द्वितीय-परिच्छेदः
**पुरुषावतार-गुणावतार-निरूपणम् ।
अथावताराः कथ्यन्ते कृष्णो येषु च पुष्कलः ॥१॥
बलदेवः- **कृष्णः स्वयम् इत्य् उक्त्या सर्वावतारावतारित्वं तस्याभिमतम् । अतस् तद्-अवतारान् निर्णेतुम् उपक्रमते—**अथेति । **
ननु कृष्णोऽप्य् अवतारेषु कीर्त्यते? तत्राह—कृष्णो येष्व् इति **। प्रसङ्गात् तेषु तस्य कीर्तनं, प्रपञ्च-प्राकट्य-मात्र-सामान्यात् । स तु पुष्कलः, स्वयं-रूप इत्य् अर्थः । **पुष्कलस् तु पूरणे श्रेष्ठे इति हैमः ॥१॥
तल्-लक्षणम्—
पूर्वोक्ता विश्व-कार्यार्थम् अपूर्वा इव चेत् स्वयम् ।
द्वारान्तरेण वाविः1** स्युर् अवतारास् तदा स्मृताः ॥२॥**
“वाविः” इत्य् अत्र “वारि” इति पाठान्तरम्
**बलदेवः- **अवतार-लक्षणम् आह—पूर्वोक्ता इति । पूर्वत्र कृत-लक्षणाः स्वयं-रूपादयः । चेत् यदि, स्वयम् अद्वारकतया द्वारान्तरेण वा जगति आविः स्युः, तदा अवताराः स्मृताः । अप्रपञ्चात् प्रपञ्चेऽवतरणं खल्व् अवतारः, यथा मत्स्यः, यथा च विधेर् हंसो द्वारकतयाविर्भूतः स्मर्यते भारतादिषु । स द्वारकस् तु यथा शेष-शायिनः कारणार्णवशयात् गर्भोदकशयः, यथा वसुदेवात् कृष्णः, यथा च दशरथात् रामः । प्रयोजनम् आह—विश्वेति । विश्व-रूपं विश्वस्मिन् वा यत् कार्य-प्रकृति-क्षोभ-महद्-आद्य्-उत्पादनं, दुष्ट-विमर्देन देवादीनां सुख-वर्धनं, समुत्कण्ठितानां साधकानां स्व-साक्षात्कारेण प्रेमानन्द-विस्तरणं2, विशुद्ध-भक्ति-प्रचारणं च, तद्-अर्थम् इत्य् अर्थः । अपूर्वा इव नूतना इव, इत्य् आश्चर्यत्वं तेषाम् ॥२॥
“विस्तरणम्” इत्य् अत्र “वितरणम्” इति पाठान्तरम् ।
**तच् च द्वारं तद्-एकात्म-रूपस् तद्-भक्त एव च ।
शेष-शाय्य्-आदिको यद्वद् वसुदेवादिकोऽपि च ॥३॥
बलदेवः- **द्वारम् आह—तच् चेति । व्याख्यात-प्रायम् ॥३॥
**पुरुषाख्या गुणात्मानो लीलात्मानश् च ते त्रिधा ॥४॥
प्रायः स्वांशास् तथावेशा अवतारा भवन्त्य् अमी ।
अत्र यः स्यात् स्वयंरूपः सोऽग्रे व्यक्तीभविष्यति ॥५॥
बलदेवः- **अवतारान् विभजते—पुरुषाख्या इति ॥ प्राय इति । स्वांशाः—शेष-शाय्यादयः । आवेशाः—चतुःसनादयः, पृथ्व्-आदयश् च । प्रायो ग्रहणात् कदाचित् स्वयंरूपश् च । अत्र इति—एष्व् अवतारेषु मध्ये । अग्रे—पर-व्योमाधीश-पक्षाद् अनन्तरम् ॥४-५॥
तत्र पुरुष-लक्षणम्, यथा विष्णु-पुराणे [६.८.६१3]—
६.८.६० इन् ग्रेतिल् एदितिओन्
तस्यैव योऽनुगुण-भुग् बहुधैक एव
शुद्धोऽप्य् अशुद्ध इव मूर्ति-विभाग-भेदैः ।
ज्ञानान्वितः सकल-सत्त्व-विभूति-कर्ता
तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥ इति ।
तस्यैव अनु-पूर्वोक्तात् परमेश्वरात् समनन्तरम् इति स्वामी **॥६॥
बलदेवः- **पुरुषावतार-लक्षणं वैष्णवोत्याह—तस्यैवेति ।
नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति वृद्धिर् न यस्य परिणाम-विवार्जितस्य** । ** नापक्षयं च समुपैत्य् अविकल्प-वस्तु यस् तं नतोऽस्मि पुरुषोत्तमम् आद्यम् ईड्यम् । [वि।पु। ६.८.५८]
इति पूर्वोक्तस्य परेशस्य । अनु अनन्तरं । यः अंशः । प्रधान-गुणभाक् प्रकृति-प्राकृत-वीक्षण-नियमन-प्रवर्तनाद्य्-अनुभवी । एक एव एकताम् अजहन्न् एव, मूर्ति-विभाग-भेदैः बहुधा स्व-विग्रहांश-भेदैः नाना-रूपः सन् । सकल-सत्त्व-विभूतेः निखिल-प्राणि-विस्तारस्य कर्ता भवति, स पुरुष इत्य् अर्थः** । चेद् एवं, तर्हि प्रकृति-प्राकृत-लेपः प्राप्तः? तत्राह—शुद्धोऽप्य् अशुद्ध इव इति । **सङ्कल्पेनैव तत्-तत्-करणात्, तत्-प्रवेशेऽप्य् अचिन्त्य-शक्त्या तद्-अस्पर्शाच् च शुद्धत्वम् इत्य् अर्थः ॥६॥
अत्र कारिका—
परमेशांश-रूपो यः प्रधान-गुण-भाग् इव **।
तद्-ईक्षादि-कृतिर् नानावतारः पुरुषः स्मृतः ॥७॥
बलदेवः- **पद्यार्थं निष्क्रष्टुम् आह—अत्रेति । कारिका वृत्तिः—कारिका यातना-वृत्त्योः इत्य् अमरः । इत्थं त्रयाणां पुरुषाणां लक्षणम् इदं सिद्धम् ॥७॥
अस्यावतारत्वं च श्री-भागवते द्वितीय-स्कन्धे [२.६.४२]—
आद्योऽवतारः पुरुषः परस्य ॥८॥ इति ।
बलदेवः- आद्य इति । परस्य अवतारिणः कृष्णस्य ॥८॥
अस्य च भेदाः, सात्वत-तन्त्रे4—
विष्णोस् तु त्रीणि रूपाणि पुरुषाख्यान्य् अथो विदुः ।
एकं तु महतः5** स्रष्टृ द्वितीयं त्व् अण्ड**6**-संस्थितम् ॥ **
तृतीयं सर्व-भूतस्थं तानि ज्ञात्वा विमुच्यते ॥९॥
बलदेवः- विष्णोर् इति स्वयं-रूपस्येत्य् अर्थः । एकं महतः स्रष्टृ प्रकृतेर् अन्तर्यामि सङ्कर्षण-रूपम् । द्वितीयं चतुर् मुखस्यान्तर्यामि प्रद्युम्न-रूपम् । तृतीयं सर्व-जीवान्तर्यामि अनिरुद्ध-रूपम् ॥९॥
तत्र प्रथमः, यथा एकादशे [११.४.३]—
भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः
पुरं विराजं विरचय्य तस्मिन् ।
स्वांशेन विष्टः पुरुषाभिधानम्
अवाप नारायण आदिदेवः ॥१०॥
