[१]
भगवद्-भक्ति-भेद-निरूपकः
पूर्व-विभागः
[१।१]
सामान्य-भक्तिः
प्रथम-लहरी
श्री-श्री-राधा-गोविन्द-देवौ विजयेते
अखिल-रसामृत-मूर्तिः प्रसृमर-रुचि-रुद्ध-तारका-पालिः ।
कलित-श्यामा-ललितो राधा-प्रेयान् विधुर् जयति ॥ र्भ्र्स्_१,१।१ ॥
हृदि यस्य प्रेरणया प्रवर्तितो ऽहं वराक-रूपो ऽपि ।
तस्य हरेः पद-कमलं वन्दे चैतन्य-देवस्य ॥ र्भ्र्स्_१,१।२ ॥
विश्राम-मन्दिरत्या तस्य सनातन-तनोर् मद्-ईशस्य ।
भक्ति-रसामृत-सिन्धुर् भवतु सदायम् प्रमोदाय ॥ र्भ्र्स्_१,१।३ ॥
भक्ति-रसामृत-सिन्धौ चरतः परिभूत-काल-जाल-भियः ।
भक्त-मकरान् अशीलित-मुक्ति-नदीकान् नमसामि ॥ र्भ्र्स्_१,१।४ ॥
मीमांसक-बडवाग्नेः कठिनाम् अपि कुण्ठयन्न् असौ ।
स्फुरतु सनातन सुचिरं तव भक्ति-रसामृताम्भोधिः ॥ र्भ्र्स्_१,१।५ ॥
भक्ति-रसस्य प्रस्तुतिर् अखिल-जगङ्-मङ्गल-प्रसङ्गस्य ।
अज्ञेनापि मयास्य क्रियते सुहृदाम् प्रमोदाय ॥ र्भ्र्स्_१,१।६ ॥
एतस्य भगवद्-भक्ति-रसामृत-पयोनिधेः ।
चत्वारह् खलु वक्ष्यन्ते भागाः पूर्वादयः क्रमात् ॥ र्भ्र्स्_१,१।७ ॥
तत्र पूर्वे विभागे ऽस्मिन् भक्ति-भेद-निरूपके ।
अनुक्रमेण वक्तव्यं लहरीणां चतुष्टयम् ॥ र्भ्र्स्_१,१।८ ॥
आद्या सामान्य-भक्त्य्-आढ्या द्वितीया साधनान्विता ।
भावाश्रिता तृतीया च तुर्या प्रेम-निरूपिका ॥ र्भ्र्स्_१,१।९ ॥
तत्रादौ सुष्ठु वैशिष्ट्यम् अस्याः कथयितुं स्फुटम् ।
लक्षणं क्रियते भक्तेर् उत्तमायाः सतां मतम् ॥ र्भ्र्स्_१,१।१० ॥
अन्याभिलाषिता-शून्यं ज्ञान-कर्माद्य्-अनावृतम् ।
आनुकूल्येन कृष्णानुशीलनं भक्तिर् उत्तमा ॥ र्भ्र्स्_१,१।११ ॥
यथा श्री-नारद-पञ्चरात्रे–
सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् ।
हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥ र्भ्र्स्_१,१।१२ ॥
श्री-भागवतस्य तृतीय-स्कन्धे च (३।२९।११-१३)–
अहैतुक्य् अव्यवहिता या भक्तिः पुरुषोत्तमे ॥ र्भ्र्स्_१,१।१३ ॥
सालोक्य-सार्ष्टि-सामीप्य-सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ र्भ्र्स्_१,१।१४ ॥
स एव भक्ति-योगाख्य आत्यन्तिक उदाहृतः ॥ र्भ्र्स्_१,१।१५ ॥
सालोक्येत्यादि-पद्यस्थ-भक्तोत्कर्ष-णिरूपणम् ।
भक्तेर् विशुद्धता-व्यक्त्या लक्षणे पर्यवस्यति ॥ र्भ्र्स्_१,१।१६ ॥
क्लेश-घ्नी शुभदा मोक्ष-लघुता-कृत् सुदुर्लभा ।
सान्द्रानन्द-विशेषात्मा श्री-कृष्णाकर्षिणी च सा ॥ र्भ्र्स्_१,१।१७ ॥
तत्रास्याः क्लेशघ्नत्वम् -
क्लेशास् तु पापं तद्-बीजम् अविद्या चेति ते त्रिधा ॥ र्भ्र्स्_१,१।१८ ॥
तत्र पापम्–
अप्रारब्धं भवेत् पापं प्रारब्धं चेति तद् द्विधा ॥ र्भ्र्स्_१,१।१९ ॥
तत्र अप्रारब्ध-हरत्वम्, यथा एकडशे (११।१४।१९)–
यथाग्निः सुसमिद्धार्चिः करोत्य् एधांसि भस्मसात् ।
तथा मद्-विषया-भक्तिर् उद्धवैनांसि कृत्स्नशः ॥ र्भ्र्स्_१,१।२० ॥
प्रारब्ध-हरत्वम्, यथा तृतीये (३।३३।६)–
यन्-नाम-धेय-श्रवणानुकीर्तनाद्
यत्-प्रह्वणद् यत्-स्मरणाद् अपि क्वचित् ।
श्वादो ऽपि सद्यः सवनाय कल्पते
कुतः पुनस् ते भगवन् नु दर्शनात् ॥ र्भ्र्स्_१,१।२१ ॥
दुर्जातिर् एव सवनायोग्यत्वे कारणम् मतम् ।
दुर्जात्य्-आरम्भकं पापं यत् स्यात् प्रारब्धम् एव तत् ॥ र्भ्र्स्_१,१।२२ ॥
पद्म-पुराने च–
अप्रारब्ध-फलं पापं कूटं बीजं फलोन्मुखम् ।
क्रमेणैव प्रलीयेत विष्णु-भक्ति-रतात्मनाम् ॥ र्भ्र्स्_१,१।२३ ॥
बीज-हरत्वम्, यथा षष्ठे (६।२।१७)–
तैस् तान्य् अघानि पूयन्ते तपो-दान-व्रतादिभिः ।
नाधर्मजं तद्-हृदयं तद् अपीशाङ्घ्रि-सेवया ॥ र्भ्र्स्_१,१।२४ ॥
अविद्या-हरत्वम्, यथा चतुर्थे (४।२२।३९)–
यत्-पाद-पङ्कज-पलाश-विलास-भक्त्या
कर्माशयं ग्रथितम् उद्ग्रथयन्ति सन्तः ।
तद्वन् न रिक्त-मतयो यतयो ऽपि रुद्ध-
स्रोतो-गणास् तम् अरणं भज वासुदेवम् ॥ र्भ्र्स्_१,१।२५ ॥
पाद्मे च–
कृतानुयात्रा-विद्याभिर् हरि-भक्तिर् अनुत्तमा ।
अविद्यां निर्दहत्य् आशु दाव-ज्वालेव पन्नगीम् ॥ र्भ्र्स्_१,१।२६ ॥
शुभदत्वम्–
शुभानि प्रीणनं सर्व-जगताम् अनुरक्तता ।
सद्गुणाः सुखम् इत्य्-आदीन्य् आख्यातानि मनीषिभिः ॥ र्भ्र्स्_१,१।२७ ॥
तत्र जगत्-प्रीणनादिद्वय-प्रदत्वम्, यथा पाद्मे–
येनार्चितो हरिस् तेन तर्पितानि जगन्त्य् अपि ।
रज्यन्ति जन्तवस् तत्र जन्गमाः स्थावरा अपि ॥ र्भ्र्स्_१,१।२८ ॥
सद्-गुणादि-प्रदत्वम्, यथा पञ्चमे (५।१८।१२)–
यस्यास्ति भक्तिर् भगवत्य् अकिञ्चना
सर्वैर् गुणैस् तत्र समासते सुराः ।
हराव् अभक्तस्य कुतो महद्-गुणा
मनोरथेनासति धावतो बहिः ॥ र्भ्र्स्_१,१।२९ ॥
सुख-प्रदत्वम्–
सुखं वैषयिकं ब्राह्मम् ऐश्वरं चेति तत् त्रिधा ॥ र्भ्र्स्_१,१।३० ॥
यथा तन्त्रे–
सिद्धयः परमाश्चर्या भुक्तिर् मुक्तिश् च शाश्वती ।
नित्यं च परमानन्दो भवेद् गोविन्द-भक्तितः ॥ र्भ्र्स्_१,१।३१ ॥
यथा हरि-भक्ति-सुधोदये च–
भूयो ऽपि याचे देवेश त्वयि भक्तिर् दृढास्तु मे ।
या मोक्षान्त-चतुर्वर्ग फलदा सुखदा लता ॥ र्भ्र्स्_१,१।३२ ॥
मोक्ष-लघुताकृत्–
मनाग् एव प्ररूढायां हृदये भगवाद्-रतौ ।
पुरुषार्थास् तु चत्वारास् तृणायन्ते समन्ततः ॥ र्भ्र्स्_१,१।३३ ॥
यथा श्री-नारद-पञ्चरात्रे–
हरि-भक्ति-महा-देव्याः सर्वा मुक्त्य्-आदि-सिद्धयः ।
भुक्त्यश् चाद्भुतास् तस्याश् चेटिकावद् अनुव्रताः ॥ र्भ्र्स्_१,१।३४ ॥ इति ।
सुदुर्लभा–
साधनौघैर् अनासन्गैर् अलभ्या सुचिराद् अपि ।
हरिणा चाश्वदेयेति द्विधा सा स्यात् सुदुर्लभा ॥ र्भ्र्स्_१,१।३५ ॥
तत्र आद्या, यथा तान्त्रे–
ज्ञानतः सुलभा मुक्तिर् भुक्तिर् यज्ञादि-पुण्यतः ।
सेयं साधन-साहस्रैर् हरि-भक्तिः सुदुर्लभा ॥ र्भ्र्स्_१,१।३६ ॥
द्वितीया, यथा पञ्चम-स्कन्धे (५।६।१८)–
राजन् पतिर् गुरुर् अलं भवतां यदूनां
दैवं प्रियः कुल-पतिः क्व च किङ्करो वः ।
अस्त्व् एवम् अङ्ग भजतां भगवान् मुकुन्दो
मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥ र्भ्र्स्_१,१।३७ ॥
सान्द्रानन्द-विशेषात्मा–
ब्रह्मानन्दो भवेद् एष चेत् परार्द्ध-गुणीकृतः ।
नैति भक्ति-सुखाम्भोधेः परमाणु-तुलाम् अपि ॥ र्भ्र्स्_१,१।३८ ॥
यथा, हरि-भक्ति-सुधोदये–
त्वत्-साक्षात्-करणाह्लाद-विशुद्धाब्धि-स्थितस्य मे ।
सुखानि गोष्पदायन्ते ब्राह्माण्य् अपि जगद्-गुरो ॥ र्भ्र्स्_१,१।३९ ॥
तथा भावार्थ-दीपिकायां (१०।८८।११) च–
त्वत्-कथामृत-पाथोधौ विहरन्तो महा-मुदः ।
कुर्वन्ति कृतिनः केचित् चतुर्-वर्गं तृणोपमम् ॥ र्भ्र्स्_१,१।४० ॥
श्री-कृष्णाकर्षिणी–
कृत्वा हरिं प्रेम-भाजं प्रिय-वर्ग-समन्वितम् ।
भक्तिर् वशीकरोतीति श्री-कृष्णाकर्षिणी मता ॥ र्भ्र्स्_१,१।४१ ॥
यथा एकादशे (११।१४।२०)–
न साध्यति माम् योगो न साङ्ख्यं धर्म उद्धव ।
न स्वाध्यायस् तपस् त्यागो यथा भक्तिर् ममोर्जिता ॥ र्भ्र्स्_१,१।४२ ॥
सप्तमे (७।१०।४८) च नारदोक्तौ–
यूयं नृलोके बत भूरि-भागा
लोकं पुनाना मुनयो ऽभियन्ति ।
येषां गृहान् आवसतीति साक्षाद्
गुढं परं ब्रह्म मनुष्य-लिङ्गम् ॥ र्भ्र्स्_१,१।४३ ॥
अग्रतो वक्ष्यमाणायास् त्रिधा भक्तेर् अनुक्रमात् ।
द्विशः षड्भिः पदैर् एतन् माहात्यं परिकीर्तितम् ॥ र्भ्र्स्_१,१।४४ ॥
किं च–
स्वल्पापि रुचिर् एव स्याद् भक्ति-तत्त्वावबोधिका ।
युक्तिस् तु केवला नैव यद् अस्या अप्रतिष्ठता ॥ र्भ्र्स्_१,१।४५ ॥
तत्र प्राचीनैर् अप्य् उक्तम्–
यत्नेनापादितो ऽप्य् अर्थः कुशलैर् अनुमातृभिः ।
अभियुक्ततरैर् अन्यैर् अन्यथैवोपपाद्यते ॥ र्भ्र्स्_१,१।४६ ॥
इति श्री श्री भक्ति-रसामृत-सिन्धौ
पूर्व-भागे भक्ति-सामान्य लहरी प्रथमा
(१।२)
द्वितीया लहरी
साधन-भक्तिः
सा भक्तिः साधनं भावः प्रेमा चेति त्रिधोदिता ॥ र्भ्र्स्_१,२।१ ॥
तत्र साधन-भक्तिः -
कृति-साध्या भवेत् साध्य-भावा सा साधनाभिधा ।
नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥ र्भ्र्स्_१,२।२ ॥
सा भक्तिः सप्तम-स्कन्धे भङ्ग्या देवर्षिणोदिता ॥ र्भ्र्स्_१,२।३ ॥
यथा सप्तमे (७।१।३१)–
तस्मात् केनाप्य् उपायेन मनः कृष्णे निवेशयेत् ॥ र्भ्र्स्_१,२।४ ॥ इति ।
वैधी रागानुगा चेति सा द्विधा साधनाभिधा ॥ र्भ्र्स्_१,२।५ ॥
तत्र वैधी–
यत्र रागानवाप्तत्वात् प्रवृत्तिर् उपजायते ।
शासनेनैव शास्त्रस्य सा वैधी भक्तिर् उच्यते ॥ र्भ्र्स्_१,२।६ ॥
यथ, द्वितीये (२।१।६)–
तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः ।
श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम् ॥ र्भ्र्स्_१,२।७ ॥
पाद्मे च–
स्मर्तव्यः सततं विष्णुर् विस्मर्तव्यो न जातुचित् ।
सर्वे विधि-निषेधाः स्युर् एतयोर् एव किङ्कराः ॥ र्भ्र्स्_१,२।८ ॥
इत्य् असौ स्याद् विधिर् नित्यः सर्व-वर्णाश्रमादिषु ।
नित्यत्वे ऽप्य् अस्य निर्णीतम् एकादश्य्-आदिवत्-फलम् ॥ र्भ्र्स्_१,२।९ ॥
यथा, एकादाशे (११।५।२-३) तु व्यक्तम् एवोक्तम्–
मुख बाहूरु-पादेभ्यः पुरुषस्याश्रमैः सह ।
चत्वारो जज्ञिरे वर्णा गुणैर् विप्रादयः पृथक् ॥ र्भ्र्स्_१,२।१० ॥
