[[TODO: परिष्कार्यम्]]
- श्रीगौरहरिर्जयति भक्तभूषण सन्दर्भः ब्रजाचार्य- महामहिम श्रीश्रीनारायणभट्ट बिरचितः (सानुवादः) संगणक संस्करणं दासाभासेन हरिपार्षद्वासेन कृतम सम्वत् २०२१ प्रथमावृत्ति ५०० मूल्य १) Digitization, PDF Greation and uploading by: Hari Parsada Dasa (R44) प्रकाशक व मुद्रक- कृष्णदास बाबा गौरहरि प्रेस, कुसुमसरोवर, राधाकुण्ड
भक्तभूषणसन्दर्भः -::::- नित्यगुणाश्रयमीशं प्रकटितरसिकं च विश्वमाक्रीडम् । भजनरसाश्रयमानैर्गम्यं पश्यन् जनो जयति ॥ १॥ भक्तालङ्क तिसन्दर्भे प्रोक्त प्रकरणं त्रयम् । कृष्ण-भक्त- जगद्वाचि क्रमेणैव विचार्यते ॥२॥ ईशं सर्वगुणाश्रयं प्रकटितरसिकं नित्यसिद्ध एव प्रकटित आविभू- तो यो रसिकस्तं, बिश्वं चाक्रीडं क्रीडोपकरणं पश्यन् जनः भक्तः जयति रसास्वादकतया विराजत इत्यर्थः । कीदृशं ईशं विश्वं च ? भजनरसाश्रयमानैर्गम्यं भजनरसं श्राश्रयन्ति यान्यनुमानानि प्रत्यक्षादिप्रमाणानि तैर्गम्यं विषयीकृतमास्वादय च । तत्रेशे केचिद्र प-रस-गंध-स्पर्श संख्या-परिमाण -पृथक्त्व-संयोग- विभाग- परत्वापरत्व- गुरुत्व- द्रवत्व-स्नेह-शब्द-बुद्धि-सुख दुःखेच्छा- द्वेष- प्रयत्न- धर्माधर्म- गुणवत्वं बदन्ति । सांख्याः कूटस्थत्वं तत्त न शिष्टादरणीयं यथात्वस्य श्रुताबनुक्तः । न च सांख्यादोनां गुणत्वं श्रयते, न च कूटस्थत्वे भक्तवात्सल्यादयः संभवति । ततश्च श्रुतिपुराणप्रसिद्धा ये गुणास्तद्वत्वं ज्ञेयम् । तत्र केचित् “अगोत्र- मवर्णमचक्षुः श्रोत्रं निष्कलं निष्क्रियं निरञ्जनं निष्कलं निलयनो अस्थूलमरगुबिरजो बिमृत्युविशोको बिजिघत्सो विपास:” “यतो बाचो निबत्तन्ते” “कूटस्थेपीश्वरे आत्मे’ ‘त्यादिवाकयः कूटस्थत्वं निद्रम्मकत्वमिति बदन्ति । तत्र पृच्छाम:- निद्धर्मकस्य लोकवे- दाप्रतीतेः बंध्यापुत्रवत् । किञ्च निद्धर्मकत्वं वेदादिप्रमाणगम्यं न वा? प्रमाणगम्यं चेदागतं सधर्मकत्वमेव । नहि निद्धर्मकत्वं कुत्रापि प्रमीयते । निर्धर्मके वस्तुनि सधर्मकत्वप्रतिपादने वेदस्या- प्रामाण्यं स्यात् । न च “याजमानोऽयं प्रस्तर” इत्यत्र यथा यज्ञ- साधनधर्मवति धर्मे वाधितेऽपि प्रस्तरशब्दः साधनधर्मपरः प्रमा- I सहकृतेन बाक्य ेन यजमानः प्रस्तरः यज्ञसाधनं तद्वदत्रापि सर्व- (२ " स्य वशी सर्वस्य कर्त्त त्यादौ वाधकवाक्यान्तरसहकृतेन धर्मबाधे बाकयार्थसंको चाल्लक्षणया निधर्मकत्वे पर्यवसानं भविष्यतीति वाच्यं । न चेदस्याप्रामाण्यमिति वाच्यं । धर्मि - धम्मभावस्य प्रामाणिकत्वे न कुत्रापि भवतानभ्युपगमात् । कल्पितधर्मवाधे सत्यकाम इत्यादौ सत्यादिपदबाधः स्यात् । नहि निर्धर्मकब्रह्म- बोधने सत्यादिपदमनुकूलं प्रत्युत प्रतिकूलमेव । किञ्च कुत्रापि प्रामाणिकत्वे सिद्ध कल्पितत्वं सिध्यति अन्यथा कल्पकप्रमाण- स्यापि मिध्यात्वेन कल्पितत्वग्यैवा सिद्ध, ओमिति चेत्तर्हि ब्रह्म- गोऽपि कल्पितत्वे शून्यमेवावशिष्टं स्यात् । निर्धर्मकस्वप्रकाशे स्वतः सिद्ध े ब्रह्मणि नान्यापेक्षेति न शून्यतेति चेन्न, “अथातो ब्रह्मजिज्ञासा” “सोन्वेष्टव्यः स विजिज्ञासितव्य” इत्यादि श्रति- स्मृति सूत्र- गुर्वादय पदेशानयं स्यात् । किञ्च वेदस्य प्रामा- ण्यमप्रामाण्यं वा प्रामाण्ये तासिद्धौ सधर्मकत्वं श्रप्रामाण्ये बौद्ध- मतप्रवेशजजगदांध्यं च स्यात्, प्रवृत्त्येकवेदस्याप्रामाण्यात् “तस्मा- द्वा एतस्मादात्मनः आकाशः संभूतः” “सर्वं खल्विदं ब्रह्म” “ऐतदा- त्म्यमिदं सर्वं ” “ एष एव साधुकर्म्म कारयति यमूद्ध मुन्निनीषति एष एवासाधुकम कारयति यमधो निनीषति” “पापः पापेन कर्मणा भवति साधुकारी साधु र्भवति” इत्यादि प्रवत्त कवाकयानामान- थ्य कथं स्यात् । अज्ञ प्रतीत्यादिपरिपाटी प्रतारणमात्रं तदुक्तं भास्करभाष्ये “नहि रूपमनंधानामसत्यं तेष्वसद्भवेत् तन्मते स्वप्रकाश ब्रह्मातिरिक्तस्याभावात् । नच “न निरोधो न चोत्पत्ति- नेच बंधो न साधकः । न मुमुक्षुर्नवै मुक्त इत्येषा परमार्थता " इति वाच्यं तव उल्ल कबदुपेक्षणीयत्वात्तथोक्त’ " न च कार्ये प्रतिपत्यभिसंधिः” अस्मिन्नधिकरणे भाष्यकारेण " नहि निगुणं वस्तु विदयते, नहि प्रकाशादिप्रत्याख्याने अग्निर्नाम, नापि द्रव्यप्रत्याख्याने गुणो नामास्ति । यदि चेत्तन्मात्र ब्रह्म तहि आनन्द - गुणोपदेशे व्यर्थता स्यात् । सर्बज्ञत्वं सर्बशक्तित्वं सर्व- 9 " ( ३ ) कर्तृत्वमित्यादयो गुणाः परस्यासाधारणा” इति फलाध्याये कंठो तत्वात् । यदि चास्मादुक्तजीवभेदप्रतिपादकप्रामाण्येष्वस्म- दुक्ताभासैरेव दृषणमुच्यते त्वया तच स्माभिरपि त्वोक्त प्रबोध- प्रमाणानां त्वां प्रति तव मते मिध्यात्वेऽपि ह्य च्यमाने भेद एव प्रमाणिक इति । पदयार्थस्तु सर्वस्य मिथ्यानुसंधानेन रागादि- राहित्यं ततः भगवाँस्फुरणमिति । न निरोध इत्युक्त्वा वीतरागभ- । यक्रोधै मुनिभिरिति मध्ये उक्त्वा तत्वीभूतरतदा रामस्तत्वा दप्रच्युतो भवेदिति उपसंहृतम् । अन्यथा ब्रहीभूत इति स्यात् । विषं भुवेतिवत् । वैराग्यार्थमेव सर्वस्य मिध्यात्वमुच्यते न तु तथा, तथा श्रुत्यन्तरे- विद्वान्परात्परं पुरुषमुपैति दिव्यमित्युक्त’ न तु परपुरुषो भवत्युक्तमिति । तस्मात् “विशोको विजिघत्सोऽबि- पासः सत्यकामः सत्यसंकल्पः नित्यं विभु सर्वगतं सूक्ष्मं द्रष्टा श्रोता रसयिता घ्राता वोद्धा मंता कर्ता विज्ञानात्मा” “तमीश्व- राणां परमं महेश्वरं सर्वकर्मा सर्वकामः सर्वरसः” इत्यादिगुणा सिद्धाः । विष्णुधर्मोत्तरे चे- । " गुणाः सर्वेऽपि युज्यन्ते स्वैश्वर्यात्परमेश्वरे । दोषाः कथञ्चिन्नवान युज्यन्ते परमो हि सः । गुणदोषौ माययैव केचिदाहुर पण्डिताः” । कल्पितधर्मवादिनो मूर्खा इति हृदयम् ॥ श्रीभागवते साम्यासंगादयो गुणाः श्रगुणा गुणपरिणामरूपा न नित्या इत्यर्थः । सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ज्ञानं बिरक्तिरैश्वय्यं शौर्यं तेजो वलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्ति धैय्र्यमार्दवमेव च । प्रागल्भ्यं प्रश्रयः शीलं मह ओजो बलं भगः । ( 8 ) गाम्भीर्यं स्थैर्य मास्तिकच कीर्त्तिर्मानोऽनहंकृतिः । इमे चान्ये च भगवन्नित्या यत्र महागुणाः” ।। इत्यादि । सिद्धम् ॥१॥ श्रुतिस्मृतिश्रीभागवतादिप्रतिपादित नित्यगुणवत्त्वं ननु “यतो वाचो तिवत्तन्ते अप्राप्य मनसा सह” “विज्ञाता- रमरे केन विजानीयां” “स्वयं ज्योतिः स्वप्रकाश” इत्यादिभिर्निध- मकत्वमायातीति चेन्न । “सन्मात्रो नित्यः शुद्धो बुद्धः सत्यो मुक्तो निरज्जनो विभुरद्वयात्मानंदः परः प्रत्यगेकरसः प्रमाणैरेतैरव- गत” इति महोपनिषदि सर्व प्रमाण गम्यत्वोक्तयंत इति विज्ञाता- रमिति स्वयं ज्योतिरित्यादिवाक्यैरेव सधर्मकत्व सिद्ध । तयोक्त भाष्यकारेण प्रथमचरण - " श्रानन्दगुणस्य ब्रह्मणो विवक्षितत्वात्
- एवोत्तरोत्तर केवलेन गुणवचनेन गुणी निर्दिश्यते सैवानन्दस्य मीमांसा" इति । द्वितीयाध्याये च विवक्षित गुणोपपत्तश्चास्मि- नधिकरणे गुणवत्वमुक्तम् । विवक्षिताः कथिता ये च गुणाः सत्यसंकल्पादयः ते ब्रह्मणि उपपन्न े (उपपत्त े: ) उपपद्यन्ते युक्ता इत्यर्थः । अन्यथा खपुष्पकृतशेखरोऽयं बंध्यापुत्रः स्वप्रकाश इति वाकयादपि निधर्मक बंध्यापुत्रसिद्धिः स्यात् । यतो वाचो निव- र्तन्त इत्यादिवाकयानां तु स्वरूपानन्त्याद्गुणानन्त्याच्च, तमप्राप्य निवत्तन्ते न तु प्राप्तेरभावोऽन्यथा यत ईश्वरादिति व्याख्यानं न स्यात् । ततश्च यथा युधिष्ठिरस्य यत्किंचित्प्राप्तावपि राज्य- प्राप्तिरेवोच्यते तथात्रापि । तथाहि “यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सहे" त्युक्त्वा “आनन्दमेव जीवस्य यो ज्ञात्वा मुच्यते बुधः” जीवेश्वरस्यानन्दस्य यत्किंचिदानन्दं ज्ञात्वा मनसा सहानुभूय मुच्यते । भाष्यकार कंठोक्तिश्च प्रथमचरणे -“यतो वाचो निबत्तन्त इति च रागादिदूषितयोर्वाङ मनसयोरगोचरं ब्रह्मेत्यर्थ इति” । उपसंहारे च क्षीरे सर्पिरिवेति दृष्टान्तेन पूर्णत्वमुक्तम् ।
- ( ५ )
- अतो वचनमनसोः परिच्छिन्नमात्रत्वात्तस्य च पूर्णत्वात् यत्किंचि- प्राप्तिरेवाप्तिरिति ॥ २॥
- किञ्च “सत्यज्ञानमानन्दं ब्रह्म” “सत्यं ज्ञानमनन्तं” “सत्यं ज्ञानमानन्दं ब्रह्मेति” अखण्डनिद्ध मकवाकयार्थे पर्यायत्वेन पदानां व्यर्थता स्यात् । नहि घटः कलश इति प्रेक्षावद्वाकय दृष्ट प्रवृत्तिनिमित्ताभावादपि अर्थवोधकाभावादपि व्यर्थता स्यात् न बासत्याज्ञातानां तेभ्यो भिन्नमिति असत्यत्वादि प्रवृत्तिनिमित्त- नाखार्थे पर्यवस्यतीति वाच्यं अन्यथातिप्रसंगः स्यात् । अह- श्यत्वादिगुणको धर्मो रिति सूत्राच्च उक्त च भाष्यकारेण फला- ध्याये नहि चैतन्यमात्रमानन्दः न च दुःखनिवृत्तिमात्रमानन्दः तस्मात्स्वयं संविदितमेव सुखं सर्वदा मुक्तम्याभ्युपेयमिति || ३ ||
- ननु घटभावभावत्वेन यथा घटः प्रतीयते तद्भविष्यतीति चेत् यत्किञ्चिदेतत् घटाभावाभावत्वं घटे स्वीक्रियते । तत्तु घटत्वं वा अभावात्मकं धर्मान्तरं वा । नहि ब्रह्मणि त्वया धर्मः स्वीक्रियते न च “यदा हये बैष एतस्मिन्नुदरमंतरं कुरुते अथ तस्य भयं भवतीति” भेदज्ञानवतो भय-
- मुक्तमिति बाच्यं हयवैष:
- ष्ठां विन्दते अथ
- अनबबोधात् । श्रयमर्थः
- “यथा
- एतस्मिन्नदृश्येनात्म्येऽनिरुक्तोऽनिलयनेऽभयं प्रति- सोऽभयं गतो भवती “त्यभयप्राप्ति- हेतुत्वेन ब्रह्मणि या प्रतिष्ठोक्ता तस्याः विच्छेदे भयं भवतीति । ततश्च ब्रह्मनिष्ठाविच्छेदे भयमित्यर्थः । अतएवोक्त “सा हानि- स्तन्महच्छिद्र
