०१

प्रथम-परिच्छेदः

स्वयं-रूप-विलास-स्वांशावेश-प्रकाश-लक्षण-भगवत्-तत्त्व-निरूपणम् ।

॥ ओं नमः श्री-कृष्णाय ॥1

नमस् तस्मै भगवते कृष्णायाकुण्ठ-मेधसे2** । **

यो धत्ते सर्व-भूतानाम् अभवायोशतीः कलाः ॥१॥
श्रीमद्-बलदेव-विद्याभूषण-विरचिता सारङ्ग-रङ्गदा-

भक्त्याभासेनापि तोषं दधाने धर्माध्यक्षे विश्व-निस्तारि-नाम्नि ।

नित्यानन्दाद्वैत-चैतन्य-रूपे तत्त्वे तस्मिन् नित्यम् आस्तां मतिर् नः ॥

देवाचार्यं यं विदुः सत्-कवित्वे पाराशयं तत्त्व-वादे महान्तः ।

शृङ्गारार्थ-व्यञ्जने व्यास-सूनुं स श्री-रूपः पातु नो भृत्य-वर्गान् ॥

अथ सोऽयं निखिल-शास्त्रार्थ-सारज्ञः श्री-रूपाभिधान-शास्त्र-कृत् सङ्क्षिप्त भागवतामृतं शास्त्रं निर्मिमाणस् तद्-बोध्य-भगवत्-प्रणतिरूपं प्रत्यूह-तृण-राशि-वह्निम् अभीष्ट-पूर्ति-पीयूष-बलाहकं मङ्गलं तावन् निबध्नाति—नमस् तस्मै इति । भगवते

ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः । ज्ञान वैराग्ययोश् चापि षण्णां भग इतीङ्गना ॥ [वि।पु। ६.५.७४]

इति श्री-विष्णु-पुराणोक्त-पूर्णैश्वर्य-षट्क-विशिष्टाय, नित्य-योगे मतुप् । **कृष्णाय-**यशोदा-स्तनन्धयाय । अकुण्ठा मेधा यस्मात्, तस्मै, त्वत्तो ज्ञानं हि जीवानाम् [भा।पु। ११.२२.२८] इति स्मरणात्, तत्त्व-ज्ञान-प्रदाय इत्य् अर्थः । भगवत्ता तस्य स्वयं-सिद्धेति बोधयितुं विशिनष्टि, य इति । धत्ते-प्रकटयति । सर्वेषां भूतानाम् जीवानाम्, अभवाय मोक्षाय, उशतीः कमनीयाः ।

कलाः भागान् स्वांश-कला-विभूति-लक्षणान्—

कला स्यात् मूलरैवृद्धौ शिल्पादाव् अंश-मात्रके । षोडशांशे च चन्द्रस्य कलना-काल-मानयोः ॥ इति मेदिनी ।

यद्यपि निर्भागो भगवांस् तथापि विशेषात्3 सभागः प्रतीयते इत्युत्तरत्र व्यक्तीभावि । चतुः-सन-संवादे वेदस्तवं बदरीशात् उपश्रुतवतो नारदस्य तन् निष्कर्षावेदकम् इदं पद्यं कृष्णस्य मूलवस्तुत्वं स्फुटयति ।

आलस्याद् अप्रवृत्तिः स्यात् पुंसां यद् ग्रन्थ-विस्तरे ।

इतोऽत्र क्रियते सूक्ष्मा टीका भागवतामृते ॥१॥

श्री-वृन्दावन-चन्द्र-तर्कालङ्कार-विरचिता रसिक-रङ्गदा-

नित्यानन्द-मना गदाधर-रसोल्लासी स्वरूप-प्रियोऽ

द्वैताद्वैत-गतिः सनातन-तनुर् गोपाल-रूपाश्रयः ।

श्रीवास-प्रियताकरो नरहरि-प्राणो मुरारि-प्रभू

राधा-भाव-लसद्-द्युतिर् विजयतां श्रीमाञ् शचीनन्दनः ॥१॥

श्री-कृष्ण-तत्-प्रियाग्रण्य-राधिकोत्कर्ष-वर्णनम् ।

जीयाद् भागवत-मतं श्रीमद्-भागवतामृतम् ॥२॥

रागानुगाख्यया भक्त्या तयाविष्कृतया जगत् ।

शर्माब्धौ मज्जितं येन रूपाय करवै नमः ॥३॥

श्री-राधा-चरणो नाम्ना कवीन्द्रो विदुषां वरः ।

चक्रवर्तितया ख्यातो भुवि जीयाद् गुरुर् मम ॥४॥

गुरून् अध्यापकान् वन्दे श्रीमद्-भागवतार्थदान् ।

व्याकरोमि प्रसादाद् यद् इदं भागवतामृतम् ॥५॥

सर्व-शक्ति-वरा राधा कृष्णो भगवतां वरः ।

उपासनानयोः कार्येति निश्चित्य मनीषया ॥६॥

श्रीमद्-रूपाख्य-गोस्वामी भट्ट-गोस्वामि-मुख्यकैः ।

आम्रेडितो रचितवान् इदं भागवतामृतम् ॥७॥

तत्रादौ पूर्व-खण्डेऽस्मिन् कृष्णोत्कर्ष-निरूपणे ।

कृष्णत्वे धर्म-पुत्राय नारदो यन्-नमोऽकरोत् ॥८॥

अन्यून-तद्-विशिष्टादि-शिष्टाचार-प्रदर्शकः ।

तस्मै तत्त्वेऽभेद-भावाद् ग्रन्थकृत् कुरुते नमः ॥९॥

नम इति येनेदृशी श्री-सनन्द-मुखोदिता श्रुति-स्तुतिर् उक्ता तस्मै गुरुत्वेन प्रसिद्धाय श्री-नारायणाय नमोऽस्तु । प्रधानत्वं जीवत्वं च वारयन्न् आह—अकुण्ठ-मेधा यस्येति । तौ हि तन्-मेधाध्यासेन मेधाविनाव् इत्य् अर्थः । तर्हि गुणावतारो विष्णुर् इत्य् आह—उशतीः कमनीयाः, कला अंशान् अंशांशांश् च, नारायण-कलाः शान्ताः [१.५४] इत्य् अत्र अत्र स्वांशा हरेर् एव कला-शब्देन कीर्तिताः [१.५५] इति श्री-ग्रन्थकृच्-चरणैर् व्याख्यातत्वात्, अंशांशस्य कलात्वेन प्रसिद्धत्वाच् च ।

ननु तर्हि पुरुषम् एवायम् इत्य् आह—भगवते ऐश्वर्यादि-षट्क-परिपूर्णाय । ननु, नृसिंह-राम-कृष्णेषु षाड्गुण्यं परिपूरितम् [१.१६] इति पाद्मीय-वचनेन श्री-नृसिंहादि-त्रितय-शक्त्या भगवत्तास्मिन् किं मर्यादयोक्तेत्य् अत आह—कृष्णाय तद्-अवताराय पुरुषावतारत्वेऽपि श्री-कृष्णस्य साक्षाद्-अंशवद् अवतारत्वाद् भगवत्तैव, न परमात्मतेत्य् अर्थः । अत एवोक्तं श्रीधर-स्वामि-चरणैः—

नम इति श्री-कृष्णावतारतया नारायणं नमस्यति । उक्तं हि—एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयं [भा।पु। १.३.२८] इति ॥४६॥