य एषां पुरुषं साक्षाद् आत्म-प्रभवम् ईश्वरम् ।
न भजन्त्य् अवजानन्ति स्थानाद् भ्रष्टाः पतन्त्य् अधः ॥ र्भ्र्स्_१,२।११ ॥
तत् फलं च, तत्रैव (११।२७।४९)–
एवं क्रिया-योग-पथैः पुमान् वैदिक-तान्त्रिकैः ।
अर्चन्न् उभ्यतः सिद्धिं मत्तो विन्दत्य् अभीप्सिताम् ॥ र्भ्र्स्_१,२।१२ ॥
पञ्चरात्रे च–
सुरर्षे विहिता शास्त्रे हरिम् उद्दिश्य या क्रिया ।
सैव भक्तिर् इति प्रोक्ता तया भक्तिः परा भवेत् ॥ र्भ्र्स्_१,२।१३ ॥
तत्र अधिकारी–
यः केनाप्य् अतिभाग्येन जात-श्रद्धो ऽस्य सेवने ।
नातिसक्तो न वैराग्य-भाग् अस्याम् अधिकार्य् असौ ॥ र्भ्र्स्_१,२।१४ ॥
यथैकादशे (११।२०।२८)–
यदृच्छया मत्-कथादौ जात-श्रद्धो ऽस्तु यः पुमान् ।
न निर्विण्णो नातिसक्तो भक्ति-योगो ऽस्य सिद्धिदः ॥ र्भ्र्स्_१,२।१५ ॥
उत्तमो मध्यमश् च स्यात् कनिष्ठश् चेति स त्रिधा ॥ र्भ्र्स्_१,२।१६ ॥
तत्र उत्तमः–
शास्त्रे युक्तौ च निपुणः सर्वथा दृढ-निश्चयः ।
प्रौढ-श्रद्धो ऽधिकारी यः स भक्ताव् उत्तमो मतः ॥ र्भ्र्स्_१,२।१७ ॥
तत्र मध्यमः–
यः शास्त्रादिष्व् अनिपुणः श्रद्धावान् स तु मध्यमः ॥ र्भ्र्स्_१,२।१८ ॥
तत्र कनिष्ठः–
यो भवेत् कोमल-श्रद्धः स कनिष्ठो निगद्यते ॥ र्भ्र्स्_१,२।१९ ॥
तत्र गीतादिषूक्तानां चतुर्णाम् अधिकारिणाम् ।
मध्ये यस्मिन् भगवतह् कृपा स्यात् तत्-प्रियस्य वा ॥ र्भ्र्स्_१,२।२० ॥
स क्षीण-तत्-तद्-भावः स्याच् छुद्ध-भक्त्य्-अधिकारवान् ।
यथेभः शौनकादिश् च ध्रुवः स च चतुःसनः ॥ र्भ्र्स्_१,२।२१ ॥
भुक्ति-मुक्ति-स्पृहा यावत् पिशाची हृदि वर्तते ।
तावद् भक्ति-सुखस्यात्र कथम् अभ्युदयो भवेत् ॥ र्भ्र्स्_१,२।२२ ॥
तत्रापि च विशेषेण गतिम् अण्वीम् अनिच्छतः ।
भक्तिर् हृत-मनः-प्राणान् प्रेम्णा तान् कुरुते जनान् ॥ र्भ्र्स्_१,२।२३ ॥
तथा च, तृतीये (३।२५।३६)–
तैर् दर्शनीयावयवैर् उदार-
विलास-हासेक्षित-वाम-सूक्तैः ।
हृतात्मनो हृत-प्राणांश् च भक्तिर्
अनिच्छतो मे गतिम् अण्वीं प्रयुङ्क्ते ॥ र्भ्र्स्_१,२।२४ ॥
श्री कृष्ण-चरणाम्भोज-सेवा-निर्वृत-चेतसाम् ।
एषां मोक्षाय भक्तानां न कदाचित् स्पृहा भवेत् ॥ र्भ्र्स्_१,२।२५ ॥
यथा तत्रैव, श्रीमद्-उद्धवोक्तौ (३।४।१५)–
को न्व् ईश ते पाद-सरोज-भाजां
सुदुर्लभो ऽर्थेषु चतुर्ष्व् अपीह ।
तथापि नाहं प्रवृणोमि भूमन्
भवत्-पदाम्भोज-निषेवणोत्सुकः ॥ र्भ्र्स्_१,२।२६ ॥
तत्रैव, श्रीकपिल-देवोक्तौ (३।२५।३५)–
नैकात्मतां मे स्पृहयन्ति केचिन्
मत्-पाद-सेवाभिरता मद्-ईहाः ।
ये ऽन्योन्यतो भागवताः प्रसज्य
सभाजयन्ते मम पौरुषाणि ॥ र्भ्र्स्_१,२।२७ ॥
तत्रैव (३।२९।१३)–
सालोक्य-सार्ष्टि-सामीप्य- सारूप्यैकत्वम् अप्य् उत ।
दीयमानं न गृह्णन्ति विना मत्-सेवनं जनाः ॥ र्भ्र्स्_१,२।२८ ॥
चतुर्थे श्री-ध्रुवोक्तौ (४।९।१०)–
या निर्वृतिस् तनु-भृतां तव पाद-पद्म-
ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् ।
सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत्
किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥ र्भ्र्स्_१,२।२९ ॥
तत्रैव श्रीमद्-आदिराजोक्तौ (४।२०।२४)–
न कामये नाथ तद् अप्य् अहं क्वचिन्
न यत्र युष्मच्-चरणाम्बुजासवः ।
महत्तमान्तर्-हृदयान् मुख-च्युतो
विधत्स्व कर्णायुतम् एष मे वरः ॥ र्भ्र्स्_१,२।३० ॥
पञ्चमे श्री-शुकोक्तौ (५।१४।४४)–
यो दुस्त्यजान् क्षिति-सुत-स्वजनार्थ-दारान्
प्रार्थ्यां श्रियं सुर-वरैः सदयावलोकाम् ।
नैच्छन् नृपस् तद्-उचितं महतां मधुद्विट्-
सेवानुरक्त-मनसाम् अभवो ऽपि फल्गुः ॥ र्भ्र्स्_१,२।३१ ॥
षष्ठे श्री-वृत्रोक्तौ (६।११।२५)–
न नाक-पृष्ठं न च पारमेष्ठ्यं
न सार्व-भौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
समञ्जस त्वा विरहय्य काङ्क्षे ॥ र्भ्र्स्_१,२।३२ ॥
तत्रैव श्री-रुद्रोक्तौ (६।१७।२८)–
नारायण-पराः सर्वे न कुतश्चन बिभ्यति ।
स्वर्गापवर्ग-नरकेष्व् अपि तुल्यार्थ-दर्शिनः ॥ र्भ्र्स्_१,२।३३ ॥
तत्रैव इन्द्रोक्तौ (६।१८।७४)–
आराधनं भगवत ईहमाना निराशिषः ।
ये तु नेच्छन्त्य् अपि परं ते स्वार्थ-कुशलाः स्मृताः ॥ र्भ्र्स्_१,२।३४ ॥
सप्तमे प्रह्लादोक्तौ (७।६।२५)–
तुष्टे च तत्र किम् अलभ्यम् अनन्त आद्ये
किं तैर् गुण-व्यतिकराद् इह ये स्व-सिद्धाः ।
धर्मादयः किम् अगुणेन च काङ्क्षितेन
सारं जुषां चरणयोर् उपगायतां नः ॥ र्भ्र्स्_१,२।३५ ॥
तत्रैव शक्रोक्तौ (७।८।४२)–
प्रत्यानीताः परम भवता त्रायता नः स्व-भागा
दैत्याक्रान्तं हृदय-कमलं तद्-गृहं प्रत्यबोधि ।
काल-ग्रस्तं कियद् इदम् अहो नाथ शुश्रूषतां ते
मुक्तिस् तेषां न हि बहुमता नारसिंहापरैः किम् ॥ र्भ्र्स्_१,२।३६ ॥
अष्टमे श्री-गजेन्द्रोक्तौ (८।३।२०)–
एकान्तिनो यस्य न कञ्चनार्थं
वाञ्छन्ति ये वै भगवत्-प्रपन्नाः ।
अत्य्-अद्भुतं तच्-चरितं सुमङ्गलं
गायन्त आनन्द-समुद्र-मग्नाः ॥ र्भ्र्स्_१,२।३७ ॥
नवमे श्री-वैकुण्ठनाथोक्तौ (९।४।६७)–
मत्-सेवया प्रतीतं ते सालोक्यादि-चतुष्टयम् ।
नेच्छन्ति सेवया पूर्णाः कुतो ऽन्यत् काल-विप्लुतम् ॥ र्भ्र्स्_१,२।३८ ॥
श्री-दशमे नागपत्नी-स्तुतौ (१०।१६।३७)–
न नाक-पृष्ठं न च सार्व-भौमं
न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
वाञ्छन्ति यत्-पाद-रजः-प्रपन्नाः ॥ र्भ्र्स्_१,२।३९ ॥
तत्रैव श्री-वेद-स्तुतौ (१०।८७।२१)–
दुरवगमात्म-तत्त्व-निगमाय तवात्त-तनोश्
चरित-महामृताब्धि-परिवर्त-परिश्रमणाः ।
न परिलषन्ति केचिद् अपवर्गम् अपीश्वर ते
चरण-सरोज-हंस-कुल-सङ्ग-विसृष्ट-गृहाः ॥ र्भ्र्स्_१,२।४० ॥
एकादशे श्री-भगवद्-उक्तौ (११।२०।३४)–
न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम ।
वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥ र्भ्र्स्_१,२।४१ ॥
तथा (११।१४।१४)–
न पारमेष्ठ्यं न महेन्द्र-धिष्ण्यं
न सार्वभौमं न रसाधिपत्यम् ।
न योग-सिद्धीर् अपुनर्-भवं वा
मय्य् अर्पितात्मेच्छति मद् विनान्यत् ॥ र्भ्र्स्_१,२।४२ ॥
द्वादशे श्री-रुद्रोक्तौ (१२।१०।६)–
नैवेच्छत्य् आशिषः क्वापि ब्रह्मर्षिर् मोक्षम् अप्य् उत ।
भक्तिं परां भगवति लब्धवान् पुरुषे ऽव्यये ॥ र्भ्र्स्_१,२।४३ ॥
पद्म-पुराणे च कार्त्तिक-माहात्म्ये (दामोदराष्टके)–
वरं देव मोक्षं न मोक्षावधिं वा
न चान्यं वृणे ऽहं वरेशाद् अपीह ।
इदं ते वपुर् नाथ गोपाल-बालं
सदा मे मनस्य् अविरास्तां किम् अन्यैः ॥ र्भ्र्स्_१,२।४४ ॥
कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-बद्धौ कृतौ च ।
तथा प्रेम-भक्तिं स्वकां मे प्रयच्छ
न मोक्षे ग्रहो मे ऽस्ति दामोदरेह ॥ र्भ्र्स्_१,२।४५ ॥
हयशीर्षीय-श्री-नारायण-व्यूह-स्तवे च–
न धर्म कामम् अर्थं वा मोक्षं वा वरदेश्वर ।
प्रार्थये तव पादाब्जे दास्यम् एवाभिकामये ॥ र्भ्र्स्_१,२।४६ ॥
तत्रैव–
पुनः पुनर् वरान् दित्सुर् विष्णुर् मुक्तिं न याचितः ।
भक्तिर् एव वृता येन प्रह्लादं तं नमाम्य् अहं ॥ र्भ्र्स्_१,२।४७ ॥
यदृच्छया लब्धम् अपि विष्णोर् दाशरथेस् तु यः ।
नैच्छन् मोक्षं विना दास्यं तस्मै हनुमते नमः ॥ र्भ्र्स्_१,२।४८ ॥
अत एव प्रसिद्धम् श्री-हनुमद्-वाक्यम्–
भव-बन्ध-च्छिदे तस्यै स्पृहयामि न मुक्तये ।
भवान् प्रभुर् अहं दास इति यत्र विलुप्यते ॥ र्भ्र्स्_१,२।४९ ॥
श्री-नारद पञ्चरात्रे च जितन्ते-स्तोत्रे–
धर्मार्थ-काम-मोक्षेषु नेच्छा मम कदाचन ।
त्वत्-पाद-पञ्कजस्याधो जीवितं दीयतं मम ॥ र्भ्र्स्_१,२।५० ॥
मोक्ष-सालोक्य-सारूप्यान् प्रार्थये न धराधर ।
इच्छामि हि महाभाग कारुण्यं तव सुव्रत ॥ र्भ्र्स्_१,२।५१ ॥
अतएव श्री-भागवते षष्ठे (६।१४।५)–
मुक्तानाम् अपि सिद्धानां नारायण-परायणः ।
सुदुर्लभः प्रशान्तात्मा कोटिष्व् अपि महा-मुने ॥ र्भ्र्स्_१,२।५२ ॥
प्रथमे च श्री-धर्मराज-मातुः स्तुतौ (१।८।२०)–
तथा परमहंसानां मुनीनाम् अमलात्मनाम् ।
भक्ति-योग-विधानार्थं कथं पश्येम हि स्त्रियः ॥ र्भ्र्स्_१,२।५३ ॥
तत्रैव श्री-सूतोक्तौ (१।७।१०)–
आत्मारामाश् च मुनयो निर्ग्रन्था अप्य् उरुक्रमे ।
कुर्वन्त्य् अहैतुकीं भक्तिम् इत्थम्-भूत-गुणो हरिः ॥ र्भ्र्स्_१,२।५४ ॥
अत्र त्याज्यतयैवोक्ता मुक्तिः पञ्च-विधापि चेत् ।
सालोक्यादिस् तथाप्य् अत्र भक्त्या नातिविरुध्यते ॥ र्भ्र्स्_१,२।५५ ॥
सुखैश्वर्योत्तरा सेयं प्रेम-सेवोत्तरेत्य् अपि ।
सालोक्यादिर् द्विधा तत्र नाद्या सेवा-जुषं मता ॥ र्भ्र्स्_१,२।५६ ॥
किन्तु प्रेमैक-माधुर्य-जुष एकान्तिनो हरौ ।
नैवाङ्गीकुर्वते जातु मुक्तिं पञ्च-विधाम् अपि ॥ र्भ्र्स्_१,२।५७ ॥
तत्राप्य् एकान्तिनां श्रेष्था गोविन्द-हृत-मानसाः ।
येषां श्रीश-प्रसादो ऽपि मनो हर्तुं न शक्नुयात् ॥ र्भ्र्स्_१,२।५८ ॥
सिद्धान्ततस् त्व् अभेदे ऽपि श्रीश-कृष्ण-स्वरूपयोः ।
रसेनोत्कृष्यते कृष्ण-रूपम् एषा रस-स्थितिः ॥ र्भ्र्स्_१,२।५९ ॥
शास्त्रतः श्रूयते भक्तौ नृ-मात्रस्याधिकारिता ।
सर्वाधिकारितां माघ-स्नानस्य ब्रुवता यतः ।
