीतायाम् इत्य् अर्थः । तत्र श्री-रामस्य वासुदेवत्वेन निर्णीतत्वात्, लक्ष्मणाद्यास् त्रयः सङ्कर्षण-प्रद्युम्नानिरुद्धाः क्रमाद् बोध्याः ॥७९॥

पाद्मे भरत-शत्रुघ्नौ शङ्ख-चक्रतयोदितौ ।
श्री-लक्ष्मणस् तु तत्रैव शेष इत्य् अभिशब्दितः ॥८०॥
बलदेवः- पाद्मे
इति । पाद्मे रामो नारायण उक्तः, भरतादयस् तु शङ्खादय इत्य् अर्थः ॥८०॥

श्री-व्यासः ॥


(Bअच्क् तो तोप्)(Nएxत् अलेर्त्)

॥ तत्रैव [भा।पु। १.३.२१]—

**
ततः सप्तदशे जातः सत्यवत्यां पराशरात् ।
चक्रे वेद-तरोः शाखा दृष्ट्वा पुंसोऽल्प-मेधसः ॥ इति ॥८१॥
बलदेवः- तत** इति । पराशरात् सत्यवत्यां जातः स देवो वेद-तरोः शाखाश्चक्रे । पुंसः—द्विजान्, अल्प-मेधसः—मन्द-प्रज्ञान्, दृष्ट्वा ॥८१॥ द्वैपायनोऽस्मि व्यासानाम् इति शौरिर् यद् ऊचिवान्

**अतो विष्णु-पुराणादौ विशेषेणैव वर्णितः ॥८२॥
बलदेवः- **स्व-मतं तत्-स्वरूपम् आह—द्वैपायनोऽस्मीतिशौरिः कृष्णः ऊचिवान् एकादशे [भा।पु। ११.१६.२९] । विशेषेण साक्षाद्-ईश्वरत्वेन ॥८२॥

यथा [वि।पु। ३.४.५; म।भा। १२.३४६.११]—
कृष्ण-द्वैपायनं व्यासं विद्धि नारायणं स्वयम् ।
को ह्य् अन्यः पुण्डरीकाक्षान् महाभारत-कृद् भवेत् ॥ इति ॥८३॥
श्रूयतेऽपान्तरतमा द्वैपायन्यम् अगाद् इति ।
किं सायुज्यं गतः सोऽत्र विष्ण्व्-अंशः सोऽपि वा भवेत्

तस्माद् आवेश एवायम् इति केचिद् वदन्ति च ॥८४॥
बलदेवः- श्रूयते
नारायणीये । अपगतम् आन्तरतमो यस्य स कश्चित् तपस्वी विप्रः । अत्र साक्षाद् ईश्वरे द्वैपायने । सोऽपि अपान्तरतमाः । तस्माद् इति सनकादिवत् आवेशोऽयम् इति केचिद् आहुः ॥८४॥

अथ श्री-राम-कृष्णौ श्री-प्रथमे [भा।पु। १.३.२२]—
एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ।
राम-कृष्णाव् इति भुवो भगवान् अहरद् भरम् ॥ इति ॥८५॥
बलदेवः- एकोनेति
भगवान् इति । स्वयं भगवत एव गोकुलादि-धाम्नोऽयम् अवतारः, न तु प्रद्युम्नस्येत्य् अर्थः । एतेन बलदेवस्यापि प्रद्युम्नावतारत्वं निरस्तं, श्री-कृष्ण-व्यूहस्य तद्-अंशत्वासम्भवाद् इति व्यक्तीभावि ॥८५॥

**तत्र श्री-रामः—
एष मातृ-द्वये व्यक्तो जनकाद् वसुदेवतः ।
यो नव्य-घन-साराभो घन-श्यामाम्बरः सदा ॥८६॥
बलदेवः- **अथ विविच्य तौ दर्शयति—तत्र श्री-राम इत्य्-आदिना ॥ मातृ-द्वये इति—आदौ देवक्या गर्भे अभूत्, ततो रोहिणी-गर्भे योगमायया नीत इति द्वैमातुरो राम इत्य् अर्थः । घन-सारः कर्पूरः, तद्-आभः ॥८६॥

**सङ्कर्षणो द्वितीयो यो व्यूहो रामः स एव हि **।

**पृथ्वी-धरेण शेषेण सम्भूय व्यक्तिम् ईयिवान् ॥८७॥
बलदेवः- **ननु सङ्कर्षणः शेषः कथ्यते? तत्राह—पृथ्वी-धरेणेति । भूधारी शेषस् तं प्रविष्टः, अतस् तथोच्यते इत्य् अर्थः ॥८७॥