यद् वा, भगवते ऐश्वर्यादि-षड्-अंशवते । यत्र यत्र धर्मिणि यादृग् भगवत्तोचिता, तत्र तत्र तादृग् एव प्रत्येतव्या । यद् उक्तं श्री-शाङ्कर-भाष्ये—धर्मिणम् अपेक्ष्यैव धर्मः कल्पनीय4 इति ।

ननु तस्मिन् परमात्मनि कथं भगस्यांशता वरं कलात्वम् इत्य् अत आह—कृष्णाय पुरुषं निमित्तीकृत्य श्री-कृष्णांशस्यैवावतारायेत्य् अर्थः । अत एव पुराण-जातेषु तयोर् एकात्मत्वेनोक्तिः पुष्टैव । पक्षे तस्मै स्वयं-रूपत्वेन प्रसिद्धाय, कृष्णाय तन्-नाम्ने नराकृति-पर-ब्रह्मणे । यद् उक्तं,

कृषिर् भू-वाचकः शब्दो णश् च निर्वृति-वाचकः । तयोर् ऐक्यं परं ब्रह्म कृष्ण इत्य् अभिधीयते ॥ इति ।

अत्राभिधीयते, न तु लक्ष्यते, न तु व्यज्यत इत्य् अर्थः । अन्यत्र तु पर-ब्रह्मादि-शब्दो द्वितीयात्मजादिषु पुत्रवन् मर्यादया प्रविष्ट इत्य् अर्थः । कीदृशाय भगवते ? भगवत्-पद-शक्यायेत्य् अर्थः ।

ननु श्लोकं श्लोकार्धम् वेत्य् अनेनैव श्री-भागवत-श्लोक-कीर्तनेनैव मङ्गलं भवति किम् अनया परिपाट्या ? इति । सत्यं, तथाप्य् अधिकस्याधिक-फलम् इत्य् अविगीत-शिष्टाचार-परम्परा-प्राप्तं नमस्कार-पद्यम् आदौ दर्शितवान् ॥१॥

ओं नमो भगवते वासुदेवाय ।

कृष्ण-वर्णं त्विषाकृष्णं साङ्गोपाङ्गास्त्र-पार्षदम्

यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः ॥२॥

[भा।पु। ११.५.३२]

**बलदेवः- **अथ कृष्णाविर्भावस्य स्व-साक्षात्-कृत-पादाम्बुजस्य श्री-कृष्ण-चैतन्यस्य विजय-व्यञ्जनं मङ्गलम् । निमि-नृपेण पृष्टः करभाजन-योगी सत्यादि-युगावतारान् उक्त्वा, कलाव् अपि तथा शृणु [भा।पु। ११.५.३१] इति तम् अवधापयन्न् आह—कृष्णेति

सुमेधसः पुरुषाः कलाव् अपि हरिं यजन्ति । कैः? इत्य् आह—सङ्कीर्तन-प्रायैः यज्ञैः अर्चा-विधिभिर् इति । तं कीदृशम्? इत्य् आह—कृष्णो वर्णो रूपं यस्यान्तर् इति शेषः । वर्णो द्विजादि-शुक्लादि-यशो-गुण-कथासु च । इति मेदिनी । त्विषा त्व् अकृष्णं, शुक्लो रक्तस् तथा पीत इदानीं कृष्णतां गतः। [भा।पु। १०.८.१२] इति गर्गोक्ति-पारिशेष्यात्, विद्युद्-गौर-कान्तिकम् इत्य् अर्थः । अङ्ग- इति नित्यानन्दाद्वैतौ । उपाङ्ग- इति श्रीवास-पण्डितादयः । अस्त्राणि अविद्या वनच्छेत्तृत्वात् तत्-समानि भगवन्-नामानि, पार्षदाः—श्री-गदाधर-गोविन्दादयः, तैः सहितम्, इति महा-बलित्वम् अस्य व्यज्यते । गर्ग-वाक्ये पीत इति प्राचीन-तद्-अवतारापेक्षया । अयम् अवतारः श्वेत-वाराह-कल्प-गताष्टा-विंशतितम-वैवस्वत-मन्वन्तरीय-कलौ बोध्या, तत्रत्ये श्री-चैतन्ये एव पद्योक्त-धर्माणां दर्शनात् । अन्येषु कलिषु तु क्वचिच् छ्यामत्वेन, क्वापि शुक-पत्राभत्वेन वावतारस्योक्तेः । स च स च तद्-आविष्टो जीव-विशेष इति, प्रत्यक्ष-रूप-धृग्-देवो दृश्यते न कलौ हरिः [विष्णु-धर्मे] इत्य्-आदि-वाक्यं तद्-विषयम् । तद्-याजिनः सुमेधसस् तु छन्नः कलौ यद् अभवः [भा।पु। ७.९.३८], शुक्लो रक्तस् तथा पीतः [भा।पु। १०.८.१२], कलाव् अपि तथा शृणु [भा।पु। ११.५.३१] इत्य्-आदि-वाक्य-भाव-विदो बोध्याः ।

छन्नत्वं प्रेयसी-त्विषावृतत्वम् । बृहन्-नारदीये चैवम् उक्तम्—

अहम् एव कलौ विप्र नित्यं प्रच्छन्न-विग्रहः । भगवद्-भक्त-रूपेण लोकान् रक्षामि सर्वथा ॥ इति ।

श्रुतिश् चैवम् अभिप्रैति—यदा पश्यः पश्यते रुक्म-वर्णं कर्तारम् ईशं पुरुषं ब्रह्मयोनिम् [मु।उ। ३.१.२] इत्य्-आदिना मुण्डके, महान् प्रभुर् वै पुरुषः सत्त्वस्यैष प्रवर्तकः [श्वे।उ। ३.१२] इति श्वेताश्वतराणाम् उपनिषदि च । यत् तु द्वापरेऽपि क्वचित् स्कान्दे हरि-वंशे च पीतत्वम् उक्तं, तद् अपि कादाचित्कम् अस्तु, हरेर् नानावतारत्वात् ॥२॥

**रसिक-रङ्गदा- **अथ श्रीमान् ग्रन्थकारः स्व-भजन-विभजनावतारं श्री-कृष्ण-चैतन्यं श्री-कृष्ण-नामाख्य-युगावतारं च सङ्क्षेपेण स्तुवन् श्री-करभाजन-वचन-मयं श्री-भागवतीयैकादश-स्कन्ध-पद्यं प्रमाणयन्न् आह—कृष्ण-वर्णेति । त्विषा कान्त्या योऽकृष्णो गौरस् तं, सुमेधसो विचार-पारं दृष्टवन्तो, यजन्ति उपासते । अत्र यजन्तीति वर्तमान-प्रयोगस्यानवच्छिन्नतया तद्-अनुसारिणो वयम् अपि तम् उपास्मह इति द्योत्यते, तेन चात्रोत्क्श्रीअ-कर्मकोपासनयात्म-निष्ठोआपकृष्ट-ज्ञानेन तं प्रति प्रणताः स्म इत्य् अनुव्यज्यते, स्वाप-कर्षकानुकूल-व्यापार-विशेषो नमस्कार इति न्यायात् । अत्र ध्वनेर् ध्वन्य्-अन्तरोद्गाराद् इदम् उत्तमोत्तमं काव्यम् । यद् उक्तम् अलङ्कार-कौस्तुभे—ध्वनेर् ध्वन्य्-अन्तरोद्गारे तद् एव ह्य् उत्तमोत्तमम् [अ।कौ। १.१०] इति ।