दृष्तान्तिता वशिष्ठेन हरि-भक्तिर् नृपं प्रति ॥ र्भ्र्स्_१,२।६० ॥
यथा पाद्मे -
सर्वे ऽधिकारिणो ह्य् अत्र हरि-भक्तौ यथा नृप ॥ र्भ्र्स्_१,२।६१ ॥
काशी-खण्डे च तथा–
अन्त्यजा अपि तद्-राष्ट्रे शङ्ख-चक्राङ्क-धारिणः ।
सम्प्राप्य वैष्णवीं दीक्षां दीक्षिता इव सम्बभुः ॥ र्भ्र्स्_१,२।६२ ॥
अपि च–
अननुष्ठानतो दोषो भक्त्य्-अङ्गानां प्रजायते ।
न कर्मणाम् अकरणाद् एष भक्त्य्-अधिकारिणाम् ॥ र्भ्र्स्_१,२।६३ ॥
निषिद्धाचारतो दैवात् प्रायश्चित्तं तु नोचितम् ।
इति वैष्णव-शास्त्राणां रहस्यं तद्-विदां मतम् ॥ र्भ्र्स्_१,२।६४ ॥
यथैकादशे (११।२०।२६, ११।२१।२)–
स्वे स्वे ऽधिकारे या निष्ठा सा गुणः परिकीर्तितः ।
विपर्ययस् तु दोषः स्याद् उभयोर् एष निश्चयः ॥ र्भ्र्स्_१,२।६५ ॥
प्रथमे (१।५।१७)–
त्यक्त्वा स्वधर्मं चरणाम्बुजम् हरेर्
भजन्न् अपक्वो ऽथ पतेत् ततो यदि ।
यत्र क्व वाभद्रम् अभूद् अमुष्य किं
को वार्थ आप्तो ऽभजतां स्व-धर्मतः ॥ र्भ्र्स्_१,२।६६ ॥
एकादशे (११।११।३७)–
आज्ञायैव गुणान् दोषान् मयादिष्टान् अपि स्वकान् ।
धर्मान् सन्त्यज्य यः सर्वान् मां भजेत् स च सत्तमः ॥ र्भ्र्स्_१,२।६७ ॥
तत्रैव (११।५।४१)–
देवर्षि-भूताप्त-नॄणां पितॄणां
न किङ्करो नायम् ऋणी च राजन् ।
सर्वात्मना यः शरणं शरण्यं
गतो मुकुन्दं परिहृत्य कर्तम् ॥ र्भ्र्स्_१,२।६८ ॥
श्री-भगवद्-गीतासु (१८।६६)–
सर्व-धर्मन् परित्याज्य माम् एकं शरणं व्रज ।
अहं त्वां सर्व-पापेभ्यो मोक्षयिष्यामि मा सुचः ॥ र्भ्र्स्_१,२।६९ ॥
अगस्त्य-संहितायाम्–
यथा विधि-निषेधौ तु मुक्तं नैवोपसर्पतः ।
तथा न स्पृशतो रामोपासकं विधि-पूर्वकम् ॥ र्भ्र्स्_१,२।७० ॥
एकादशे एव (११।५।४२)–
स्वपाद-मुलं भजतः प्रियस्य
त्यक्तान्य् अभावस्य हरिः परेशः ।
विकर्म यच् चोत्पतितं कथञ्चिद्
धुनोति सर्वं हृदि सन्निविष्टः ॥ र्भ्र्स्_१,२।७१ ॥
हरि-भक्ति-विलासे ऽस्या भक्तेर् अङ्गानि लक्षशः ।
किन्तु तानि प्रसिद्धानि निर्दिश्यन्ते यथामति ॥ र्भ्र्स्_१,२।७२ ॥
अत्र अङ्ग-लक्षणम् -
आश्रितावान्तरानेक-भेदं केवलम् एव वा ।
एकं कर्मात्र विद्वद्भिर् एकं भक्त्य्-अङ्गम् उच्यते ॥ र्भ्र्स्_१,२।७३ ॥
अथ अङ्गानि–
गुरु-पादाश्रयस् तस्मात् कृष्ण-दीक्षादि-शिक्षणम् ।
विश्रम्भेण गुरोः सेवा साधु-वर्त्मानुवर्तनम् ॥ र्भ्र्स्_१,२।७४ ॥
सद्-धर्म-पृच्छा भोगादि-त्यागः कृष्णस्य हेतवे ।
निवासो द्वारकादौ च गङ्गादेर् अपि सन्निधौ ॥ र्भ्र्स्_१,२।७५ ॥
व्यावहारेषु सर्वेषु यावद्-अर्थानुवर्तिता ।
हरि-वासर-सम्मानो धात्र्य्-अश्वत्थादि-गौरवम् ॥ र्भ्र्स्_१,२।७६ ॥
एषाम् अत्र दशाङ्गानां भवेत् प्रारम्भ-रुपता ॥ र्भ्र्स्_१,२।७७ ॥
सङ्ग-त्यागो विदूरेण भगवद्-विमुखैर् जनैः ।
शिष्याद्य्-अननुबन्धित्वं महारम्भाद्य्-अनुद्यमः ॥ र्भ्र्स्_१,२।७८ ॥
बहु-ग्रन्थ-कलाभ्यास-व्याख्या-वाद-विवर्जनम् ॥ र्भ्र्स्_१,२।७९ ॥
व्यावहारे ऽप्य् अकार्पण्यं शोकाद्य्-अवश-वर्तिता ॥ र्भ्र्स्_१,२।८० ॥
अन्य-देवान् अवज्ञा च भूतानुद्वेग-दायिता ।
सेवा-नामापराधानाम् उद्भवाभाव-कारिता ॥ र्भ्र्स्_१,२।८१ ॥
कृष्ण-तद्-भक्त-विद्वेष-विनिन्दाद्य्-असहिष्णुता ।
व्यतिरेकतयामीषां दशानां स्याद् अनुष्ठितीः ॥ र्भ्र्स्_१,२।८२ ॥
अस्यास् तत्र प्रवेशाय द्वारत्वे ऽप्य् अङ्ग-विंशतेः ।
त्रयां प्रधानम् एवोक्तं गुरु-पादाश्रयादिकम् ॥ र्भ्र्स्_१,२।८३ ॥
धृतिर् वैष्णव-चिह्णानां हरेर् नामाक्षरस्य च ।
निर्माल्यादेश् च तस्याग्रे ताण्डवं दण्डवन्-नतिः ॥ र्भ्र्स्_१,२।८४ ॥
अभ्युत्थानम् अनुव्रज्या गतिः स्थाने परिक्रमः ।
अर्चनं परिचर्या च गीतं सङ्कीर्तनं जपः ॥ र्भ्र्स्_१,२।८५ ॥
विज्ञप्तिः स्तव-पाठश् च स्वादो नैवेद्य-पाद्ययोः ।
धूप-माल्यादि-सौरभ्यं श्री-मूर्तेः स्पृष्टिर् ईक्षणम् ॥ र्भ्र्स्_१,२।८६ ॥
आरात्रिकोत्सवादेश् च श्रवणं तत्-कृपेक्षणम् ।
स्मृतिर् ध्यानं तथा दास्यं सख्यम् आत्म-निवेदनम् ॥ र्भ्र्स्_१,२।८७ ॥
निज-प्रियोपहरणं तद्-अर्थे ऽखिल-चेष्टितम् ।
सर्वथा शरणापत्तिस् तदीयानां च सेवनम् ॥ र्भ्र्स्_१,२।८८ ॥
तदीयास् तुलसी-शास्त्र-मथुरा-वैष्णवादयः ।
यथा-वैभव-सामग्री सद्-गोष्ठीभिर् महोत्सवः ॥ र्भ्र्स्_१,२।८९ ॥
ऊर्जादरो विशेषेण यात्रा जन्म-दिनादिषु ।
श्रद्धा विशेषतः प्रीतिः श्री-मूर्तेर् अङ्घ्रि-सेवने ॥ र्भ्र्स्_१,२।९० ॥
श्रीमद्-भागवतार्थानाम् आस्वादो रसिकैः सह ।
सजातीयाशये स्निग्धे साधौ सङ्गः स्वतो वरे ॥ र्भ्र्स्_१,२।९१ ॥
नाम-सङ्कीर्तनं श्री-मथुरा-मण्डले स्थितिः ॥ र्भ्र्स्_१,२।९२ ॥
अङ्गानां पञ्चकस्यास्य पूर्वं विलिखितस्य च ।
निखिल-श्रैष्ठ्य-बोधाय पुनर् अप्य् अत्र कीर्तनम् ॥ र्भ्र्स्_१,२।९३ ॥
इति काय-हृषीकान्तः-करणानाम् उपासनाः ॥ र्भ्र्स्_१,२।९४ ॥
चतुःषष्टिः पृथक् साङ्घातिक-भेदात् क्रमादिनाः ॥ र्भ्र्स्_१,२।९५ ॥
अथार्षानुमतेनैषाम् उदाहरणम् ईर्यते ॥ र्भ्र्स्_१,२।९६ ॥
१ - तत्र गुरुपादाश्रयो, यथा एकादशे (११।३।२१)–
तस्माद् गुरुं प्रपद्येत जिज्ञासुः श्रेय उत्तमम् ।
शाब्दे परे च निष्णातं ब्रह्मण्य् उपशमाश्रयम् ॥ र्भ्र्स्_१,२।९७ ॥
२ - श्री-कृष्ण-दीक्षादि-शिक्षणम्, यथा तत्रैव (११।३।२२)–
तत्र भागवतान् धर्मान् शिक्षेद् गुर्व्-आत्म-दैवतः ।
अमाययानुवृत्त्या यैस् तुष्येद् आत्मात्म-दो हरिः ॥ र्भ्र्स्_१,२।९८ ॥
३ - विश्रम्भेण गुरोः सेवा, यथा तत्रैव (११।१७।२७)–
आचार्यं मां विजानीयान् नावमन्येत कर्हिचित् ।
न मर्त्य-बुद्ध्यासूयेत सर्व-देव-मयो गुरुः ॥ र्भ्र्स्_१,२।९९ ॥
४ - साधु-वर्त्मानुवर्तनम्, यथा स्कान्दे–
स मृग्यः श्रेयसां हेतुः पन्थाः सन्ताप-वर्जितः ।
अन्वाप्त-श्रमं पूर्वे येन सन्तः प्रतस्थिरे ॥ र्भ्र्स्_१,२।१०० ॥
ब्रह्म-यामले च–
श्रुति-स्मृति-पुराणादि-पञ्चरात्र-विधिं विना ।
ऐकान्तिकी हरेर् भक्तिर् उत्पातायैव कल्पते ॥ र्भ्र्स्_१,२।१०१ ॥
भक्तिर् ऐकान्तिकी वेयम् अविचारात् प्रतीयते ।
वस्तुतस् तु तथा नैव यद् अशास्त्रीयतेक्ष्यते ॥ र्भ्र्स्_१,२।१०२ ॥
५ - सद्-धर्म-पृच्छा, यथा नारदीये–
अचिराद् एव सर्वार्थः सिध्यत्य् एषाम् अभीप्सितः ।
सद्-धर्मस्यावबोधाय येषां निर्बन्धिनी मतिः ॥ र्भ्र्स्_१,२।१०३ ॥
६ - कृष्णार्थे भोगादि-त्यागो, यथा पाद्मे -
हरिम् उद्दिश्य भोगानि काले त्यक्तवतस् तव ।
विष्णु-लोक-स्थिता सम्पद्-अलोला सा प्रतीक्षते ॥ र्भ्र्स्_१,२।१०४ ॥
७ - द्वारकादि-निवासो, यथा स्कान्दे–
संवत्सरं वा षण्मासान् मासं मासार्धम् एव वा ।
द्वारका-वासिनः सर्वे नरा नार्यश् चतुर्भुजाः ॥ र्भ्र्स्_१,२।१०५ ॥
आदि-पदेन पुरुषोत्तम-वासश् च, यथा ब्राह्मे–
अहो क्षेत्रस्य माहात्म्यं समन्ताद् दश-योजनम् ।
दिविष्ठा यत्र पश्यन्ति सर्वान् एव चतुर्भुजान् ॥ र्भ्र्स्_१,२।१०६ ॥
गङ्गादि-वासो, यथा प्रथमे (१।१९।६)–
या वै लसच्-छ्री-तुलसी-विमिश्र-
कृष्णाङ्घ्रि-रेण्व्-अभ्यधिकाम्बु-नेत्री ।
पुनाति सेशान् उभयत्र लोकान्
कस् तां न सेवेत मरिष्यमाणः ॥ र्भ्र्स्_१,२।१०७ ॥
८– यावद्-अर्थानुवर्तिता, यथा नारदीये–
यावता स्यात् स्व-निर्वाहः स्वीकुर्यात् तावद् अर्थ-वित् ।
आधिक्ये न्यूनतायां च च्यवते परमार्थतः ॥ र्भ्र्स्_१,२।१०८ ॥
९ - हरि-वासर-सम्मानो, यथा ब्रह्म-वैवर्ते–
सर्व-पाप-प्रशमनं पुण्यम् आत्यन्तिकं तथा ।
गोविन्द-स्मारणं नॄणाम् एकदश्याम् उपोषणम् ॥ र्भ्र्स्_१,२।१०९ ॥
१० - धात्र्य्-अश्वत्थादि-गौरवम्, यथा स्कान्दे–
अश्वत्थ-तुलसी-धात्री-गो-भूमिसुर-वैष्णवाः ।
पूजिताः प्रणताः ध्याताः क्षपयन्ति नॄणाम् अघम् ॥ र्भ्र्स्_१,२।११० ॥
११ - अथ श्री-कृष्ण-विमुख-जन-सन्त्यागो, यथा कात्यायन-संहितायाम्–
वरं हुत-वह-ज्वाला-पञ्जरान्तर्-व्यवस्थितिः ।
न शौरि-चिन्ता-विमुख-जन-संवास-वैशसम् ॥ र्भ्र्स्_१,२।१११ ॥
विष्णु-रहस्ये च–
आलिङ्गनं वरं मन्ये व्याल-व्याघ्र-जलौकसाम् ।
न सङ्गः शल्य-युक्तानां नाना-देवैक-सेविनाम् ॥ र्भ्र्स्_१,२।११२ ॥
१२ - १३ - १४ - शिष्याननुबन्द्धित्वादि-त्रयम्, यथा सप्तमे (७।१३।८)–
न शिष्यान् अनुबध्नीत ग्रन्थान् नैवाभ्यसेद् बहून् ।
न व्याख्याम् उपयुञ्जीत नारम्भान् आरभेत् क्वचित् ॥ र्भ्र्स्_१,२।११३ ॥
१५ - व्यावहारे ऽप्य् अकार्पण्यम्, यथा पाद्मे–
अलब्धे वा विनष्टे वा भक्ष्याच्छादन-साधने ।
अविक्लव-मतिर् भूत्वा हरिम् एव धिया स्मरेत् ॥ र्भ्र्स्_१,२।११४ ॥
१६– शोकाद्य्-अवश-वर्तिता, यथा तत्रैव–
शोकामर्षादिभिर् भावैर् आक्रान्तं यस्य मानसम् ।
कथं तत्र मुकुन्दस्य स्फूर्ति-सम्भावना भवेत् ॥ र्भ्र्स्_१,२।११५ ॥।
१७- अन्य-देवानज्ञा, यथा तत्रैव–
हरिर् एव सदाराध्यः सर्व-देवेश्वरेश्वरः ।
इतरे ब्रह्म-रुद्राद्या नावज्ञेयाः कदाचन ॥ र्भ्र्स्_१,२।११६ ॥
१८- भूतानुद्वेग-दायिता, यथा महाभारते–
पितेव पुत्रं करुणो नोद्वेजयति यो जनम् ।
विशुद्धस्य हृषीकेशस् तूर्णं तस्य प्रसीदति ॥ र्भ्र्स्_१,२।११७ ॥
१९ - सेवा-नामापराधानां वर्जनम्, यथा वाराहे–