बलदेवः- भूतैर् इति । आदिदेवः नारायणः स्वयं प्रभुः । यदा आत्मना सङ्कर्षणेन सृष्टैः उत्पादितैः पञ्चभिर् भूतैः, विराजं जगद्-अण्ड-रूपं पुरं निर्माय, तस्मिन् प्रद्युम्न-वपुषा प्रविष्टः, तदा पुरुषाभिधानम् अवाप, तस्य तत्-तद्-रूपं पुरुषावतारत्वेनाख्यायते इत्य् अर्थः ॥१०॥ (६)
ब्रह्म-संहितायाश् च [५.१०-१३]—
तस्मिन्न् आविरभूल् लिङ्गे महा-विष्णुर् जगत्-पतिः ॥
सहस्र-शीर्षा पुरुषः ॥ इत्य्-आदि ।
नारायणः स भगवान् आपस् तस्मात् सनातनात् ।
आविरासन् कारणार्णो-निधिः सङ्कर्षणात्मकः ॥
योग-निद्रां गतस् तस्मिन् सहस्रांशः स्वयं महान् ॥
तद्-रोम-बिल-जालेषु बीजं सङ्कर्षणस्य च ।
**हैमान्य् अण्डानि जातानि महा-भूतावृतानि तु ॥ **इत्य् एतद्-अन्तम् ॥११॥
**बलदेवः- **तस्मिन् लिङ्गे स्वयं-रूपस्य अङ्ग-भूते गमके नारायणे, तत्-सन्निधाव् इत्य् अर्थः । महा-विष्णुः सङ्कर्षणः, आविरभूत् प्रकृति-वीक्षकतया प्रकटोऽभूत् ॥
ननु—
आपो नारा इति प्रोक्ता आपो वै नर-सूनवः । अयनं तस्य ताः पूर्व तेन नारायणः स्मृतः ॥ [वि।पु। १.४.६]
इति नारायण-शब्दस्य प्रवृत्तौ निमित्तं स्मरन्ति, तस्यास्मिन् प्रवृत्ती किं तद् अस्ति इति चेत् ? तत्राह—तस्मात् सनातनात् आपः आविरासन्न् इति । ताश् चापः सङ्कर्षणाज् जातत्वात् सङ्कर्षणात्मकः कारणार्णो-निधिः कथ्यते ॥
तस्मिन् अर्णो-निधौ । स स्वयं शेष-पर्यङ्के योग-निद्रां गतः इति तस्यास्मिन् प्रवृत्तौ तद् एव कारणाम्भः-शयत्वं निमित्तम् इत्य् अर्थः । सहस्रम् असङ्ख्या अंशाः । यस्मात् प्रद्युम्न-रूपाद् इत्य् अर्थः ॥
तस्य कृत्यम् आह—तस्मिन् शेष-पर्यङ्के स्थितः स प्रकृतिम् ऐक्षत् । तेनेक्षणेन सङ्कर्षणस्य रोम-बिल-जालेषु निलीनं जगद्-बीजं, तत् जीवाख्य-चित्-परमाणु-वृन्दं, प्रकृति-योनौ न्यधाद् इति शेषः । ततो हैमान्य् अण्डानि जातानि । स्फुटम् अन्यत् ॥११॥
**लिङ्गम् अत्र स्वयं-रूपस्याङ्ग-भेद उदीरितः ॥१२॥
बलदेवः- **लिङ्ग-मत्रेति—व्याख्यातम् एव ॥१२॥
द्वितीयम्, यथा तत्रैव तद्-अनन्तरं [ब्र। सं। ५.१४]—
प्रत्येकम् एवम् एकांशाद् एकांशाद् विशति स्वयम् ॥१३॥ इति ।
बलदेवः- प्रत्येकम् इति** । “प्रत्यण्डम्” इति क्वचित् पाठः । स्वयं** प्रभुर् एव । एवं प्रकृति-वीक्षण-बीजार्पण-कर्मवत् । प्रत्येकं निखिलेष्व् अण्डेषु । एकांशाद् प्रद्युम्न-रूपम् एकम् एकम् अंशम् आविर्भाव्य, विशति, ल्यब्-लोपे कर्मणि पञ्चमी, तद्-रूपैर् अंशैः सर्वेषु तेषु प्रविशतीत्य् अर्थः ॥१३॥
गर्भोदक-शयः पद्मनाभोऽसाव् अनिरुद्धकः ।
**इति नारायणोपाख्यानन् उक्तं मोक्ष-धर्मके ।
सोऽयं हिरण्यगर्भस्य प्रद्युम्नत्वे नियामकः ॥१४॥
बलदेवः- **स्याद् एतत् । अस्मन् मूर्तिश् चतुर्थीया सासृजच् छेषम् अव्ययम् । स हि सङ्कर्षणः प्रोक्तः प्रद्युम्नं सोऽप्य् अजीजनत् । प्रद्युम्नच् चानिरुद्धोऽयं सर्गो मम पुनः पुनः ॥ अनिरुद्धात् तथा ब्रह्मा तन्-नाभि-कमलोद्भवः॥ [म।भा। १२.३३९.७०-७२] इति, अनिरुद्धो हि लोकानां महानात्मेति कथ्यते ॥ योऽसौ व्यक्तत्वमापन्नो निर्ममे च पितामहम् ॥ [म।भा। १२.३४०.२७-२८]
इति च नारायणीये पठ्यते ।
यस्याम्भसि शयानस्य योग-निद्रां वितन्वतः । नाभि-ह्रदाम्बुजाद् आसीद् ब्रह्मा विश्व-सृजां पतिः ॥ यस्यावयव-संस्थानैः कल्पितो लोक-विस्तरः । तद् वै भगवतो रूपं विशुद्धं सत्त्वम् ऊर्जितम् ॥ [भा।पु। १.३.२-३] इति तु श्री-भागवते ।
यस्य अवयव-संस्थानैः साक्षात्-पादादि-सन्निवेशैः, तत्-सादृश्येनेत्य् अर्थः । लोक-विस्तरः—पातालम् एतस्य हि पाद-मूलम् [भा।पु। २.१.२६] इत्य्-आदिना कल्पितः स्थूल-धियां चित्त-स्थैर्याय ख्यापितः, तस्य पौरुषं रूपं तु विशुद्धम् अप्राकृतं सत्त्वं, यत ऊर्जितं स्व-प्रकाश-चिद्-रूपम् इति पद्यस्यार्थः ।
तथा च अनिरुद्धात् प्रद्युम्नाद् वा ब्रह्मणो जन्मेति संशयो न निवर्तते इति चेत्? तत्राह—गर्भोदकेति । यो गर्भोदक-शयः प्रद्युम्नः स एवानिरुद्ध इत्य् अभेदम् आदाय नारायणीये अनिरुद्धात् तस्य जन्मोक्तम् । वस्तुतस् तु प्रद्युम्नाद् एव तन् मन्तव्यं, यस्याम्भासि इत्य्-आदिकाद् एव । वक्ष्यते चैवं—गर्भोदक-शयाद् अस्य इत्य्-आदिना । एतद् एवाह—स इति । स स्वयं प्रभुः स्वस्य प्रद्युम्नत्वे गर्भोदक-शयत्वे सति हिरण्यगर्भस्य नियामकः जनकोऽन्तर्यामी चेत्य् अर्थः ॥१४॥
**अथ यत् तु तृतीयं स्याद् रूपं तच् चाप्य् अदृश्यत ।
केचित् स्व-देहान्तर् इति द्वितीय-स्कन्ध-पद्यतः ॥१५॥
बलदेवः- **अथ तृतीयं पुरुषं निर्णयति—अथ यत् त्व् इति । तत्र प्रमाणं—
केचित् स्व-देहान्तर् हृदयावकाशे प्रादेश-मात्रं पुरुषं वसन्तम् । चतुर् भुजं कञ्ज-रथाङ्ग-शङ्ख- गदा-धरं धारणया स्मरन्ति ॥ [भा।पु। २.२.८] इति द्वितीये ।
तथा च क्षीराब्धि-पतिर् अनिरुद्धस् तृतीयः पुरुषः प्रादेश-मात्र-तादृग्-विग्रहतया सर्व-जीव-हृद्-गतो ध्येय इति । तर्जन्य्-अङ्गुष्ठयोर् विस्तृतयोर् यावद् अन्तरं, स प्रादेशः कथ्यते ॥ इति त्रयः पुरुषावतारा उदाहृताः ॥१५॥