कीदृशं कृष्ण-वर्णम् ? कृष्णेत्य् एतौ वर्णौ यस्मिन् तं, यत्र श्री-कृष्ण-चैतन्याख्ये कृष्णत्वाभिव्यञ्जकं कृष्णेति वर्ण-युगलं प्रयुक्तम् अस्तीत्य् अर्थः । श्री-तृतीये श्रीमद्-उद्धव-वाक्ये समाहुता भीष्मक-कन्यया ये श्रियः सवर्णेन बुभूषयैषाम् [भा।पु। ३.३.३] इत्य् अत्र श्री-भावार्थ-दीपिकायां श्रियो रुक्मिण्याः समानं वर्ण-द्वयं वाचकं यस्य स शिर्यः सवर्णो रुक्मीत्य् अपि दृश्यते ।

यद् वा, कृष्णं वर्णयति विवशतया गायति उपदेशकत्वेन गापयति यस् तम् । यद् वा, कृष्ण-वर्णं कृष्ण-नामाख्य-युगावतारो यस्मिन्न् अस्तीति तम्, श्री-यशोदा-नन्दने श्यामावतारवद् अस्मिन् कृष्ण-नामावतारस्य प्रवेशात् ।

अथवा अकृष्णं गौरं यजन्ति । कीदृशम् ? त्विषा स्व-शोभा-विशेषेणैव कृष्ण-वर्णं कृष्णोपदेष्टारम् इत्य् अर्थः । यद्-दर्शनेनैव सर्वेषां हृदयेषु श्री-कृष्णः स्फुरतीत्य् अर्थः । यद् वा,, सर्व-लोक-दृष्टाव् अकृष्णं गौरम् अपि भक्त-विशेष-दृष्टौ त्विषा प्रकाश-विशेषेण कृष्ण-वर्णं तादृश-श्यामसुन्दरम् एव सन्तम् इत्य् अर्थः । तस्मात् तस्मिन् सर्वथा श्री-कृष्णस्यैव प्रकाशात् तस्यैव साक्षाद् आविर्भावः स इत्य् अर्थः ।

अत्र तत्-स्थ-श्याम-गौरादीनां प्राकृत-गुणातिरिक्तत्वात् तथा व्यपदेशे इति मन्तव्यम् । तस्य तु नवम-पदार्थातिरिक्तत्वम् । अत एव,

अन्तः कृष्णं बहिर् गौरं दर्शिताङ्गादि-वैभवम् । कलौ सङ्कीर्तनाद्यैः स्मः कृष्ण-चैतन्यम् आश्रिताः ॥ [तत्त्व-सं। २]

इति भागवत-सन्दर्भारम्भे तादृशतयोक्तिः । व्याख्यान्तरे,

क्वचिच् चतुर्भुजत्वेऽपि न त्यजेत् कृष्ण-रूपताम् । अतः प्रकाश एव स्यात् तस्यासौ द्विभुजस्य च ॥ [१.२३]

इतिवद् अभिमानाभेदे गौरत्वेऽपि प्रकाशत्वम् अविरुद्धम् । गौरस्य भक्ताभिमानत्वेऽपि प्रकाश-विशेषत्वं प्रत्येतव्यम् । श्री-नारद-दृष्ट-योगमाया-वैभवेऽभिमान-भेदेन क्रिया-भेदेऽपि प्रकाश-भेदस्य श्री-स्वामि-चरणैर् अप्य् अङ्गीकारात् । प्रकटाप्रकट-लीलयोस् तु प्रकटाप्रकट-प्रकाश-विशेषत्वं तत्-तल्-लीला-ग्रन्थ-दृष्ट्या मन्तव्यम् । अनादि-धर्मि-भेदस् तयोः कैश्चिन् मन्यते तद् वयं न निश्चिन्मः ।

पुनः कीदृशम् ? साङ्गोपाङ्गेति, अङ्गम् अंशः स तु अत्र श्री-विश्वरूप-नित्यानन्दादिः । उपाङ्गं—अंशांशः स तु अत्र श्रीमद्-अद्वैतेणआदिः महाविष्ण्व्-आत्मकस्य सङ्कर्षणांशत्वात् तच् च तच् च । पार्षदाः—परमान्तरङ्ग-शक्ति-रूपाः श्री-गदाधर-पण्डित-प्रभृतयः परमान्तरङ्ग-भक्त-रूपाः श्री-श्रीवास-मुरारि-प्रभृतयः ।

अस्त्राणीव—पार्षदाः अस्त्र-पार्षदाः शस्त्री श्यामेतिवत् समासः ते च तैः सह वर्तमानम् । तेषां दर्शन-स्पर्शन-सम्भाषणादिभिर् असुर-स्वभावानां कलि-कलिल-जनानाम् अन्तर् मालिन्यादि-शक्र-पराभव-करणाद् अस्त्र-साधर्म्यम् उचितम् उक्तम् ।

कैः ? करणैः यज्ञैः पूजा-सम्भारैः । न यत्र यज्ञेश-मखा महोत्सवाः [भा।पु। ५.१९.२३] इत्य् उक्तेः । कीदृशैः ? सङ्कीर्तनं घन-मूरजादि-वादित्र-पुरःसर-बहु-जन-कर्तृक-श्री-कृष्ण-नाम-लीलाद्य्-उच्चारण-रूपं तत्-प्रधानैः । नाम-रूप-गुणादीनाम् उच्चैर् भाषा तु कीर्तनम् [भ।र।सि। १.२.१४५] इति रसामृत-सिन्धूक्तेः । सं-शब्दस्य सम्यग्-अर्थत्वाच् च । एतत्-प्रमापिका श्रुतिः—कृत-त्रेता-द्वापरेषु ध्यान-यजन-सेवाभिर् यद् अश्नुते तत् कलौ कृष्ण-कीर्त्या इति ।

कृते यद् ध्यायतो विष्णुं त्रेतायां यजतो मखैः । द्वापरे परिचर्यायां कलौ तद् धरि-कीर्तनात् ॥ [भा।पु।१२.३.५२] ध्यायन् कृते यजन् यज्ञैस् त्रेतायां द्वापरेऽर्चयन् । यद् आप्नोति तद् आप्नोति कलौ सङ्कीर्त्य केशवम् ॥ [वि।पु। ६.२.१७] इति स्मृतिश् च ।

कुत्र कलौ ? पूर्वेणान्वयात् वैवस्वत-मन्वन्तरीयाष्टाविंश-चतुर्युगीये कलौ । सर्व-कलौ तु कृष्ण-नामावतारं यजन्ति, तस्य तावत् प्रतिकल्य्-अधिकारात् । एतत्-पक्षे साङ्गोपाङ्गास्त्र-पार्षदम् इति विशेषणं स्पष्टं दीपिका-वर्तनात् प्रत्येतव्यम् । तस्मान् नाना-तन्त्र-विधानेन कलाव् अपि तथा शृणु [भा।पु। ११.५.३१] इत्य् अस्य व्याख्यैवंविधा कार्या । विधीयतेऽनेनेति विधानं न्यायः, तन्त्र-विधानेन तन्त्र-न्यायेन, नाना-कलौ प्रति-कलि-युगे, कृष्ण-वर्णं कृष्ण-नामावतारं यजन्ति, वैवस्वतीयाष्टाविंश-चतुर्युगीय-कलौ तु अकृष्णं गौराङ्गं यजन्तीति । अत एव श्री-स्वामि-चरणैर् अपि अकृष्णम् इन्द्रनीलमणिवद् उज्ज्वलम् ।