ममार्चनापराधा ये कीर्त्यन्ते वसुधे मया ।
वैष्णवेन सदा ते तु वर्जनीयाः प्रयत्नतः ॥ र्भ्र्स्_१,२।११८ ॥
पाद्मे च–
सर्वापराध-कृद् अपि मुच्यते हरि-संश्रयः ।
हरेर् अप्य् अपराधान् यः कुर्याद् द्विपदपांशुलः ॥ र्भ्र्स्_१,२।११९ ॥
नामाश्रयः कदाचित् स्यात् तरत्य् एव स नामतः ।
नाम्नो हि सर्व-सुहृदो ह्य् अपराधात् पतत्य् अधः ॥ र्भ्र्स्_१,२।१२० ॥
२०- तन्-निन्दाद्य् असहिष्णुता, यथा श्री-दशमे (१०।७४।४०)–
निन्दां भगवतः श्र्ण्वंस् तत्-परस्य जनस्य वा ।
ततो नापैति यः सो ऽपि यात्य् अधः सुकृताच् च्युतः ॥ र्भ्र्स्_१,२।१२१ ॥
२१ - अथ वैष्णव-चिह्ण-धृतिः, यथा पाद्मे–
ये कण्ठ-लग्न-तुलसी-नलिनाक्षा-माला
ये बाहु-मूल-परिचिह्णित-शङ्ख-चक्राः ।
ये वा ललाट-फलके लसद्-ऊर्ध्व-पुण्ड्रास्
ते वैष्णवा भुवनम् आशु पवित्रयन्ति ॥ र्भ्र्स्_१,२।१२२ ॥
२२ - नामाक्षर-धृतिः, यथा स्कान्दे–
हरि-नामाक्षर-युतं भाले गोपी-मृडङ्कितम् ।
तुलसी-मालिकोरस्कं स्पृशेयुर् न यमोद्भटाः ॥ र्भ्र्स्_१,२।१२३ ॥
पाद्मे च–
कृष्ण-नामाक्षरैर् गात्रम् अङ्कयेच् चन्दनादिना ।
स लोक-पावनो भुत्वा तस्य लोकम् अवाप्नुयात् ॥ र्भ्र्स्_१,२।१२४ ॥
२३ - निर्माल्य-धृतिः, यथा एकादशे (११।६।४६)–
त्वयोपयुक्त-स्रग्-गन्ध-वासो ऽलङ्कार-चर्चिताः ।
उच्छिष्ट-भोजिनो दासास् तव मायां जयेमहि ॥ र्भ्र्स्_१,२।१२५ ॥
स्कान्दे च–
कृष्णोत्तीर्णं तु निर्माल्यं यस्याङ्गं स्पृशते मुने ।
सर्व-रोगैस् तथा पापैर् मुक्तो भवति नारद ॥ र्भ्र्स्_१,२।१२६ ॥
२४ - अग्रे ताण्डवम्, यथा द्वारका-माहात्म्ये–
यो नृत्यति प्रहृष्टात्मा भावैर् बहुषु भक्तितः ।
स निर्दहति पापानि मन्वन्तर-शतेष्व् अपि ॥ र्भ्र्स्_१,२।१२७ ॥
तथा श्री-नारदोक्तौ च–
नृत्यतां श्री-पतेर् अग्रे तालिका-वादनैर् भृशम् ।
उड्डीयन्ते शरीर-स्थाः सर्वे पातक-पक्षिणः ॥ र्भ्र्स्_१,२।१२८ ॥
२५– दण्डवन्-नतिः, यथा नारदीये–
एको ऽपि कृष्णाय कृतः प्रणामो
दशाश्वमेधावभृथैर् न तुल्यः ।
दशाश्वमेधी पुनर् एति जन्म
कृष्ण-प्रणामी न पुनर्-भवाय ॥ र्भ्र्स्_१,२।१२९ ॥
२६ - अभ्यूत्थानम्, यथा ब्रह्माण्डे–
यान् आरूढं पुरः प्रेक्ष्य समायान्तं जनार्दनम् ।
अभ्युत्थानं नरः कुर्वन् पातयेत् सर्व-किल्बिषम् ॥ र्भ्र्स्_१,२।१३० ॥
२७ - अनुव्रज्या, यथा भविष्योत्तरे–
रथेन सह गच्छन्ति पार्श्वतः पृष्ठतो ऽग्रतः ।
विष्णुनैव समाः सर्वे भवन्ति श्वपदादयः ॥ र्भ्र्स्_१,२।१३१ ॥
२८ - स्थाने गतिः–
स्थानं तीर्थं गृहं चास्य तत्र तीर्थे गतिर् यथा ॥ र्भ्र्स्_१,२।१३२ ॥
पुराणान्तरे–
संसार-मरु-कान्तार-निस्तार-करण-क्षमौ ।
स्लाघ्यौ ताव् एव चरणौ यौ हरेस् तीर्थ-गामिनौ ॥ र्भ्र्स्_१,२।१३३ ॥
आलये च, यथा हरि-भक्ति-सुधोदये–
प्रवीशन्न् आलयं विष्णोर् दर्शनार्थं सुभक्तिमान् ।
न भूयः प्रविशेन् मातुः कुक्षि-कारागृहं सुधीः ॥ र्भ्र्स्_१,२।१३४ ॥
२९ - परिक्रमो, यथा तत्रैव–
विष्णुं प्रदक्षिनी-कुर्वन् यस् तत्रावर्तते पुनः ।
तद् एवावर्तनं तस्य पुनर् नावर्तते भवे ॥ र्भ्र्स्_१,२।१३५ ॥
स्कान्दे च चतुर्मास्य-माहात्म्ये–
चतुर्-वारं भ्रमीभिस् तु जगत् सर्वं चराचरम् ।
क्रान्तं भवति विप्राग्र्य तत्-तीर्थ-गमनादिकम् ॥ र्भ्र्स्_१,२।१३६ ॥
३० - अथ अर्चनम्–
शुद्धि-न्यासादि-पूर्वाङ्ग-कर्म-निर्वाह-पूर्वकम् ।
अर्चनम् तूपचाराणां स्यान् मन्त्रेणोपपादनम् ॥ र्भ्र्स्_१,२।१३७ ॥
तद्, यथा दशमे (१०।८१।१९)–
स्वर्गापवर्गयोः पुंसां रसायां भुवि सम्पदाम् ।
सर्वासाम् अपि सिद्धीनां मूलं ताच्-चरणार्चनं ॥ र्भ्र्स्_१,२।१३८ ॥
विष्णुरहस्ये च–
श्री-विष्णोर् अर्चनं ये तु प्रकुर्वन्ति नरा भुवि ।
ते यान्ति शाश्वतं विष्णोर् आनन्दं परमं पदम् ॥ र्भ्र्स्_१,२।१३९ ॥
३१ - परिचर्या–
परिचर्या तु सेवोपकरणादि-परिष्क्रिया ।
तथा प्रकीर्णक-च्छत्र-वादित्राद्यैर् उपासना ॥ र्भ्र्स्_१,२।१४० ॥
यथा नारदीये–
मुहूर्तं वा मुहूर्तार्धं यस् तिष्ठेद् धरि-मन्दिरे ।
स याति परमं स्थानं किम् उ शुश्रूषणे रताः ॥ र्भ्र्स्_१,२।१४१ ॥
यथा चतुर्थे (४।२१।३१)–
यत्-पाद-सेवाभिरुचिस् तपस्विनाम्
अशेष-जन्मोपचितं मलं धियः ।
सद्यः क्षिणोत्य् अन्वहम् एधती सती
यथा पदाङ्गुष्ठ-विनिःसृता सरित् ॥ र्भ्र्स्_१,२।१४२ ॥
अङ्गानि विविधान्य् एव स्युः पूजा-परिचर्ययोः ।
न तानि लिखितान्य् अत्र ग्रन्थ-बाहुल्य-भीतितः ॥ र्भ्र्स्_१,२।१४३ ॥
३२ - अथ गीतम्, यथा लैङ्गे–
ब्राह्मणो वासुदेवाख्यं गायमानो ऽनिशं परम् ।
हरेः सालोक्यम् आप्नोति रुद्र-गानाधिकं भवेत् ॥ र्भ्र्स्_१,२।१४४ ॥
३३ - अथ सङ्कीर्तनम्–
नाम-लीला-गुणदीनाम् उच्चैर्-भाषा तु कीर्तनम् ॥ र्भ्र्स्_१,२।१४५ ॥
तत्र नाम-कीर्तनम्, यथा विष्णु-धर्मे–
कृष्णेति मङ्गलं नाम यस्य वाचि प्रवर्तते ।
भस्मीभवन्ति राजेन्द्र महा-पातक-कोटयः ॥ र्भ्र्स्_१,२।१४६ ॥
लीला-कीर्तनम्, यथा सप्तमे (७।९।१८)–
सो ऽहं प्रियस्य सुहृदः परदेवताया
लीला-कथास् तव नृसिम्ह विरिञ्च-गीताः ।
अञ्जस् तितर्म्य् अनुगृणन् गुण-विप्रमुक्तो
दुर्गाणि ते पद-युगालय-हंस-सङ्गः ॥ र्भ्र्स्_१,२।१४७ ॥
गुण-कीर्तनम्, यथा प्रथमे (१।५।२२)–
इदं हि पुंसस् तपसः श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः ।
अविच्युतो ऽर्थः कविभिर् निरूपितो
यद् उत्तमःश्लोक-गुणानुवर्णनम् ॥ र्भ्र्स्_१,२।१४८ ॥
३४ - अथ जपः
मन्त्रस्य सुलघूच्चारो जप इत्य् अभिधीयते ॥ र्भ्र्स्_१,२।१४९ ॥
यथा पाद्मे–
कृष्णाय नम इत्य् एष मन्त्रः सर्वार्थ-साधकः ।
भक्तानां जपतां भूप स्वर्ग-मोक्ष-फल-प्रदः ॥ र्भ्र्स्_१,२।१५० ॥
३५ - अथ विज्ञप्तिः, यथा स्कान्दे–
हरिम् उद्दिश्य यत् किञ्चित् कृतं विज्ञापनं गिरा ।
मोक्ष-द्वारार्गलान् मोक्षस् तेनैव विहितस् तव ॥ र्भ्र्स्_१,२।१५१ ॥
सम्प्रार्थनात्मिका दैन्य-बोधिका लालसामयी ।
इत्य् आदिर् विविधा धीरैः कृष्णे विज्ञप्तिर् ईरिता ॥ र्भ्र्स्_१,२।१५२ ॥
तत्र सम्प्रार्थनात्मिका, यथा पाद्मे–
युवतीनां यथा यूनि यूनां च युवतौ यथा ।
मनो ऽभिरमते तद्वन् मनो ऽभिरमतां त्वयि ॥ र्भ्र्स्_१,२।१५३ ॥
दैन्य-बोधिका, यथा तत्रैव–
मत्-तुल्यो नास्ति पापात्मा नापराधी च कश्चन ।
परिहारे ऽपि लज्जा मे किं ब्रूवे पुरुषोत्तम ॥ र्भ्र्स्_१,२।१५४ ॥
लालसामयी, यथा श्री-नारद-पञ्चरात्रे–
कदा गम्भीरया वाचा श्रिया युक्तो जगत्-पते ।
चामर-व्यग्र-हस्तं माम् एवं कुर्व् इति वक्ष्यसि ॥ र्भ्र्स्_१,२।१५५ ॥
यथा वा–
कदाहं यमुना-तीरे नामानि तव कीर्तयन् ।
उद्बाष्पः पुण्डरीकाक्ष रचयिष्यामि ताण्डवम् ॥ र्भ्र्स्_१,२।१५६ ॥
३६ - अथ स्तव-पाठः–
प्रोक्ता मनीषिभिर् गीता-स्तव-राजादयः स्तवाः ॥ र्भ्र्स्_१,२।१५७ ॥
यथा स्कान्दे–
श्री-कृष्ण-स्तव-रत्नौघैर् येषां जिह्वा त्व् अलङ्कृता ।
नमस्या मुनि-सिद्धानां वन्दनीया दिवौकसाम् ॥ र्भ्र्स्_१,२।१५८ ॥
नारसिंहे च–
स्तोत्रैः स्तवश् च देवाग्रे यः स्तौति मधुसूदनम् ।
सर्व-पाप-विनिर्मुक्तो विष्णु-लोकम् अवाप्नुयात् ॥ र्भ्र्स्_१,२।१५९ ॥
३७ - अथ नैवेद्यास्वादो, यथा पाद्मे–
नैवेद्यम् अन्नं तुलसी-विमिश्रं
वीशेषतः पाद-जलेन सिक्तम् ।
यो ऽश्नाति नित्यं पुरतो मुरारेः
प्राप्णोति यज्ञायुत-कोटि-पुण्यम् ॥ र्भ्र्स्_१,२।१६० ॥
३८ - अथ पाद्यास्वादो, यथा तत्रैव–
न दानं न हविर् येषां स्वाध्यायो न सुरार्चनम् ।
ते ऽपि पादोदकं पीत्वा प्रयान्ति परमां गतिम् ॥ र्भ्र्स्_१,२।१६१ ॥
३९ - अथ धूप-सौरभ्यम्, यथा हरि-भक्ति-सुधोदये–
आघ्राणं यद् धरेर् दत्त-धूपोच्छिष्टस्य सर्वतः ।
तद्-भव-व्याल-दष्टानां नस्यं कर्म विषापहम् ॥ र्भ्र्स्_१,२।१६२ ॥
अथ माल्य-सौरभ्यम्, यथा तन्त्रे–
प्रविष्टे नासिका-रन्ध्रे हरेर् निर्माल्य-सौरभे ।
सद्यो विलयम् आयाति पाप-पञ्जर-बन्धनम् ॥ र्भ्र्स्_१,२।१६३ ॥
अगस्त्य-संहितायां च–
आघ्राणं गन्ध-पुष्पादेर् अर्चितस्य तपोधन ।
विशुद्धिः स्याद् अनन्तस्य घ्राणस्येहाभिधीयते ॥ र्भ्र्स्_१,२।१६४ ॥
४० - अथ श्री-मूर्तेः स्पर्शनम्, यथा विष्णु-धर्मोत्तरे–
स्पृस्ट्वा विष्णोर् अधिष्ठानं पवित्रः श्रद्धयान्वितः ।
पाप-बन्धैर् विनिर्मुक्तः सर्वान् कामान् अवाप्नुयात् ॥ र्भ्र्स्_१,२।१६५ ॥
४१ - अथ श्री-मूर्तेर् दर्शनम्, यथा वाराहे–
वृन्दावने तु गोविन्दं ये पश्यन्ति वसुन्धरे ।
न ते यम-पुरं यान्ति यान्ति पुण्य-कृतां गतिम् ॥ र्भ्र्स्_१,२।१६६ ॥
४२ - आरात्रिक-दर्शनम्, यथा स्कान्दे–
कोटयो ब्रह्म-हत्यानाम् अगम्यागम-कोटयः ।
दहत्य् आलोक-मात्रेण विष्णोः सारात्रिकं मुखम् ॥ र्भ्र्स्_१,२।१६७ ॥
उत्सव-दर्शनम्, यथा भविष्योत्तरे–
रथ-स्थं ये निरीक्षन्ते कौतिकेनापि केशवम् ।
देवतानां गणाः सर्वे भवन्ति श्वपचादयः ॥ र्भ्र्स्_१,२।१६८ ॥
आदि-शब्देन पूजा-दर्शनम्, यथाग्नेये–
पूजितं पूज्यमानं वा यः पश्येद् भक्तितो हरिम् ॥ र्भ्र्स्_१,२।१६९ ॥
४३ - अथ श्रवणम्
श्रवणं नाम-चरित-गुणादीनां श्रुतिर् भवेत् ॥ र्भ्र्स्_१,२।१७० ॥