- स मोहः स च विभ्रमः । यन्मूहुत क्षणं वापि वासुदेवं न चिन्तयेदित्यादि वस्तुतस्तु लोके बेटे च संनि- धानाभाव एव अन्तरा शब्दबाच्यः । अन्त राशब्दस्तु संनिधानवा- चकः । लोके यथाधिकारी सेबनक्रियया राज्ञः अनन्तरः । यथा लक्ष्मी: पार्वती च श्रीनारायण शिबयोरनन्तरा । तदुक्त’ भागबते
- ( ६ )
- ध्रुवं प्रति कुबेरवाक्यं - “बृणीहि कामं नृप यन्मनोगतीं मत्तस्त्वमौ- क्तानपदे विशंकितः । यतो वरार्हो स्याच्युतपादयोरनन्तरं त्वां वयमंग शुश्रूमः ||४||
- ननु " ब्रह्म वा इदमग्र आसीत्तदात्मानमेवा वेदाहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत्तदयो यो देवानां प्रत्यवध्यत स एव तदद्भव- तर्षीणां तथा मनुष्याणां तद्वैतत्पश्यन् ऋषि वामदेवः प्रतिपदेऽहं मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवतीत्यादि” बाक्यश्रवणान्निर्धर्मकत्वं प्रपंचस्य तु मिथ्यात्वं ततश्च बामदेबत्व-सूर्यस्व-मनुत्वादीनां प्रपञ्चात्मकत्वात् तद्वाधे ब्रह्माहमस्मीति सेत्स्यतीति निद्धकत्वसिद्धिरिति चेन्न प्रतीकोपासनत्वेन फलवत्वात् परकायप्रवेशवत् तथाहि " तदिद- मप्येतर्हि य एवं वेदाहं ब्रह्मास्मीति स इदं सर्वं भवति तस्य ह न देबाश्च नाभूत्या ईशत आत्मा हयेषा संभवतीति” “अज- न्मनि इमं स्वप्नं प्राभवं भवति स्वयमिति” स एबाहमस्मीत्येवं ध्यायेत् इति” बाजसनेये श्र यते । ब्रह्मणो महिमानमाप्नोती- त्युपनिषत् । तदा बिद्वान् पुण्यपापे बिधूय निरञ्जनः परमसाम्य- मुपैतीतिकौषीतकिः । " जयतीमान लोकान हंति पाप्मानं” इत्यादि च फलश्रवणात् शाखान्तरे च यथेषीका तूलमग्नौ प्रोत्त’ प्रदूयेतै वं हास्य सर्वेपाप्मानः प्रदूयंते । चोपासनार्थमभेदः न तु बस्तुतोऽतः सर्वधर्मकत्वं अबिनाशी बा अरे अयमात्मानुच्छित्तिधर्मेति
- कंठोक्तमनुच्छित्तिधर्मत्वं । तथा
- अलातशान्ताख्योपनिषदि- " जरामरणनिमुक्ताः सर्वधर्माः स्वभावत" इति । अथर्वशिरोप- निषदि च - " आत्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादु- च्यते भगवानिति" । तृतीये च " यत्र चास्ते पुमानादयः भगवान् शब्दगोचरः इति” ||५||
- न च ब्रह्म बेद ब्रह्मैव भवतीत्यादि बाक्यस्वारस्यादैकयमिति बाच्यं अनबबोधात् । तथाहि निराकारस्याविषयत्वात्साकारे
- ( ७ )
- पर्यवसानं ततश्च साकार मादृश्यं तद्धम्मैबाप्राप्नोति । यथा पुरं- जनः पुरंजनीध्यानात् स्त्रीत्वं न त्वात्मैक्य’ “अन्ते या मतिः सा गतिरिति” च तथा च श्रुतिः- “यथा क्रतुरस्मिन् लोके पुरुषो भबति" इति एबमत्रापि ज्ञेयं । तथा गीतायां च " इदं ज्ञानमुपा- श्रित्य मम साधम्यमागताः । सर्गेऽपि न प्रजायन्ते प्रलये न व्यथ- न्ति चे “त्यादि । धनज्ञानवतां हि धनभेददर्शनात् । अन्यथा धन- त्वमेव स्यात् कीटभृंगे तथा दर्शनात् नहि कीटः भृंगो भवती- त्यपि तु किंचिद्धर्भवान् अपि च श्रयते ब्राह्मणपूजकानां बैरा- म्यादिधर्मवतां शूद्राणां ब्राह्मणत्वं ततश्च तेषु ब्राह्मणधर्म साम्यं न तु ब्राह्मणत्वं । “तं देवा ब्राह्मणं विदुरिति” । तथोक्त पाझ माघ माहात्म्ये “ब्रह्माहमिति गायन्ति ये च त्वैकचरा द्विजाः । पश्य- न्तो हि त्वया तुभ्यं देहं तं नौमि माधवम्” । भारते - संपूज्य ब्राह्मणं भत्तया शूद्रोऽपि ब्राह्मणो भवेदिति च । अनएवोपदेशोपनिषदि भेद एब पर्यवसानमुक्तम् । बीत - राग-भय-क्रोध मुनिभिर्वेदपारगैः। निर्बिकल्पो हययं दृष्टः प्रपञ्चो परमोऽद्वय इति हम वेद ब्रह्मैव भवतीत्यर्थबादः शोकनिवृत्ति:, फलं यथेश्व- राज्जीबो भिन्नस्तथा जीबादीश्वरो भिन्नः । तथोक्त साधनाध्या- यचतुर्थपादे- अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् । अधिक: जीबात् कुतः उपदेशात् । सत्यज्ञानानन्दत्वेन अतः जीब: संसारी तत्प्रसादादानन्दं प्राप्नोतीति | || ६ ||
- अत्र केचिन्नोदयन्ति “उपक्रमोपसंहारमभ्यासोऽपूर्वताफलं । अर्थबादोपपत्ती च लिंगतात्पय्र्यनिर्णय” इति षबिधचिन्ह- स्य श्वेतकेत्वाख्याने प्रचेतकेत्वाख्याने विदद्यमानत्वान्नव कृत्वो भ्यासेनैक्यमेब, नैब बाचा न मनसा प्राप्तु शक्यः न चक्षुषा तत्वमसि श्वेतकेतो इति अतोन्यदार्तमित्यादि च श्रुत्या निर्धर्म- कत्वेनैकय प्रपञ्चस्य मिथ्यात्वमिति तत्र त्रम:-
- (=)
- “प्रारम्भे च समाप्तौ च नैकय दृष्टं स्वशब्दतः । बाधितार्थं कथं वेदः पिता वा बोधयेदिति । चैतन्यं वा शरीरं वा किं बोध्यतेऽत्र संमतंम् । चिदेकं निगुणं शुद्ध शरीरं मलिनं जडम् । बोध्यबोधकबुद्धीनां भेदो नैव प्रदृश्यते । भेदाभेदौ बिहायैव नित्यानित्ये तथैव च । चेद्विचारः प्रवृत्तोऽयं मानं तत्र मयोच्यते । अधीत्य वेदशास्त्रं तु श्वेतकेतुगृहं गतः । न्यायशास्त्रबलोपेतो बियदृष्टिर्वभूव ह । भेदस्याभिनिवेशेन त्रिदोषं गतवानयं । पिता बिचारयामास न नश्यति यथा तथा” ॥
- तथाहि उपनिषदि आख्यायिका - उद्दालकः कश्चिदृषिस्तत्पुत्रः श्वेतकेतुः न्यायशास्त्रमधोत्य गृहमागतः पण्डितः कुलीनश्चाह- मेबात एबस्तब्धः त्रिदोषेण नश्यतीति पिता ज्ञात्वा “भगबाना- भिरस्पृष्टो येन दृष्टः सर्वदृगिति " अतिबलेन “बिप्राणां विनयो ह्येषः शमः प्रकृतमुच्यते । दमः प्रकृतदान्तत्वादेवं विद्वान् शमं ब्रजे- दिति” रुद्रोपनिषद्दीत्यर्थानुसंधानेन च भगबद्धानमुपदिशति । त्रिदोषनाशाद्वारेति प्रकरणार्थः । तथाहि “सर्वान्वेदानधीत्य महा- मना अनूचानमानी स्तब्ध इयाय तं पितोवाच, श्वेतकेतो यन्न सौम्येदं महामना अनूचानमानी स्तब्धोऽस्युत तमादेशमप्राक्षः येनाश्र तं श्रुतं भवत्यमतं मतं भवत्यविज्ञातं विज्ञातमिति” महा- मनाः अहमेव पण्डित. अनूचानमानी अहमेव कुलीनः स्तव्ध: अनम्रः भगबदैश्वर्य्यादयस्फुरणादिति त्रिदोष दूरीकत्तगबंपर्बतादव- तारयन् भगवदैश्वर्य्यं भगबदाधीनत्वं भगवत्प्रधानत्वमुपदेष्टु पृच्छति “तमादेशमिति” अप्राक्षः-गुरु ं पृष्टवानसि कि, तार्कि- कत्वात् पितरं पृच्छति कथं नु भगवः स आदेशो भवतीति है
- ( ह )
- भगबः पितः आदेश उपदेशः कथं, नहि पटे ज्ञाते घटो ज्ञातो भवति कथं नु भगवः स आदेशो भवतीति ? " यथा सौम्यैकेन मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्याद्वाचारम्भणं बिकारो नामधेयं मृत्तिकेत्येव सत्यं " पिता च बदति यथेति एकेन मृत्पिण्डेन कार रणतया प्रधानत्वेन मुख्यत्येन ज्ञातेन मृत्पिण्डेन मृन्मय स मृत्तिकाधीनमिति ज्ञानं स्यात् राजनि दृष्टे तदधीनसेबकवत् व्याख्याने एक पद बैयर्थ्यं स्यात् । ननु मख्यादेः प्राधान्यात् कथं मृत्प्राधान्यं तत्राह- बिकार: मण्यादिकार्यं नामधेयं मुख्यत्वेन प्रसिद्धि बाचारम्भणं बाचा नाम्ना आरम्भणं अज्ञानां नाममात्रेण मुख्यत्वप्रसिद्धिरिति भावः वस्तुतस्तु मृत्तिकैव सत्यं प्रधान- मित्यर्थः । नहि चौरस्य धनप्राधान्ये धनिनि गौणत्वं, भगवति प्राधान्यं कारणत्वं चातिदिशता “सदेव सौम्येदमग्र आसीदेक- मेबाद्वितयं” तदैक्षत बहु स्यां प्रजायेयेति तत्त जोऽसृजत तत्तज ऐक्षत बहु स्यां प्रजायेयेति तपोऽसृजत ता आपः ऐतन्त बह्वयः स्यामः” सत् सहित इति इदं विश्वं लीनमासीदित्यर्थः । तेज
- दीनां नष्टत्वेऽपि भगवत एब प्राधान्यं अत अज्ञस्त्वं स्वप्राधान्यं त्यजेति भावः । अतएवा ऽनुवदति अनेनैव जीवेनात्मनानुप्र- विश्य नामरूपे व्याकरोत् पुनरम तेजो बन्नानां प्राधान्यं निरूप्य रूपादिन वित्रयाणामिव प्राधान्यमुक्तं त्रीणि रूपाणीत्येव सत्य- मिति सन्मूलं वृद्धि सौम्येमाः प्रजाः सदायतनाः संप्रतिष्ठा इति । किंच नवकृत्वोऽभ्यासानन्तरं तत्सत्यं स आत्मा तत्वमसि श्वेत- केतो इति भूय एव च मा भवान् बिज्ञापयत्विति” प्रश्नानन्तरं उद्दालको बदति पुरुष सोम्योतोपतापिनं ज्ञातयः पयुपासते “ति उत्तरं दत्तं आसनाश्रवणादुनासनैत्र तथा श्रुत्यन्तरेऽपि “आत्मा बा अरे द्रष्टव्य” इत्युपक्रम्य “ब्रह्म तं परादादयोन्यत्रात्म नो ब्रह्मवेद क्षेत्रं तं परादादयोन्यत्रात्मनो क्षत्रं वेद सर्वं तं परादादयो-( १० )
- ऽन्यत्रात्मनः सबै चेदेदमि " त्यादिना भगवत्प्राधान्यं विना ब्रह्माणा- दिप्राधान्यवेदिनः निंदामुक्त्वा भगवत्प्राधान्यं भगवदाधीनत्वं च दृष्टान्तेनाह " स यथा दुन्दुभे हन्यमानस्य वाहयांश्छन्दाच्छुक्नुयात् ग्रहरणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः " पुनश्च स यथा सर्वासामपां समुद्रमेकायनमिति दृष्टान्तीकृत्य इदं महद्भुतमनन्तमपारं विज्ञानघन इत्युपसंहृतम् । तस्माद्भगवत एव प्राधान्यं तज्ज्ञानेन ज्ञानं चेति सर्वं ज्ञेयम् । स च " एषोऽरिणं- मसूक्ष्ममेतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्वमसीति यः सर्वेश्वरः यदीयास्तेजो वन्ध्यादयः सर्वसमर्थः सर्वेश्वरः आत्मा तत्वमसीति” तत् तस्य त्वं तदीयोऽसीत्यर्थः ||७||
- पुन उदयास्तमयाधारत्वेनैश्वर्य्यं निरूपयति पृष्टः सन् भूय एव भगवन्विज्ञापयत्विति तथा सौम्येति हो वाच यथा सौम्य मधु मधुकृतो निम्तिष्ठन्ति नानात्ययानां वृक्षाणां रसात् समव्यवहारमेकता रसं गमयन्ति, ते यथा तत्र न विवेकं लभन्तेऽमुध्याहं वृक्षस्य रसोऽम्मीत्येवमेव खलु सौभ्येमाः प्रजा: सत संपदय आगम्य न विदुः सत संपदचामह इति, त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतंगो वा दंशो वा मशको वा यद्यद्भवन्ति तदा भवन्ति, स य एषोऽणि मैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्वमसि श्वेतकेतो” यथा नाना वृक्षाणां रसा मधुनि तिष्ठन्ति भिन्न- तथा त्रिदोष -नाशकार्यदर्शनादेव प्रलये भगवति व्याघ्रादयः एतादृशो यो भगवां स्तस्य त्वमसि एवं नदी समुद्रादावपि ज्ञेयम् । नहि समुद्र नदी- प्रवेश ऐक्यमानयति स्त्रीत्वादन्यथालिङ्गने स्त्रीपुरुषैक्यं स्यात् । एकल्बे वृद्धिर्न स्यात् नहि गंगा-समुद्रजलयोरैक्यं द्रवत्वसाधर्म्येऽपि स्वरूप वैलक्षण्यात् उक्त च स्कांदे “उदकं