**अथ गुणावताराः—
गुणावतारास् तत्राथ कथ्यन्ते पुरुषाद् इह ।
विष्णुर् ब्रह्मा च रुद्रश् च स्थिति-सर्गादि-कर्मणे ॥१६॥
बलदेवः- **अथ गुणावतारान् आह—गुणेति । पुरुषात् स्वयं-प्रभोः स्वांशात् गर्भोदकशयात् प्राद्युम्नाद् इत्य् अर्थः ॥१६॥
यथा प्रथमे [भा।पु। १.२.२३]—
सत्त्वं रजस् तम इति प्रकृतेर् गुणास् तैर्
युक्तः परः पुरुष एक इहास्य धत्ते ।
स्थित्य्-आदये हरि-विरिञ्चि-हरेति सञ्ज्ञाः
श्रेयांसि तत्र खलु सत्त्व-तनोर् नृणां स्युः ॥१७॥ इति ।
बलदेवः- सत्त्वम् इति । परः पुरुषः गर्भोदकशयः, एक एव, अस्य जगतः स्थित्य्-आदये पालन-सर्ग-संहारार्थं प्रकृतेर् गुणैः सत्त्वादिभिः युक्तः तेषां पृथक् पृथक् अधिष्ठाता सन् विभिन्ना हरि-विरिञ्चि-हरा इति सञ्ज्ञा धत्ते । तथापि त्रिषु मध्ये सत्त्व-तनोः हरेर् एव हेतोः नृणां श्रेयांसि धर्मार्थ-काम-मोक्ष-लक्षणानि स्युः, न तु विरिञ्चि-हराभ्यां रजस्-तमस्-तनुभ्याम् इत्य् अर्थः ॥१७॥
अत्र कारिका—
योगो नियामकतया गुणैः सम्बन्ध उच्यते **।
अतः स तैर् न युज्येत तत्र स्वांशः परस्य यः ॥१८॥
बलदेवः- **ननु परस्य पुंसः कथं गुण-सम्बन्धः, माया परैत्य् अभिमुखे च विलज्जमाना [भा।पु। २.७.४७] इत्य्-आदि-वाक्या-विरोधाद् इति चेत् ? तत्राह—योग इति । गुणा नियम्याः, त्रिधाविर्भूतः पुरुषस् तु नियामक इति सम्बन्धः, स इह योग उच्यते, न तु तैर् बन्ध इत्य् अर्थः। तत्र त्रिषु मध्ये यः परस्य स्वयं प्रभोः स्वांशः, स तु विष्णुर् नैव युज्यते,
आदाव् अभूच् छत-धृती रजसास्य सर्गे विष्णुः स्थितौ क्रतु-पतिर् द्विज-धर्म-सेतुः । रुद्रोऽप्ययाय तमसा पुरुषः स आद्य इत्य् उद्भव-स्थिति-लयाः सततं प्रजासु ॥ [भा।पु। ११.४.६]
इति द्रविड-योगीश-वाक्ये । तत्र गुण-सम्बन्धानुल्लेखात् । स्वांशत्वं मूल-स्वरूपावस्थया स्थितत्वम् ।
अयम् अत्र निष्कर्षः—स्वेच्छा-गृहीतेन रजसा तमसा च युक्तः परेशो विरिञ्चो हरश् च भवति, पाखण्ड-धर्मेणेव बुद्धः, कदाचारेणेव ऋषभश् च । वस्तुतस् तु तत्-तल्-लेपो नास्ति परेशत्वात् । तथापि तत्-तद्-वेशस्योपासनया धर्मादयः सम्यक् न सिध्यन्ति, मोक्षस् तु नैव जायते, मुक्ति-प्रदाता सर्वेषां विष्णुर् एव न संशयः । इति हरि-वंशे शिवोक्तेः । विष्णुस् तु सत्त्वेनापि न युक्तः, किन्तु सङ्कल्पेनैव तन्-नियमन-मात्र-कृत्, अतः श्रेयांसि तस्मात् [भा।पु। १.२.२३] इत्य् उक्तम् । अत एव वामन-पुराणे—
ब्रह्म-विष्ण्व्-ईश-रूपाणि त्रीणि विष्णोर् महात्मनः । ब्रह्मणि ब्रह्म-रूपः स शिव-रूपः शिवे स्थितः । पृथग् एव स्थितो देवो विष्णुरूपी जनार्दनः ॥ इति ।
यद्यपि गुणाधिष्ठाता पर एक एव, तथाप्य् अधिष्ठेय-गुण-सम्बन्ध-कृतेन आवरणानावरण-रूपेण तारतम्येणाधिष्ठातरि तस्मिंस् तद् अस्तीति “सत्त्वम्” इत्य्-आद्-इपद्यानन्तरम् उक्तं—
पार्थिवाद् दारुणो धूमस् तस्माद् अग्निस् त्रयीमयः । तमसस् तु रजस् तस्मात् सत्त्वं यद् ब्रह्म-दर्शनम् ॥ [भा।पु। १.२.२४ ] इति ।
इह अप्रवृत्ति-किञ्चित्प्रवृत्ति-पूर्णप्रवृत्ति-स्वभावाः काष्ठ-धूमाग्नयो यथा यज्ञानाशा-किञ्चित्तदाशा-पूर्ण-तदाशाकराः, तथा मूढ-चल-प्रकाश-स्वभावानि तमो-रजः-सत्त्वानि ब्रह्मानाशा-किञ्चित्तदाशा-सम्यक्तदाशा-कराणीति तमो-रजो-वेशयोर् असाक्षात्त्वं, सत्त्व-वेशस्य तु साक्षात्त्वम् इति श्रेयस्करत्वं युक्तम् उक्तम् ॥१८॥
तत्र ब्रह्मा—
हिरण्यगर्भः सूक्ष्मोऽत्र स्थूलो वैराज-सञ्ज्ञकः **।
भोगाय सृष्टये चाभूत् पद्मभूर् इति स द्विधा ॥१९॥
बलदेवः- **निरूपिता ब्रह्मादयस् त्रय ईश-कोटय एव । अथ वाक्य-विशेष-लाभेन विशेष-प्रत्ययात् तद्-बोधनाय पृथक् पृथक् तत्-तन्-निरूपणं—तत्र ब्रह्मेति । ईश्वरस्य ब्रह्मणः पूर्वं निरूपितत्वाज् जीव-लक्षणस्य तस्य निरूपणम् इदम् ॥ हिरण्येति । सूक्ष्मः महत्-तत्त्व-शरीरः, परेशेनैव दृश्यो देवादीनाम् अदृश्य इत्य् अर्थः । स्थूलः समष्टि-शरीरः, स एव सर्गाय चतुर्मुखो ऽष्ट-नेत्रोऽष्ट-बाहुर् देवादीनां दृश्यस् तेभ्यो वर-दाता च। भोगाय आद्यः, सृष्टये तु अन्त्यः ॥१९॥
वैराज एव प्रायः स्यात् सर्गाद्य्-अर्थं चतुर्मुखः ।
कदाचिद् भगवान् विष्णुर् ब्रह्मा सन् सृजति स्वयम् ॥२०॥
बलदेवः- आदिना वेद-प्रचारायेति बोध्यते, वेद-प्रचारणार्थाय ब्रह्मा जातश् चतुर् मुखः । इति कौर्म्मोक्तेः ॥२०॥
**तथा च पाद्मे—
भवेत् क्वचिन् महा-कल्पे ब्रह्मा जीवोऽप्य् उपासनैः ।
क्वचिद् अत्र महा-विष्णुर् ब्रह्मत्वं प्रतिपद्यते ॥ इति ॥२१॥
बलदेवः- **ब्रह्मणो द्वैरूप्ये प्रमाणं—भवेद् इति । महा-विष्णुः गर्भोदशयः ॥२१॥
**विष्णुर् यत्र महा-कल्पे स्रष्टृत्वं च प्रपद्यते ।
तत्र भुङ्क्ते तं प्रविश्य वैराजः सौख्य-सम्पदम् ॥
अतो जीवत्वम् ऐश्यं च ब्रह्मणः काल-भेदतः ॥२२॥