तत्र नाम-श्रवणम्, यथा गारुडे–
संसार-सर्प-दष्ट-नष्ट-चेष्टैक-भेषजम् ।
कृष्णेति वैष्णवं मन्त्रं श्रुत्वा मुक्तो भवेन् नरः ॥ र्भ्र्स्_१,२।१७१ ॥
चरित्र-श्रवणम्, यथा चतुर्थे (४।२९।४१)–
तस्मिन् महन्-मुखरिता मधुभिच्-चरित्र-
पीयूष-शेष-सरितः परितः स्रवन्ति ।
ता ये पिबन्त्य् अवितृषो नृप गाढ-कर्णैस्
तान् न स्पृशन्त्य् अशन-तृड्-भय-शोक-मोहाः ॥ र्भ्र्स्_१,२।१७२ ॥
गुण-श्रवणम्, यथा द्वादशे (१२।३।१५)–
यस् तूत्तमःश्लोक-गुणानुवादः
सङ्गीयते ऽभीक्ष्णम् अमङ्गल-घ्नः ।
तम् एव नित्यं शृणुयाद् अभीक्ष्णं
कृष्णे ऽमलां भक्तिम् अभीप्समानः ॥ र्भ्र्स्_१,२।१७३ ॥
अथ तत्-कृपेक्षणम्, यथा दशमे (१०।१४।८)–
तत् ते ऽनुकम्पां सुसमीक्षमाणो
भुञ्जान एवात्म-कृतं विपाकम् ।
हृद्-वाग्-वपुर्भिर् विदधन् नमस् ते
जीवेत यो मुक्ति-पदे स दाय-भाक् ॥ र्भ्र्स्_१,२।१७४ ॥
अथ स्मृतिः–
यथा कथं चिन्-मनसा सम्बन्धः स्मृतिर् उच्यते ॥ र्भ्र्स्_१,२।१७५ ॥
यथा विष्णु-पुराणे (५।१७।१७)–
स्मृते सकल-कल्याण-भाजनं यत्र जायते ।
पुरुषं तम् अजं नित्यं व्रजामि शरणं हरिम् ॥ र्भ्र्स्_१,२।१७६ ॥
यथा च पाद्मे–
प्रयाणे चाप्रयाणे च यन्-नाम स्मरतां नॄणाम् ।
सद्यो नश्यति पापौघो नमस् तस्मै चिद्-आत्मने ॥ र्भ्र्स्_१,२।१७७ ॥
अथ ध्यानम्–
ध्यानम् रुप-गुण-क्रीडा-सेवादेः सुष्ठु चिन्तनम् ॥ र्भ्र्स्_१,२।१७८ ॥
तत्र रूप-ध्यानम्, यथा नारसिंहे–
भगवच्-चरण-द्वन्द्व-ध्यानं निर्द्वन्द्वम् ईरितम् ।
पापिनो ऽपि प्रसङ्गेन विहितं सुहितं परम् ॥ र्भ्र्स्_१,२।१७९ ॥
गुण-ध्यानम्, यथा विष्णुधर्मे–
ये कुर्वन्ति सदा भक्त्या गुणानुस्मरणं हरेः ।
प्रक्षीण-कलुषौघास् ते प्रविशन्ति हरेः पदम् ॥ र्भ्र्स्_१,२।१८० ॥
क्रीदा-ध्यानम्, यथा पद्मे–
सर्व-माधुर्य-साराणि सर्वाद्भुतमयानि च ।
ध्यायन् हरेश् चरित्राणि ललितानि विमुच्यते ॥ र्भ्र्स्_१,२।१८१ ॥
सेवा-ध्यानम्, यथा पुराणान्तरे–
मानसेनोपचारेन परिचर्य हरिं सदा ।
परे वाङ्-मनसाऽगम्यं तं साक्षात् प्रतिपेदिरे ॥ र्भ्र्स्_१,२।१८२ ॥
अथ दास्यम्–
दास्यं कर्मार्पणं तस्य कैङ्कर्यम् अपि सर्वथा ॥ र्भ्र्स्_१,२।१८३ ॥
तत्र आद्यं यथा स्कान्दे–
तस्मिन् समर्पितं कर्म स्वाभाविकम् अपीश्वरे ।
भवेद् भागवतो धर्मस् तत्-कर्म किमुतार्पितम् ॥ र्भ्र्स्_१,२।१८४ ॥
कर्म स्वाभाविकं भद्रं जप-ध्यानार्चनादि च ।
इतीदं द्विविधं कृष्णे वैष्णवैर् दास्यम् अर्पितम् ॥ र्भ्र्स्_१,२।१८५ ॥
मृदु-श्रद्धस्य कथिता स्वल्पा कर्माधिकारिता ।
तद्-अर्पितं हरौ दास्यम् इति कैश्चिद् उदीर्यते ॥ र्भ्र्स्_१,२।१८६ ॥
द्वितियम्, यथा नारदीये–
ईहा यस्य हरेर् दास्ये कर्मणा मनसा गिरा ।
निखिलास्व् अप्य् अवस्थासु जीवन्-मुक्तः स उच्यते ॥ र्भ्र्स्_१,२।१८७ ॥
अथ सख्यम्–
विश्वासो मित्र-वृत्तिश् च सख्यं द्विविधम् ईरितम् ॥ र्भ्र्स्_१,२।१८८ ॥
तत्र आद्यम्, यथा महाभारते–
प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति ।
इति संस्मृत्य संस्मृत्य प्राणान् सन्धारयाम्य् अहम् ॥ र्भ्र्स्_१,२।१८९ ॥
तथा एकादशे (११।२।५३) च–
त्रि-भुवन-विभव-हेतवे ऽप्य् अकुण्ठ-
स्मृतिर् अजितात्म-सुरादिभिर् विमृग्यात् ।
न चलति भगवत्-पदारविन्दाल्
लव-निमिषार्धम् अपि यः स वैष्णवाग्र्यः ॥ र्भ्र्स्_१,२।१९० ॥
श्रद्धा-मात्रस्य तद्-भक्ताव् अधिकारित्व-हेतुता ।
अङ्गत्वम् अस्य विश्वास-विशेषस्य तु केशवे ॥ र्भ्र्स्_१,२।१९१ ॥
द्वितीयम्, यथा अगस्त्य-संहितायाम्–
परिचर्या पराः केचित् प्रासादेषु च शेरते ।
मनुष्यम् इव तं द्रष्टुं व्यावहर्तुं च बन्धुवत् ॥ र्भ्र्स्_१,२।१९२ ॥
रागानुगाङ्गतास्य स्याद् विधि-मार्गानपेक्षत्वात् ।
मार्ग-द्वयेन चैतेन साध्या सख्य-रतिर् मता ॥ र्भ्र्स्_१,२।१९३ ॥
अथ आत्म-निवेदनम्, यथा एकादशे (११।२९।३४)–
मर्त्यो यदा त्यक्त-समस्त-कर्मा
निवेदितात्मा विचिकीर्षितो मे ।
तदामृतत्वं प्रतिपद्यमानो
मयात्म-भुऊयाया च कल्पते वै ॥ र्भ्र्स्_१,२।१९४ ॥
अर्थो द्विधात्म-शब्दस्य पण्डितैर् उपपायते ।
देह्य्-अहन्तास्पदं कैश्चिद् देहः कैश्चिन् ममत्व-भाक् ॥ र्भ्र्स्_१,२।१९५ ॥
तत्र देही, यथा यामुनाचार्य-स्तोत्रे (४९)–
वपुरादिषु यो ऽपि को ऽपि वा
गुणतो ऽसानि यथा तथा-विधः ।
तद् अयं तव पाद-पद्मयोर्
अहम् अद्यैव मया समर्पितः ॥ र्भ्र्स्_१,२।१९६ ॥
देहो, यथा भक्ति-विवेके–
चिन्तां कुर्यान् न रक्षायै विक्रीतस्य यथा पशोः ।
तथार्पयन् हरौ देहं विरमेद् अस्य रक्षनात् ॥ र्भ्र्स्_१,२।१९७ ॥
दुष्करत्वेन विरले द्वे सख्यात्म-निवेदने ।
केषाञ्चिद् एव धीराणां लभते साधनार्हताम् ॥ र्भ्र्स्_१,२।१९८ ॥
अथ निज-प्रियोपहरणम्, यथा एकादशे (११।११।४१)–
यद् यद् इष्टतमं लोके यच् चाति-प्रियम् आत्मनः ।
तत् तन् निवेदयेन् मह्यं तद् आनन्त्याय कल्पते ॥ र्भ्र्स्_१,२।१९९ ॥
अथ तद्-अर्थे ऽखिल-चेष्टितम्, यथा पञ्चरात्रे–
लौकिकी वैदिकी वापि या क्रिया क्रियते मुने ।
हरि-सेवानुकूलैव सा कार्या भक्तिम् इच्छता ॥ र्भ्र्स्_१,२।२०० ॥
अथ शरणापत्तिः, यथा हरि-भक्ति-विलासे (११।६७७)–
तवास्मीति वदन् वाचा तथैव मनसा विदन् ।
तत्-स्थानम् आश्रितस् तन्वा मोदते शरणागतः ॥ र्भ्र्स्_१,२।२०१ ॥
श्री-नारसिंहे च–
त्वां प्रपन्नो ऽस्मि शरणं देव-देव जनार्दन ।
इति यः शरणं प्राप्तस् तं क्लेशाद् उद्धराम्य् अहम् ॥ र्भ्र्स्_१,२।२०२ ॥
५३– अथ तदीयानां सेवनम् । तुलास्यः, यथा स्कान्दे–
या दृष्टा निखिलाघ-सङ्ग-शमनी स्पृष्टा वपुः-पावनी
रोगाणाम् अभिवन्दिता निरसनी सिक्तान्तक-त्रासिनी ।
प्रत्यासत्ति-विधायिनी भगवतः कृष्णस्य संरोपिता
न्यस्ता तच्-चरणे विमुक्ति-फलदा तस्यै तुलस्यै नमः ॥ र्भ्र्स्_१,२।२०३ ॥
तथा च तत्रैव–
दृष्ता स्पृष्टा तथा ध्याता कीर्तिता नमिता स्तुता ।
रोपिता सेविता नित्यं पूजिता तुलसी शुभा ॥ र्भ्र्स्_१,२।२०४ ॥
नवधा तुलसीं देवीं ये भजन्ति दिने दिने ।
युग-कोटि-सहस्राणि ते वसन्ति हरेर् गृहे ॥ र्भ्र्स्_१,२।२०५ ॥
५४– अथ शास्त्रस्य,
शास्त्रम् अत्र समाख्यातं यद् भक्ति-प्रतिपादकम् ॥ र्भ्र्स्_१,२।२०६ ॥
यथा स्कान्दे–
वैष्णवानि तु शास्त्राणी ये शृण्वन्ति पठन्ति च ।
धन्यास् ते मानवा लोके तेसां कृष्णः प्रसीदति ॥ र्भ्र्स्_१,२।२०७ ॥
वैष्णवानि तु शास्त्राणी ये ऽर्चयन्ति गृहे नराः ।
सर्व-पाप-विनिर्मुक्ता भवन्ति सुर-वन्दिताः ॥ र्भ्र्स्_१,२।२०८ ॥
तिष्ठते वैष्णवं शास्त्रं लिखितं यस्य मन्दिरे ।
तत्र नारायणो देवः स्वयं वसति नारद ॥ र्भ्र्स्_१,२।२०९ ॥
तथा श्री-भागवते द्वादशे (१२।१३।१५) च–
सर्व-वेदान्त-सारं हि श्री-भागवतम् इष्यते ।
तद्-रसामृत-तृप्तस्य नान्यत्र स्याद् रतिः क्वचित् ॥ र्भ्र्स्_१,२।२१० ॥
५५– अथ मथुरायाः, यथा आदि-वाराहे–
मथुरां च परित्यज्य यो ऽन्यत्र कुरुते रतिम् ।
मूढो भ्रमति संसारे मोहिता मम मायया ॥ र्भ्र्स्_१,२।२११ ॥
ब्रह्माण्डे च–
त्रैलोक्य-वर्ति-तीर्थानां सेवनाद् दुर्लभा हि या ।
परानन्द-मयी सिद्धिर् मथुरा-स्पर्ष-मात्रतः ॥ र्भ्र्स्_१,२।२१२ ॥
श्रुता स्मृता कीर्तिता च वाञ्छिता प्रेक्षिता गता ।
स्पृष्टा श्रिता सेविता च मथुराभीष्टदा नृणाम् ।
इति ख्यातं पुराणेषु न विस्तार-भियोच्यते ॥ र्भ्र्स्_१,२।२१३ ॥
५६–अथ वैष्णवानां सेवनम्, यथा पाद्मे (६।२५३।१७६)–
आराधनानां सर्वेषां विष्णोर् आराधनं परम् ।
तस्मात् परतरं देवि तदीयानां समर्चनम् ॥ र्भ्र्स्_१,२।२१४ ॥
तृतीये (३।७।१९) च–
यत्-सेवया भगवतः कूट-स्थस्य मधु-द्विषः ।
रति-रासो भवेत् तीव्रः पादयोर् व्यसनार्दनः ॥ र्भ्र्स्_१,२।२१५ ॥
स्कान्दे च–
शङ्ख-चक्राङ्कित-तनुः शिरसा मञ्जरी-धरः ।
गोपी-चन्दन-लिप्ताङ्गो दृष्तश् चेत् तद्-अघं कुतः ॥ र्भ्र्स्_१,२।२१६ ॥
प्रथमे (१।१९।३३) च–
येषां संस्मरणात् पुंसां सद्यः शुद्ध्यन्ति वै गृहाः ।
किं पुनर् दर्शन-स्पर्श-पाद-शौचासनादिभिः ॥ र्भ्र्स्_१,२।२१७ ॥
आदी-पुराणे–
ये मे भक्त-जनाः पार्थ न मे भक्ताश् च ते जनाः ।
मद्-भक्तानां च ये भक्तास् ते मे भक्ततमा मताः ॥ र्भ्र्स्_१,२।२१८ ॥
यावन्ति भगवद्-भक्तेर् अङ्गानि कथितानीह ।
प्रायस् तावन्ति तद्-भक्त-भक्तेर् अपि बुधा विदुः ॥ र्भ्र्स्_१,२।२१९ ॥
५७ - अथ यथा-वैभव-महोत्सवो, यथा पाद्मे–
यः करोति महीपाल हरेर् गेहे महोत्सवम् ।
तस्यापि भवति नित्यं हरि-लोके महोत्सव ॥ र्भ्र्स्_१,२।२२० ॥
५८ - अथ ऊर्जादरो, यथा पाद्मे–
यथा दामोदरो भक्त-वत्सलो विदितो जनैः ।
तस्यायं तादृशो मासः स्वल्पम् अप्य् उरु-कारकः ॥ र्भ्र्स्_१,२।२२१ ॥
तत्रापि मथुरायां विशेषो, यथा तत्रैव–
भुक्तिं मुक्तिं हरिर् दद्याद् अर्चितो ऽन्यत्र सेविनाम् ।
भक्तिं तु न ददात्य् एव यतो वश्यकरी हरेः ॥ र्भ्र्स्_१,२।२२२ ॥
सा त्व् अञ्जसा हरेर् भक्तिर् लभ्यते कार्त्तिके नरैः ।
मथुरायां सकृद् अपि श्री-दामोदर-सेवनात् ॥ र्भ्र्स्_१,२।२२३ ॥
५९– अथ श्री-जन्म-दिन-यात्रा, यथा भविष्योत्तरे–