अथवा कृष्णं कृष्णा+++ पगे ६

मुखारविन्द-निस्यन्द-मरन्द-भर-तुन्दिला

**ममानन्दं मुकुन्दस्य सन्दुग्धां वेणु-काकली ॥३॥
बलदेवः- **स्वस्य नन्दात्मजैकान्तितां द्योतयंस् तद्-वेणु-नाद-विजय-व्यञ्जनं मङ्गलम् आह—मुखेतिसन्दुग्धां प्रपूरयतु । वेणोः काकली सुखदः सूक्ष्मो नादः, काकली तु कले सूक्ष्मः इत्य् अमरः ॥३॥

**श्री-चैतन्य-मुखोद्गीर्णा हरे-कृष्णेति वर्णकाः ।
मज्जयन्तो जगत् प्रेम्णि विजयन्तां तद्-आह्वयाः ॥४॥
बलदेवः- **अत्र कलौ प्रकटितातिप्रभावत्वात् स्व-प्रभुणा सम्प्रचारितत्वात्, परम-पुमर्थदत्वात्, तद्-रूपत्वाच् च कृष्ण-नाम्नां विजयं मङ्गलम् आह—श्रीति । हरे-कृष्णेति । इति-शब्द आद्य्-अर्थः, इति हेतु-प्रकरण-प्रकाशादि-समाप्तिषु इत्य् अमरोक्तः । तेन द्वात्रिंशद्-अक्षरो नाम-मन्त्रो बोध्यते । तद्-आह्वयाः कृष्ण-नामानि,

हरेर् नाम हरेर् नाम हरेर् नाम एव केवलम् । कलौ नास्त्य् एव नास्त्य् एव नास्त्य् एव गतिर् अन्यथा ॥ [बृहन्-नारदीये]

यज्ञैः सङ्कीर्तन-प्रायैर् यजन्ति हि सुमेधसः [भा।पु। ११.५.३२],

मधुर मधुरम् एतन् मङ्गलं मङ्गलानां सकल-निगम-वल्ली-सत्-फलं चित्-स्वरूपम् । सकृद् अपि परिगीतं श्रद्धया हेलया वा भृगु-वर नर-मात्रं तारयेत् कृष्ण-नाम ॥ [प्रभास-खण्डे] इत्य्-आदिभ्यः ॥४॥

श्रीमत्-प्रभुपदाम्भोजैः श्रीमद्-भागवतामृतम्

**यद् व्यतानि तद् एवेदं सङ्क्षेपेण निषेव्यते ॥५॥
बलदेवः- **ननु भागवतामृतस्य ग्रन्थस्य श्री-सनातन-चरणैः प्रकाशितत्वात् अलम् अनेन प्रयासेन इति चेत्? तत्राह—श्रीमद् इति । विस्तृतस्य तस्य ग्रहणेऽसमर्थानां वैष्णवानां कार्यावहम् इदं, सङ्क्षिप्तत्वात्, इति न निरर्थको मत्-प्रयास इति भावः । निषेव्यते आस्वाद्यते ॥५॥

इदं श्री-कृष्ण-तद्-भक्त-सम्बन्धाद् अमृतं द्विधा

**आदौ कृष्णामृतं तत्र सुहृद्भयः परिवेष्यते ॥६॥
बलदेवः- **ननु भगवतो भागवतानां वा यत् स्वरूप-गुण-निरूपणं, तत् खलु भागवतामृतं भवेत्, तयोर् मध्ये किं प्रथमं निषेव्यं? तत्राह—इदम् इति ।

तत् कथ्यतां महा-भाग! यदि कृष्ण-कथाश्रयम् । अथवास्य पदाम्भोज-मकरन्द-लिहां सताम् ॥ [भा।पु। १.१६.६]

इति श्री शौनक-प्रेरणात् श्री-कृष्णामृतम् आदौ परिवेष्यते, तद्-उत्तरं भक्तामृतम्, इति नापूर्वो मत्-क्रमः ॥६॥

निर्बन्धं युक्ति-विस्तारे मयात्र परिमुञ्चता

**प्रधानत्वात् प्रमाणेषु शब्द एव प्रमाण्यते ॥७॥
बलदेवः- **ननु प्रमाणानि विना प्रमेयाणि न सिध्यन्ति, अतः प्रमेय-निर्णेत्रा भवता प्रमाणानि ग्राह्याणि । तानि च कानि कियन्ति च ? इति चेत्, तत्राह—निर्बन्धम् इति । शब्द एवेति-श्रुति-तद्-अनुसारि-स्मृति-रूप एवेत्य् अर्थः ।

एतद् उक्तं भवति—प्रत्यक्षानुमानोपमान-शब्दार्थापत्त्य्-अनुपलब्धि-सम्भवैतिह्यान्यष्टौ प्रमाणानि तीर्थ-कारैर् उक्तानि । \


(१) तेषु अर्थ-सन्निकृष्टं चक्षुर् आदिकम् इन्द्रियं प्रत्यक्षं, यथा “चक्षुषा घटम् अहं पश्यामि” इत्य् आदौ ।

(२) अथ अनुमिति-करणम् अनुमानम्; परामर्श-जन्य-ज्ञानम् अनुमितिः; व्याप्ति-विशिष्ट-पक्ष-धर्मता-ज्ञानं परामर्शः । व्याप्तिश् च साध्यवद् अन्यावृत्तित्वं, हेतु-समानाधिकरणात्यन्ताभावाप्रतियोगि-साध्य-सामानाधिकरण्यं वा । तद् इदम् अनुमानं “वह्निमान् धूमात्” इत्य्-आदौ वह्न्य्-आदि-ज्ञाने प्रमाणम् ।

(३) उपमिति-करणम् उपमानं, “गो-सदृशो गवयः” इत्य्-आदौ; सञ्ज्ञासञ्ज्ञि-सम्बन्ध-ज्ञानम्—उपमितिः, तत्-करणं सादृश्य-ज्ञानम् ।

(४) आप्त वाक्यं शब्दः, यथा “नदी-तीरे पञ्च तालाः सन्ति” इत्य्-आदिः; यस्माद् वाक्यात् “नदी-तीरं ताल-पञ्चक-युक्तम्” इति शाब्दी प्रमितिः स्यात्, तत् तु अत्र प्रमाणम् ।

(५) असिध्यद् अर्थ-दृष्ट्या साधकान्यार्थ-कल्पनम् अर्थापत्तिः, यथा “दिवा अभुञ्जानस्य पीनत्वं रात्रि-भोजितां कल्पयित्वा साध्यते” ।

(६) अभाव-ग्राहिणी बुद्धिः अनुपलब्धिः, यथा “भू-तले घटानुपलब्ध्या घटाभावो गृह्यते” ।

(७) “शते दशकं सम्भवति” इति बुद्धौ सम्भावना सम्भवः

(८) अज्ञात-वक्तृकं पारम्पर्य-प्रसिद्धम् ऐतिह्यम्; यथा “इह वटे यक्षो निवसति इति इह लोकाः कथयन्ति” इति ॥