बलदेवः- **न तु यत्र महाकल्पे महा-विष्णुः ब्रह्मा स्यात्, तत्र जीव-लक्षणः स क्वचित् तिष्ठेत्, न चासौ मुक्तिं प्राप्नोतीति वाच्यम्, तन्-मुक्तेस् तच्-छत-वत्सरानन्तरत्वात् । एवम् आह सूत्र-कारः—यावद् अधिकारम् अवस्थितिर् आधिकारिकाणाम् [ब्र।सू। ३.३.३२] इति । तत्राह—विष्णुर् यत्रेति । तं स्रष्टारं विष्णुं, प्रविश्य वैराजः चतुर्मुखः, स चान्तर्-गत-हिरण्यगर्भो बोध्यः, सर्ग-क्रियाया विष्णुनावरुद्धत्वात् । स तस्मिन् सायुज्यम् आसाद्य देवैर् अर्पितां भोग-सम्पदं भुङ्क्ते । अधिकारमपनीयापि भोगानपनयाम् महोदारत्वं विष्णोर् व्यञ्जितम् । उक्तं द्वैविध्यं निगमयति—अत इति ॥२२॥
**ईशत्वापेक्षया तस्य शास्त्रे प्रोक्तावतारता ।
समष्टित्वेन भगवत्-सन्निकृष्टतयोच्यते ॥
अस्यावतारता कैश्चिद् आवेशत्वेन कैश्चन ॥२३॥
बलदेवः- **ब्रह्मणोऽवतार-शब्द-वाच्यतायां निर्णेतॄणां मत-भेदान् आह—ईशत्वेति । गर्भोदशयाविर्भावताम् अपेक्ष्य इत्य् अर्थः । तथाच ईशत्वपक्षे तत्रावतार-शब्दो मुख्य इति भावः ॥ कैश्चित् आचार्यैः, ब्रह्मणः समष्टित्वेन या भगवत्-सन्निकृष्टता, तया तस्य अवतारता उच्यते । अयम् अर्थः—अशू व्याप्तौ सङ्घाते च धातुः, तस्मात् सं-पूर्वात् क्तिनि समष्टिर् इति पद-सिद्धिः, सृष्टि-कार्य-क्षमत्व-धिया भगवता अयं, समस्यते व्याप्यते क्षीर-नीर-न्यायेन सम्पृच्यते वा इति समष्टिः, तथात्वेन सन्निकृष्टतया स तद्-अवतारः । कैश्चित् तु तद्-आवेशत्वेन तद्-अवतारतोच्यते; भगवान् भास्वत्-प्रभा-न्यायेन तम् आविश्य सृष्टि-कार्यं करोति, न तूक्त-न्यायेन सम्पृच्येति । जीवत्व-पक्षे तत्रावतार-शब्दो गौण इत्य् अर्थः ॥२३॥
तथाच ब्रह्म-संहितायां [५.४९]—
भास्वान् यथाश्म-शकलेषु निजेषु तेजः
स्वीयं कियत् प्रकटयत्य् अपि तद्वद् अत्र ।
ब्रह्मा य एव जगद्-अण्ड-विधान-कर्ता
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥२४॥ इति ।
बलदेवः- आवेश-पक्षम् उदाहरति—भास्वान् इति । सूर्यः यथा निजेषु अश्म-शकलेषु सूर्य-कान्त-मणि-खण्डेषु, स्वीयं कियत् तेजः प्रकटयति, अपिना तैर् दाहं प्रकाशं च किञ्चित् करोति । तद्वत् यः गोविन्दः, अत्र जगति, कदाचित् पुरु-पुण्ये जीवे स्वीयं तेजो निधाय इत्य् अवशिष्टम् । जगद्-अण्डे यत् विधानं व्यष्टि-निर्माण; तत्**-कर्ता** इत्य् अर्थः** । **उरु-वाक्यान्तरश् च रुद्र-निरूपणे द्रष्टव्यम् ॥२४॥
गर्भोद-शायिनोऽस्याभूत् जन्म नाभि-सरोरुहात् ।
**कदाचित् श्रूयते नीरात् तेजो-वातादिकाद् अपि ॥२५॥
बलदेवः- **ब्रह्मणो जन्मनि विशेषान्तरम् आह—गर्भोदेति । नीराद् इति गर्भोदकात्, तेजसो वातां च तत्रत्यात्, इति यथेश-सङ्कल्पम् इदं बोध्यम् ॥२५॥
श्री-रुद्रः—
रुद्र एकादश-व्यूहस् तथाष्ट-तनुर् अप्य् असौ **।
प्रायः पञ्चाननस् त्र्य्-अक्षो दश-बाहुर् उदीर्यते ॥२६॥
बलदेवः- **वाक्य-विशेष-लाभात् रुद्रस्यापि द्वैविध्यं प्रतिपादयितुम् आह—श्रीति ॥ सत्त्वं रजः [भा।पु। १.२.२३] इत्य्-आदि-वाक्ये य ईश्वर-कोटिर् उक्तः, तं तावद् आह—रुद्र एकादश-व्यूह इति । अत्र भारत-वाक्यम् —
अजैकपाद् अहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः । हरश् च बहु-रूपश् च त्र्यम्बकश् च सुरेश्वरः । सावित्रश् च जयन्तश् च पिनाकी चापराजितः ॥ इत्य् एतत् ।
तथाष्ट-तनुर् इति—
पृथिवी सलिलं तेजो वायुर् आकाशम् एव च । सूर्या-चन्द्रमसौ सोम-याजी चेत्य् अष्ट-मूर्तयः ॥ इति यादवः ।
प्राय इति—जलावरणस्थ-रुद्रस्य् एक मुखत्व-वीक्षणात् ॥२६॥
क्वचिज् जीव-विशेषत्वं हरस्योक्तं विधेर् इव ।
**तत् तु शेषवद् एवास्तां तद्-अंशत्वेन कीर्तनात् ॥२७॥
बलदेवः- **अथ जीव-कोटित्वं तस्याह—क्वचिद् इति । यं कामये तम् उग्रं कृणोमि तं ब्रह्माणं तम् ऋषिं तं सुमेधाम् इत्य्-आदिकम् ऋक्-श्रुतौ । अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृजेय इत्य् आरभ्य,
नारायणाद् ब्रह्मा जायते । नारायणाद् रुद्रो जायते । नारायणात् प्रजापतिर् जायते । नारायणाद् इन्द्रो जायते । नारायणाद् अष्टौ वसवो [जायन्ते] । नारायणाद् एकादश-रुद्रा [जायन्ते] । नारायणाद् द्वादशादित्याः [ना।उ।१] इत्य्-आदिकं नारायणोपनिषदि ।
एको ह वै नारायण आसीन् न ब्रह्मा न ईशानः इत्य् उपक्रम्य, तस्य ध्यानान्त-स्थस्य ललाटात् त्र्यक्षः शूलपाणिः पुरुषोऽजायत बिभ्रच्-छ्रियं सत्यं ब्रह्मचर्यं तपो वैराग्यम् [म।उ। १-२] इत्य्-आदिकं महोपनिषदि ।
प्रजापतिं च रुद्रं चाप्य् अहम् एव सृजामि वै । तौ हि मां न विजानीतो मम माया-विमोहितौ ॥ इति मोक्ष-धर्मे च ।
एभिर् वाक्यैर् जन्मोक्तेः हरस्य जीवत्वम् । अतः प्रलयश् च ।
ब्रह्मा शम्भुस् तथैवार्कश् चन्द्रमाश् च शतक्रतुः । एवम् आद्यास् तथैवान्ये युक्ता वैष्णव-तेजसा ॥ जगत् कार्यावसाने तु वियुज्यन्ते च तेजसा । वितेजसश् च ते सर्वे पञ्चत्वम् उपयान्ति वै ॥ इति विष्णु-धर्मे,