**शेषो द्विधा महीधारी शय्या-रूपश् च शार्ङ्गिणः **।

**तत्र सङ्कर्षणावेशाद् भूभृत् सङ्कर्षणो मतः ।
शय्या-रूपस् तथा तस्य सख्य-दास्याभिमानवान् ॥८८॥
बलदेवः- **शेषो द्विधेत्य् आह—शेषो द्विधेति । आद्यो जीव-कोटिः, अन्त्यस् त्व् ईश्वर-कोटिर् इत्य् अर्थः ॥८८॥

श्री-कृष्णः—
एष मातरि देवक्यां पितुर् आनक-दुन्दुभेः ।
प्रादुर्भूतो घनश्यामो द्विभुजोऽपि चतुर्भुजः ॥८९॥
बलदेवः- एष इति
स्फुटम् । यद्यप्य् अयं यशोदायां च जातः, तथैव प्रमाण-सद्-भावात्, तथापि रहस्यत्वात् शास्त्र-कृता न स्फुटीकृत इत्य् उपरि निवेदयिष्यामः ॥८९॥

श्री-बुद्धः तत्रैव [भा।पु। १.३.२४]—

ततः कलौ सम्प्रवृत्ते सम्मोहाय सुर-द्विषाम् ।
बुद्धो नाम्नाजिनसुतः कीकटेषु भविष्यति ॥९०॥ इति ।
बलदेवः- तत इति
अजिनस्य सुतः नाम्ना बुद्धः । कीकटेषु धर्मारण्याख्येषु गया-प्रदेशेषु ॥९०॥

असौ व्यक्तः कलेर् अब्द-सहस्र-द्वितये गते

मूर्तिः पाटल-वर्णास्य द्विभुजा चिकुरोज्झिता15** ॥९१॥**

“चिकुरोग्झिता” इत्य् अत्र “शिखरोज्झिता” इति पाठान्तरम् ।

**यदा सूतः कथाम् आह तदा बुद्धस्य भाविता ।
अधुना वृत्त एवायं धर्मारण्ये यद् उद्गतः ॥९२॥
बलदेवः- **बुद्धस्याविर्भाव-कालं रूपं चाह—असाव् इति । विस्पष्टार्थम् ॥ धर्मारण्ये ग्रामे ॥९२॥

**श्री-कल्की तत्रैव [भा।पु। १.३.२५]—
अथासौ युग-सन्ध्यायां दस्यु-प्रायेषु राजसु ।
जनिता विष्णु-यशसो नाम्ना कल्किर् जगत्-पतिः ॥ इति ॥९३॥
बलदेवः- **अथेति । असौ देवो हरिः, विष्णु-यशसः तन्-नाम्नो विप्रात् जनिता भविष्यति ॥९३॥

**पूर्वं मनुर् दशरथो वसुदेवोऽप्य् असाव् अभूत् ।
भावी विष्णुयशाश् चायम् इति पाद्मे प्रकीर्तितम् ॥९४॥
बलदेवः- **कोऽयं विष्णुयशाः? इत्य् आकाङ्क्षायाम् आह—पूर्वं मनुर् इति । असौ वसुदेवः पूर्वं मनुः दशरथश् च अभूत् परत्र । अयम् अपि वसुदेवोऽपि, विष्णुयशा भावीत्य् अन्वयः, स्वयं भगवत्-पितृत्वाद् इति तद्-अभिप्रायः ॥९४॥

ऐश्वर्यं कल्किनस् तस्य ब्रह्माण्डे सुष्टु वर्णितम्

कैश्चित् कलौ कलौ बुद्धः स्यात् कल्की चेत्य् उदीर्यते ॥९५॥
अष्टौ वैवस्वतीयेऽमी कथिता वामनादयः ॥९६॥
बलदेवः- कैश्चिद्
इति । बुद्ध-कल्किनौ प्रति-कलौ स्याताम् इति कैश्चिन् मतम्, अन्यैस् त्व् अष्टा-विंश-चतुर्-युगीय-कलाव् एवेति भावः । अष्टाव् इति वामनादयोऽष्टौ कल्क्य्-अन्ता वैवस्वतीये स्युः ॥९५-९६॥