यस्मिन् दिने प्रसूतेयं देवकी त्वां जनार्दन ।
तद्-दिनं ब्रूहि वैकुण्ठ कुर्मस् ते तत्र चोत्सवम् ।
तेन सम्यक्-प्रपन्नानां प्रसादं कुरु केशवः ॥ र्भ्र्स्_१,२।२२४ ॥
६०– अथ श्री-मूर्तेर्-अन्घ्रि-सेवने प्रीतिः, यथा आदि-पुराणे–
मम नाम-सदाग्राही मम सेवा-प्रियः सदा ।
भक्तिस् तस्मै प्रदातव्या न तु मुक्तिः कदाचन ॥ र्भ्र्स्_१,२।२२५ ॥
६१– अथ श्री-भागवतार्थास्वादो, यथा प्रथमे (१।१।३)–
निगम-कल्प-तरोर्-गलितं फलं
शुक-मुखाद् अमृत-द्रव-संयुतम् ।
पिबत भागवतं रसम् आलयं
मुहुर् अहो रसिका भुवि भावुकाः ॥ र्भ्र्स्_१,२।२२६ ॥
तथा द्वितीये (२।१।९) च–
परिनिष्ठितो ऽपि नैर्गुण्ये उत्तमःश्लोक-लीलया ।
गृहित-चेता राजर्षे आख्यानं यद् अधीतवान् ॥ र्भ्र्स्_१,२।२२७ ॥
६२–अथ स-जातीयाशय-स्निग्ध-श्री-भगवद्-भक्त-सङ्गो, यथा प्रथमे (१।१८।१३)–
तुलयाम लवेनापि न स्वर्गं नापुनर्-भवम् ।
भगवत्-सङ्गि-सङ्गस्य मर्त्यानां किमुताशिषः ॥ र्भ्र्स्_१,२।२२८ ॥
हरि-भक्ति-सुधोदये च–
यस्य यत्-सङ्गतिः पुंसो मणिवत् स्यात् स तद्-गुणः ।
स्व-कूलर्द्ध्यै ततो धीमान् स्व-यूथ्यान् एव संश्रयेत् ॥ र्भ्र्स्_१,२।२२९ ॥
६३– अथ श्री-नाम सङ्कीर्तनम्, यथा द्वितीये (२।१।११)–
एतन् निर्विद्यमानानाम् इच्छताम् अकुतो-भयम् ।
योगिनां नृप निर्णीतं हरेर् नामानुकीर्तनं ॥ र्भ्र्स्_१,२।२३० ॥
आदि-पुराणे च–
गीत्वा च मम नामानि विचरेन् मम सन्निधौ ।
इति ब्रवीमि ते सत्यं क्रीतो ऽहं तस्य चार्जुन ॥ र्भ्र्स्_१,२।२३१ ॥
पाद्मे च–
येन जन्म-सहस्राणि वासुदेवो निषेवितः ।
तन्-मुखे हरि-नामानि सदा तिष्ठन्ति भारत ॥ र्भ्र्स्_१,२।२३२ ॥
यतस् तत्रैव च–
नाम चिन्तामणिः कृष्णश् चैतन्य-रस-विग्रहः ।
पूर्णः शुद्धो नित्य-मुक्तो ऽभिन्नत्वान् नाम-नामिनोः ॥ र्भ्र्स्_१,२।२३३ ॥
अतः श्री-कृष्ण-नामादि न भवेद् ग्राह्यं इन्द्रियैः ।
सेवोन्मुखे हि जिह्वादौ स्वयम् एव स्फुरत्य् अदः ॥ र्भ्र्स्_१,२।२३४ ॥
६४ - अथ श्री-मथुरा-मण्डले स्थितिः, यथा पाद्मे–
अन्येषु पुण्य-तीर्थेषु मुक्तिर् एव महा-फलम् ।
मुक्तैः प्रार्थ्या हरेर् भक्तिर् मथुरायां तु लभ्यते ॥ र्भ्र्स्_१,२।२३५ ॥
त्रि-वर्गदा कामिनां या मुमुक्षूणां च मोक्षदा ।
भक्तीच्छोर् भक्तिदा कस् तां मथुरां नाश्रयेद् बुधः ॥ र्भ्र्स्_१,२।२३६ ॥
अहो मधु-पुरी धन्या वैकुण्ठाच् च गरीयसी ।
दिनम् एकं निवासेन हरौ भक्तिः प्रजायते ॥ र्भ्र्स्_१,२।२३७ ॥
दुरूहाद्भुत-वीर्ये ऽस्मिन् श्रद्धा दूरे ऽस्तु पञ्चके ।
यत्र स्वल्पो ऽपि सम्बन्धः सद्-धियां भाव-जन्मने ॥ र्भ्र्स्_१,२।२३८ ॥
तत्र श्री-मुर्तिः यथा–
स्मेरां भङ्गी-त्रय-परिचितां साचि-विस्तीर्ण-दृष्टिं
वंशी-न्यस्ताधर-किशलयाम् उज्ज्वलां चन्द्रकेण ।
गोविन्दाख्यां हरि-तनुम् इतः केशि-तीर्थोपकण्ठे
मा प्रेक्षिष्ठास् तव यदि सखे बन्धु-सन्गे ऽस्ति रङ्गः ॥ र्भ्र्स्_१,२।२३९ ॥
श्री-भागवतं यथा–
शङ्के नीताः सपदि दशम-स्कन्ध-पद्यावलीनां
वर्णाः कर्णाध्वनि पथि कतामानुपुर्व्याद् भवद्भिः ।
हंहो दिम्भाः परम-शुभदान् हन्त धर्मार्थ-कामान्
यद् गर्हन्तः सुखमयम् अमी मोक्षम् अप्य् आक्षिपन्ति ॥ र्भ्र्स्_१,२।२४० ॥
कृष्ण-भक्तो यथा–
दृग्-अम्भोभिर् धौतः पुलक-पतली मण्डित-तनुः
स्खलन्न् अन्तः-फुल्लो दधद् अतिपृथुं वेपथुम् अपि ।
दृशोः कक्षां यावन् मम स पुरुषः को ऽप्य् उपययौ
न जाते किं तावन् मतिर् इह गृहे नाभिरमते ॥ र्भ्र्स्_१,२।२४१ ॥
नाम यथा–
यदवधि मम शीता वैणिकेनानुगीता
श्रुति-पथम् अघ-शत्रोर् नामा-गाथा प्रयाता ।
अनवकलित-पूर्वां हन्त काम् अप्य् अवस्थां
तदवधि दधद्-अन्तर्-मानसं शाम्यतीव ॥ र्भ्र्स्_१,२।२४२ ॥
श्री मथुरा-मण्डलम्, यथा–
तट-भुवि कृत-कान्तिः श्यामला यास् तटिन्याः
स्फुटित-नव-कदम्बालम्बि-कूजद्-द्विरेफा ।
निरवधि-मधुरिम्णा मण्डितेयं कथं मे
मनसि कम् अपि भावं कानन-श्रीस् तनोति ॥ र्भ्र्स्_१,२।२४३ ॥
अलौकिक-पदार्थानाम् अचिन्त्या शक्तिर् ईदृशी ।
भावं तद्-विषयं चापि या सहैव प्रकाशयेत् ॥ र्भ्र्स्_१,२।२४४ ॥
केषाञ्चित् क्वचिद् अङ्गानां यत् क्षुद्रं श्रूयते फलं ।
बहिर्-मुख-प्रवृत्त्यैतत् किन्तु मुख्यं फलं रतिः ॥ र्भ्र्स्_१,२।२४५ ॥
सम्मतं भक्ति-विज्ञानां भक्त्य्-अङ्गत्वं न कर्मणाम् ॥ र्भ्र्स्_१,२।२४६ ॥
यथ चैकादशे (११।२०।९)–
तावत् कर्माणि कुर्वीत न निर्विद्येत यावता ।
मत्-कथा-श्रवणादौ वा श्रद्धा यावन् न जायते ॥ र्भ्र्स्_१,२।२४७ ॥
ज्ञान-वैराग्ययोर् भक्ति-प्रवेशायोपयोगिता ।
ईषत् प्रथमम् एवेति नाङ्गत्वम् उचितं तयोः ॥ र्भ्र्स्_१,२।२४८ ॥
यद् उभे चित्त-काठिन्य-हेतू प्रायः सतां मते ।
सुकुमार-स्वभावेयं भक्तिस् तद्-धेतुर् ईरिता ॥ र्भ्र्स्_१,२।२४९ ॥
यथा तत्रैव (११।२०।३१)–
तस्मान् मद्-भक्ति-युक्तस्य योगिनो वै मद्-आत्मनः ।
न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेद् इह ॥ र्भ्र्स्_१,२।२५० ॥
किन्तु ज्ञान-विरक्त्य्-आदि-साध्यं भक्त्यैव सिध्यति ॥ र्भ्र्स्_१,२।२५१ ॥
यथा तत्रैव (११।२०।३२-३३)–
यत् कर्मभिर् यत् तपसा ज्ञान-वैराग्य तश् च यत् ।
योगेन दान धर्मेण श्रेयोभिर् इतरैर् अपि ॥ र्भ्र्स्_१,२।२५२ ॥
सर्वं मद्-भक्ति-योगेन मद्-भक्तो लभते ऽन्जसा ।
स्वर्गापवर्गं मद्-धाम कथञ्चिद् यदि वाञ्छति ॥ र्भ्र्स्_१,२।२५३ ॥
रुचिम् उद्वहतस् तत्र जनस्य भजने हरेः ।
विषयेषु गरिष्ठो ऽपि रागः प्रायो विलीयते ॥ र्भ्र्स्_१,२।२५४ ॥
अनासक्तस्य विषयान् यथार्हम् उपयुञ्जतः ।
निर्बन्धः कृष्ण-सम्बन्धे युक्तं वैराग्यम् उच्यते ॥ र्भ्र्स्_१,२।२५५ ॥
प्रापञ्चिकतया बुद्ध्या हरि-सम्बन्धि-वस्तुनः ।
मुमुक्षुभिः परित्यागो वैराग्यं फल्गु कथ्यते ॥ र्भ्र्स्_१,२।२५६ ॥
प्रोक्तेन लक्षणेनैव भक्तिर् अधिकृतस्य च ।
अङ्गत्वे सुनिरस्ते ऽपि नित्याद्य्-अखिल-कर्मणां ॥ र्भ्र्स्_१,२।२५७ ॥
ज्नानस्याध्यात्मिकस्यापि वैरग्यस्य च फल्गुनः ।
स्पष्टतार्थं पुनर् अपि तद् एवेदं निराकृतं ॥ र्भ्र्स्_१,२।२५८ ॥
धन-शिष्यादिभिर् द्वारैर् या भक्तिर् उपपाद्यते ।
विदूरत्वाद् उत्तमता-हान्या तस्याश् च नाङ्गता ॥ र्भ्र्स्_१,२।२५९ ॥
विशेषणत्वम् एवैषां संश्रयन्त्य् अधिकारिणाम् ।
विवेकादीन्य् अतो ऽमीषाम् अपि नाङ्गत्वम् उच्यते ॥ र्भ्र्स्_१,२।२६० ॥
कृष्णोन्मुखं स्वयं यान्ति यमाः शौचादयस् तथा ।
इत्य् एषां च न युक्ता स्याद् भक्त्य्-अङ्गान्तर-पातिता ॥ र्भ्र्स्_१,२।२६१ ॥
यथा स्कान्दे–
एते न ह्य् अद्भुता व्याध तवाहिंसादयो गुणाः ।
हरि-भक्तौ प्रवृत्ता ये न ते स्युः पर-तापिनः ॥ र्भ्र्स्_१,२।२६२ ॥
तत्रैव–
अन्तः-शुद्धिर् बहिः-शुद्धिस् तपः-शान्त्य्-अदयस् तथा ।
अमी गुणाः प्रपद्यन्ते हरि-सेवाभिकामिनाम् ॥ र्भ्र्स्_१,२।२६३ ॥
सा भक्तिर् एक-मुख्याण्गाश्रितानैकाङ्गि काथ वा ।
स्ववासनानुसारेण निष्ठातः सिद्धि-कृद् भवेत् ॥ र्भ्र्स्_१,२।२६४ ॥
तत्र एकाङ्गा, यथा ग्रन्थान्तरे {*पद्यावली, ५३। अनोन्य्मोउस्}–
श्री विष्णोः श्रवणे परीक्षिद् अभवद् वैयासकिः कीर्तने
प्रह्लादः स्मरणे तद्-अङ्घ्रि-भजने लक्ष्मीः पृथुः पूजने ।
अक्रूरस् त्व् अभिवन्दने कपि-पतिर् दास्ये ऽथ सख्ये ऽर्जुनः
सर्वस्वात्म-निवेदने बलिर् अभूत् कृष्णाप्तिर् एषां परा ॥ र्भ्र्स्_१,२।२६५ ॥
अनेकाङ्गा, यथा नवमे (९।४।१८-२०)–
स वै मनः कृष्ण-पदारविन्दयोर्
वचांसि वैकुण्ठ-गुणानुवर्णने ।
करौ हरेर् मन्दिर-मार्जनादिषु
श्रुतिं चकाराच्युत-सत्-कथोदये ॥ र्भ्र्स्_१,२।२६६ ॥
मुकुन्द-लिङ्गालय-दर्शने दृशौ
तद्-भृत्य-गात्र-स्पर्शे ऽङ्ग-सङ्गमम् ।
घ्राणं च तत्-पाद-सरोज-सौरभे
श्रीमत्-तुलस्या रसनां तद्-अर्पिते ॥ र्भ्र्स्_१,२।२६७ ॥
पादौ हरेः क्षेत्र-पदानुसर्पणे
शिरो हृषीकेश-पदाभिवन्दने ।
कामं च दास्ये न तु काम-काम्यया
यथोत्तमःश्लोक-जनाश्रय रतिः ॥ र्भ्र्स्_१,२।२६८ ॥
शास्त्रोक्तया प्रबलया तत्-तन्-मर्यादयान्विता ।
वैधि भक्तिर् इयं कैश्चन् मर्यादा-मार्ग उच्यते ॥ र्भ्र्स्_१,२।२६९ ॥
अथ रागानुगा–
विराजन्तीम् अभिव्यक्तां व्रज-वासी जनादिषु ।
रागात्मिकाम् अनुसृता या सा रागानुगोच्यते ॥ र्भ्र्स्_१,२।२७० ॥
रागानुगा-विवेकार्थम् आदौ रागात्मिकोच्यते ॥ र्भ्र्स्_१,२।२७१ ॥
इष्टे स्वारसिकी रागः परमाविष्टता भवेत् ।
तन्-मयी या भवेद् भक्तिः सात्र रागात्मिकोदिता ॥ र्भ्र्स्_१,२।२७२ ॥
सा कामरूपा सम्बन्ध-रूपा चेति भवेद् द्विधा ॥ र्भ्र्स्_१,२।२७३ ॥
तथा हि सप्तमे (७।१।२९-३०)–
कामाद् द्वेषाद् भयात् स्नेहाद् यथा भक्त्येश्वरे मनः ।
आवेश्य तद् अघं हित्वा बहवस् तद्-गतिं गताः ॥ र्भ्र्स्_१,२।२७४ ॥
गोप्यः कामाद् भयात् कंसो द्वेषाच् चैद्यादयो नृपाः ।
सम्बन्धाद् वृष्णयः स्नेहाद् यूयं भक्त्या वयं विभो ॥ र्भ्र्स्_१,२।२७५ ॥
इति ॥
आनुकूल्य-विपर्यासाद् भीति-द्वेषौ पराहतौ ।
स्नेहस्य सख्य-वाचित्वाद् वैध-भक्त्य्-अनुवर्तिता ॥ र्भ्र्स्_१,२।२७६ ॥
किं वा प्रेमाभिधायित्वान् नोपयोगो ऽत्र साधने ।