एको ह इत्य्-आदि-श्रुतौ च । अन्यथा एतानि कुप्येयुः । दृष्टान्तोऽत्र विधेर् इवेति शेषवद् इति शार्ङ्गिणः शय्या-रूपस् तद्-आधार-शक्तिः शेष ईश्वर-कोटिः, भू-धारी तु तद्-आविष्टो जीवः, इति परत्र व्यक्तं भावि । तद्-अंशत्वेनेति तत्-स्वांशत्वेन तद्-विभिन्नांशत्वेन च पुराणेष्व् अभिधानाद् इत्य् अर्थः ॥२७॥
हरः पुरुष-धामत्वान् निर्गुणः प्राय एव सः ।
विकारवान् इह तमो-योगात् सर्वैः प्रतीयते ।
बलदेवः- यस् तु सत्त्वं रजस् तमः [१.२.२३] इति पद्ये परस्य पुरुषस्याविर्भावो हरः पठितः, स खलु । पुरुष-धामत्वात् तद्-आत्म-भूतत्वान् निर्गुण एव । प्राय इति स्वेच्छा-गृहीतेन तमसा आवृतत्वात्** । **अत एव सर्वैः अतत्त्व-विद्भिः विकारवान् इह गुणावतारेषु प्रतीयते । वस्तुतस् तु अविकारी स इत्य् अर्थः । तमो-योगाद् विकारवान् प्रतीयते इति ॥
**यथा श्री-दशमे [१०.८८.२]—
शिवः शक्ति-युतः शश्वत् त्रिलिङ्गो गुण-संवृतः ॥२८॥ इति।
बलदेवः- **अत्र प्रमाणम् आह—शिवः शक्तीति । शिवः रुद्रः शश्वत् सर्वदा शक्त्या स्वेच्छा-गृहीतया गुण-साम्यावस्थया प्रकृत्या युतः । गुण-क्षोभे सति त्रिलिङ्गः गुण-त्रय-युक्तः प्रकटैश् च सद्भिस् तैर् गुणैर् दूरतः संवृतश् चेति **। ननु तमः संवृतत्वं तस्य ख्यातं, त्रिलिङ्गत्वम् इह कथम् उक्तम् इति चेत्? उच्यते, त्रयाणां गुणानां मिथः सम्पृक्तत्वात् सत्त्व-रजसी च तत्र स्याताम् एवेत्य् अविरोधः । **एतच् च वाक्यं लोक-प्रतीत्य्-अनुवाद-रूपं बोध्यम् ॥२८॥
यथा ब्रह्म-संहितायां [५.४५]—
**क्षीरं यथा दधि-विकार-विशेष-योगात्
सञ्जायते न तु ततः पृथग् अस्ति हेतोः ।
यः शम्भुताम् अपि तथा समुपैति कार्यात्
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥२९॥
बलदेवः- **पुरुष-धामत्वात् निर्गुणत्वं, तमो-योगात् विकारवत्त्व-भणितिः, इत्य् अत्र प्रमाणं—क्षीरं यथेति । विकार-विशेष-योगात् क्षीरं यथा दधि सञ्जायते, ततः क्षीरात् हेतोः दधि पृथक् भिन्नं न अस्ति न भवति, तथा, यः गोविन्दः तमो-योगात् स्वेच्छा-गृहीत-तमः-सम्बन्धात्, शम्भुर् भवति, न तु गोविन्दात् शम्भुर् अन्य इत्य् अर्थः । तथा च विकारस्यागन्तुकत्वात् स्वरूपे न तत्-प्रसङ्ग इति ॥२९॥
**विधेर् ललाटाज् जन्मास्य कदाचित् कमला-पतेः ।
कालाग्नि-रुद्रः कल्पान्ते भवेत् सङ्कर्षणाद् अपि ॥३०॥
बलदेवः- **रुद्रस्याविर्भाव-स्थानान्य् आह—विधेर् इति । विधेर् ललाटाद् इति शतपथादौ दृष्टं, कमला-पतेर् ललाटाद् इति महोपनिषदि [म।उ। २] पुराणेषु च । तद् इदं कल्प-भेदात् सम्भाव्यम् । कालाग्नि-रुद्र इति—पाताल-तलम् आरभ्य सङ्कर्षण-मुखानलः [भा।पु। ११.३.१०] इत्य् एकादशोक्तेर् बोध्यम् ॥३०॥
सदा-शिवाख्या तन्-मूर्तिस् तमो-गन्ध-विवर्जिता ।
सर्व-कारण-भूतासाव् अङ्ग-भूता स्वयं प्रभोः ।
**वायव्यादिषु सैवेयं शिव-लोके प्रदर्शिता ॥३१॥
बलदेवः- **यत् तु कृष्णः स्वयं प्रभुः, नारायणादयस् तद्-विलास-स्वांशाः, तथा आवेशाश् च केचित्, तत् स्वांशात् गर्भोदशयात् ब्रह्म-विष्णु-रुद्राः, तेषाम् ईशत्वं, कदाचित् ब्रह्म-रुद्रयोर् जीवत्वं च, इति वचन-लाभात् शास्त्र-कृता निर्णीतं, न तत् चतुरस्रं, किन्तु सदा-शिवो मूलं तत्त्वं स्वयं-पदाभिमतं, तद् एव नारायणादि-रूपम्, अतो ब्रह्मादयस् त्रयस् तस्यैव कार्य-भूताः,
अचिन्त्यम् अव्यक्तम् अनन्त-रूपं शिवं प्रशान्तम् अमृतं ब्रह्म योनिम् । तम् आदि-मध्यान्त-विहीनम् एकं विभुं चिद्-आनन्दम् अरूपम् अद्भुतम् ॥ उमा-सहायं परमेश्वरं प्रभुं त्रिलोचनं नील-कण्ठं प्रशान्तम् । ध्यात्वा मुनिर् गच्छति भूत-योनिं समस्त-साक्षिं तमसः परस्तात् ॥ स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् । स एव विष्णुः स प्राणः स कालाग्निः स चन्द्रमाः ॥ स एव सर्वं यद् भूतं यच् च भव्यं चराचरम् । ज्ञात्वा तं मृत्युम् अत्येति नान्यः पन्था विमुक्तये ॥ [कै।उ। ६-९]
इति कैवल्योपनिषदि श्रवणात् ।
तस्माद् अयं पक्षो वरीयान्, श्रौतत्वाद् इति चेत्? तत्राह—सदेति । सा मूर्तिः स्वयं प्रभोः कृष्णस्य अङ्ग-भूता, नारायणस् तद्-विलास इत्य् अर्थः । अत एव तैत्तिरीयाः शिवम् अच्युतं नारायणम् इत्य् एकार्थेन पठन्ति श्रुतौ । उमा कीर्तिः तत्-सहायम् । त्रि-लोचनं त्रि-काल-ज्ञम् । नील-कण्ठं नील-मणि-भूषित-कण्ठम् इति व्याख्येयं, प्रतीतार्थानां तस्मिन् शिवे अस्वीकारात् । वायव्यादिष्व् इति । शिव-लोके वैकुण्ठ-धाम्नि । अण्डौघस्य समन्तात् तु इत्य्-आदिभिर् वायवीय-वाक्यैर् निरूपितोऽयं सदा-शिवस् तल्-लोकश् च7 सन्दर्भ-कृद्भिः ॥३१॥
**तथा च ब्रह्म-संहितायाम् आदि-शिव-कथने [५.८]—
नियतिः सा रमा देवी तत्-प्रिया तद्-वशंवदा ।
तल्-लिङ्गं भगवान् शम्भुर् ज्योती-रूपः सनातनः ॥
या योनिः सा परा शक्तिः ॥३२॥ इत्य्-आदि ।
बलदेवः- **स्वयं-रूपस्य कृष्णस्यैव मूर्तिः सदा-शिव इत्य् अत्र निर्णायकं वाक्यम् आह—नियतिः सेति । आदि-पदेनेदं ग्राह्यं—