कल्पावतारा इत्य् एते कथिताः पञ्च-विंशतिः ।
प्रति-कल्पं यतः प्रायः सकृत् प्रादुर् भवन्त्य् अमी ॥९७॥
इति लीलावतार-निरूपणम् ।
बलदेवः- कल्पावतारा
इति । सर्वेषु ब्राह्मादि-कल्पेषु यद् एते सकृत् एक-वारं भवन्तः कल्पावताराः पञ्चविंशतिर् एते कथिताःप्राय इति वराहो द्विर्-आविः स्यात्, मत्स्यस् तु चतुर्दश-कृत्व इति भावः । ब्रह्मणे मासस्य त्रिंशद्-वासरास् ते त्रिंशत्-कल्पाः स्कान्दे प्रभास-खण्डे उक्ताः–

प्रथमः श्वेत-कल्पस् तु द्वितीयो नील-लोहितः । वामदेवस् तृतीयस् तु ततो गाथान्तरोऽपरः ॥ रौरवः पञ्चमः प्रोक्तः षष्ठः प्राण इति स्मृतः । सप्तमोऽथ बृहत्-कल्पः कन्दर्पेऽष्टम उच्यते ॥ सव्योऽथ नवमः प्रोक्तः16 ईशानो दशमः स्मृतः ।

“सव्योऽथ नवमः प्रोक्तः” इत्य् अत्र “सत्योऽथ नवमः कल्पः” इति पाठान्तरम् । ध्यान एकादश प्रोक्तस् तथा सारस्वतोऽपरः ॥ त्रयोदश उदानस् तु गरुडोऽथ चतुर्दशः । कौर्मः पञ्चदशो ज्ञेयः पौर्णमासी प्रजापतेः ॥ षोडशो नारसिंहस् तु समाधिस् तु ततोऽपरः । आग्नेयो विष्णुजः17 सौरः सोम-कल्पस् ततोऽपरः ॥

“विष्णुजः सौरः सोमकल्प” इत्य् अत्र “विष्णुजो वंशः सोमवंशऽ इति पाठान्तरम् । द्वाविंशो भावनः प्रोक्तः सुपुमान्18 इति चापरः ।

“सुपुमानिति” इत्य् अत्र “सुप्तवानिति” इति, “सुप्तमालीति” इति च पाठान्तरम् । वैकुण्ठश् चार्चिषस् तद्वत् वल्मी-कल्पस् ततोऽपरः19

“वल्मीकल्पस्ततोऽपरः” इत्य् अत्र “वल्लीकल्पो रथान्तरः” इति पाठान्तरम् । सप्तविंशोऽथ वैराजो गौरी-कल्पस् तथापरः । माहेश्वरस् तथा प्रोक्तस् त्रिपुरो यत्र घातितः ॥ पितृ-कल्पस् तथान्ते च यः कुहूर् ब्रह्मणः स्मृतः । त्रिंशत् कल्पाः समाख्याता ब्रह्मणो दिवसैः सदा ॥ अतीताश् च भविष्याश् च वाराहो वर्ततेऽधुना । प्रतिपत् ब्रह्मणः प्रोक्ता द्वितीयार्धस्य साम्प्रतम् ॥ इति ।

इह श्वेतः । श्वेत-वाराहः, अयम् एव ब्रह्मोत्पत्ति-समयत्वाद् ब्राह्मः । एवं पितृ-कल्प एव प्रथम-परार्धावसाने पद्म-निर्मित-लोकत्वात् पाद्मः कथ्यते । एकस्य कल्पस्य मन्वन्तराणि चतुर्दश भवन्ति । एकस्य मन्वन्तरस्य एकस्य प्रतिश्-चतुर् युगाणि, चतुर्दश मन्वन्तरात्मकस्य तु सहस्रं चतुर्युगाणीति ॥९७॥

इति लीलावतारा निरूपिताः ।

॥।


  1.  ↩︎
  2. “श्रीवराहोऽसौ” इत्य् अत्र “श्रीवराहोऽभूत्” इति पाठान्तरम्। ↩︎

  3.  ↩︎
  4. “आद्यता” इत्य् अत्र “आद्यस्य” इति, “द्वितीयता” इत्य् अत्र “द्वितीयस्य” इति च पाठान्तरम्। ↩︎

  5.  ↩︎
  6. “विष्णुः” इत्य् अत्र “देवः” इति पाठान्तरम्। ↩︎

  7.  ↩︎
  8.  ↩︎
  9.  ↩︎
  10.  ↩︎
  11.  ↩︎
  12.  ↩︎
  13.  ↩︎
  14.  ↩︎
  15.  ↩︎
  16.  ↩︎
  17.  ↩︎
  18.  ↩︎
  19.  ↩︎