एषु प्रत्यक्षम् एकं लोकायतिकस्य चार्वाकस्य देहात्म-वादिनः; तच् च अनुमानं च वैशेषिकस्य; ते च शब्दश् चेति त्रीणि साङ्ख्य-पातञ्जलयोः । तानि च उपमानं चेति नैयायिकस्य । तानि च अर्थापत्त्य्-अनुपलब्धी चेति षट् मीमांसकस्य । तानि च सम्भवैतिह्ये चेति अष्टौ पौराणिकस्य इति । तेषु उपमानं पृथक् न मन्तव्यं, प्रत्यक्षादिष्व् अन्तर् भावत्वात् ।

चक्षुः-सन्निकृष्टस्य गवयस्य गो-सदृशत्व-ज्ञानं प्रत्यक्षं; “गवय-शब्दो गो-सदृशस्याभिधायी” इति ज्ञानम् अनुमानं । “यथा गौस् तथा गवयः” इति वाक्यं तु शब्दं नातिक्रामतीति । अर्थापत्तिश् च न पृथक्, केवल-व्यतिरेकिण्य् अनुमानेऽन्तर् भावात् । “एष रात्रौ भुङ्क्ते, दिवा अभुञ्जानत्वे सति पीनत्वात्, यस् तु रात्रौ न भुङ्क्ते, न स दिवा अभुञ्जानत्वे सति पीनः, यथासौ पीनः, न चायं तथा” इत्य् आपत्तिर् अनुमानम् एव । सम्भवोऽपि न पृथक्, “दशकं शतान्तर् गतं, तद्-अविना-भुतत्वात्” इत्य् अनुमानात् । ऐतिह्यं च प्रत्यक्षेऽन्तः स्यात्, आदिमेन दृष्टत्वात् । अनुपलब्धिश् च न पृथक्, घटाद्य्-अभावस्य विशेषणता-सन्निकर्षेण चाक्षुषत्वात् । इत्थं च प्रत्यक्षानुमान-शब्दाः प्रमाणानि, सम्मतानि च मध्व-मुनिनास्मत्-प्राचा । तानि च लौकिकस्यार्थस्य ग्रहे प्रमाणानि, न त्व् अलौकिकस्य, तेषु भ्रमादि-प्रमातृ-दोष-सङ्क्रमात् । माया-मुण्डावलोके प्रत्यक्षं तत्-काल-वृष्टि-निर्वापित-वह्नौ चिरं धूमोद्गारिणि गिरौ “वह्निमान् धूमात्" इत्य् अनुमानं च व्यभिचरत् प्रतीतम् । आप्त-वाक्यं च तादृग् एव, तत्त्वेन व्याख्यातानां कपिलादि-वाक्यानां मिथः-खण्डनात् । तस्माद् अलौकिक-तत्त्व-प्रमातुर् ममापौरुषं वाक्यं प्रमाणम् । तच् च वेद ऋग्-आदिः, तद् भागश् च पुराणेतिहासात्मा, एवं वा अरे अस्य महतो भूतस्य निश्वसितम् एतद् यद् ऋग् वेदो यजुर् वेदः साम वेदोऽथर्वाङ्गिरस इतिहासः पुराणम् [बृ।आ।उ। ४.४.१०] इति बृहद्-आरण्यकात् । तथापि तद्-भागे शूद्राधिकारः, तन्-निदेशात्, यथा “वर्षासु रथकारोऽग्नीनादधीत” इति रथ-कारस्य सङ्करस्याप्य् अग्न्य्-आधानाङ्गे मन्त्र-मात्रे विधि-सामर्थ्यात् सः ॥७॥

यतस् तैः शास्त्र-योनित्वाद् इति न्याय-प्रदर्शनात् **।
शब्दस्यैव प्रमाणत्वं स्वीकृतं परम-र्षिभिः ॥८॥
बलदेवः- **ननु पुंसां वाञ्छितं न सिध्यति, अवाञ्छितं चापततीति तद्-बाधकस् तत्-साधकश् च वाञ्छितृ-पुं-भिन्नः कश्चित् क्षित्य्-अङ्कुरादीनाम् अस्मद्-असाध्यानां कार्याणां कर्ता महा-शक्तिर् अस्ति, स एवेश्वर उपासितः क्लेशानां हन्तेति वैशेषिकादिभिर् मुनिभिर् अनुमितत्वात् अनुमानं हित्वा शब्दम् एव स्वीकुर्वन् नोपादेय-वाग् भविष्यति इति चेत्? तत्राह—यतस् तैर् इति द्वाभ्याम् । व्यासानुयायिनो हि वयं तन्-मतम् एवानुसरामः, न तु तद्-विरुद्धावहेलनाद् बिभीम इति भावः । शास्त्र-योनित्वात् [वे।सू। १.१.२] इति ब्रह्म-सूत्रम् ।

तस्यायम् अर्थः—परतो नेत्य् आकर्षणीयम् परेशोऽनुमानेन विदित्वोपास्यः, उपनिषदा वा? इति सन्देहे वैशेषिकाद्यैः मन्तव्यः [बृ।आ।उ। ४.४.५] इति श्रुत्या चाङ्गीकृतत्वाद् अनुमानेनैवेति प्राप्ते सति, नानुमानेन विदित्वास उपास्यः । कुतः? शास्त्र-योनित्वाद् इति । शास्त्रम् उपनिषत् तद्-भागश् च भगवद्-गीतं शुक-भाषितं च, योनिः ज्ञान-कारणं यस्य, तत्त्वात् । औपनिषदः पुरुषः…नावेदविन् मनुते तं बृहन्तम् [बृ।आ।उ। ३.९.२६] इत्य्-आदिषु तद्-बोध्यत्वावगमाद् इत्य् अर्थः । योनिः कारणे भग-ताम्रयोः इति हैमः । तैः खलु शुष्केण तर्केण नित्य-ज्ञानेच्छाकृतिको जडो विभुर् ईश्वरः कदाचित् भूतावेश-न्यायेन गृहीत-भौतिक-देहः कृत-कार्यस् तं त्यजेद् इत्य् अनुमितम् । उपनिषदस् तु विज्ञानानन्द-घनः स्वानुबन्धि-ज्ञानादि-गुणः कूटस्थो विचित्रानन्त-शक्तिर् मध्यमोऽपि विभुर् नित्य-दिव्य-धामा नित्य-लीला-परिकर इत्य् आहुः, तद्-अनुयायी व्यासः परम-र्षिः कथं तद्-अनुमानं स्वीकुर्यात् ? इति । तथा च पर-तत्त्व-निरूपणे व्यासस्योपनिषद् एव प्रमाणम् इति सिद्धम् ॥८॥