कामो बीज महद् धरेः । लिङ्ग-योन्य्-आत्मिका जाता इमा माहेश्वरीः प्रजाः । शक्तिमान् पुरुषः सोऽयं लिङ्ग-रूपी महेश्वरः । तस्मिन्न् आविरभूल् लिङ्गे महा-विष्णुर् जगत्-पतिः ॥ [ब्र।सं। ५.८-१०] इति ।
अस्यार्थः—पूर्वं रमया रमणम् उक्तं, रमा सा कीदृशी? इत्य् आह—नियतिर् इति । नियम्यते नियता भवति रमणे तस्मिन्न् इति तद् अनपायिनी तत्-स्वरूप-भूतेति यावत् । अत उक्तं—तत्-प्रिया तद्-वशंवदा इति, न विष्णुना विना देवी न विष्णुः पद्मजां विना इति हयशीर्ष-पञ्चरात्रात्, नित्यैव सा जगन्माता विष्णोः श्रीर् अनपायिनी [वि।पु। १.८.१५] इति वैष्णवाच् च ।
तस्य स्वयं-रूपस्य भगवान् शम्भुः लिङ्गं चिह्नं भवति, लिङ्गं चिह्नेऽनुमाने च इति विश्वः । भगवान् षड्-ऐश्वर्य-विशिष्टः पर-व्योमाधीशः । शं भावयति स्व-द्वितीय-व्यूह-सङ्कर्षणात्मना प्रकृति-विलीनानां जीवानां तत्-तद्-उपाधि-सृष्टयेति शम्भुः, मित-भ्व्-आदित्वाड् डुः । ज्योतीरूपः चैतन्य-विग्रहः । अनेन तद्-अधीशत्वेन कृष्णस्य स्वयं-रूपत्वं परिचीयते, सास्नादिनेव गोर् गोत्वम् । यस्यासौ विलासः, स स्वयम् इत्य् अतस् तस्य स लिङ्गम् उच्यते । या खलु योनिः महद्-आद्य्-उपादान-भूता, सा त्व् अपरा शक्तिः त्रिगुणेत्य् अर्थः ।
हरेः तद्-अंशस्य सङ्कर्षणस्य, कामः तद्-दिदृक्षा-लक्षणः, महद्-आदि-सृष्टि-फलको भवति, ततो बीजं महद् इति । महत् अपरिमितं जीव-तत्त्वं, तस्याम् आहितं भवति । अत इमा **माहेश्वर्यः **प्रजाः, लिङ्ग-योन्य्-आत्मिकाः पुरुष-प्रकृति-कारणिकाः, जाताः कथ्यन्ते । प्रकृतेर् उपसर्जनत्वेन तादधीन्यात् माहेश्वरीर् इति प्रजानाम् इत्य् उपपादयति—शक्तिमान् इत्य् अर्धकेन । अथोक्तार्थम् एव स्फुटयति—तस्मिन्न् इति । लिङ्गे—तद्-अधीशे तत्-सन्निधौ । महा-विष्णुः सङ्कर्षणः ॥३२॥
श्री-विष्णुः, यथा श्री-तृतीये [भा।पु। ३.८.१६]—
तल्-लोक पद्मं स उ एव विष्णुः
प्रावीविशत् सर्व-गुणावभासम् ।
**तस्मिन् स्वयं वेदमयो विधाता
स्वयम्भुवं यं स्म वदन्ति सोऽभूत् ॥ इति ॥३३॥
बलदेवः- **अथ सत्त्व-प्रवर्तकं विष्णुं निर्णयति—श्री-विष्णुर् इति ॥ तल्-लोकेति । स उ एव गर्भोदकशयो विष्णुः प्रद्युम्नः, तल्-लोक-रूपं पद्मं प्रावीविशद् इति स्वार्थिको णिच्, प्राविशद् इत्य् अर्थः । कीदृशं तत् पद्मम्? इत्य् आह—सर्वान् गुणान् भोग्यान् अर्थान् अवभासयतीति तत्, नाना-भोग्य-वस्तूपेतम् इत्य् अर्थः । ब्रह्मवत् रुद्रवच् च विष्णोर् द्वैरूप्यं नास्ति, अतस् तन् नोक्तम् ॥३३॥
यो विष्णुः पठ्यते सोऽसौ क्षीराम्बुधि-शयो मतः ।
गर्भोद-शायिनस् तस्य विलासत्वान् मुनीश्वरैः ।
**नारायणो विराड्-अन्तर्-यामी चायं निगद्यते ॥३४॥
बलदेवः- **लोक-पद्म-प्रविष्ट एष किं नामाभूत्? इत्य् अत्राह—यो विष्णुर् इति । गर्भोदशायी प्रद्युम्नः सहस्र-शीर्षा अनिरुद्धश् चतुर्-भुजः सन् लोक-पद्मं सम्प्रविष्टः क्षीराब्धौ शयानस् तन्-नामाभूद् इत्य् अर्थः ।
नन्व् अस्य पालकस्य विष्णोर् नारायणादि-नामता कुतः? तत्राह—गर्भोदेति । कारण-जलाश्रयत्वं हि नारायणत्वं, तत्त्वाश्रयत्वं वा, तद् उभयम् अस्य यन् निगद्यते, तत् तस्य कारणार्णवशायिनः, गर्भोदशायिनः सतो विलासोऽयं भवति, तस्मात् तत्-तद्-भेदाद् इत्य् अर्थः ॥३४॥
**विष्णु-धर्मोत्तराद्य्-उक्ता याः पुर्योऽजाण्ड-मध्यतः ।
सन्ति विष्णु-प्रकाशानां ताः कथ्यन्ते समासतः ॥३५॥
बलदेवः- **अथास्य क्षीराब्धि-पतेर् अस्मिन् जगद्-अण्डे महत्यो विभूतयः सन्तीति दर्शयितुम् आह—विष्णुधर्मेति ॥३५॥
यथा—
रुद्रोपरिष्टाद् अपरः पञ्चायुत-प्रमाणतः ।
अगम्यः सर्व-लोकानां विष्णु-लोकः प्रकीर्तितः ॥३६॥
तस्योपरिष्टाद् ब्रह्माण्डः काञ्चनोद्दीप्ति-संयुतः ।
मेरोस् तु पूर्व-दिग्-भागे मध्ये तु लवणोदधेः ।
विष्णु-लोको महान् प्रोक्तः सलिलान्तर-संस्थितः ॥३७॥
तत्र स्वपिति घर्मान्ते देव-देवो जनार्दनः ।
लक्ष्मी-सहायः सततं शेष-पर्यङ्कम् आस्थितः ॥३८॥
मेरोश् च पूर्व-दिग्-भागे मध्ये क्षीरार्णवस्य च ।
क्षीराम्बु-मध्यगा शुभ्रा देवस्यान्या तथा पुरी ॥३९॥
लक्ष्मी-सहायस् तत्रास्ते शेषासन-गतः प्रभुः ।
तत्रापि चतुरो मासान् सुप्तस् तिष्ठति वार्षिकान् ॥४०॥
तस्मिन्न् अवाचि दिग्-भागे मध्ये क्षीरार्णवस्य तु ।
योजनानां सहस्राणि मण्डलः पञ्च-विंशतिः ।
श्वेतद्वीपतया ख्यातो द्वीपः परम-शोभनः ॥४१॥
नराः सूर्य-प्रभास् तत्र शीतांशु-सम-दर्शनाः **।
तेजसा दुर्निरीक्ष्याश् च देवानाम् अपि यादव ॥४२॥
बलदेवः- **विष्णु-धर्म-वचनम् उदाहरति, यथेत्यादि8 ॥ रुद्रोपरिष्टात्—रुद्र-लोकस्योपरि ॥ तस्येति विष्णु-लोकस्य । ब्रह्माण्ड इति ब्रह्मणा अम्यते दर्शनाय गम्यते इत्य् अर्थः । अम गत्य्-आदिषु, क्रमान्ताड् डः ॥ अवाचि दक्षिणे ॥३६-४१॥
ब्रह्माण्डे च—
श्वेतो नाम महान् अस्ति द्वीपः क्षीराब्धि-वेष्टितः ।
लक्ष-योजन-विस्तारः सुरम्यः सर्व-काञ्चनः ॥४३॥
कुन्देन्दु-कुमुद-प्रख्यैर् लोल-कल्लोल-राशिभिः ।