- ।
- ( ११ )
- तूदके सिक्त मिश्रमेव यथा भवेत् । न वै तदेव भवति यतो वृद्धिः प्रदृश्यत” इति एव मेव जीवोऽपि तादात्म्यं परमात्मनेति तस्मान्नाना गुणवत्वेन
- भगवन्तमुक्त्वा
- तदीयत्वमुपदिश्यते नबकृत्वः । किंच श्वेतकेतूपाख्याने सदैव सौम्येदमग्र आसीदेकमेवाद्वितीयमित्येकः श्रसदेवेदमग्र श्रमीदिति द्वितीयोपक्रमः सौम्येमास्तिस्रो देवताः इत्यपि श्रूयते अथ च तृसृणां भूम्यादिदेवतानां च पुनस्तेजसश्चो- पस्थिति “मनः प्रारणे प्राणस्तेजसि तेजः परस्यां देवतायां स य एषोऽणि मैतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा त्वमसि श्वेतकेतो " तत्र तत्पदार्थ कः किं सत् सदेव सौम्येदमित्यु- पक्रमात् । यद्वा असत असदेवेदमग्र आसीदित्युक्त ेः । अथ च तिस्रो देवता वा सौम्येमास्तिस्रो देवता इत्युक्तः, अथ च नैकट्यात जो वा एतेषामुपक्रमोपस्थिते ननु ब्रह्मणः अभेदस्य वा नन्वेवं चेत् श्रत्यन्तरेऽपि विनिमयवाक्यानां का गतिः ?, तथाहि श्रदमेवेत्युपासीत तत्वमसि त्वं चाहमस्मि भगवो देवते श्रहं वै त्वमसि भगव वते तदयोहं सो योऽसौ सोऽहमित्यादि तत्रोच्यते वास्तवेषु तदर्थेषु शब्दस्योच्चारणं वृथा उपाधिनैव सोऽहं स्यान्निरुपाधौ भवेत स्मृतिः गौर्दातव्यात्र ब्राह्मणोऽस्ती- त्युक्तो ऽहमस्मीत्युच्यते तथा प्रकृतेऽपि सर्वज्ञत्वादि प्राप्तये सीऽहमस्मीति वाचनिकोपासना श्रतिश्च य इहात्मामनुविंदय व्रजन्येतांश्च सत्वान् कामान् तेषां सर्वेषु लोकेषु कामचारो भवतीति” " य एष आदित्य पुरुषो दृश्यते सोऽहमस्मि स एवा- हमस्मीति स य एतमेवं विद्वानुपास्तेऽपहते भवति सर्वमायुरेति
- पापकृत्यां लोकी
- ग्जीवतीति” “य
- एष चन्द्रमसि
- पुरुषो दृश्यते सोऽहमस्मि स एवाहमस्मि” अन्यथा वास्तवा- भेदे योऽहं सोऽसौ योऽसौ सोहमित्यादि पौनरुत्तचा व्यर्थं
- ( १२ )
- स्यात् । नहि कुत्रापि विप्रोऽहं ब्राह्मणः ब्राह्मणोऽहं विग्र इति प्रयुज्यते प्रेक्षावद्भिः नहि वाधितार्थं वेदो वोधयति तहि कथं वोधयति उपासनार्थं स चोपासनायामुपास्यतत्वं विचार्य्यते यथोक्त तथोपासना कार्य्या फलोक्ति विना यत्रोपासना तत्र श्रीगोतादयक्त ज्ञोयं “इदं ज्ञानं समाश्रित्य मम साधर्म्य मागताः " " श्री पराशरश्च “आत्मभावं नयत्येनं तद्ब्रह्मध्यायिनं मुने । विकाय्र्यमात्मनः शक्तया लोहमाकर्षको भवेदिति” । नहि लोहाकर्षयोरैक्यं “ब्रह्मविदाप्नोति परं सोऽश्नुते सर्वान् कामान् ब्रह्मणा विपश्चिता” एतमानन्दमय- मात्मानमुपसंक्रम्य इमान् लोकान् सकामान् कामरुप्पनु- संचरन् स तत्र तत्र पर्त्यति” " रसो वैसः रसं ह्य वायं लब्धानन्दी भवतीति" " तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति इति ॥
- 66
- नतु दहरशा खिडल्यादिविद्यायां सगुणब्रह्मोपासनया सफल- त्वम् तत्वमस्यादि वाक्यानां तु निगुणविषयतया यथार्थत्वम् ।
- तो लक्षणयैक्यमेवेति चेत् सत्यम्
- विवादः किंतु वाक्यार्थेन स्व मन"
- 1
- नास्माकमद्वैतवादिना चैप्लवाश्च समाधीयते । विवादे प्रहरचेत्तर्हि शृणु । तत्वमसि, ब्रह्माहमस्मि, रामोऽह- मस्मि, गोपालोऽहमस्मि तथैव शाण्डिल्यदहर विदयादिषु ततश्च गोपालपदेनेश्वरत्वोपस्थितिः” । तत्पदेन सर्वज्ञत्वोपस्थितिः " दहरा- दिविदयासु सत्यकाम - सत्यसंकल्पाद्युपस्थिति" । ततश्च गुणस्य सर्ववाक्येषु एकरूपत्वाल्लक्षणाया श्च एकरूपत्वात न वाक्येषु वैलक्षण्यम् कल्पयितु शक्यम् । तस्मादभेदवाक्यानामुपासना- परत्वम् सफलत्वात । यथा ध्र वेन सर्व। “मकेन भगवता सहाभेदो- पासनया प्राणायामेन सर्वेषां प्राणनिरोधो जात”"" नाथमर्थ” कल्पितः किंतु न्यायवार्त्तिककारादिपूर्वाचाय्यैरव मेवाथः " प्रकटित्"
- ( १३ )
- तस्माद्भक्तस्तु दासभावनैव कर्त्तव्या नान्या । तदुक्त ब्रहमबै- वत्ते-नातवादी न बिरागयुक्तो दास्ये प्रवृत्तो न परं विचिन्तये- दिति । ॥ ८ ॥
- ननु ब्रह्मैक्यं श्रयते प्रपञ्चादीनां श्रुतिपुराणेषु तथाहि- इदं हि विश्वं भगवानिवेतरो यतो जगत स्थान निरोधसंभवाः । तद्धि स्वयं बेद भवांस्तथापि वै प्रादेशमात्र भवतः प्रदर्शितं ॥ अमुनी भगवद्र पे मया ते ह्यनुवर्णिते । उमे अपि न शन्हन्ति मायासृष्टे विपश्चितः” । “सर्वं खल्विदं ब्रहम कं ब्रह्मखं ब्रह्म" । नृसिंहतापिन्यां वा “यो वै नृसिंहो देवो भगवान् यश्च ब्रह्मा तस्मै नमो नमः" इत्यादिना सर्वात्मकत्वं, यच्च सामानाधिकरण्यं श्रतौ“ यो वै श्रीरामचन्द्रः स भगवान् तस्मै नमो नमः” । “यो वै जीवात्माभूः तद्- ब्रह्माहमितीति" ब्रह्मविन्दूपनिषदि" “गोपालोऽहमिति भावये- दिति” तापिन्यां प्रन्यानि च तत्वमस्यादिवाकयानि वोध्यं ते न भेद इति चेन्न । भेदस्य सर्व-प्रमाणसिद्धत्वात स्मयते चेति तन्यायाच्च । शुको वैयासकि रादित्यमण्डलं प्राप्प स्वमहिमाख्यापनं कृत्वा सर्वात्मभूतोऽभवदिति स्मर्यत इति भाष्यकारेणोक्त फलाध्याये |
- अतो भेद एव । सर्वत्र अ तीनामवाधितप्रामाण्यात वेदराशे विषयवाधो वा द्वित्राणां वाक्यानां वा संकोच:
- लाववात्संकोचः एव श्रयान् तथाहि सर्वं खल्वित्यादेस्तदधीनता मात्र संकोचः वेदराशेस्तु प्रत्यक्षादय: सहकारिणोऽभेदे तु बाधकाः अतो भेद एव । अन्यथा विषयरूपत्वाद्ब्रहमणः विहितनिषिद्धविषया- स्वादकस्य निन्दास्तुती न स्यातां प्रत्युतसर्वविषयास्वादकोडनी- व विषयस्वादकोऽतीव ब्रह्मवित्स्याद्विरक्तस्तु ग्रह माल्पज्ञानवान् स्यात् किंच यदि सर्वप्रमाणवाचितेऽर्थे वेदस्य संकोचो न स्यात्तर्हि
- ( १४ )
- कोsप्पय न सिद्धयेत् विरुद्धत्वात् तथाहि कुत्रापि ब्रह्मात्मकत्वं कुत्रापि सूर्य्याग्निमनः प्रारणात्मकं तत्र विरुद्धत्वेन स्वतन्त्र- मेवायाति । अन्यच्च भस्मान्तकत्वे सर्वस्मिन् श्रयमाणे भस्मा- न्तकमेव किं न स्यात्तथाहि अथर्वशिरोपनिषदि भस्मजलमिति भस्म स्थलमिति भस्म स र्वेह वा इदं भस्म इति । तथा। श्रीभाग- वते - येन जातः स एव स इति पंच पंचाशताभवमिति च तथा प्रकृतेपि । तस्माच्चिदचिद्रात्मकस्य प्रपचस्य नियम्यतया कार्यतया तथा तदधीनतया तद्विभूतितया तत क्रीड़ोपकरणतया प्रतीति- बिषयत्वेनाप्रथम् स्थितितयान्तर्यामितया साक्षितया ब्रह्मतोक्ति र्नतु मिध्यात्वेनेति ज्ञ ेयं । यत्र तत्वमस्यादिवाक्यानि सामाना- धिकरण्यं वदन्ति तत्र शरीराभिप्रायेण ।।
- यत्कार्यं येन जातं हि तत्काय्र्यं तत्प्रचक्षते । ब्राह्मणाज्जायतेऽपत्यं ब्राह्मणत्वेन चोच्यते । प्रतियोग्य नुयोगीं च संम्वन्धेन परस्परम् । अन्योन्य नामवाची स्यादित्येषा परमार्थता । यत्पोष्यं यदधीनं यत तत्तदेवेति वैदिके । यथा कार्य्यं कुण्डलादि सुवर्णमिति ।
- ब्राह्मणापत्यं ब्राह्मण एव ब्राह्मणस्य शरीरं ब्राह्मणस्यात्मादुःखी- त्यादये कसम्बन्धेन ब्राह्मणादिपदवाच्यतोभयत्र यथा तथा ब्रह्म- जीवविश्वेषां यदद्यपि जीवेशयोः कार्य्यकारणभावो नास्ति तथापि जीवस्येश्वराधीनत्वादीशत्वं । यदधीनं यद्वस्तु तत्तन्नाम्ना व्यव हियते उक्त च स्कान्दे “यद्धीनो गुणोऽन्यस्य तद्गुणो सोऽभि- धीयते । तथा जीवः परात्मेति तथा राजा जयीत्यपि” । तस्मा- दीश्वरादुत्पन्नत्वादीश्वराधीनत्वादीश्वराक्रीडोपकररपत्वादीश्वरश- रीरं चिदचिद्वस्तु | अतः समानाधिकरण्यं तत्वमस्यादिवाक्यं जीवस्य शरीरत्वमीश्वरस्यात्मत्वमिति । न च श्वेतकेत्वाख्याने
- 1
- 1
- ( १५ )
- तस्य त्वमितिव्याख्यानेन विरोधः कारणो ब्राहमणः खंजो ब्राह्मण इति वत् वस्तुतस्तु सर्वत्रैवं परिपाटी अभेदोक्तिस्त्रिधा दृष्टा ज्ञाने भक्तौ च कर्मणि । अत्राधिकारी स. भवेद् यो, फ्लेच्छुश्च भेदवान् । यथा भक्तौ कर्मणि चाभेदोक्तिर्निःश्रेयसोत्पादिका तथा ज्ञाने ऽपि तथाहि भक्तौ । “कृष्णोऽहं पश्यत गतिं ललितामिति तन्मनाः " । अत्र कायित्वा कृष्णार्भभावनामित्यादि बहुशः लीलादयभिनयो हरेरित्यादौ बालकं श्रीकृष्णं वेषयित्वा तस्या- भिमानो भवति कृष्णोऽहमिति रसादौ, नहि तस्याः कृष्णत्वं भवत्यपि तु अभ्युदयं, अन्यथा पूतनायन्त्याः वत्सायन्ती बकाय- तीमित्यादौ तासामसुरत्वं च दोषत्वं च स्यात् । तथा कम्र्म्मणि पितृपितामहप्रपितामहा इत्युक्ते ब्राहृमणाः पित्रादयभेदं मत्वा बदन्ति स्वागतमिति । तथा बिष्णुस्थानस्थोपि ब्रह्मणोपि बदन्ति तथा " नारायणमयं धीराः पश्यन्ति परमार्थिनः । जगद्धनमयं लुब्धाः कामुकाः कामिनीमयमित्यादौ सर्वत्र भेद एव नाभेदः । तथा च सूत्रं भेदव्यपदेशाच्च भेदेनानन्दनादीश्वराद्भिन्नत्वेन व्यप- देशात् । रसो बै सः रसं ह्येवायं लब्ध्वानंदी भवतीति श्रुतेः । नहि लब्ध एव लब्धव्यो भवति । तस्माद्भेद एब । तथा च श्रुतिः अनन्विष्टोऽन्वेष्टव्यः अलब्धा लब्धव्योऽश्रुतः श्रोतव्यः श्रमतो मंतव्यः अविज्ञातो विज्ञातव्यः इत्यादौ भेदव्यपदेशः । द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते इति, कल्पितभेदव्या- ख्याने सर्व प्रमाणबाधः स्यात् तस्माज्जीवो भिन्नः । तथा लोकेऽपि कार्य्यनिर्वाहार्थं राजा वदति श्रहमेवायं सेवक इति । सेवको पि वदत्यस्मिन् कार्येऽहमेव राजेति । अन्यथा दंडयः स्यात् तथा च श्रतिः " यः पृथिवीमन्तरो यमयति स त आत्मान्तर्याम्यमृतः य आत्मनि तिष्ठन्नात्मनोऽन्तरा यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति स त आत्मान्तर्याम्यमृतः यः पृथिवी- मन्तरं संचरन्नित्यारभ्य यस्य मृत्युः शरीरं यं मृत्यु र्न वेद एष