किं च, तर्काप्रतिष्ठानाद् इति न्याय-विधानतः **।
अमीभिर् एव सुव्यक्तं तर्कस्यानादरः कृतः ॥९॥
बलदेवः- **ननु मन्तव्यः [बृ।आ।उ। ४.४.५] इति श्रुत्यापि स्वीकृतत्वात् व्यासोऽप्य् अनुमानं स्वीकुर्याद् एवेति चेत् ? तत्राह—किं चेति । साङ्ख्येन शुष्क-तर्कम् आश्रित्य पुरुष-विषयके वेदान्त-समन्वये विरोद्धव्ये सतीदं सूत्रम् आह—तर्केति [वे।सू। २.१.११] नेत्य् अनुवर्तते । पुरुष-बुद्धि-वैविध्येन शुष्क-तर्कस्य, अप्रतिष्ठानात् स्थैर्याभावात्, न तेन परमार्थ-वस्तु-निर्णयः स्याद् इत्य् अर्थः । एवम् आह श्रुतिः—नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ [कठ।उ। १.२.९] इति । व्याप्यारोपेण व्यापकारोपस् तर्कः, यद्ययं निर्वह्निः स्यात्, तदा निर्धूमः स्यात् इत्य् एवं रूपः, स च व्याप्ति-शङ्का निरस्यन् अनु मानाङ्गं भवेद् इति तर्क-शब्देनानुमानं ग्राह्यम् । चेद् एवं, तर्हि मन्तव्यः इति श्रुतेः का गतिर् इति चेत् ? स्वानुसारि-तर्क—परा सेति गृहाण, शुष्क-तर्कं परित्यज्य आश्रयस्व श्रुति-स्मृती इति भारत-वाक्यात् । तथा च वेद एव व्यासस्य प्रमाणं, तर्कश् च तद्-अनुसारी न निवार्यते, शुष्क-तर्कस् तु प्रहेय एवेति तद्-अनुयायिनो मे तद् एव ॥९॥

अथोपास्येषु मुख्यत्वं वक्तुम् उत्कर्ष-भूमतः ।

**कृष्णस्य तत्-स्वरूपाणि निरूप्यन्ते क्रमाद् इह ॥१०॥
बलदेवः- **एवं प्रमाणं निरूप्य प्रमेयाणि निरूपयितुं प्रवर्तते—अथेति । उपास्येषु भगवदाविर्भावेषु तद्-आविष्टेषु च मध्ये, उत्कर्ष-भूमतः शक्ति-गुण-विभूति-लीला-हेतुकात् पारम्य-बाहुल्यात्, कृष्णस्य यशोदा-स्तनन्धयस्य । मुख्यत्वं पारम्यं, वक्तुं तस्य स्व-रूपाणि क्रमाद् इह निरूप्यन्ते ॥१०॥

स्वयं-रूपस् तद्-एकात्म-रूप आवेश-नामकः ।
इत्य् असौ त्रिविधं
5** भाति प्रपञ्चातीत-धामसु ॥११॥**

बलदेवः- ननु एकम् एवाद्वयम् इति श्रुतेः, वदन्ति तत् तत्त्व-विदस् तत्त्वं यज् ज्ञानम् अद्वयम् [भा।पु। १.२.११] इति स्मृतेश् च । स्व-रूपाणीति बहुत्वं कथं? तत्राह—स्वयम् इति । असौ कृष्णः** । एकत्वात्यागेनैवाचिन्त्य-शक्त्या नाना-रूप-प्राकट्यात् तद् उक्तिर् नासङ्गताएवं चाथर्वणी श्रुतिः—एको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन् बहुधा यो विभाति [गो।ता।उ। १.२०] इति, स्मृतिश् च, एकानेक स्वरूपाय [वि।पु। १.२.२], बहु-मूर्त्य्-एक-मूर्तिकम् [भा।पु। १०.४०.७] इत्य् आद्यावैदूर्य-मणिवत् दिव्याभिनेतृ-नटवच् चैतद् बोध्यम्पूर्व-पक्ष-वाक्ययोस् तयोस् तद् एकं तत्त्वं विशिष्टम् एव मन्तव्यम्, उत्तरत्र वैशिष्टयस्य व्यक्तेः, तेनाचिन्त्य-शक्तितो बहुत्व-सिद्धिः । प्रपञ्चातीतेषु धामसु**—श्री-गोकुलादिषु परम-व्योमाख्येषु वैकुण्ठ-भेदेषु च, पराख्य-शक्ति-विजृम्भितेष्व् इत्य् अर्थः ॥११॥

तत्र स्वयं-रूपः

**अनन्यापेक्षि यद् रूपं स्वयं-रूपः स उच्यते ॥१२॥
बलदेवः- **स्वयं-रूपस्य लक्षणम् आह—अनन्येतियस्य रूपं स्वरूपम् अनन्यापेक्षि भवति, स स्वयं-रूप इत्य् अर्थः । स्वयं-दासास् तपस्विनः इत्य् अत्र यथा तपस्वि-दास्यम् अन्यापेक्षि न प्रतीयते, किन्तु स्व-मात्रापेक्ष्येव, स्वेनैव सिद्धम् इत्य् अर्थः । तथा च यस्य स्व-रूपं स्वतः-सिद्धं न तु अन्यतो व्यक्तं, स स्वयं-रूप इत्य् अर्थः । एतस्य लक्षणस्य मूलं तु गोप्यस् तपः किम् अचरन् [भा।पु। १०.४४.१४] इत्य्-आदिके श्री-दशम-वाक्ये, अनन्य-सिद्धम् इत्य् एतत् बोध्यम् । इह अन्यत्वं भेद-कार्यं विशेषाद् एव, न तु भेदात्, वस्तुनि भेद-विरहाद् इति बोध्यम् ॥१२॥

यथा ब्रह्म-संहितायाम् [५.१]—
ईश्वरः परम कृष्णः सच्-चिद्-आनन्द-विग्रहः ।
अनादिर् आदि गोविन्दः सर्व-कारण-कारणम् ॥१३॥ इति ।
बलदेवः- तम् उदाहरति—ईश्वर इति । कृष्ण
इति विशेष्यं, तम् आदाय शास्त्रस्य प्रवृत्तत्वात् । स च यशोदा-स्तनन्धयो रूढार्थोऽत्र ग्राह्यः, न तु सत्ताभिन्नानन्दो योगार्थोऽपि, रूढिर् योगम् अपहरति इति न्यायात् । एवम् उक्तं भट्टैः—

लब्धात्मिका सती रूढिर् भवेद् योगापहारिणी** । ** कल्पनीया तु लभते नात्मानं योग-बाधतः ॥ इति ।

नाम-कौमुदी-कृद्भिश् च—कृष्ण-शब्दस्य तमाल-श्यामल-त्विषि यशोदा-स्तनन्धये पर-ब्रह्मणि रूढिः इति योगार्थस्यान्यतो लाभाच् च** । परम ईश्वर** इति विशेषणाभ्याम् अनन्यापेक्षित्व-रूपं तस्य स्वयं त्व् अमुक्तम्, अन्यथा ईश्वर इत्य् एव ब्रूयात्** । इत्थं च विलास-स्वांश-वर्गेभ्यो वैलक्षण्यम्स च किं धातुः ? इत्य् आह—सच्-चिद् इतिचिद्-रूपो य आनन्दः, तद्-भूतो विग्रह इति कर्मधारयः, मूर्त-स्व-प्रकाशानन्द इत्य् अर्थः सन्न् इति सौन्दर्यम् उक्तम्, अतिरम्याङ्ग-सन्निवेश इत्य् अर्थः । एवं च मुक्त-जीवेभ्यो वैलक्षण्यं, तेषां विग्रहात्म-भेद सत्त्वात्सच्-छब्देन सर्वत्रानुवृत्तत्वं नोक्तं, तत्त्वस्य सर्व-कारणत्वोक्त्या प्राप्तेः । **लीलाम् आह—गोविन्द इति, सुरभीर् अभिपालयन्तम् [ब।सं। ५.२९] इत्य् उत्तर-पाठात् गो-पालन-लील इत्य् अर्थः । न चानया न्यूनत्वं—