भक्त्या वयम् इति व्यक्तं वैधी भक्तिर् उदीरिता ॥ र्भ्र्स्_१,२।२७७ ॥
यद्-अरीणां प्रियाणां च प्राप्यम् एकम् इवोदितम् ।
तद् ब्रह्म-कृष्णयोर् ऐक्यात् किरणार्कोपमा-जुषोः ॥ र्भ्र्स्_१,२।२७८ ॥
ब्रह्मण्य् एव लयं यान्ति प्रायेण रिपवो हरेः ।
केचित् प्राप्यापि सारूप्याभासं मज्जन्ति तत्-सुखे ॥ र्भ्र्स्_१,२।२७९ ॥
तथा च ब्रह्माण्ड पुराणे–
सिद्ध-लोकस् तु तमसः पारे यत्र वसन्ति हि ।
सिद्धा ब्रह्म-सुखे मग्ना दैत्याश् च हरिण हताः ॥ र्भ्र्स्_१,२।२८० ॥
राग-बन्धेन केनापि तं भजन्तो व्रजन्त्य् अमी ।
अङ्घ्रि-पद्म-सुधाः प्रेम-रूपास् तस्य प्रिया जनाः ॥ र्भ्र्स्_१,२।२८१ ॥
तथा हि श्री-दशमे (१०।८७।२३)–
निभृत-मरुन्-मनो ऽक्ष-दृढ-योग-युजो हृदि यन्
मुनय उपासते तद्-अरयो ऽपि ययुः स्मरणात् ।
स्त्रिय उरगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः सम-दृशो ऽङ्घ्रि-सरोज-सुधाः ॥ र्भ्र्स्_१,२।२८२ ॥
तत्र रूपा–
सा कामरूपा सम्भोग-तृष्णां या नयति स्वताम् ।
यद् अस्यां कृष्ण-सौख्यार्थम् एव केवलम् उद्यमः ॥ र्भ्र्स्_१,२।२८३ ॥
इयं तु व्रज-देवीषु सुप्रसिद्धा विराजते ।
आसां प्रेम-विशेषो ऽयं प्राप्तः काम् अपि माधुरीं ।
तत्-तत्-क्रीडा-निदानत्वात् काम इत्य् उच्यते बुधैः ॥ र्भ्र्स्_१,२।२८४ ॥
तथा च तन्त्रे–
प्रेमैव गोप-रामाणां काम इत्य् अगमत् प्रथाम् ॥ र्भ्र्स्_१,२।२८५ ॥
इत्य् उद्धवादयो ऽप्य् एतं वाञ्छति भगवत्-प्रियाः ॥ र्भ्र्स्_१,२।२८६ ॥
काम-प्राया रतिः किन्तु कुब्जायाम् एव सम्मता ॥ र्भ्र्स्_१,२।२८७ ॥
तत्र सम्बन्ध-रूपा–
सम्बन्ध-रूपा गोविन्दे पितृत्वाद्य्-आभिमानिता ।
अत्रोपलक्षणतया वृष्णीनां वल्लवा मताः ।
यदैश्य-ज्ञान-शून्यत्वाद् एषां रागे प्रधानता ॥ र्भ्र्स्_१,२।२८८ ॥
काम-सम्बन्ध-रूपे ते प्रेम-मात्र-स्वरूपके ।
नित्य-सिद्धाश्रयतया नात्र सम्यग् विचारिते ॥ र्भ्र्स्_१,२।२८९ ॥
रागात्मिकाया द्वैविध्याद् द्विधा रागानुगा च सा ।
कामानुगा च सम्बन्धानुगा चेति निगद्यते ॥ र्भ्र्स्_१,२।२९० ॥
तत्र अधिकारी–
रागात्मिकैक-निष्ठा ये व्रज-वासि-जनादयः ।
तेषां भावाप्तये लुब्धो भवेद् अत्राधिकारवान् ॥ र्भ्र्स्_१,२।२९१ ॥
तत्-तद्-भावादि-माधुर्ये श्रुते धीर् यद् अपेक्षते ।
नात्र शास्त्रं न युक्तिं च तल्-लोभोत्पत्ति-लक्षणम् ॥ र्भ्र्स्_१,२।२९२ ॥
वैध-भक्त्य्-अधिकारी तु भावाविर्भवनावधि ।
अत्र शास्त्रं तथा तर्कम् अनुकूलम् अपेक्षते ॥ र्भ्र्स्_१,२।२९३ ॥
कृष्णं स्मरन् जनं चास्य प्रेष्ठं निज-समीहितम् ।
तत्-तत्-कथा-रतश् चासौ कुर्याद् वासं व्रजे सदा ॥ र्भ्र्स्_१,२।२९४ ॥
सेवा साधक-रूपेण सिद्ध-रूपेण चात्र हि ।
तद्-भाव-लिप्सुना कार्या व्रज-लोकानुसारतः ॥ र्भ्र्स्_१,२।२९५ ॥
श्रवणोत्कीर्तनादीनि वैध-भक्त्य्-उदितानि तु ।
यान्य् अङ्गानि च तान्य् अत्र विज्ञेयानि मनीषिभिः ॥ र्भ्र्स्_१,२।२९६ ॥
तत्र कामानुगा–
कामानुगा भवेत् तृष्णा काम-रूपानुगामिनी ॥ र्भ्र्स्_१,२।२९७ ॥
सम्भोगेच्छा-मयी तत्-तद्-भावेच्छात्मेति सा द्विधा ॥ र्भ्र्स्_१,२।२९८ ॥
केलि-तात्पर्यवत्य् एव सम्भोगेच्छा-मयी भवेत् ।
तद्-भावेच्छात्मिका तासाम् भाव-माधुर्य-कामिता ॥ र्भ्र्स्_१,२।२९९ ॥
श्री-मूर्तेर् माधुरीं प्रेक्ष्य तत्-तल्-लीलां निशम्य वा ।
तद्-भावाकाण्क्षिणो ये स्युस् तेषु साधनतानयोः ।
पुराणे श्रुयते पाद्मे पुंसम् अपि भवेद् इयम् ॥ र्भ्र्स्_१,२।३०० ॥
यथा–
पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ॥ र्भ्र्स्_१,२।३०१ ॥
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥ र्भ्र्स्_१,२।३०२ ॥
रिरंसां सुष्ठु कुर्वन् यो विधि-मार्गेण सेवते ।
केवलेनैव स तदा महिषीत्वम् इयात् पुरे ॥ र्भ्र्स्_१,२।३०३ ॥
तथा च महा-कौर्मे–
अग्नि-पुत्रा महात्मानस् तपसा स्त्रीत्वम् आपिरे ।
भर्तारं च जगद्-योनिं वासुदेवम् अजं विभुम् ॥ र्भ्र्स्_१,२।३०४ ॥
अथ सम्बन्धानुगा–
सा सम्बन्धानुगा भक्तिः प्रोच्यते सद्भिर् आत्मनि ।
या पितृत्वादि-सम्बन्ध-मननारोपनात्मिका ॥ र्भ्र्स्_१,२।३०५ ॥
लुब्धैर् वात्सल्य-सख्यादौ भक्तिः कार्यात्र साधकैः ।
व्रजेन्द्र-सुबलादीनां भाव-चेष्टित-मुद्रया ॥ र्भ्र्स्_१,२।३०६ ॥
तथा हि श्रुयते शास्त्रे कश्चित् कुरुपुरी-स्थितः ।
नन्द-सूनोर् अधिष्ठानं तत्र पुत्रतया भजन् ।
नारदस्योपदेशेन सिद्धो ऽभूद् वृद्ध-वर्धकिः ॥ र्भ्र्स्_१,२।३०७ ॥
अतएव नारायण-व्यूह-स्तवे–
पति-पुत्र-सुहृद्-भ्रातृ-पितृवन् मैत्रवद् धरिम् ।
ये ध्यायन्ति सदोद्युक्तास् तेभ्यो ऽपीह नमो नमः ॥ र्भ्र्स्_१,२।३०८ ॥
कृष्ण-तद्-भक्त-कारुण्य-मात्र-लाभैक-हेतुका ।
पुष्टि-मार्गतया कैश्चिद् इयं रागानुगोच्यते ॥ र्भ्र्स्_१,२।३०९ ॥
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पुर्व-विभागे साधन-भक्ति-लहरी-द्वितिया ॥
[१।३]
अथ भावः
शुद्ध-सत्त्व-विशेषात्मा प्रेम-सूर्यांशु-साम्य-भाक् ।
रुचिभिश् चित्त-मासृण्य-कृद् असौ भाव उच्यते ॥ र्भ्र्स्_१,३।१ ॥
तथा हि तन्त्रे–
प्रेम्णस् तु प्रथमावस्था भाव इत्य् अभिधीयते ।
सात्त्विकाः स्वल्प-मात्राः स्युर् अत्राश्रु-पुलकादयः ॥ र्भ्र्स्_१,३।२ ॥
स यथा पद्म-पुराणे–
ध्यायं ध्यायं भगवतः पादाम्बुज-युगं तदा ।
ईषद्-विक्रियमाणात्मा सार्द्र-दृष्तिर् अभूद् असौ ॥ र्भ्र्स्_१,३।३ ॥
आविर्भूय मनो-वृत्तौ व्रजन्ति तत्-स्वरूपतां ।
स्वयं-प्रकाश-रूपापि भासमाना प्राकाश्यवत् ॥ र्भ्र्स्_१,३।४ ॥
वस्तुतः स्वयम् आस्वाद-स्वरूपैव रतिस् त्व् असौ ।
कृष्णादि-कर्मकास्वाद-हेतुत्वं प्रतिपद्यते ॥ र्भ्र्स्_१,३।५ ॥
साधनाभिनिवेशेन कृष्ण-तद्-भक्तयोस् तथा ।
प्रसादेनातिधन्यानां भावो द्वेधाभिजायते ।
आद्यस् तु प्रायिकस् तत्र द्वितीयो विरलोदयः ॥ र्भ्र्स्_१,३।६ ॥
तत्र साधनाभिनिवेश-जः
वैधी-रागानुगा-मार्ग-भेदेन परिकीर्तितः ।
द्विविधः खलु भावो ऽत्र साधनाभिनिवेशजः ॥ र्भ्र्स्_१,३।७ ॥
साधनाभिनिवेशस् तु तत्र निष्पादयन् रुचिम् ।
हराव् आसक्तिम् उत्पाद्य रतिं सञ्जनयत्य् असौ ॥ र्भ्र्स्_१,३।८ ॥
तत्र आद्यो (१।५।२६)–
तत्रान्वहं कृष्ण-कथाः प्रगायताम्
अनुग्रहेणाशृणवं मनोहराः ।
ताः श्रद्धया मे ऽनुपदं विशृण्वतः
प्रिय-श्रवस्य् अङ्ग ममाभवद् रतिः ॥ र्भ्र्स्_१,३।९ ॥ इति ।
रत्या तु भाव एवात्र न तु प्रेमाभिधीयते ।
मम भक्तिः प्रवृत्तेति वक्ष्यते स यद् अग्रतः ॥ र्भ्र्स्_१,३।१० ॥
यथा तत्रैव (१।५।२८)–
इत्थं शरत्-प्रावृषिकाव् ऋतू हरेर्
विशृण्वतो मे ऽनुसवं यशो ऽमलम् ।
सङ्कीर्त्यमानं मुनिभिर् महात्मभिर्
भक्तिः प्रवृत्तात्म रजस्-तमोपहा ॥ र्भ्र्स्_१,३।११ ॥
तृतीये च (३।२५।२५)–
सतां प्रसङ्गान् मम वीर्य-संविदो
भवन्ति हृत्-कर्ण-रसायनाः कथाः ।
तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि
श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥ र्भ्र्स्_१,३।१२ ॥
पुराणे नात्य-शास्त्रे च द्वयोस् तु रति-भावयोः ।
समानार्थतया ह्य् अत्र द्वयम् ऐक्येन लक्षितम् ॥ र्भ्र्स्_१,३।१३ ॥
द्वितीयो, यथा पाद्मे–
इत्थं मनोरथं बाला कुर्वती नृत्य उत्सुका ।
हरि-प्रीत्या च तां सर्वां रात्रिम् एवात्यवाहयत् ॥ र्भ्र्स्_१,३।१४ ॥
अथ श्रि-कृष्ण-तद्-भक्त-प्रसादजः
साधनेन विना यस् तु सहसैवाभिजायते ।
स भावः कृष्ण-तद्-भक्त-प्रसादज इतीयते ॥ र्भ्र्स्_१,३।१५ ॥
अथ श्री-कृष्ण-प्रसादजः–
प्रसादा वाचिकालोक-दान-हार्दादयो हरेः ॥ र्भ्र्स्_१,३।१६ ॥
तत्र वाचिक-प्रसादजः, यथा नारदीये–
सर्व-मण्गल-मूर्धन्या पूर्णानन्द-मयी सदा ।
द्विजेन्द्र तव मय्य् अस्तु भक्तिर् अव्याभिचारिणी ॥ र्भ्र्स्_१,३।१७ ॥
आलोक-दानजः, यथा स्कान्दे–
अदृष्ट-पूर्वम् आलोक्य कृष्णं जाङ्गल-वासिनः ।
विक्लिद्यद्-अन्तरात्मनो दृष्टिं नाक्रष्टुम् ईशिरे ॥ र्भ्र्स्_१,३।१८ ॥
हार्दः–
प्रसाद आन्तरो यः स्यात् स हार्द इति कथ्यते ॥ र्भ्र्स्_१,३।१९ ॥
यथा शुक-संहितायां–
महाभागवतो जातः पुत्रस् ते बादरायण ।
विनोपायैर् उपेयाभूद् विष्णु-भक्तिर् इहोदिता ॥ र्भ्र्स्_१,३।२० ॥
अथ तद्-भक्त-प्रसादजः, यथा सप्तमे (७।४।३६)–
गुणैर् अलम् असङ्ख्येयैर् महात्म्यं तस्य सूच्यते ।
वासुदेवे भगवति यस्य नैसर्गिकी रतिः ॥ र्भ्र्स्_१,३।२१ ॥
नारदस्य प्रसादेन प्रह्लादे शुध-वासना ।
निसर्गः सैव तेनात्र रतिर् नैसर्गिकी मता ॥ र्भ्र्स्_१,३।२२ ॥
स्कान्दे च–
अहो धन्यो ऽसि देवर्षे कृपया यस्य तत्-क्षणात् ।
नीचो ऽप्य् उत्पुलको लेभे लुब्धको रतिम् अच्युते ॥ र्भ्र्स्_१,३।२३ ॥
भक्तानां भेदतः सेयं रतिः पञ्च-विधा मता ।
अग्रे विविच्य वक्तव्या तेन नात्र प्रपञ्च्यते ॥ र्भ्र्स्_१,३।२४ ॥
क्षान्तिर् अव्यर्थ-कालत्वं विरक्तिर् मान-शुन्यता ।
आशा-बन्धः समुत्कण्ठा नाम-गाने सदा रुचिः ॥ र्भ्र्स्_१,३।२५ ॥
आसक्तिस् तद्-गुणाख्याने प्रीतिस् तद्-वसति-स्थले ।
इत्य् आदयो ऽनुभावाः स्युर् जात-भावाङ्कुरे जने ॥ र्भ्र्स्_१,३।२६ ॥