- ( १६ )
- सर्वभूतान्तरात्माऽपगतपाप्मा दिव्यो देव एको नारायणः” “अन्य- च यस्य पृथिवी शरीरं यस्यापः शरीरं यस्य तेजः शरीरं यस्य वायुः शरीरं यस्याकाशः शरीरं यस्याक्षरः शरीरं" । श्रुत्य- न्तरे - " तानि सर्वाणि तद्वपुः तत्सर्वं बै हरेस्तनुः” । शौनकं प्रति - “यदम्वाबैष्णवः कायः ततो विप्र वसुन्धरा" । तस्मात्तत्वमसी- त्यादौ स ईश्वरस्त्वं ईश्वरशरीरत्वात्त्वमर्थस्य यथा ब्राह्मणाऽयं देहः न च ब्राहारणत्वं देह एवेति वाच्यं ब्राह्मणस्यायं देह इति प्रयोगदर्शनात् । देहात्मसम्वन्धविशेष एव ब्राह्मणशब्दप्रवृत्तिनि- मित्तमन्यथा भ्रष्टेऽपि तत्वं स्यात् ॥६॥
- ननु शास्त्रेणाभेदश्रवणात्कथमीश्वरविश्वयोर्विभागः तथा च श्रतिः यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति, एकमेवाद्वितीयं ब्रह्म, नेह नानास्ति किंचन, मृत्योः स मृत्युमा- प्नोति य इह नानेव पश्यति । अथात आदेशो नेति नेतीत्यादीति चेन्न । वास्तवे भेदेऽपि जीवब्रह्मणोः चेतनत्वेनाभेदः, ब्रह्म विश्वयोः प्रमेयत्वेनाभेदप्रतिपादनात् । यद्वा एतैरेववाकच भेदप्रतिपादनात् यदा कालः एष लोकः एतस्मिन् ईश्वरे उत् अरमीषत् अन्तरं भेदः कुरुते कृतिः भयं च एकमेव सजातीयं विना द्वितीयं विजातीयं विना ब्रह्म अल्पं बिना न इति प्राप्ति विना इहाधिकर- शान्तरं विना नाना अनेक प्राप्ति विना न निर्वहतीति भेदप्रतिपा- दुनाच्च ॥ १०॥
- तर्हि वाक्यार्थः कथं, शगु कारणत्वं प्रधानत्वं वैलक्षण्यमपीश्वरे सजातीये बिजातीये तन्निषेधान्निरूप्यते अनेकेषां कारणत्वे प्रधा- नत्वेपि च कारणत्वप्रधानत्वयो भगवत्येवावधित्वं । कथं सजातीये कालादौ विजातीये कर्मजीवादौ कारणत्वप्रधानत्वनिषेधात् परम- कारणत्वं परमप्रधानत्वं परमवैलक्ष्यं प्रतिपादयते । कारणानां प्रधानानां चोपस्थितत्वात् तथा च मण्डूकोपनिषदि सर्वं जनयति प्राणश्चेतश्रन् पुरुषः पृथक् । कालात् प्रसूति भूतानां मन्यंते
- ( १७ )
- कालचिन्तका इति कौठकच तौ च प्राणो बाच सर्वेभ्यो भूयान् न प्राणाद्भूयान् प्राणो ह्येव भूयान् तस्माद्र पान्नामेत्यादिना काल- प्राण- चेतो-नीबानां कारणत्वमुपस्थितं मनस्येब सर्वं प्रतिष्ठितं प्राण एव धर्म एवेति तद्वैक आहुरसदेवेदमग्र आसीदिति मनः प्राण धर्मासतां च तत्सर्वं निषिध्यते । नेह नानास्ति किंचन एक- मेवाद्वितीयं ब्रह्मेति । वृहदारण्यके च ते देवा अबन् एतावद्वा इदं सर्वं यदन्नं कामः संकल्पः विचिकित्सा श्रद्धा वृतिरधृतिर्हीधी- रित्येतत्सर्वमन एव मन एवापि ता बायुर्वै गौतम सूत्रं वायुना
- वै गौतमसूत्रेणायं लोकः परश्च लोकः सर्वाणि भूतानि संदधानि छांदोज्ञे च प्राणो वावज्येष्ठश्च श्र ेष्ठश्च इमानि भूतान्याकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यत्याकाशो ह्य्वैभ्यो ज्यायान् इत्यादीनोपस्थितं प्रधानत्वं कारणत्वमधिकरणत्वं बाह्यादिषु निषेधयति अथात् आदेशो नेति नेति न ह्येतस्मादिति नेत्यन्य- त्यमस्त्य नाम धेय इति सत्यस्यथ सत्यमिति प्राणो वै सत्यं तेषा- मेष सत्यः ततश्चायमर्थः एकमेवाद्वितीयं ब्रह्म नेह नानास्ति किंचनेत अद्वितीयपदं कारणाधिष्ठानविचित्रशक्तिमतामन्येषां निषेधः एकं मुख्यं सजातीय भेदराहित्यमिति तु व्याख्याने लक्षणा- पत्त ेः | एक शब्द एक संख्यात्युक्त मुख्ये च रूढत्वात । श्रयते बहूनां कारणत्वं प्रधानत्वमधिकरणत्वं च कारणानां कारणं अधि ष्ठानानामधिष्ठानं इह कारणादौ नाना न अन्यथा एकपद महपदं च व्ययं स्यात् । अन्तर्यामित्वकतृत्वाधिष्ठातृत्वानां निषेधः तथोक्तं नारदेन पर्वतऋषि प्रति योगभास्कर ब्रह्मविद्यायां- “एक: सकलमुख्यत्वादानन्दाद्व ततोऽद्वयः । आत्मा ज्ञानमयत्वाच्च व्यापकस्तु स्वशक्तितः । श्राकाशदेहो नीलत्वाद्व्यापकत्वादनावृतः । अरूपो निगुर्णो हीनः प्रकृतेगुणरूपयोः ।
- ( १८ )
- सूर्य्यादेरप्रकाशत्वात् स्वयं ज्योतिरुदाहृतः । त्रिकालावस्थितेः सत्यो ह्यनन्तः कालरूपतः । योगमाया नियन्तृत्वात् स्थूल सूक्षा दिरूपवान् । भगवान् भगरूपत्वादेषः सर्वेश्वरेश्वरः । पुरुषोऽमितमायत्वाद्वयत्वात्समः सुहृत् । अक्रियोऽयमनाशत्तथा ज्ञानत्वाश्च निरञ्जनः । बिहीनः प्राकृतैर्दोषैः शास्त्रीयैरित्यगोचरः । अवतारसहस्राणि श्रीकृष्णग्य महात्मनः । तृतीयांशाबतारो ऽभूदादिनारायणाभिधः यस्यासन रोमकूपेषु तेजसाच्छादितेष्विह । कसप्तति तमे नृसिंहो भक्तिरक्षणे । द्विसप्ततितमे रामो रावणारिर्महायशाः । षट् सप्ततितमे राम्रो बसुदेवसुतो वलः । कलावतारो जीबांशः कृष्णस्यासीन्महात्मनः अशावतारौ कृष्णस्य बामनश्च त्रिविक्रमः । अबताराष्टोत्तरशतमिदं तुभ्यं मयेरितमिति” ॥११॥
- केचित्तु ऐकयप्रतिपादितेषु बाकयेषु अन्तयाम्यैकमे बाथ बर्णयन्ति यथा प्रथमे - “तमिममजमहं शरीरभाजां हृदि धिष्ठि- तमात्मकल्पितानां । प्रतिदिशमिब नेकधार्कमेकं समधिगतोऽस्मि बिधूत भेदमोह
- " । सप्तमे ’ ’ तेष्वेव भगवान् राजन् तारतम्येन बत्त ते” इति । “जलेऽर्कवत् आत्मानीश्वर इति” । तस्मान्नित्य- कल्याणगुणवान् सर्वेश्वरः सर्वान्तर्यामी भक्तवत्सलः स्वतन्त्रः नित्यानन्द बिग्रहवान् अनेक ब्रह्माण्डकीड़नकः सिद्धः ||१२|| आत्मैक्य निंदा च मोक्षधम्र्मे स्यूमरश्मिक पिलसंबादे- स्यूमरश्मिं प्रति कपिलबाकय तत्वजिज्ञासा निर्णये तत्र पूर्ववृत्त’ लिरूयते । यद्यपि बिरुद्धार्थप्रतिपादकत्वेन निन्दैवायाति कुत्रचित् ( १६ ) कर्म निन्दा कुत्रचित्प्रशंसा कुत्रचिदात्म्यैकयं सर्वत्र नानात्वं कुत्र- चित्त च्छत्वं कुत्रचिदभावरूपत्वं कुत्रचित् शून्यत्वं सर्वत्रानन्द- वत्वं इत्यादिना । तथापि तत्तदधिकारिभेदेन सर्वं प्रमाणमिति कपिलाचार्येण निर्णीतम् । तथाहि कपिल उवाच " नाहं बेदान् बिनि- न्दामि न विवक्ष्यामि कर्हिचित् । पृथगाश्रमिणां कर्माण्येकार्था- नीति नः श्रुतम्” । एकः मुख्य अर्थः पुरुषार्थो येषां तानि । नारभे- तेति चान्यत्र नैष्ठिकी श्र यते श्रति. “अनारम्भेष्वदोषः स्यादा- रम्भे दोष उत्तम” इति । तत्र कस्यचिद्धर्म्म कस्यचिदर्थादिरित्यादि ज्ञेयम् । ततश्च शास्त्रार्थनिर्द्धारे पुरुषार्थनिर्द्वारे च पुनः पृच्छति स्यूमरश्मि उवाच स्यूमरश्मिरहं ब्रह्मन् जिज्ञासार्थमिहागतः । श्रय- स्कामः प्रत्युवाच मार्गाणां तु बिबक्षया । इमं तु संशयं घोरं भग- वान् प्रत्रबीतु मे । कपिलउबाच — यद्यदा चरते शास्त्रमथ सर्व- प्रवृत्तिषु । यस्य यत्र ह्यनुष्टानं तत्र तत्र निरामयम् । ज्ञानं प्लाब- यते सर्व यो ज्ञानं धनुबत्त ते । ज्ञानादे पत्यया वृत्तिः सा बिना- शयति प्रजाः । भवतो ज्ञानिनो व्यक्त सर्वतश्च निरामयाः ॥ ऐकात्म्यं नाम कश्चिद्धि कदाचिदुपपद्यते । 1
शास्त्रं ह्यबुध्वा तत्वेन केचिद्वादबलाः जनाः । काम षाभिभूतत्वादहंकारवशं गताः याथातथ्यमविज्ञाय शास्त्राणां शास्त्रदस्यवः । ब्राह्मणास्ते निरालम्बाः दम्भमोहवशानुगाः । नैगुण्यमेब पश्यन्ति न गुणाननुयुज्यंते । तेषां तमः शरीराणां तम एव परायणमिति" । तथा ब्रह्मवैवर्त्त" चनाद्व ैतवादी न विरागयुक्तो दास्ये प्रवृत्तो न परं विचिन्तयेदिति । “यतो बाचो निवत्तन्ते” “अन्तयमात्मे” त्या- दिवाकयानां गुणानन्त्याद्वाचो निवृत्तिः अवैष्णवदत्ताप्युभयोरभो- क्तत्वादभोक्ता कर्मे त्यादयर्थो ज्ञेयः । तदुक्त बासुदेबाध्यात्म्ये-ह्य ( २० ) " अप्रसिद्ध स्तद् गुणानामनामासौ प्रकीर्तितः । अप्राकृतत्वाद्रप- स्याप्यरूपोऽसावुदीर्यते" । वस्तुतस्तु कन्तत्यादाबक पढ़वा- च्यस्य ये निर्लेपा बिधर्मास्ते ईश्वरे संतीत्युच्यते । अकतृत्वपदेन यथा शून्यादिपदेन तत्सादृश्यं तथा कत्तसादृश्यं निर्लपत्वादि तथाहि उपनिषदि - “एष व शून्यः एष ह्येव तुच्छः एष हवा- भाबः एव ठेवाव्यक्तोऽदृश्योऽचिन्त्यो निर्गुणश्चेति । अन्यथा शून्यत्वादिकमेव स्यात् । नन्वेवं चेत् भक्तिरस्योपासनातु फलब - त्वात् । न भक्त ेः सुखरूपत्वेन फलाभावात् । न च सुखे जाते दुःखाभाव एव फलमिति वाच्यं । पादे सुखं शिरसि मे वेदनेति युगपदनुभवात् । ननु श्रयते भक्तः फलं पुत्रादि न कत्त ुरेवा- वैदग्ध्यात् । नहि मणेर्भर्जितचनकाः फलं तदुक्तं ब्रह्मबत्त - हरेरुपा- सना चात्र सदैव सुखरूपिणी । न च साधनरूपा सा सिद्धिरेबात्र सा यतः इति ||१३|| G ननु कथं भगवच्छरोरसिद्धिः प्रमाणाभावात् । नहचदृष्टं विना शरीरसिद्धिः प्रयोजनाभावात भोगायतनं हि शरीरमिति चेन्न सर्वप्रमाण गम्यत्वात् वेदानुयायिभिर्मानैः प्रत्यक्षादिभिरु- च्यते । “शरीरं सद्गुणै व्र्याप्तं नित्यानन्दात्मकं हरेः " । वैकुठे पार्षद लक्ष्मीनां भूवैकुण्ठे हनुमद्रवप्रल्हादानीनां श्रुतिस्मृतिपु- राणागमेषु सर्वन्द्रियास्वादयत्वेन श्रयमाणत्वात् प्रत्यक्षेण शरीर- सिद्धिः । योग्यानुपलन्धितत्वादिति चेन्न सहकारिविरहात् । उपासनोपासकानां प्रत्यक्षत्वात् अन्यथेन्द्राद्दिसिद्धिरपि न स्यात् अनुमानमपि । भगवान् शरीरी कत्त त्वा वदत्तवत् न चादृष्टाभा- वादशरोरी मुकादिति प्रतिरोधादसिद्धिरिति वाच्यं । श्रागमादि- सहकारित्वेनाधिकवलत्वात् त्वयापि जीवाष्टादिनोपदेशार्थं स्वीकृतत्वाच्च । अन्यथा ज्ञानेच्छाप्रयत्नादीनामप्यसिद्धिः स्याद- दृष्टाभावात् न च कत्त ‘त्वान्यथानुपपत्या तत्सिद्धिः । शरीरस्य ( २१ ) तत्राप्रयोजकत्वादिति वाच्यं पटे पृथियादिबद् ज्ञानाधारतया ईश्वरस्य कारणत्वं न स्यादन्यथा सिद्धत्वाभावात् । किं च चेष्टा- श्रयत्वेन कुलालादीनां कत्तत्वं तद्वदीश्वरेऽपि स्वीकरणीयं ज्ञानाश्रयत्वेन कत्तत्वेन चेष्टादीनामकारणत्वं स्यात् । न चेश्व- रत्वादेब चेष्टानपेक्षत्वं ज्ञानादावपि सुबचत्वात् न च चेष्टाया व्यापारत्वं तस्यापि कारणत्वात । किं च कत्त त्वशरीरित्वयोः समव्याप्तत्वादेवं सिद्ध चदुभयं पर्यवस्यति न च मध्यमपरिमाण- त्वात् सावयवत्वादनित्यं स्यात् प्रयोजनाभावादनुपलब्धिवाधित- त्वान्न सिद्धिरिति बाच्यं । स्त्रस्य जीवानां च प्रयोजनस्य बिदय- मानत्वात् वेदपुराणेषु नाभिकमलाद्ब्रह एडोत्थशरीरस्य श्रयमा- गत्वाच । शरीरसिद्धौ साबयबत्वादिकं बिचारयिष्यामः । बस्तु- तस्तु अलौकिकेऽर्थे नानुमानादीनां प्रामाण्यं किंतु श्रुतेः । तदनु- कूलतादीनां तु सहायमात्रं तदुक्त कौमे- “श्र तिसाहाय्य रहितमनुमानं न कुत्रचित् । निश्चयात्साधयेदर्थं प्रमाणान्तरमेव च । श्रुतिस्मृतिसहाय तत्प्रमाणांतरमुत्तमम् । प्रमाणपदवीं गच्छेन्नात्र कार्य्यविचारणा । पूर्वोत्तरबिरोधेन कोऽत्रार्थोऽभिमतो भवेत् । इत्यादयमूहनं तर्क शुष्कतकं तु बर्जयेदिति” । यदपि तथाबितके खापि सिध्यत्येवेति ज्ञापयितुं तर्कोपन्यास इति ||१४|| नन्वशरीरकत्त ‘कनिषेधतः कत्तमात्रनिषेधः श्रेष्ठः किमिति न स्वीक्रियते कारणं बिना कार्य्याद्वलबती प्रसक्तिरिति कर्तृस्वी- कारः तर्हि बिचार्यतां चित्यादिकं सकत के कार्य्यत्वाद् घटब- दिति कुबिंददृष्टान्तेनेश्वरसिद्धिः तत्र कीदृशीव्र्व्याप्तिः घटादौ कृतिसाध्यता हस्तादिव्यापारद्वारैब गृन्हीता नतु साक्षात् । न चाश- C ( २२ ) रीरस्य संभवति । अन्यदृशी च कृतिसाध्यता न दृष्टा ततश्च कृतिसाध्यत्वे शरीरव्यापारजन्यत्वं प्रयोजकं तत ईश्वरः शरीरी कत्तत्वाद्दवदत्तबदिति सिद्ध ं ||१५|| न च जन्यत्वं जन्यत्वं हस्तादिव्यापारद्वारकत्तककार्यावच्छेदकं घटत्वादिकं वा आय कुरादौ व्यभिचारो द्वितीये कुला- लेन सिद्धसाधनमिति न तत्सिद्धिरिति वाच्यं । जन्यत्वमात्रस्य विवक्षितत्वात् । न च क्षितौ व्यभिचारस्तत्रापीन्द्रियव्यापारस्य बिद्यमानत्वात् । तत्र श्रतिः " तदैक्षत तरोजोऽसृजत" तथा तृतीये- यमाहुरादद्य पुरुषं सहस्रांध्युरुबाहुकं । यत्र बिश्वे इमे लोकाः सबिकाशं समासत । तस्यार्थसूक्ष्माभिनिविष्टदृष्टे रन्तर्गतोऽर्थो रजसा तनी यान् । गुणेन कालानुगतेन बिद्धः सूष्येंस्तदा भियतनाभिदेशादिति” किंच ( किन्तु ) यत्र बिशेषयोः कार्य्यकारणभावस्तत्र बाधकं बिना सामान्ययोरपि तथा नियमात् ||१५|| ८ न च यदि शरीरी स्यात् भोगवान् स्यादित्यादि बाधकान्न तत् सिद्धिरिति बाच्यं व्याप्तिग्रहकाले भोगादेरनुपस्थितत्वात् नच स्थित्यादिकत्तत्वेन कन्त त्वमात्रमुपस्थितं न तथात्वमिति वाच्यं, ज्ञानशरीरवत्वेनैव कत्तत्वं कत्त त्वात्तथा व्याप्तेश्च लाघवादनुकूल चेष्टावत्वं चाकन्तत्वं । उपादानापरोक्ष ज्ञानचि- कीर्षाकृतिमत्वेऽनिष्ट विषयक ज्ञानं प्रतिकत्त त्वं न स्यात् । उप- स्थितौ वा भागवती श्रुतिरेव प्रतिभट्टकरणीया “अन्यत्राधर्माद- न्यत्र धर्मात् एष एव परो ह्यानन्दः, रसो बै स" इति अन्यथा शरीरेऽनिन्द्रिये निर्व्यापारे सृष्ट्यादीनामेककालता स्यात् । सर्व- निरपेक्षत्वात् दृष्ट सामग्री अपेक्षत्वपि शरीरापेक्षापि स्यात् ईश्वर- ( २३ ) स्य विदद्यमानत्वात् न च पूर्ववर्तित्वमेव प्रयोजकं निर्व्यापार- स्यापि तत्वं स्यात् । किं च शरीरव्यापारद्वारैव प्रयत्नस्य कारणत्वं न तु स्वतः तथा दर्शनात्. १६ ।। ननु कार्य सकतृकमेव कर्त्ता शरीर्येव, ज्ञानमनित्यमेब, शरी- रमदृष्टजन्यमेवेति विरोधान्न तत्सिद्धिरिति चेत् न । विरोधस्या- नुपस्थितत्वात् न हि व्याप्तिग्रहकाले नित्यत्व जन्यत्वयोरुप- स्थितिः । सिद्ध कत्तत्वे पक्षधर्मतावलन्नित्यत्वं सेत्स्यति ॥ १७॥ ननु भवतु वा तथात्वं शरीरं तु न सिध्यति कन्तत्वेन शरी- रानुमाने दृष्टवत्वमुपाधिरिति चेन्न उक्तोपाधेरीश्वरेऽपि विदय- मानत्वात् । तर्हि जी बिशेष एव क्षित्यादिकर्त्तेत्यागतं न अनब- बोधात् । नहि माया भगवति श्रदृष्टैव तत्र मुच्यते ऽपि तु जीवे जीवा दृष्टेन कत्तत्वबच्छरीरसिद्ध : अन्यथा निरपेक्षत्वात् स्वतन्त्रत्वाददृष्टाभाबात् कन्तत्वं न स्यात् । उर्हि शरीरिवे भोगः न यथा कत्तत्वेपि निर्लेपता तथा शरीरित्वेऽपि तुल्यं । बस्तुतस्तु पक्षधर्मताबलान्नित्यं शरीरं सिध्येत् शरीरमनित्यमेवे- तिव्याप्तिः प्रत्यक्षेण न विरुध्यते । अस्मदादिशरीरविषयत्वेन भिन्नविषयत्वादिति एकबिषय बिरोधिज्ञानस्यैव प्रतिबंधकत्वात् । यथ प्राथिबी अनित्यैवेति व्याप्ति निरस्य परमाणुरूपा नित्या तथा जीवशरीरमनित्यमीशशरीरं नित्यमिति । ज्ञाननित्यत्वसाधने गंगेशेनाप्युक्त बयं तु ब्रमः पक्षधर्मताबलान्नित्यं ज्ञानं सिद्धोत् बुद्धिरनित्येति व्याप्तिः प्रत्यक्षेण विरुद्धयते । अस्मदादिबुद्धिमात्र विषयत्वेन मिन्नविषयत्वादिति । न च शरीरत्वं नित्यव्यावृत्तमे- बाबगमतः कथं नित्यवृत्तित्वमिति वाच्यं उभयसिद्धनित्यावृत्ति- स्वावगमेऽतिरिक्ते नित्यवृत्तित्वाबगतौ बिरोधाभावात अतिरि क्तकथने प्रमाणाभाव इत्युक्त अतिस्मृतिपुराणागमात् प्रभाणं बक्ष्यामः, अनुकूलतर्कोऽपि, यदि दित्यादिकं शरीराजन्यं ( २४ ) स्यादकर्तृ के स्यादात्मवदिति देवदत्तादिना सिद्धसाधनमिति चेन्न कन्तत्वाबछिन्नस्य निषेधापादनात् शरीरमात्रे विप्रतिपत्तिर्नवी- श्वरे। किंच वराहमत्स्यनृसिंहानां ब्रहा - सत्यव्रत प्रल्हादायानुग्रहार्थ शरीरं त्वयापि स्वीकररणमेव, पुराणप्रमाण्यात, नित्यत्वमात्रे परविप्रतिपत्तिः । सापि तत्तन्मन्त्राणामनादिसिद्धत्वात्तत्तदुपास- कानां च वेदागमादिषु नित्यत्वश्रवणान्निवर्तिष्यते । तस्माच्छरीरी नित्य कल्याण गुणवानीश्वरः सिद्धः ॥ १८ ॥ इदानीं तर्काणां स्वतोऽ प्रामाण्यादनुग्राहकत्वेन प्रामाण्यं ते श्रुतिस्मृतिपुराणागमा उच्यन्ते । तत्र यच्छरीरं तददृष्टजन्यं सप्रयोजनं पांचभौतिकमित्यादि दोषारते न संभवन्ति “भौतिके दृष्टदोषा ये न भवन्ति हरेस्तनौ । जीवात्मनो यथा भेदस्तथा तद हगेहयोः " । यथा जीवेशयोवैलक्ष्य भेदस्तथा देहस्था- नादिषु सर्वांशेन बैलक्षण्यं ज्ञेयम् । ननु " उपासकानां कार्य्यार्थं ब्रह्मणो रूपकल्पना | कल्पितस्य शरीरस्य तस्य सेनादिकल्पना” इति रामोपनिषदि अतः पांचभौतिकमिति चेन्न वाक्यार्थानवोधात् । तथाहि ननु ब्रह्मणः पूर्णस्य रूपकल्पना शरीरकल्पना किमर्थं तत्रो त्तरं उपासकानां काय्र्यार्थं न तु उपासकस्य कार्य्यमन्तर्यामि- तया न भवति । तत्राह कल्पितस्याविः कृतस्य शरीरस्य सेनादि सेना गजतुरगाः श्रादिशब्देन पार्षदा तत् कल्पते इति कल्पना, क्लप्त सामर्थ्यं समर्था, युक्तत्यर्थः । मिध्यात्वे वेदपुराणागम- बाधः स्याद्वौद्धमत प्रवेशश्च । तथोक्तं प्रथमपादे भास्करभाष्य- कारेण किं मायामयं रूपं नेति ब्रूमः पारमार्थिकमेवैतत् इति । तृतीये निंदा च तद्वा इदं भुवनमंगल मंगलाय ध्याने स्म नो दर्शितं त उपासकानां तस्मै नमो भगवते ऽनुविधेम तुभ्यं योऽनादृतो नरकभाग्भिरसत्प्रसंगैरिति । चतुर्थे - क्रियाकलापैरिदमेव योगिनः श्रद्धान्विताः साधु यजन्ति सिद्धये । भूतेन्द्रियान्तःकरणोपलक्षितं -
( २५ ) वेदे च तन्त्रे च त एव कोविदाः, क्रियाकलापैः पूजाप्रकारें । तदुक्त भारते " न भूतसंघसंस्थानो देहोऽस्य परमात्मनः” । बृहद्वै- वे" यो वेत्ति भौतिक देहं कृष्णस्य परमात्मनः । स सर्वस्माद्वहि: कार्य्यः श्रोतस्मात्त’ विधानतः । मुखं तस्यावलोकयापि सचैल स्ना- नमाचरेत्" । चरणीशेषसंवादे च– “नन्द व्रजजनानंदी सच्चिदानन्द- विग्रहः” । उपनिषदि - " तमेतं गोविन्दं सच्चिदानन्दविग्रहमिति” । स्वायंभुत्रागमे पंचाशीतिपटले - “तत्र प्रेमभराक्रान्तं किशोरं पीतवाससं” । एतज्जातीयैरेव वा कचरानन्दविग्रहः स्वीक्रीयते । अन्यथा अष्टविशेषोपग्रहीत प्रवत्त कमीनादिशरीरकल्पने तज्जा– तोयवाकयानां व्याकोपः स्यात् । महावराहे- “सर्वे नित्याः शाश्व- ताश्च देहास्तस्य परात्मनः । हानोपदानरहिताः नैव प्रकृतिजाः क्वचित् । परमानन्दसंदोहा: ज्ञानमात्राश्च सर्वतः " तथा मण्डूको- पनिषदि -“प्रज्ञानघन एवानन्दमयो त्यानन्दभुक्चेतो मुख” इति । “सर्वतः पाणिपादं तत्सर्वतोक्षिशिरो मुखं । सर्वतः श्रतिमल्लोके सर्वमावृत्य तिष्ठति” | १६॥ न च तत्तत्कार्य्यदर्शनात्तत्तद्वत्त्वमुपचर्यते । ज्ञानात्मकत्वा- दिति वाच्यं श्रत्यंतरविरोधेन लक्षणायां प्रमाणाभा- वात् । " चतुर्भुजं महाबीर पूरकेन विचिन्तयेदिति” ध्यानवि- दूपनिषदि । स्मृतिश्च “निर्दोषपूर्ण गुणविग्रह आत्मतंत्रों निश्चे- तनात्मकशरीरगुणैश्च हीनः । आनंदमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मेति” । मार्कण्डेये चतुर्थाध्याये - “दूरस्था चान्तिकस्था च विज्ञेया सगुणान्विता । अस्त्येव सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी” ॥२०॥ ननु शरीरपदं लोकपदवदात्मपर्याय एबातो न विग्रहविग्रहि- भावः शरीरेन्द्रिय राहित्ये नैव श्रुतौ श्रयमाणत्वादिति चेत् । शरी- रेन्द्रियवर्णादिविभागेनैव श्रयमाणत्वात् तथाहि “अतसीपुष्प- ( २६ ) संकाशं नाभिस्थाने प्रतिष्ठितं । चतुर्भुजं महावीरमिति” विदूप- निपदि, “दुर्दर्शमतिगम्भीरमजं श्याममविशारद मि"त्यलातोपनि- यदि, “पद्मकोशप्रतीकाशमिति” महोपनिषदि, “प्रकृत्या सहितः श्यामः पीतवासा जटाधर इति” रामतापिन्यां, “द्विभुजो रघुन- न्दन” इति च । श्रत्यन्तरे " तस्य परमस्य नारायणस्य च चत्वारि रूपाणि, शुक्ल रक्त रौक्मं कृष्णमिति” । भागवते “शुक्लो रक्तस्तथा पीत इदानीं कृष्णतां गत” इति, “भूर्लोकः पादयोस्त- स्य भुवो लोकस्तु जानुनोः । स्वर्लोकः कटिदेश” इति नादविन्दूप- निषदि, " चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायते “त्यादिब- हुशः । कौम्यै - " अस्थूलश्चानणुश्चैव स्थूलोऽगुश्चैव सर्वतः । अवर्णः सर्वतः प्रोक्तः श्यामो रक्तांतलोचन” इत्यादि । “ऐश्वर्य्य- योगाद्भगवान् विरुद्धार्थोऽभिधीयते । तथापि दोषाः परमे नैवा- हाय्य: कथंचन । गुणाविरुद्धा अपि तु नैवाहाय्र्याः कथञ्चन” " सस्मितं भावयेन्मुख” मित्यादि श्रीभागवते बहुशः । “ऋतं सत्य- परं ब्रह्म पुरुषं नृकेशरिविग्रहं कृष्णपिङ्गलमिति” तापिन्यां, " जरामरण निमुक्ताः सर्वधर्माः स्वभावत” इत्यलातोपनिषदि । न ह्यात्मनि जरादयोऽपि तु देहे । न तु प्रयोजनाभावात् कथञ्चन शरीरप्रवृत्तिः । तत्रोच्यते- “लोके वेदे तथा कृष्णो लक्ष्मीभतृ तयोच्यते । सुखं विना पतित्वं हि न लोके न च वैदिके ॥ यथा निधिपतिः कश्चित् निधेर्भोगं विनापि हि । स्वरूपेनैव सुखवान् तदीयाभिनिवेशतः ॥ अदृष्टजन्यो यो भोगः लोक एव तु संमतः । ईशे तु नित्यो विज्ञेयः लक्ष्मीभतृ तया बुधैः " || लक्ष्म्या अनादिसिद्धत्वात् भोगोप्यनादिसिद्धः तथा च नित्यसुख- बानीशः ||२१|| ( २७ ) न च नित्यसुखत्वे कथं भक्तसेवया सुखमिति वाच्यं भक्त- सेवया आविर्भावकत्वात् समुद्रवत् । नहि चन्द्रदर्शनादर्शनाभ्यां जलोत्पत्तिर्नाशो वाऽपि तूच्छलनं स्थिरता च स्मृतिश्च । “भूर्यप्य- भक्तोपहृतं न मे तोषाय कल्पते । पत्रं पुष्पं फलं तोयं यो मे भक्तया प्रयच्छति । तदहं भक्तयु पहृतमश्नामि प्रयवात्मनः " इत्यत्र भोगं विना भक्ताभक्तविभागो न स्यात् । फलदातृपक्षे समत्वात् " आनन्दभुक् चेतो मुख इति” श्रुतेः " रमालालित- पादपल्लव” इति, “इच्छामात्रं प्रभौ सृष्टिरिति सृष्टौ विनिश्चि- तेति” मण्डूकोपनिषदि । नह्यनिष्टविषयिनीच्छा तत्र आनन्दावि- र्भावकत्वं सृष्टेः, मण्डूकोपनिषदि भोगार्थं सृष्टिरित्यऽन्ये कीडा- र्थमिति चापरे” इति । नत्वदृष्टाभावात्कर भोग इत्याक्षेपपरि- हारार्थं श्रुति:- “देवस्यैष स्वाभावोऽयमाप्तकामस्य स्पृहेति” यदद्यपि आप्तकामस्य जीववत् कापि स्पृहा न भवति तथापि देवस्येश्वरस्यायमेव स्वभावः भोगः अलीकजीववद्धोगो नापि तु महाराजवत् । नहि चक्रवर्त्तिनि खंडमंडलेश्वराणां विष- यकृतो भोगोऽपि तु महाराजस्य मदीयोऽयमिति एतावन्मात्रम् । वस्तुतस्तु सर्वेन्द्रियभोगः श्रीकृष्णस्यापि परं त्विदं रहस्यं शुद्धया भक्तया ग्राह्यं । पाद्म े बिंशेऽध्याये “अच्युतं शाश्वतं दिव्यं सदा यौवनमाश्रितं । नित्यं संभोगमैश्वर्या श्रिया भूम्या च संवृत- मिति” । ततश्च नित्यानंदादिमयशरीरेन्द्रियवत्वं भगवति, शरीरं तु अचिन्त्यात कर्यानन्तशक्तिमत् परिछिन्नं च व्यापक किरणाश्रय सूर्य्यबत् ||२२|| का ननु व्यापकमेब भगवच्छरीरं श्रुतिप्रामाण्यात् तत्तद्भक्तानां तत्र तत्रानुभूयमानत्वाच्च परिच्छिन्नत्वे सर्वभक्तानां युगपत्सब स्वाद: सेबनं च न स्यात् इन्द्रियादीनामपि परिच्छिन्नत्वे द्रौपदी- गजेन्द्रादिकृताक्रोशनादिश्रवणं न स्यात् । श्रतिश्च “सर्वतः ( २८ ) पाणिपादां त्तसर्वतोक्षिशिरोमुखमिति” अत्यन्तरे च तदेव सर्वतो मुखमेतदिति । तस्माद्वयापकमिति अत्रोच्यते - " तत्वे स्थानस्य नियतेरीश्वरस्य गतेस्तथा । सिद्धानां गमनस्यापि व्यर्थथा केन बार्यताम् । व्यापकत्वे तत्वे वैकुठव्यर्थता स्यात् । नहि लूतातंतु हस्त्याश्रयः, नहि लूतातं तुर्हस्तप्रियः । तथा भागवते च - “यदि दूरं गतः कृष्णः इत्यादिगमनास्वादक-भक्त- गमनस्य भक्तपरि- च्छिन्नविषयत्वात् प्रियभक्तप्रतारणा च स्यात् । नहि अन्यथा स्थितं वस्त्वन्यथा प्रदर्शकस्य हितकत्त त्वं यश्च्चोक्त सर्वदेशे सर्वभक्तसेवनादिकं तत्र बिचारणीयं तत्तद्द शस्थ भक्तानां सर्वस्व- रूपसेबनं वा तत्तत्प्रदेशमात्रं वा अन्त्ये सर्वागसेवनस्य श्रयमा रणत्वात् । ओदयो भक्तस्यापि देहेन्द्रिययोः व्यापकत्वप्रसंगात योगजधर्मस्वीकारे ईश्वरनिष्ठ एव अचिन्त्यधर्मः स्वीक्रीयतामाव- श्यकत्वात ॥२३॥ किंच " नचान्तर्न बहिर्यस्य न पूर्वं नापि चापरमिति” तावत्रियु- ग्ममनुकृष्य सरीसृपंताबिति च” । अ तौ च सर्वतोमुखः अस- तो मुख इति च । युबाऽकुमारः प्रत्येत्याहवं कुमारः सन् युवा आहवं नामोच्चारकं प्रति एति आगच्छतेति । ततोऽचिन्त्यपरि- च्छिन्नं तत्र शरीरं वा व्यापकं सूर्य्यकिरणबत्तादात्म्यापन्नो धर्मा वा भवतापि भक्तेषु व्यापकानुपयोगादचिन्त्यशत्तचा परिच्छि- नमेब स्वीकरणीयः “ऐश्वर्य्ययोगाद्भगवान् विरुद्धार्थोऽभिधीयते । तथापि दोषाः परमे नैवाहार्थ्याः कथंचनेति" कौर्ये । ततश्च लाघ- बादुपदेशागमध्यानसेवन वैकुण्ठादिबिलासक्रीडादि - प्रामाण्याद- चिन्त्य परिच्छन्न एब श्रीविग्रहः पूर्णत्वादयो धर्माः । अन्यथा श्र त्या- देर्व्याकोपः स्यात्तथाहि सर्वतो मुखता सर्वतो मुखता च तत्र च सर्वतोमुखतार्थेन सर्वतो मुखता स्वरूपेण । नृसिंहोपनिषदि - अथ कस्मादुच्यते सर्वतो मुखमिति यस्मादतीन्दियोऽपि सर्वतः " ( २६ ) २६) पश्यति सर्वतः शृणोति सर्वतः गच्छति सर्वनः श्रादत्त स सर्वगः सर्वगः सर्वतस्तिष्ठत्येकपुर न्तात परतो बभूव तस्मादुच्यते सर्वतो मुखमिति । अनया अत्या प्रत्यक्षादिप्रमाणागममंत्रांगपूजादिद्धि- रोधं दूरीकत्तु श्रीभगवन्या अन्यार्थः स्वीकृतः सर्वं पश्यन्तः सर्वतश्चक्षुः सर्वं शृणोति सर्वतः कर्णः सर्वं गच्छति सर्वतः पादः, सर्वमादत्त े सर्वतो हम्तः, इत्यादयर्थं स्वीकृत्योक्तं सर्बतः पाणिपादं इत्यादि । अन्यथा यथा सर्वतो मुखता व्याख्याता तथाऽसर्वतो मुखतापि व्याख्याता स्यात । तथाहि नृसिंहोपनिषदि - बिष्णुमबिष्णु ज्वलन्त मज्वलन्तं सर्वतो मुखमसर्वतो सुखं भोष- णमभीषणं नमाम्यहमनहं नृसिंहं त्वानुष्टुभव वुवुधिरे इत्यादि तच्छरीरं तच्च द्रियस्वादयं ग्राह्यं च । न च स्वप्रकाशतां व्याघातात् जडत्वं च स्यादिति वाच्यं इन्द्रियास्वादयत्वेऽपि स्वप्रकाशानप- गमात् नहि चक्षुषा ग्राहयेपि सूर्य्यस्य स्वप्रकाशता भंग: चैतन्या- श्रयभिन्नत्वमेव जडत्वे प्रयोजकमन्यथा दीपोऽपि चैतन्यं स्यात् । तदुक्तं पाद्म े हरिं प्रति व्यासवाकय’ " त्वामहं द्रष्टुमिच्छामि चक्षुर्भ्यां मधुसूदन! । यत्तत्सत्यं परं ब्रह्म जगद्योनिं जगद्- गतिं । वदन्ति वेदशिरसश्चाक्षुषं नाथ मेऽस्तु तदिदि’ । यत्र तु श्रुत्यादिषु इन्द्रियाग्राह्यत्वं तत्र त्वात्मविषयकत्वं ज्ञेयं शरीरविषय स्यैब ( विशिष्टस्यैव ) प्रत्यक्षत्वात् नारदपञ्चरात्रे - ‘समस्तमिद- माक्षित’ यस्साच्च पवनात्मना । तस्माच्च सर्वपाणित्वं सर्वगः स्थाणु- मीयते । उर्ध्वार्ध्वस्तिर्यगैर्यत् भासते रश्मिभिः रविः । तत्प्रकाशकरूपत्वात्सर्वचक्षुरजः स्मृतः । समत्वात्पावनत्वाच्च सर्व- सर्वशिरः स्मृतः । सदानंदरसा सर्वे तस्य सन्ति सदैव हि । सर्वत्र शान्तरूपस्य ततः सर्वमुखः स्मृत’ इति पर्वतं प्रति नारदोक्तिश्च “आत्मा ज्ञानमयत्वाच्च व्यापकस्तु स्वशक्तितः । सूर्यादेरप्रकाशत्वात् स्वयंज्योति रुदाहृतः । वस्तुतस्तु अलौकिके बाकयमेब प्रमाणं न( ३० ) युक्तिः । उक्त’ च पुरुषोत्तमतन्त्रे - यद्वाकयोक्त’ न तद्युक्तिविरोद्ध किञ्चित्सा- शक्नुयात् क्वचित् । विरोधबाकययोः क्वापि हाय्यकारणमिति’ । ‘ये दोषा इतरत्रापि ते गुणाः परमे मताः । न दोषः परमे कश्चिद्गुणा एव निरन्तर मिति’ ||२४|| नतु सृष्टेः पूर्वं ‘मदेव सौम्येदमग्र आसीत् ब्रह्म बा इदमग्र आसीदित्यादिना ब्रह्मण एव पूर्व भावित्वं श्रयते नतु विग्रहस्य सृष्ट्यादिमध्य एब श्रीवाराहादेः श्र यमाणत्वात् राक्षसबधादिद्वारा धर्मरक्षार्थमिति चेत् न विग्रहस्यैव अतिपुराणादिषु श्रयमाण- त्वात् अन्यथा सदेब सौम्येदमित्यादि वैयध्यं स्यात् । नहि तदा जीबात्मनामभावोऽपि तु देहादीनामेव । तथाहि ओं अथातो महोपनिषदमेव तदाहुरेकोऽहं वै नारायण आसीन्न ब्रह्मान ईशानो नापो इत्यादि महोपनिषदि । इदं तु रहस्यत्वेनोक्त ओं अथातो महोपनिषदमेवेति प्रथातः एतदनन्तरं महोपनिषदमेव महारहस्यमेव किं तत् नारायण आसीदित्यादि नारायणशब्दः शरीरबाचक एब । नारायणोपनिषदि ‘पुरुषो ह वै नारायणोऽका- मयत अथ नारायण आसीदित्यादि अथ नारायणात् रुद्रो जायते यतः प्रजाः सर्वाणि भूतानि नारायणादेव समुत्पद्यन्ते नारायणे प्रलीयन्त नारायणे प्रलीयन्त इति’ ‘बिश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरिति’ ‘नारायणः परं ब्रह्म तत्वं नारायणः परः । ऋतं सत्यं परं ब्रह्म पुरुषं ब्रह्मपिङ्गलं’ इत्यादिना वर्णोक्तिश्च । एवं वैकुण्ठादिभगबल्लोकोपि नित्य एव । बिशेषो लोकप्रकरणे बक्षामः । ततश्च सर्वेऽवताराः सर्वाणि स्थानानि पार्षदाश्च नित्याः ||२५|| नन्ववताराणां नित्यत्वेऽनेकेश्वरत्वं स्यात् ततश्चैके एवेश्वरः शरीरी तत्तद्भक्तानां तथा तथा प्रतीयत इति अतो भक्तानामेवेच्छा नियामिका न तु स्वरूपभेदः संकोचविकाशन्यायेन कूर्म नृसिंह- ( ३१ ) १ त्वादिप्रतीतेः । तस्मादीश्वरशरीरमेकमेव । अत्र क्रमः द्विभुजत्व- चतुर्भुजत्वबालत्व किशोरत्व कूर्मत्वनृसिंहत्वादि आकाराणां नित्यत्व- मस्ति न वा नित्यत्वे सिद्धा भेद: अनित्यत्वे निद्ध