गोभ्यो यज्ञाः प्रवर्तन्ते गोभ्यो देवाः समुत्थिताः** । ** गोभिर् वेदाः समुद्गीर्णाः स षडङ्ग-पद-क्रमाः ॥ इति गो-सूक्तात् ।** **

नादीयते स्व-विधेयतया न गृह्यते अयम् इत्य् अनादिर् यदूनाम्; आदीयते स्व-विधेयतयेति आदि-व्रजौकसाम्, उपसर्ग घोः किः [पा। ३.३.९२]** । स्वयम् अनादिर् हेतु-शून्यः, अन्येषां त्व् आदिः, इत्य् अर्थस् तु नोक्तः, तस्य उत्तरतो लाभात्लीलान्तरम् आह—सर्वेतिस कारणं करणाधिपाधिपो न चास्य कश्चिज् जनिता न चाधिपः [श्वे। ६.९] इति मन्त्र-वर्णःएषा लीला स्वांश-पुरुष द्वारेति बोध्यम् । **तथा च स्वयं-रूपः कृष्ण इत्य् उदाहृतम् ॥१३॥

**अथ तद्-एकात्म-रूपः—
यद् रूपं तद्-अभेदेन स्वरूपेण विराजते ।
आकृत्य्-आदिभिर् अन्यादृक् स तद् एकात्म-रूपकः ॥
स विलासः स्वांश इति धत्ते भेद-द्वयं पुनः ॥१४॥
बलदेवः- **तद्-एकात्म-रूपस्य लक्षणं—यद् रूपम् इति । तद्-अभेदेन स्वयं-रूपैक्येन । आकृत्य्-आदिभिः अङ्ग-सन्निवेशेन चरितैश् च । अन्यादृक् ततोऽन्य इव दृश्यते, न तु अन्यः । आकृतिः कथिता रूपे सामान्य-वपुषोर् अपि इति विश्वः । इति तद्-एकात्म-रूपः ॥१४॥

**तत्र विलासः—
स्वरूपम् अन्याकारं यत् तस्य भाति विलासतः ।
प्रायेणात्म-समं शक्त्या स विलासो निगद्यते ॥१५॥
बलदेवः- **विलासस्य लक्षणम् आह—स्वरूपम् इति। अन्याकारं विलक्षणाङ्ग-सन्निवेशं । तस्य मूल-रूपस्याव्यवहितस्य । विलासतः लीला-विशेषात् । आत्म-समं स्व-मूल-तुल्यम् । प्रायेण इति—कैश्चित् गुणैर् ऊनम् इत्य् अर्थः । ते च—

लीला प्रेम्णा प्रियाधिक्यं माधुर्ये वेणु-रूपयोः । इत्य् असाधारणं प्रोक्तं गोविन्दस्य चतुष्टयम् ॥ [भ।र।सि। २.१.४२]

**बलदेवः- **इत्य् उक्ता यथा नारायणे न्यूनाः । एवम् अन्यत्र ॥१५॥

**परम-व्योम-नाथस् तु गोविन्दस्य यथा स्मृतः ।
परम-व्योम-नाथस्य वासुदेवश् च यादृशः ॥१६॥
बलदेवः- **उदाहरति—परमेति । प्रमाणम् इह गोलोक-नाम्नि [ब्र।सं। ५.४२] इति ज्ञेयम् । यद्यपि नारायण-वासुदेवयोर् उभयोर् अपि चातुर्भुज्यात श्यामत्वाच् चाकृत्योर् ऐक्यम् इव प्रतीतं, तथापि सेव्य-सेवक-भावतः श्री-राम-भरतयोर् इव प्रागल्भ्य-सङ्कोच-हेतुकं तद्-वैलक्षण्यम् अस्तीति लक्षण-सङ्गतिः ॥१६॥

**स्वांशः—
तादृशो न्यून-शक्तिं यो व्यनक्ति स्वांश ईरितः ।
सङ्कर्षणादिर् मत्स्यादिर् यथा तत्-तत्-स्वधामसु ॥१७॥
बलदेवः- **स्वांशस्य लक्षणम् आह—तादृश इति । विलास-सदृश इति । विलास-सदृशः स्वयं-रूपादि-भिन्न इत्य् अर्थः । यो विलास-शक्तितोऽपि न्यूनां शक्तिं व्यनक्ति—प्रकाशयति, स स्वांश इत्य् अर्थः । नन्व् एतद् अंशांशि-भावाभिधानं स्व-प्राचो मध्व-मुनेर् विरुद्धं, तेन स्वाप्ययात् [ब्र।सू। १.१.९] इति सूत्रे सर्वेषां भगवद्-रूपाणां पूर्णत्व-भाषणाद् इति चेत्? न । तेनैव प्रकाशादिवत् नैवं परः [ब्र।सू। २.३.४४], स्मरन्ति च [ब्र।सू। २.३.४७] इत्य्-आद्य्-अधिकरणे तद्-भावस्य भाषितत्वात् । स्वाप्ययात् इत्य् अस्य भाष्ये तु स्वरूप-सत्-पूर्णत्वम् इत्य् अविरोधः । इहाप्य् अभिधास्यते शक्तेर् व्यक्तिः इत्य्-आदिना ॥१७॥

अथ आवेशः

ज्ञान-शक्त्य्-आदि-कलया यत्राविष्टो जनार्दनः ।
त आवेशा निगद्यन्ते जीवा एव महत्तमाः
6** ॥१८॥ **

**बलदेवः- **आवेश लक्षणम् आह—ज्ञानेतिकलया भागेन ॥ वैकुण्ठेऽपीति । शेषः शय्या-रूपात् अन्यो बोध्यः ॥१८॥

वैकुण्ठेऽपि यथा शेषो नारदः सनकादयः ।
अक्रूर-दृष्टास् ते
7** चामी दशमे परिकीर्तिताः ॥१९॥ **

इति भेद-त्रयम् ॥

बलदेवः- त्रयम् इति—स्वयं-रूप-तद्-एकात्म-रूपावेश-रूपं भेद-त्रयं निरूपितम् इत्य् अर्थः ॥१९॥

**प्रकाशस् तु न भेदेषु गण्यते स हि नो पृथक् ॥२०॥
बलदेवः- **ननु चन्द्रावली-राधिकादीनां रुक्मिणी-सत्यभामादीनां च सद्मसु बहुतया स्थितः कृष्णः स्मर्यते, तेषु बहुषु कोऽंशी कस् त्व् अंश इति चेत्? तत्राह—प्रकाशस् त्व् इति । भेदेषु विलास-स्वांश-रूपेषु प्राग्-उक्तेषु न गण्यते, नान्तर् भवेद् इत्य् अर्थः । हि हेतौ । नो पृथग् इति विशेष-विभातेनाप्य् अन्यत्वेन विशिष्टो न भवेत् ॥२०॥