धौतामल-शिलोपेतः समन्तात् क्षीर-वारिधेः ॥४४॥ इति ॥
बलदेवः- कुन्देन्दु- इति । क्षीर-वारिधेर् लोल-कल्लोल-राशिभिर् धौतामल-शिलोपेतो द्वीप इत्य् अन्वयः ॥४३-४४॥
**किं च, विष्णु-पुराणादौ मोक्ष-धर्मे च कीर्तितम्—
क्षीराब्धेर् उत्तरे तीरे श्वेत-द्वीपो भवेद् इति ॥४५॥
शुद्धोदाद् उत्तरे श्वेतद्वीपं स्यात् पाद्म-सम्मतम् ॥४६॥
बलदेवः- **श्वेतद्वीपस्य स्थिती मतान्तरे आह—किं च इत्य्-आदिना । तद् इदं कल्प-भेदाद् अवगम्यम् ॥४५-४६॥
**विष्णुः सत्त्वं तनोतीति शास्त्रे सत्त्व-तनुः स्मृतः ।
अवतार-गणश् चास्य भवेत् सत्त्व-तनुस् तथा ।
बहिरङ्गम् अधिष्ठानम् इति वा तस्य तत् तनुः ॥४७॥
बलदेवः- **श्रेयांसि तत्र खलु सत्त्व-तनोर् नृणां स्युः [१.२.२३] इत्य् उक्तं, तत्र विष्णोः सत्त्व-तनुत्वं किं मायिक-सत्त्व-मूर्तित्वं वाच्यं? तथा च सति तद्-उपासनया मुक्तेर् अभावः, आत्मेति तूपगच्छन्ति ग्राहयन्ति च [ब्र।सू। ४.१.२] इति न्यायेनात्म-विग्रहोपासनया मुक्तेर् अभिधानात्, इति चेत्? तत्राह—विष्णुः सत्त्वम् इति । सत्त्व-गुणं विस्तारयन् विष्णुः सत्त्व-तनुर् उच्यते । अस्य क्षीरोदशयस्य विष्णोः अवतार-गणश् च सत्त्व-विस्तारात् सत्त्व-तनुः ।
अथवा, तत् सत्त्वं तस्य बहिरङ्गम् अधिष्ठानं भवति, सत्त्वं यद् ब्रह्म-दर्शनम् [भा।पु। १.२.२४] इत्य् उक्तेः, स्वच्छे शान्ते तत्र तत्-प्रकाशस् तद्-आविर्भूत-तज्-ज्ञान-द्वारा भवतीत्य् अपेक्षया, तत् तस्य तनुर् उच्यते । अन्तर्-अङ्गम् अधिष्ठानं तु वैकुण्ठम् एवेति भावः ॥४७॥
**अतो निर्गुणता सम्यक् सर्व-शास्त्रे प्रसिध्यति ॥४८॥
बलदेवः- **अत इति—स्फुटार्थम् ॥४८॥
तथा हि श्री-दशमे [भा।पु। १०.८८.५]—
हरिर् हि निर्गुणः साक्षात् पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा तं भजन् निर्गुणो भवेत् ॥ इति ॥४९॥
बलदेवः- हरिर् हीति । हरिर् निर्गुणः, सङ्कल्पेनैव सत्त्वस्य प्रवर्तनात् । अतः साक्षात् अनावृतः, न तु ब्रह्मादिवत् तद्-आवृतः, यतः प्रकृतेः परः, न तु तद्वद् इच्छया गृहीत-गुणः । अतः सर्व दृक् सर्वेषां दृक् मोक्ष-हेतुर् ज्ञानं यस्मात् सः । उपद्रष्टा सन्निधौ मुक्तान् पश्यति, मुक्त-गम्य इत्य् अर्थः, न तु तद्वत् मुक्तैस् त्याज्यः । अतस् तं भजन् निर्गुणो भवेत्, निरञ्जनः परमं साम्यम् उपैति [मु। ३.१.२] इति श्रुतेः ॥४९॥
तेन सत्त्व-तनोर् अस्माच् छ्रेयांसि स्युर् इतीरितम्9** ॥५०॥**
स्युर् इतीरितम् " इत्य् अत्र “स्युर् उदीरितम् " इति पाठान्तरम् ।
**बलदेवः- **यत ईदृग् विष्णुः, ततस् तेनेत्य्-आदि । स्फुटार्थम् ॥५०॥
इत्य् अतो विहिता शास्त्रे तद्-भक्तेर् एव नित्यता ॥५१॥
बलदेवः- इत्य् अत इति । उक्त-रीतिकेन निर्गुणत्वेन विष्णोर् एव पारम्यात्, तद्-भक्तेर् नित्यता विहिता । यस्या अकरणे प्रत्यवायः, सा नित्या ॥५१॥
तथा हि पाद्मे—
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
**सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥५२॥
बलदेवः- **अत्र प्रमाणं—स्मर्तव्य इति । एतयोः विष्णु-स्मरण-विस्मरणयोः । सन्ध्योपासनादेर् नित्यत्वेऽपि यथा पितृ-लोकः फलम् अस्ति, एवं भक्तेस् तत्त्वेऽपि विष्णु-लोकस् तद् इति बोध्यम् ॥५२॥
अत एव तत्रैव [प।पु। ५.९३.२६]10—
व्यामोहाय चराचरस्य जगतस् ते ते पुराणागमास्
तां ताम् एव हि देवतां परमिकां जल्पन्तु कल्पावधि ।
सिद्धान्ते पुनर् एक एव भगवान् विष्णुः समस्तागम-
**व्यापारेषु विवेचन-व्यतिकरं नीतेषु निश्चीयते ॥५३॥
बलदेवः- **नन्व् एवं विष्णोर् एव पारम्येण निर्णयो न सम्भवेत्, वादि विप्रतिपत्तेर् जागरूकत्वात्, तत्-तत्-पुराणेषु व्यासोक्तेष्व् एव ब्रह्म-रुद्रादीनाम् अपि पारम्य-दर्शनात्, इति चेत्? तत्राह—अत एवेति । विष्णोर् एव उक्तैः प्रमाणैः पारम्यस्य सिद्धत्वाद् इत्य् अर्थः ।
व्यामोहायेति । चराः देव-मानवादयः, अचराः शैलादयस् तद्-अधिष्ठातारः, तद् रूपस्य जगतः । तां तां ब्रह्म-रुद्रादिकाम् । किन्तु ब्रह्म-सूत्रैस् तद्-भाष्येण च श्री-भागवतेन सिद्धान्ते सति, तेन समस्तागम-व्यापारेषु अभिधा-लक्षणादिषु विवेक-सङ्गतिं नीतेषु, विष्णुर् एव अनावृत-विज्ञानानन्द-मूर्तिः पारम्यवान् निश्चीयते ॥५३॥
रसैक-रङ्गदा- व्यामोहायेति । कल्पावधि इति । तस्यास् तस्या देवतायाः कल्प-पर्यन्तं स्थितत्वात् । **जगतो **जगद्-वर्तिनश् चराचरस्य मनुष्यस्य मनुष्याधिकारत्वात् शास्त्राणाम् । जल्पन्तु सर्व-पुराणागम-महा-वाक्यस्य सम्यग्-विचारायोग्य-पुरुशान् प्रति खण्डशो वदन्त्व् इत्य् अर्थः । **चराचरस्य **इति…॥५३॥
श्री-प्रथम स्कन्धे [भा।पु। १.२.२६]—
**मुमुक्षवो घोर-रूपान् हित्वा भूत-पतीन् अथ ।
नारायण कलाः शान्ता भजन्ति ह्य् अनसूयवः ॥ इति ॥५४॥