कब्रह्ममत- प्रवेशः, अन्यच्च तत्तदाकारोऽस्ति न वा ? अस्तित्वे भेदः नास्ति चेत् असद्वस्तु प्रदर्शनेन भक्तानामहितकारी म्यात् । किं च तत्स्व- रूपं च निरूपणीयं येन नित्येनानित्यं प्रदृश्यते किमिति च भक्तानां नित्यं स्वरूपं न प्रदृश्यते न च भक्तानामिन्ळ्या प्रदर्श्यत इति वाच्यं उपदेशपरम्परया भक्तेच्छाया नित्य विषयत्वात् न च मार्कण्डयादिवत् सर्वेऽसद्दर्शनेच्छावंतः, नृसिंह राघवेन्द्र सेवकानां प्रल्हाद हनुमदादीनां नित्यत्वेन वेदागमादिषु निर्धारितत्वात् । तहि कथमेक एब नारायण आसीदित्यादावैकय को व्रतेऽनेकत्वं न वयं भगवदात्मनाऽनेकत्वं ब्रमोऽपि तु नृसिंहादद्याकाराणामवा- धितनित्यत्वं चित्रपटवत् । तथोक्तं नारदपञ्चरात्रे - ‘मणिर्यथा । विभागेन नीलपीतादिभिर्युतः । रूपभेदमवाप्नोति ध्यानमेदात्तथा हरिरिति । केचिद्वेष्णवंमन्या एक एवेश्वरोंऽशी काय्र्यार्थं तत्त- दाकारः काय्र्यावसाने ऐक्य’ । परमसंहितायां च ‘अशिनस्तु पृथक जाता प्रशास्तस्यैव कर्मणा । पुनरेकयौं प्रपद्यन्ते नात्र कार्य- विचारखेति’ मन्यते । तत्त न चारुतरं वैष्णवत्वव्याघा- तात् तथाहि इदं त्वद्वतवादिना वक्त शक्यते न तु वैष्णवेन, उपा- स्याकारस्यानित्यत्वे भक्तित कुण्ठतद्भक्तानामनित्यत्वं स्यादद्वत- मतमोक्षो वा तर्हि कथं पुनरैकय प्रपद्यत इति बाकयार्थ:- बिभूतौ शक्तचंश प्रबेशो अतो न विरोधः । दीश्वरस्यैकत्वे न तत्तद्बतार श्रीमूर्त्तीनां च भेदत्वं सिद्ध । अत- एबाबतारावतारित्वेन सर्वत्र विभागः । सदाविभूति सर्वशक्तिम- त्वम्बतारित्वं, यथा काय्यमाविभूतशक्तिमत्वमबतारत्वमिति बिवेकः । अतएबाबतारेषु अवतार्यात्मप्रवेशादेशः अन्यात्मनि तस्मा- ( ३२ ) ज्ञानवैराग्यादि प्रवेशात् कलाबतारः सजातीयोत्कर्षाद्विभूतिः ||२६|| ननु तर्हि कस्यावतारित्वं श्रीकृष्णस्येति ब्रूमः श्रुतिस्मृत्या- गमैः कृष्णोऽबतारित्वेन चोच्यते’ अवताराबतारीत्वं भेदाभेदे व्यव- स्थितं । आत्मैक्यादैकता ज्ञेया शरीराद्भेद उच्यते’ । श्रतौ तावत् केनोपनिषदि केनेषितं मनः पतति प्राणाः प्राणस्य प्रारणः चक्षुत्र- श्चक्षुरति मुच्य धीराः । प्रेत्यास्माल्लोकादमृता भवन्तीति उपक्रम्य तब ब्रह्मत्व बिद्धि इत्यादि मध्ये उक्त्वा श्रमृतत्वं हि बिंदते आत्मना बिदते बाय्यि विद्यया बिंदते सत्यमायतनं यो वा एतामुपनिषदं वेदापहत्य पाप्मा नमनंते स्वर्गे लोके ज्येये प्रतितिष्ठतीति उपसहृतम् । तत्र को वा स्वर्गः किं तद्ब्रह्मेत्यपेक्षायामाह -पुरुषो ह वै नारायण इत्युपक्रम्य पुनश्चाभ्यासेन नित्यो देव एको नारायणः पश्चा न्नारायणोपासकस्य स्तुतिं कृत्वा ततः पूर्बोपनिषदि स्वर्गत्वेन यो लोक उक्तः तं प्रतिपादय बैकुंठबनलोकं गमिष्यति तदिदं पुर- मिदं पुंडरीकं बिज्ञानचनं तस्सात्तदिहाबभासमिति बैकुठत्वन प्रसिद्धस्य बनलोकस्यानन्दात्मकं प्रतिपादय तस्येश्वर माह ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यः सोपनिषदमधीते इति श्रीकृष्णस्यावतारित्व- मायाति । ननु मत्स्यादयः समाः को ब्र ते विषमाः ऐश्वर्ये समा एब नतु स्वरूपे । उक्त च वराहे- मत्स्येकूम्र्म्मबराहादयाः समाः बिष्णोरभेदतः । ब्रह्मादयास्त्व समाः प्रोक्ताः प्रकृतिश्च समासमेति ॥ आकाराणामेव भेदो नात्मन इति ज्ञेयम् । छान्दोज्ञे पंचमप्रपाठके- ज्यायांश्च पुरुषः सर्वं खल्विदं ब्रह्म यत्प्राणा आदित्या इत्यादय क्त्वा पश्चादुपसंहृतं कृष्णाय देवकीपुत्रायो क्त्वाबाच - पियासेत्या-’ दिना । नतु श्रानारायण एवावतारीति चेत्सत्यं श्रीनारायणे ब्रह्मत्वं विधायोपसंहारे ब्रह्मण्यो देवकीपुत्र इत्युपसंहाराद वकीपुत्रे नारायणत्वं विधीयते । ननु श्रीनारायण एब देवकीपुत्र इति किं म । ( ३३ ) न स्यात् ब्रह्मप्रार्थनास्वारस्यादिति चेन्न । श्रीभागवतबाक्यविरो धात् । नारायणोंगं नरभू जलायनादिति अन्यथा श्रीनारायणोपास- कस्य ब्रह्मणोऽनेककनारायणदर्शनं न स्यात् । न ह्यवतारिण्यानन्त्यं, तासां मध्ये द्वयो द्वयोरित्यत्र तासोमास्वाद: नैकट्यं च न च भेदः । एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयमिति श्रीभाग- बतपदयस्याबाध्यत्त्वात् । ननु यत्सेवको यः तमनुसारित्वेन मनुत इत्येव तत्वमिति चेत् न । मिथ्यात्वेन प्रतीकोपासना नतु भक्तिः अन्नं ब्रह्मतिवत् अवतारावतारिभेदस्य केनापि प्रकारेण नियमि- तत्वात् अन्यथा देवत्वे देवदेहेयं मनुष्यत्वे च मानुषीति पदय योजयितुमशक्य’ स्यात् । प्रह्लादसंहितायां च प्रथमेऽध्याये ब्रह्मवा- क्य ऋषीन् प्रति ‘मत्स्यकूर्मादिरूपैस्तु भगबानर्च्यते सदा । बिष्णोः परामिमां मूर्त्तिं न जानामि द्विजोत्तमाः’ इत्युक्त्वा प्रह्ला- दं गछत स जानाति ततो गत्वा तैः प्रह्लादः पृष्टः प्रश्नानन्तरं प्रह्लादेन श्रीकृष्णः कथितः सर्वोत्तमेनेति । तर्हि श्रीनारायण एवा- बतारी भवतु यथा तथाबतारावतारिभेदस्तु नियत एव नियतत्वे सिद्ध योऽवतारी स एव श्रीकृष्णः सर्ववाक्यनां तत्रैव समन्व- यात् । तयाहि- ‘शब्दब्रह्म परब्रह्म ममेभि शाश्वती तनू । मदीयं महिमानं च परब्रह्मति शब्दितम् । तथाहि एकादशे - ‘नारायणा- भिधानस्य ब्रह्मणः परमात्मनः । निष्ठामहर्थ नो बक्त यूयं हि ब्रह्म- वित्तमा’ इति स्वरूपं पृष्टं तदुत्तममिति ‘स्थित्युद्भवप्रलयहेतु- रहेतुरस्य यः स्वप्न जागरसुषुप्तिषु सद्बहिश्च । देहेन्द्रियासुहृद- यानि चरन्ति येन संजोबिनानि तवैहि परं नरेन्द्र’ त्यनेन नारायणब्रह्म परमात्मनां प्रवृत्तिनिमित्तं यत्र तत्परं तत्वमित्युक्त परस्यैबावतारित्वं नहि नारायणपद प्रवृत्तिनिमित्तं ब्रह्मपरमा- त्मनोः, न वा ब्रह्मपरमात्मपदप्रवृत्तिनिमित्तं नारायणे । अतो नारायणादीनां धर्मः वं परतत्वस्य धर्मित्वं । न च ब्रह्मणः कुत्राप्य- ( ३४ ) बतारत्वं न दृष्टमिति बाच्यं । कार्येणैबावतारत्वोक्तः स्वप्न- जागर सुषुप्तिसु सद्बहिश्चेति कार्य्यत्वात् । परतत्वं श्रीकृष्ण एव ब्रहम शब्दः सर्वत्र श्रीकृष्णविशेषणमेव । तदुक्त पाद्म पृथक वक्त गुणास्तस्य न शक्यतेऽमितत्वतः । यतोऽतो ब्रहमशब्देन सर्वेषां ग्रहणं भवेत् । एतस्माद्ब्रह्मशब्दोऽसौ कृष्णस्यैव विवेषण’ इति । ब्रहमसंहितायां आदिपुरुष रहस्यस्तवे- यस्य प्रभा प्रभवतो जगदण्डकोटि- कोटिष्वशेषवसुधादिविभूतिभिन्नम् । तद्ब्रहम निष्कलमनन्तमशेषभूतं गोविन्दमादिपुरुष तमहं भजामि || तत्पद्वाच्यं यन्निष्कलं ब्रह्म तत् यस्य गोबिन्दस्य प्रभा किरणवत् सूर्यस्य तं गोविन्दं भजामि । ‘यस्यैकनिश्वसितकालमथाबलम्य- जीबन्ति रोमबिलजा जगदण्डनाथाः । बिष्णुर्महानपि स यस्य कलाबिशेषो गोबिंदमादिपुरुष तमहं भजामि || तथा श्रीमुखबाक्यं श्रीगीतोपनिषद- ब्रहमणो हि प्रतिष्ठाहममृतस्याव्ययस्य च । शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य चेति ॥ उमपर्वणि भीष्मवाक्य - एष. नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः । नारायणो नरश्चैब सत्वमेकं द्विधा कृतं ॥ एष पदेन कृष्णे नारायणत्वं विधीयते नरेऽजु’ नत्वमिति । तथा तृतीये- दशोत्तराधिकै यंत्र प्रविष्टः परमाणुवत् । लक्ष्यं तेऽतर्गताश्चान्ये कोटिशो ह्यं डराशयः । तमाहुरक्षरं ब्रह्म सर्वकारणकारणम् । तथा श्रीगीतासु- ( ३५ ) अथवा बहुनैतेन किं ज्ञातेन तवाजुन ? बिष्टभ्याहमिदं कृत्स्न मेकांशेन स्थितो जगत् ॥ श्रीभागबते- यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः । तैस्तै रतुल्यातिशयै वीर्यै देहिष्व संगतैः ॥ द्वितीये- सर्गे तपोऽहमृषयो न न्च ये प्रजेशाः, स्थाने च धर्म मखमन्यमरावनीशाः । धर्म हरमन्यु वशा सुराया, अन्ते माया - विभूतय विष्णुपुराणे- इमाः पुरुशक्तिभाजः ॥ शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवात्मिकाः । भवन्त्यभूतपूर्वस्य तद्विष्णोः परमं पदम् ॥ तथा विष्णुपुराणे पंचमेंशेऽक्र वाक्य - मत्स्य कूर्म वराहैश्च सिंहरूपादिभिः स्थिति 1 चकार जगतो योऽतः सोदय मामाल पिप्यति ॥ विभषि रूपाण्यबबोध आत्मन, क्षेमाय लोकस्य चराचरस्य 1 सत्वोपपन्नानि सुखाबहानि, सतामभद्राणि मुहुः खलानां ॥ नानाभाबैर्लीलयैवोपपन्न, देवान् साधून लोकसेतून् विभर्षि । हंस्युन्मार्गान् हिंसया बर्तमानान्, जन्प्रेत्तत्त े भारहाराय भूमेः श्री’ ॥ ( ३६ ) इति भागवते । नारदोक्तब्रह्मबि दियायां- ‘कलावतारः शेषाख्यः सहस्रफणमौलित्रान् । अनन्तोऽस्याभव तत्र जीवांश उपलभ्यते । तृतीयोंऽशावतारोऽभूदादिनारायणाभिधः । अवतारसहस्राखि श्रीकृष्णस्य महात्मनः । यदचवतारेऽवतारित्वोक्तिः सत्या स्या- तर्हि एतन्नानावताराणां निधानं वीजमव्ययमित्यादय क्तः वैयभ्यं स्यात् । यत्र तु स्तुत्यादिषु अवतारित्वप्रतिपादनं तेनैव वपुषा युवामिति भागवदुक्तिः सा त्वात्मविषया नतु विशिष्टविषया श्रीकृष्णं त्वावाधितमेवावतारित्वम् ॥ 1 यस्यावतारा ज्ञायन्ते शरीरेष्वशरीरिणः तैस्तैर तुल्यातिशयै बीय्यैर्दे हिष्व संगतेः ॥ सुरेध्वषिष्वीश तथैव नृष्वपि, निर्ययादः स्वपि ते जन्मासतां दुर्मद निग्रहाय, मत्स्यश्च ऽजनस्य 1 प्रभो विधातः सदनुग्रहाय च कच्छप नृसिंहवराह-हंस, राजन्यविप्र विवुधेषु कृतावतारः । त्वं पासि नस्त्रिभुवनं च यथाधुनेश, 1 भारं भुवो हर यदूत्तम बन्दनं ते ॥ आगमे च श्रीकृष्णपूजायां- बासुदेवः संकर्षणः प्रदय म्नश्चानिरुद्धकः । अग्न्यादिदल शूलेषु ( मूलेषु) संपूज्यास्तु सुबुद्धिना । प्रल्हादसंहितायां प्रथमाध्याये ब्रह्मवाक्य ऋषीन् प्रति– मत्स्य कूर्मादिरूपैस्तु भगवाच्तते सदा । विस्णोः परामिमां मूर्त्तिं न जानाभि द्विजोत्तमाः ॥ " पश्चात् प्रल्हादोपदेशेन ऋषयः श्रकृष्णं ज्ञातवन्तः । स्वायम्भु-