तथा हि—
अनेकत्र प्रकटता रूपस्यैकस्य यैकदा ।
सर्वथा तत्-स्वरूपैव स प्रकाश इतीर्यते ॥२१॥
बलदेवः- प्रकाश-लक्षणम्
आह—अनेकत्रेति । नन्द-मन्दिरात् वसुदेव-मन्दिराच् च निर्गतः कृष्णस् तासां तासां च मन्दिरेषु युगपत् प्रविष्टो विभातीत्य् एकस्यैव विग्रहस्य युगपद् एव बहुतया विराजमानता, स प्रकाशाख्यो भेदः पूर्वोक्त-भेदेभ्योऽन्य एव । कुतः? इत्य् आह—सर्वथेति । आकृत्या गुणैर् लीलाभिश् चैकरूप्याद् इत्य् अर्थः ॥२१॥

**द्वारवत्यां यथा कृष्णः प्रत्यक्षं प्रति मन्दिरम् ।
चित्रं बतैतद् इत्य्-आदि-प्रमाणेन स सेत्स्यति ॥२२॥
बलदेवः- **उदाहृतिम् आह—द्वारवत्यां यथा इति । इतः-पूर्वं व्रजेऽपि—

कृत्वा तावन्तम् आत्मानं यावतीर् गोप-योषितः । रराम भगवांस् ताभिर् आत्मारामोऽपि लीलया ॥ [भा।पु। १०.३३.१९]

इत्य् एतज् ज्ञेयम् । कृत्वा प्रकाश्य । अपि अवधारणे । पराख्य-शक्ति-रूपाभिस् ताभिः सह रमणम् आत्मारामत्वम् एवेत्य् अन्यत्र विस्तृतम् । चित्रम् इति—एकेन वपुषा युगपत् पृथक् । गृहेषु द्वय्-अष्ट-साहस्रं स्त्रिय एक उदावहत् [भा।पु। १०.६९.२] इति वाक्य-शेषः । अत्रत्यानि पदानि वार्तिकार्थ-ग्रहे समर्थानि द्रष्टव्यानि ॥२२॥

क्वचिच् चतुर्भुजत्वेऽपि न त्यजेत्-कृष्ण-रूपताम्

**अतः प्रकाश एव स्यात् तस्यासौ द्विभुजस्य च ॥२३॥
बलदेवः- **ननु त्याग-भीति-मूर्च्छितां रुक्मिणीम् प्रति चतुर् भुजत्वस्य प्राकट्येनाकृति-भेदात् विलासादित्वे तद्-अन्तः स्यात् ? इति चेत्, तत्राह—क्वचिद् इति । कृष्ण-रूपताम् इति—रूपं स्वभावे सौन्दर्ये इति मेदिनी-कोशात् । यशोदा-स्तनन्धयत्व-स्वभावं न त्यजेतेति तत्-स्वभावस्य तत्र सत्त्वात् न दोषः । तत्रापि द्वि-भुजम् एव तस्य रूपं, यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म नराकृति । [वि।पु। ४.११.२] इत्य्-आदि स्मृतेः । तथापि कदाचित् हासादि-धर्मवत् चतुर् भुजत्वस्य प्रकाशेऽपि तत्-स्वभावस्य तत्र स्थितत्वात् न काचित् विक्षतिः । एवं च सूती-गृहेऽपि तद्-रूप-दर्शनं व्याख्येयम्। अत उक्तं, बभूव प्राकृतः शिशुः [भा।पु। १०.३.४६] इति । प्रकृत्या स्वभावेन व्यक्तः प्राकृत इत्य् अर्थः, शैषिकोऽण् । द्वि-भुजत्वे प्रमाणं तु—

सत्-पुण्डरीक-नयनं मेघाभं वैद्युताम्बरम् । द्वि-भुजं मौन-मुद्राढ्यं वन-मालिनम् ईश्वरम् ॥ [गो।ता।उ। १.१०] इति श्रुतिः ।

न च द्वि-भुजात् चतुर् भुज-रूपं वरीयः,

स्थूलम् अष्ट-भुजं प्रोक्तं सूक्ष्मं चैव चतुर् भुजम् । परन्तु द्वि-भुजं प्रोक्तं तस्माद् एतत् त्रयं यजेत् ॥

इत्य् आनन्दाख्य-संहितोक्ति-व्याकोपात् । वस्तु-भेदाभावात् त्रयं यजेत् इत्य् उक्तम् । द्वि-भुजम् एवेदम् उपास्य-सृष्टत्वं ब्रह्मणा लब्धम् इत्य् आथर्वण्य् उक्तेश् च [गो।ता।उ। १.२६-२७] शान्तोदितत्व-कल्पनं निरस्तम् ॥२३॥

**प्रपञ्चातीत-धामत्वम् एषां शास्त्रे पृथग्-विधे ।
पाद्मीयोत्तर-खण्डादौ व्यक्तम् एव विराजते ॥२४॥
बलदेवः- **प्रभोः सर्वाणि रूपाणि नित्यानीति कैमुत्यं व्यञ्जयन्न् आह—प्रपञ्चेति **। **

या यथा भुवि वर्तन्ते पुर्यो भगवतः प्रियाः । तास् तथा सन्ति वैकुण्ठे तत्-तल्-लीलार्थम् आदृताः ॥ इति स्कान्दात्, वैकुण्ठ-भुवने नित्ये निवसन्ति महोज्ज्वलाः । अवताराः सदा तत्र मत्स्य-कूर्मादयोऽखिलाः ॥

इति पाद्मां च तेषां नित्यत्वं सुव्यक्तम् । इति स्वयंरूप-विलास-स्वांशावेश-प्रकाश-लक्षणं भगवत्-तत्त्वं निरूपितम् ॥२४॥

इति स्वयं-रूप-विलास-स्वांशावेश-प्रकाश-लक्षण-भगवत्-तत्त्व-निरूपणम् ॥
॥१.१॥

॥।

(१.२)


  1. श्रीगणेशाय नमः । ↩︎

  2. कृष्णायामल-कीर्तये इति मूले पाठः । नमस् तस्मै इत्य् एतस्मिन् दशम-स्कन्धीय-पद्ये [भा।पु। १०.८७.४६] अमल-कीर्तये इत्य् अस्यैव पाठस्य विद्यमानतायाम् अपि दुरूह-भगवत्-तत्त्व-निरूपणे प्रवर्तमानेन ग्रन्थ-कृता तद्-अपयोगि-समेधस्त्व-सिद्धये परिवृत्त्या “अकण्ठ-मेधसे" इति विशेषितम् इति सुधीभिर् अवधेयम् ॥ ↩︎

  3. विशेषाद् इति । अनेनैव टीका-कृता स्व-विरचित-श्री-गीता-भूषण-भाष्यस्योपक्रमणिकायां विशेष-लक्षणं निरूपितम्, यथा—विशेषश् च भेद-प्रतिनिधिर् न भेदः । स च भेदाभावेऽपि भेद-कार्यस्य धर्म धर्मि-भावाद् रि व्यवहारस्य हेतुः—सत्तासती भेदाभिन्नः कालः सर्वदास्तिऽ इत्य्-आदिषु विद्वद्भिः प्रतीतः ॥ इति । ↩︎

  4. इदं वचनं तत्र न प्राप्तम्। ↩︎

  5. “त्रिविधं भाति” इत्य् अत्र “त्रिविधो भाति” इति पाठान्तरम् । ↩︎

  6. “महत्-तमाः” इत्य् अत्र “महोत्तमाः” इति पाठान्तरम् ↩︎

  7. “दृष्टास्ते” इत्य् अत्र “दृष्टया ते” इति पाठान्तरम् ↩︎