बलदेवः- **पारम्यात् विष्णुर् एव भजनीय इत्य् अत्र सद्-आचारम् आह—मुमुक्षव इति । भूत-पतीन् ब्रह्म-रुद्रादीन् । तेषां हाने तासां भजने च हेतुः—घोर-रूपान् इति, शान्ता इति च । अनसूयव इति—
हरिर् एव सदाराध्यः सर्व-देवेश्वरेश्वरः । इतरे ब्रह्म-रुद्राद्या नावज्ञेयाः कदाचन ॥ [पद्म पुराणे] इति स्मृतेः ॥५४॥
**अत्र स्वांशा हरेर् एव कलाः शब्देन कीर्तिताः ॥५५॥
बलदेवः- **अत्रेति । स्वांशाः अनावृत-ज्ञानानन्द-विग्रहत्वात् स्वयं प्रभु-तुल्या मत्स्य-कूर्मादयः ॥५५॥
अतो विधि-हरादीनां निखिलानां सुपर्वणाम् **।
श्री-विष्णोः स्वांश-वर्गेभ्यो न्यूनताभिप्रकाशिता ॥५६॥
बलदेवः- **एवं विष्णोर् भक्तिर् ब्रह्माद्यैर् अप्य् अनुष्ठेयेति भावेनाह—अत इति—विष्णोर् मायानावृत-विज्ञानानन्द-मूर्तित्वाद् इत्य् अर्थः । स्वांश-वर्गेभ्यः—मत्स्यादिभ्यः ॥५६॥
**यथा तत्रैव [भा।पु। १.१८.२१]—
अथापि यत्-पाद-नखावसृष्टं
जगद् विरिञ्चोपहृतार्हणाम्भः ।
सेशं पुनात्य् अन्यतमो मुकुन्दात्
को नाम लोके भगवत्-पदार्थः ॥ इति ॥५७॥
बलदेवः- **ब्रह्माद्योर् ईश्वर-कोटित्वेऽपि रजस्-तमो-वृतत्वेन तादृश-मूर्तित्वाभावात् तादृशान् अवर-देवान् शिक्षयन्तौ तौ तादृश-मूर्तिं विष्णुं भजतः, जीव-कोटित्वे तु सुतराम् इत्य् उदाहरति—अथापीति । विरिञ्चोपहृतार्हणाम्भः यस्य मुकुन्दस्य पाद-नखावसृष्टं सत् । सेशं स-शिवं जगत् पुनाति, ततोऽन्यो भगवत्-पदार्थः को नाम भवेत्? न कोऽपीत्य् अर्थः । तथा च समग्रैश्वर्यादि-षट्कवान् स एवं ब्रह्मादि-सेव्यत्वात् सर्वेषां सेव्य इत्य् अर्थः ॥५७॥
महा-वाराहे च—
मस्त्य-कूर्म-वराहाद्याः समा विष्णोर् अभेदतः ।
ब्रह्माद्यास् त्व् असमाः प्रोक्ताः प्रकृतिस् तु समासमा ॥५८॥ इति ।
बलदेवः- ब्रह्माद्यास् त्व् असमा इति—स्वभाव-भेदाद् इति भावः** । **एवम् अत्रोक्तं रामचन्द्र-कविराजैः—
प्रह्लाद-ध्रुव-रावणानुज-बलि-व्यासाम्बरीषादयो विष्णूपासन यैव पद्मज11-भवादीनां प्रिया जज्ञिरे** । **
“पद्मज” इत्य् अत्र “तेऽपि च” इति पाठान्तरम् । येऽन्ये रावण-बाण-पौण्ड्रक-वृकाः क्रौञ्चान्धकाद्या अमी यद्-भक्ता12 न च तत्-प्रिया न च हरेस् तस्माज् जगद्-वैरिणः ॥
“यद्भक्ता " इत्य् अत्र " यद्भृत्या " इति पाठान्तरम् । शिवो भवतु वैष्णवः किम् अजितोऽपि शैवः स्वयं** ** तथा समतयास्तु वा विधि-हरादि-मूर्ति-त्रयम्** । ** विलोक्य भव-वेधसोः किम् अपि भक्त-वर्ग-क्रमं प्रणम्य शिरसापि तान् वयम् उपेन्द्र-दासान् श्रिताः ॥ इति ॥५८॥
अत्र प्रकृति-शब्देन चिच्-छक्तिर् अभिधीयते ।
**अभिन्न-भिन्न-रूपत्वाद् अस्यैवोक्ता समासमा ॥५९॥
इति पुरुषावतार-गुणावतार-निरूपणम् ।
बलदेवः- **प्रकृति-पदार्थ निश्चेतुम् आह—**अत्रेति । प्रकृति-शब्देनात्र, चिच्-छक्तिः पराख्या स्वरूप-शक्तिः । **या खलु—परास्य शक्तिर् विविधैव श्रूयते स्वाभाविकी ज्ञान-बल-क्रिया च [श्वे। ६.८] इति श्रुत्या,
विष्णु-शक्तिः परा प्रोक्ता क्षेत्र-ज्ञाख्या तथापरा । अविद्या-कर्म-सञ्ज्ञान्या तृतीया शक्तिर् इष्यते ॥ [वि।पु। ६.७.६०]
इति विष्णु-पुराणेन चाभिधीयते** । सा तु अस्यैव विष्णोः अभिन्न-भिन्न-रूपत्वात् समासमा उक्ता वाराह-वचनेन । एतद् अत्र बोध्यम्—अग्नेर् उष्णतेव विष्णोर् अनितरा भवति, परा स्वाभाविकीति तद्-विशेषणात्, स्वरूपश् च स्वभावश् च निसर्गश् च [अमरः] इति पर्याय-शब्दाः । तथापि अस्य शक्तिः इति विशेष-बलात् व्यपदिश्यते, यथा सत्ता सती, भेदो भिन्नः, कालः सर्वदास्ति इत्य्-आदिषु सत्तादीनां सत्ताद्य्-अन्तराभावेऽपि तद्वत्त्वं विद्वद्भिर् उद्घोष्यते । **
ननु तेषु सत्ताद्य्-अन्तराभावेऽपि वस्तु-स्वभावाद् एव तथोक्तिर् इति चेत्? न, स्वभावस्यैवेह विशेष-शब्दितत्वात्** । विशेषश् च भेद-प्रतिनिधिः, न तु भेदः, तं विना विशेषण-विशेष्य-भावादि न स्यात् । न च सत्तासती इत्य्-आदि बुद्धिर् भ्रम एव, “सन् घटः” इत्य्-आदिवद् अबाधात्। न चारोपः, “सिंहो देवदत्तो न” इतिवत्, “सत्ता सती न” इति कदाचिद् अप्य् अव्यवहारात् । स च वस्त्व्-अभिन्नः स्व-निर्वाही चेति नानवस्था । तस्य तादृशत्वं च धर्मि-ग्राहक-प्रमाण-सिद्धं जगत्-कर्तुर् इवेच्छा-ज्ञान-कृतिमत्त्वम् । अस्माद् एव विशेषात् गुण-गुणि-भावो देह-देहि-भावोऽवतारावतारि-भावश् चैकस्य विष्णोर् उल्लसति । अभेदेऽपि सति भेद-कार्य-प्रत्यायको धर्मो विशेषः । **अधिकं त्व् आकर-ग्रन्थान् नेयम् ॥५९॥
इति पुरुषावताराणां गुणावताराणाश् च निरूपणम् ।
(१.३)
- ↩︎
- ↩︎
- ↩︎
-
“तस्य च भेदाः, यथा सात्वत-तन्त्रे” इस् अनोथेर् वेर्सिओन्। ↩︎
-
“एकं तु महतःऽ इत्य् अत्र “प्रथम म तः” इति “आद्यं तु महतः” इति च पाठान्तरम् । ↩︎
-
तन्तु इन् अनोथेर् वेर्सिओन्। ↩︎
-
परमात्म-सन्दर्भस्य १६-अनुच्छेदे शिव-तत्त्वस्य निरूपणं प्राप्यते। ↩︎
-
“उदाहरति, यथेत्यादि " इत्य् अत्र " उदाहर्त, ययेत्यादि " इति पाठान्तरम् । ↩︎
- ↩︎
-
सिन्धौ २.४.१४२ अपि द्रष्टव्यः। ↩︎
- ↩︎
- ↩︎