तत्र क्षान्तिः–
क्षोभ-हेताव् अपि प्राप्ते क्षान्तिर् अक्षुभितात्मता ॥ र्भ्र्स्_१,३।२७ ॥
यथा प्रथमे (१।१९।१५)–
तं मोपयातं प्रतियन्तु विप्रा
गङ्गा च देवी धृत-चित्तम् ईशे ।
द्विजोपसृष्टः कुहकस् तक्षको वा
दशत्व् अलं गायत विष्णु-गाथाः ॥ र्भ्र्स्_१,३।२८ ॥
अथ अव्यार्थ-कालत्वम्, यथा हरि-भक्ति-सुधोदये–
वाग्भिः स्तुवन्तो मनसा स्मरन्तस्
तन्वा नमन्तो ऽप्य् अनिशं न तृप्ताः ।
भक्ताः स्रवन्-नेत्र-जलाः समग्रम्
आयुर् हरेर् एव समर्पयन्ति ॥ र्भ्र्स्_१,३।२९ ॥
अथ विरक्तिः–
विरक्तिर् इन्द्रियार्थानां स्याद् अरोचकता स्वयं ॥ र्भ्र्स्_१,३।३० ॥
यथा पञ्चमे (५।१४।४३)–
यो दुस्त्यजान् दार-सुतान् सुहृद् राज्यं हृदि-स्पृशः ।
जहौ युवैव मलवद् उत्तमःश्लोक-लालसः ॥ र्भ्र्स्_१,३।३१ ॥
अथ मान-शून्यता–
उत्कृष्टत्वे ऽप्य् अमानित्वं कथिता मान-शून्यता ॥ र्भ्र्स्_१,३।३२ ॥
यथा पाद्मे–
हरौ रतिं वहन्न् एष नरेन्द्राणां शिखा-मणिः ।
भिक्षाम् अटन्न् अरि-पुरे श्वपाकम् अपि वन्दते ॥ र्भ्र्स्_१,३।३३ ॥
अथ आशा-बन्धः–
आशा-बन्धो भगवतः प्राप्ति-सम्भावना दृढा ॥ र्भ्र्स्_१,३।३४ ॥
यथा श्रीमत्-प्रभुपादानां–
न प्रेमा श्रवणादि-भक्तिर् अपि वा योगो ऽथवा वैष्णवो
ज्ञानं वा शुभ-कर्म वा कियद् अहो सज्-जातिर् अप्य् अस्ति वा ।
हीनार्थाधिक-साधके त्वयि तथाप्य् अच्छेद्य-मूला सती
हे गोपी-जन-वल्लभ व्यथयते हा हा मद्-आशैव माम् ॥ र्भ्र्स्_१,३।३५ ॥
अथ समुत्कण्ठा–
समुत्कण्ठा निजाभीष्ट-लाभाय गुरु-लुब्धता ॥ र्भ्र्स्_१,३।३६ ॥
अथ कृष्ण-कर्णामृते (५४)–
आनम्राम् असित-भ्रुवोर् उपचितम् अक्षीण-पक्ष्माङ्कुरेष्व्
आलोलाम् अनुरागिणोर् नयनयोर् आर्द्रां मृदौ जल्पिते ।
आताम्राम् अधरामृते मद-कलाम् अम्लान वंशी-स्वनेष्व्
आशास्ते मम लोचनं व्रज-शिशोर्-मूर्तिं जगन्-मोहिनीम् ॥ र्भ्र्स्_१,३।३७ ॥
अथ नाम-गाने सदा रुचिः, यथा–
रोदन-बिन्दु-मरन्द-स्यन्दि-दृग्-इन्दीवराद्य गोविन्द ।
तव मधुर-स्वर-कण्ठी गायति नामावलीं बाला ॥ र्भ्र्स्_१,३।३८ ॥
तद्-गुणाख्याने आसाक्तिः, यथा कृष्ण-कर्णामृते (८८)–
माधुर्याद् अपि मधुरं
मन्मथता तस्य किम् अपि कैशोरम् ।
चपल्याद् अपि चपलं
चेतो बत हरति हन्त किं कुर्मः ॥ र्भ्र्स्_१,३।३९ ॥
तद् वसति-स्थले प्रीतिः, यथा पद्यावल्याम् {*नोत् फ़ोउन्द् इन् म्य् एदितिओन्।}–
अत्रासीत् किल नन्द-सद्म शकटस्यात्राभवद् भञ्जनं
बन्ध-च्छेद-करो ऽपि दामभिर् अभूद् बद्धो ऽत्र दामोदरः ।
इत्थं माथुर-वृद्ध-वक्त्र-विगलत्-पीयूष-धारां पिबन्न्
आनन्दाश्रु-धरः कदा मधु-पुरीं धन्यश् चरिष्याम्य् अहम् ॥ र्भ्र्स्_१,३।४० ॥
अपि च–
व्यक्तं मसृणितेवान्तर् लक्ष्यते रति-लक्षणम् ।
मुमुक्षु-प्रभृतीनां चेद् भवेद् एषा रतिर् न हि ॥ र्भ्र्स्_१,३।४१ ॥
विमुक्ताखिल-तर्षैर् या मुक्तिर् अपि विमृग्यते ।
या कृष्णेनातिगोप्याशु भजद्भ्यो ऽपि न दीयते ॥ र्भ्र्स्_१,३।४२ ॥
सा भुक्ति-मुक्ति-कामत्वाच् छुद्धां भक्तिम् अकुर्वताम् ।
हृदये सम्भवत्य् एषां कथं भागवती रतिः ॥ र्भ्र्स्_१,३।४३ ॥
किन्तु बाल-चमत्कार-करी तच्-चिह्न-वीक्षया ।
अभिज्ञेन सुबोधो ऽयं रत्य्-आभासः प्रकीर्तितः ॥ र्भ्र्स्_१,३।४४ ॥
प्रतिबिम्बस् तथा च्छाया रत्य्-आभासो द्विधा मतः ॥ र्भ्र्स्_१,३।४५ ॥
तत्र प्रतिबिम्बः–
अश्रमाभीष्ट-निर्वाही रति-लक्षण-लक्षितः ।
भोगापवर्ग-सौख्यांश-व्यञ्जकः प्रतिबिम्बकः ॥ र्भ्र्स्_१,३।४६ ॥
दैवात् सद्-भक्त-सङ्गेन कीर्तनाद्य्-अनुसारिणाम् ।
प्रायः प्रसन्न-मनसां भोग-मोक्षादि रागिणाम् ॥ र्भ्र्स्_१,३।४७ ॥
केषाञ्चित् हृदि भावेन्दोः प्रतिबिम्ब उदञ्चति ।
तद्-भक्त-हृन्-नभः-स्थस्य तत्-संसर्ग-प्रभावतः ॥ र्भ्र्स्_१,३।४८ ॥
अथ छाया–
क्षुद्र-कौतूहल-मयी चञ्चला दुःख-हारिणी ।
रतेश् छाया भवेत् किञ्चित् तत्-सादृश्यावलम्बिनी ॥ र्भ्र्स्_१,३।४९ ॥
हरि-प्रिय-क्रिया-काल-देश-पात्रादि-सङ्गमात् ।
अप्य् आनुषङ्गिकाद् एष क्वचिद् अज्ञेष्व् अपीक्ष्यते ॥ र्भ्र्स्_१,३।५० ॥
किन्तु भाग्यं विना नासौ भाव-च्छायाप्य् उदञ्चति ।
यद् अभ्युदयतः क्षेमं तत्र स्याद् उत्तरोत्तरम् ॥ र्भ्र्स्_१,३।५१ ॥
हरि-प्रिय-जनस्यैव प्रसाद-भर-लाभतः ।
भावाभासो ऽपि सहसा भावत्वम् उपगच्छति ॥ र्भ्र्स्_१,३।५२ ॥
तस्मिन्न् एवापराधेन भावाभासो ऽप्य् अनुत्तमः ।
क्रमेण क्षयम् आप्नोति ख-स्थः पूर्ण-शशी यथा ॥ र्भ्र्स्_१,३।५३ ॥
किं च–
भावो ऽप्य् अभावम् आयाति कृष्ण-प्रेष्ठापराधतः ।
आभासतां च शनकैर् न्यून-जातीयताम् अपि ॥ र्भ्र्स्_१,३।५४ ॥
गाढासङ्गात् सदायाति मुमुक्षौ सुप्रतिष्ठिते ।
आभासताम् असौ किं वा भजनीयेश-भावताम् ॥ र्भ्र्स्_१,३।५५ ॥
अत एव क्वचित् तेषु नव्य-भक्तेषु दृश्यते ।
क्षणम् ईश्वर-भावो ऽयं नृत्यादौ मुक्ति-पक्षगः ॥ र्भ्र्स्_१,३।५६ ॥
साधनेक्षां विना यस्मिन्न् अकस्माद् भाव ईक्ष्यते ।
विघ्न-स्थगितम् अत्रोह्यं प्राग्-भवीयं सुसाधनं ॥ र्भ्र्स्_१,३।५७ ॥
लोकोत्तर-चमत्कार-कारकः सर्व-शक्तिदः ।
यः प्रथीयान् भवेद् भावः स तु कृष्ण-प्रसादजः ॥ र्भ्र्स्_१,३।५८ ॥
जने चेज् जात-भावे ऽपि वैगुण्यम् इव दृश्यते ।
कार्या तथापि नासूया कृतार्थः सर्वथैव सः ॥ र्भ्र्स्_१,३।५९ ॥
यथा नारसिंहे–
भगवति च हराव् अनन्य-चेता
भृशम् अलिनो ऽपि विराजते मनुष्यः ।
न हि शश-कलुष-च्छविः कदाचित्
तिमिर-पराभवताम् उपैति चन्द्रः ॥ र्भ्र्स्_१,३।६० ॥
रतिर् अनिश-निसर्गोष्ण-प्रबलतरानन्द-पूर-रूपैव ।
उष्माणम् अपि वमन्ती सुधांशु-कोटेर् अपि स्वाद्वी ॥ र्भ्र्स्_१,३।६१ ॥
इति श्री-श्री भक्ति-रसामृत-सिन्धौ
पुर्व-विभागे भाव-भक्ति-लहरी तृतीया ॥
[१।४]
अथ प्रेमा
सम्यङ्-मसृणित-स्वान्तो ममत्वातिशयाङ्कितः ।
भावः स एव सान्द्रात्मा बुधैः प्रेमा निगद्यते ॥ र्भ्र्स्_१,४।१ ॥
यथा पञ्चरात्रे–
अनन्य-ममता विष्णौ ममता प्रेम-सङ्गता ।
भक्तिर् इत्य् उच्यते भीष्म-प्रह्लादोद्धव-नारदैः ॥ र्भ्र्स्_१,४।२ ॥
भक्तिः प्रेमोच्यते भीष्म-मुख्यैर् यत्र तु सङ्गता ।
ममतान्य-ममत्वेन वर्जितेत्य् अत्र योजना ॥ र्भ्र्स्_१,४।३ ॥
भावोत्थो ऽति-प्रसादोत्थः श्री-हरेर् इति स द्विधा ॥ र्भ्र्स्_१,४।४ ॥
तत्र भावोत्थः–
भाव एवान्तर्-अङ्गाणम्-अङ्गानाम्-अनुसेवया ।
आरूढः परम-उत्कर्षम् भाव-उत्तः परिकीर्तितः ॥ र्भ्र्स्_१,४।५ ॥
तत्र वैध-भावोत्थो, यथैकादशे (११।२।४०)–
एवं-व्रतः स्व-प्रिय-नाम-कीर्त्या
जातानुरागो द्रुत-चित्त उच्चैः ।
हसत्य् अथो रोदिति रौति गायत्य्
उन्मादवन् नृत्यति लोक-बाह्यः ॥ र्भ्र्स्_१,४।६ ॥
रागानुगीय-भावोत्थो, यथा पाद्मे–
न पतिं कामयेत् कञ्चिद् ब्रह्मचर्य-स्थिता सदा ।
तम्-एव मूर्तिं ध्यायन्ती चन्द्रकन्तिर्-वरानना ॥ र्भ्र्स्_१,४।७ ॥
श्री-कृष्ण-गाथां गायन्ती रोमाण्चोद्भेद-लक्षणा ।
अस्मिन्-मन्वन्तरे स्निग्धा श्री-कृष्ण-प्रिय-वर्तया ॥ र्भ्र्स्_१,४।८ ॥
अथ हरेर् अतिप्रसादोत्थः–
हरेर् अतिप्रसादो ऽयं सङ्ग-दानादिर् आत्मनः ॥ र्भ्र्स्_१,४।९ ॥
यथैकादशे (११।१२।७)–
ते नाधीत-श्रुति-गणा नोपासित-महत्तमाः ।
अव्रतातप्त-तपसः मत्-सङ्गान् माम् उपागताः ॥ र्भ्र्स्_१,४।१० ॥
माहात्म्य-ज्ञान-युक्तश् च केवलश् चेति स द्विधा ॥ र्भ्र्स्_१,४।११ ॥
अथ आद्यो, यथा पञ्चरात्रे–
माहात्म्य-ज्ञान-युक्तस् तु सुदृढः सर्वतो ऽधिकः ।
स्नेहो भक्तिर् इति प्रोक्तस् तया सार्ष्ट्यादिनान्यथा ॥ र्भ्र्स्_१,४।१२ ॥
केवलो, यथा तत्रैव–
मनोगतिर् अविच्छिन्ना हरौ प्रेम-परिप्लुता ।
अभिसन्धि-विनिर्मुक्ता भक्तिर्-विष्णु-वशङ्करी ॥ र्भ्र्स्_१,४।१३ ॥ इति ।
महिम-ज्ञान-युक्तः स्याद् विधि-मार्गानुसारिणाम् ।
रागानुगाश्रितानां तु प्रायशः केवलो भवेत् ॥ र्भ्र्स्_१,४।१४ ॥
आदौ श्रद्धा ततः साधु-सङ्गो ऽथ भजन-क्रिया ।
ततो ऽनर्थ-निवृत्तिः स्यात् ततो निष्ठा रुचिस् ततः ॥ र्भ्र्स्_१,४।१५ ॥
अथासक्तिस् ततो भावस् ततः प्रेमाभ्युदञ्चति ।
साधकानाम् अयं प्रेम्नः प्रादुर्भावे भवेत् क्रमः ॥ र्भ्र्स्_१,४।१६ ॥
धन्यस्यायं नवः प्रेमा यस्योन्मीलति चेतसि ।
अन्तर्वाणीभिर् अप्य् अस्य मुद्रा सुष्ठु सुदुर्गमा ॥ र्भ्र्स्_१,४।१७ ॥
अतएव श्री-नारद-पञ्चरात्रे, यथा–
भावोन्मत्तो हरेः किञ्चिन् न वेद सुखम् आत्मनः ।
दुखं चेति महेशानि परमानन्द आप्लुतः ॥ र्भ्र्स्_१,४।१८ ॥
प्रेम्ण एव विलासत्वाद् वैरल्यात् साधकेष्व् अपि ।
अत्र स्नेहादयो भेदा विविच्य न हि शंसिताः ॥ र्भ्र्स्_१,४।१९ ॥
श्रीमत्-प्रभुपदाम्भोजैः सर्वा भागवतामृते ।
व्यक्तीकृतास्ति गूढापि भक्ति-सिद्धान्त-माधुरी ॥ र्भ्र्स्_१,४।२० ॥
गोपाल-रूप-शोभां दधद् अपि रघुनाथ-भाव-विस्तारी ।
तुष्यतु सनातनात्मा प्रथम-विभागे सुधाम्बु-निधेः ॥ र्भ्र्स्_१,४।२१ ॥
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
पूर्व-विभागे प्रेम-भक्ति-लहरी-चतुर्थी
इति श्री-श्री-भक्ति-रसामृत-सिन्धौ
रसोपयोगि-स्थायि-भावोपपादनो नाम
पूर्वविभागः समाप्तः