- भगवानर्च्यते ( ३७ ) बागमे पंचाशीतिपटले ध्यानप्रस्तावे - धर्मार्थकाममोक्षाख्यचतुः पादविराजिते । ब्रह्मविष्णु महेशानां शिरोभूषणभूषिते 1 तत्र प्रेम भराक्रान्तं किशोरं पीतवाससमिति ||२७|| 1 ननु बाल्यादि अनुक्रमेण यौवनप्रतीतेः कालव्याप्तत्वात् कथं नित्यत्वमिति चेन्न अजरामरादिपदैरेव नित्यत्वसिद्ध ेः उपसं हृतदिग्भाग: ( दिव्यांगः ) ससंकोचविकाशाभ्यां वर्तते । नित्यं पाडवार्षिकमित्यादिपदैर्नित्यत्वसिद्धः । किं च सर्व्वधर्माणां भगवति विद्यमानत्वात् भक्तानां यथा यथेा तत्तथैवाचिन्त्य - शक्तीनामयमेव स्वभाव: बिरोधाप्रतीतिरिति । ऋग्वेदे द्वितीया- ध्याय द्वितीयाष्टक - पंचविंशतिबर्गे षष्ठीऋक् चतुर्भिः सार्क नवतिं च नामभिश्चक्र बृतं व्यतोरवीवियत् बृहच्छरीरो विभि मान् ऋक्वभियुवाकुमारः प्रत्याहवं बहुभिर्नामभिश्चतुत्र्यूह- नामभिः व्यती शरीराणि अवीवियत् उत्पादयामास नवति असं- ख्यातानि ऋक्वभिश्चरणैः विभिमान नकार उपमानार्थः यथा वृत्त चक्र सूर्य इवेत्यर्थः । आहवं आह्नानं प्रति कीर्त्तनं प्रति प्रत्येति आगच्छति अकुमारः सन् युवा कुमारक्रमं विना नित्य- युवेत्यर्थः । सकललावण्य सौन्दर्य्यादिनिधाने श्रीकृष्णेन य परिच्छिन्नता ज्ञेया । सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरो मुखः । सर्वतः श्रतिमल्लोके सर्वमावृत्य तिष्ठतीत्यादिकं च, सर्वतः सर्व- भक्तनिकटेऽचिन्त्यशक्तित्वात् । प्राकृतेऽपि तेजसि लक्षयोजनस्थित- सूर्य्य सम्बंधिनि तत्क्षणमेव भूमौ प्रकाश । किमु बक्तव्यं भग- वति भक्तजीवानुभूते । अन्यथा भक्ताभक्तविभागं विना सर्वतो राहित्यं न स्यात् । तथा नृसिंहोपनिषदि - तुरीयातुरीयमात्मा तमुप्रमनुप्र वीरमवीरं महान्तममहान्तं विष्णुमविष्णु ज्वलन्त- मज्वलन्तं सर्वतो मुखमसर्वतो मुखमित्यादिषु भक्तेषु वृत्तिरभ- ( ३८ ) क्तषु वैपरीत्यं यथा योग्यं ज्ञेयं, एवमन्यत्र अतएवोक्त प्रश्नोत्तरे अथ कस्मादुच्यते मृत्युमृत्युमिति यस्मात्स्वभक्तानां स्मृत एब मृत्यु- मपमृत्यु च मारयति इत्यादि । अथ कस्मादुच्यते भगवान्महेश्वरो यस्मात् भक्तान् ज्ञानेन भजत्युद्गृन्हाति । अथ श्रीकृष्णे ज्ञानं वैविध्यं एकं स्वरूपनिष्ठं सत्यं विज्ञानमानन्दं सच्चिदानन्दं, द्वितीयं गुणा: ‘ऐश्वर्यस्य समग्रस्य धर्मस्य यशसः श्रियः । ज्ञानवैराग्ययो- श्चैव षण्णां भग इतीरितः, तृतीयमिन्द्रियनिष्ठं ‘साधबो हृदयं मह्यं साधूनां हृदयं त्वहं । मदन्यं ते न जानन्ति नाहं तेभ्यो मना- गपि । तत्र स्वरूपेन्द्रियज्ञानयोर्भक्त एब बिषयः गुणस्य तु सर्वो ऽपि विषयः । तेनैव सर्वज्ञता नतूभाभ्यां । श्रीकृष्णस्यावतारित्व- मन्येषामवतारत्वं शृंगग्राहकन्यायेनाक रस्तुतौ नमः कारणमत्स्या- येत्यादिना रघुनाथादीनां धर्मत्वमुक्त्वा ‘स्तुवतस्तस्य भगवान् दर्शयित्वा जले वपुः । भूयः समाहरत् कृष्णो नटो नाट्यमिवा- त्मन’ इत्यनेन धर्मित्वं । नहि नटे किमपि मिथ्यापि तु सर्वमुपक- रणं, नहि सामग्रयभावे नटः किमपि कत्त शक्नोति सामग्रया सहैव तिष्ठति, ततः श्रीकृष्णस्यावतारित्वे सिद्ध ेऽवतारित्वं विचा- ते । सदाविभूत सर्व ( षट्) गुणवत्वमवतारित्वं । यथा कार्य्य- षट् गुणान्यतमा बिभूतशक्तिमत्वमबतारत्वं यद्वा स्वरूपप्राधान्य मे- वावतारित्वं गुणप्राधान्यमेवावतारत्वं । केचित् आत्मप्रभैव ज्ञानं सच्छिद्र घटस्य दीपप्रभावत् तन्न । सुखसत्ता ज्ञानं विषयो घट इति त्रितयोल्ल ेषः स्यात् । आत्मनः सत्यानंदज्ञानस्वरूपत्वात् यथा ज्ञातो घटस्तथा सुखबिषयोल्ल ेषः स्यात् । अत आत्मा भिन्नः बिषयेन्द्रियसंयोगात् ज्ञानमुत्पद्यते । तदुक्त’ भास्कराचार्येण अथातो ब्रह्मजिज्ञासेति सूत्रबिचारे । तस्मादालो केन्द्रियादिभ्यो ज्ञानमुत्पद्यते । तद्भावे न त आत्मचैतन्यात् ज्ञानं भिन्नमिति । नारदोक्तब्रह्म बिदयायां- ‘यथायसः संनिधानात्सूर्यकान्तस्य वा । ( ३६ ) रवेः । शुष्क गोमयपिण्डस्य सांमुख्यात्सूय्यतेजसः । शत्तचावेश- स्तादृशः स्यात् येनानलसमुद्भवः । तादृशी शक्तिरप्यस्ति यथा तोयादितापनम् । शत्तचावेशस्तयोरेवं योगमायास्वमाययोः । अंशः कला च भूयस्त्वादरुपीयस्त्वाच्च कार्यतः । अतएव क्वचिद्गुण- प्रधान कार्ये गावतारिण्यबतारत्वोक्तिः स्वरूपप्रधानकार्येणावतारे- Sवतारित्वोक्तिश्च न विरुद्धा उभयोरुभयत्र प्राधान्यानपायात् तदुक्त’ पाद्म े चतुस्त्रिंशे - ‘एतत्त े कथितं देवि ! नृसिंहं वैभवं हरेः । शेषां च वैभवावस्थां शृणु देवि ! यथा क्रमं । यथा त्रिगुणावता- रत्वं ब्रह्मदौ तथा षट् गुणावतारत्वं श्रीवाराहादौ । उक्तं च पंचमे- साक्षाद्वरि ज्ञानकलाबतीर्णमिति । ज्ञानकला ज्ञानशक्तिः तन्मध्ये क्वचिद्भक्तात्मनि क्वचिदीश्वरात्मनीत्यर्थादूह्यम ॥ 1 वैभवाबस्थमीशस्य मत्स्य कूर्मादिरूपकम् विस्तरेण समाख्याहि मम प्रीत्या महेश्वरेति ॥ । एते चांशकलाः पुंसः कृष्णस्तु भगवान् स्वयम् इति । केचिदशाः केचिदशाविष्टत्वादशाः केचित्त कलाः केचिद्विभूतयः । एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनि । रामकृष्णाविति योऽवतारत्वेन कथितः स कृष्णः भगवान् ऐश्वर्यावध्यधिकरणः । अन्यथा मत्स्यादिरपि भगवानेव ततश्च मत्स्यादिषु तरतमभावेन भगवन्ता श्रीकृष्णे तु अबधिभूता भगवत्ता पुरुषावतारस्यापि योऽवतारी तस्यापि अबधिरित्यर्थः । ततश्चायमर्थः कृष्णः भगवान् अब- तार्यवधिः तु शब्दात् पुनः स्वयं च भगो बिदयते यस्यासौ भग- वान् । भगः ऐश्वर्यं तद्वान् ऐश्वय्याद्भिन्नश्च । यथा दण्डवान् देवदन्तः दण्डो भिन्नः, देवदत्तस्तु भिन्नः । ततश्चैश्वर्य्य- गुणवान् श्रीकृष्णः पुनः स्वयं च रसरूपः कृष्णः । अयमर्थः ऐश्वर्यादिः कृष्णस्य वैभवं रसरूपता स्वरूपं । तथा च श्रुतिः - ‘रसो वै सः’ ‘रसं ह्य वायं लब्ध्वा नन्दी( ४० ) भवतीति’ अग्निवत् । नह्यग्नेर्दाहकत्वं प्रकाशकत्वं सर्वभक्षित्वं स्वरूपोऽपि तु बैभवं । स्वरूपं तु शरीरित्व-शीतलत्व-भोगित्वादि- कमन्यथा स्वकलत्रपुत्राणां दाहकत्वेन शत्रुरेव स्यात् तद्वत् श्री- कृष्णेऽपि वैभवावस्थायां ऐश्वय्यं धर्मः स्वरूपं तु रसरूपमेव । नहि अग्नेर्दाहकत्वं प्रकाशकत्वं सर्वभत्तित्वं स्वरूपे प्रविशति । तदुक्त ब्रह्माण्डे - ‘सहस्रनाम्नां पुन्यानां त्रिरावृत्त्या तु यत्फलम् । एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छतीति’ । यद्यपि ‘सहस्रनाम तत्त ल्यं रामनाम बरानने’ इत्युक्तं पार्वतीं प्रति श्रीरामनाम्नः प्राशस्त्यम्, यद्वा पार्वती भोजनविधानार्थं सहस्रनामपाठानन्तरभो जननियमात् । नहि कृष्णनाम्नि प्राशस्त्यं दयोत्यते । सहस्रनाम्नामिति बहुत्व- निर्देशात् । किं च यदि तथात्वं तर्हि रामकृष्णनाम्नोः स्वरूपोक्ति- निर्णयो न स्यात्तथाहि पातालखंडे मथुरामहात्म्ये । ‘तारकाज्जायते मुक्ति: प्रेमभक्तिस्तु पारकात्’ । तारकः राम इति, पारकः कृष्णेति । प्रभासखंडे - कुशब्वजं प्रति नारदवाक्यं नाम्नां मुख्यतरं नाम कृष्णाख्यं मे परं तपेति । किं च श्रीकृष्णे चेदबतारित्वं केनापि बैतदरमेण तर्हि तन्नाम्नि तद्वैलक्षण्यमर्थ प्राप्तम् । ‘नाम- चितामणिः कृष्णः चैतन्यरसविग्रहः । पूर्णः शुद्रो नित्यमुकाऽभि न्नत्वान्नामनामिनोः । अथ षड्गुणावताराः । षट्गुणैः षद्गुणाः षोढ़ा षट्त्रिंशद्गाः मता : यत्र यस्य प्रधानत्वं स तेनैब बिचार्यते । नृसिंहो यामदग्न्यश्च कल्की पुरुष एव च । ऐश्वर्य कृति कर्तारस्तत्र ऐश्वर्य्यमुख्यगाः ॥ चतुर्ध्वचतारेषु षण्णां मध्ये ऐश्वय्र्यस्य प्राधान्यं पंचानां गौणत्व- मतएवैश्वर्य्यद्वारे बान्यत्काय्यं तदुक्त पाद्मे चतुस्त्रिंशे- ‘एतत्त कथितं देबि ! नृसिंहवैभवं हरेः । शेषां च वैभवावस्थां शृणु देबि ! ‘यथाक्रममिति’ । ऐश्वर्य्यद्द्योतकं सप्तमे - ‘मूर्द्विध्न बद्धांजलिपुटाः / ( ४१ ) आसीनं तीव्रतेजसम् । ईडिरे नरशार्दूलं नाति दूरचराः पृथगि’- त्यादिना परमैश्वर्यं । ऐश्वर्य्यद्वारा यशश्च सप्तमे - ’ सभासु सत्रेषु तबामलं यशो गीत्वा सपर्यां महतीं लभामहे । यस्तांत्र्यनैषीद्वश- मेष दुर्जनो दिष्ट्या हतस्ते भगवन यथामयः’ । एवमन्यदपि अथ परशुरामः ऐश्वर्य प्राधान्येन धर्मश्रीयशो वैराग्यादिकं नवमे- ’ एवं भृगुषु विश्वात्मा भगवान् हरिरीश्वरः । अवतीर्य परं भारं भुवोsहन वहुशो नृपान् । यशः - ‘ददौ प्राचीं दिशं होत्रे ब्रह्मणे दक्षिणां दिश’ मित्यादि ‘जामदग्न्योपि भगवान् रामः कमललोचन इत्यादौ’ श्रीः । श्रगमिन्यंतरे राजन् वर्त्तयिष्यति वै वृहदितिधर्मः, न्यस्तदण्डः प्रशांतात्मेत्यादौ वैराग्यं । अथ कल्की ऐश्वर्य दयोतकं- ‘अथासौ युगसन्ध्यायां दस्युप्रायेषु राजसु । भविता विष्णुयशसो नाम्ना कल्किर्जगत्पतिरिति’ अष्टैश्वर्य्य समन्वित इति द्वादशे धर्मदयोतकमाह-अथ तेषां भविष्यन्ति मनांसि विशदानि वै’ इत्यादि । अथ पुरुषावतारः ऐश्वर्य्यदयोतकमाह- तमाहुरादय पुरुष सहस्रांत्र्य स्वाहुकमित्यादि । इति चत्वार ऐश्वर्याव तारा: । ‘नारदोऽथ तथा व्यासो बाराहो बुद्ध एव च । धर्मप्रधाना एवैते धर्मद्वारान्यगामिन्यः । धर्मदयोतकं प्रथमे - उच्छिष्टले पान- नुमोदितो द्विजैः सकृत्स्म भुंजे तदपास्त किल्विषः । एवं प्रवृत्त- स्य विशुद्धचेतसः तद्धर्म एवात्म रुचिः प्रजायते । नैष्कर्म्यं कर्माणां यत इत्यादिकं तु भगवद्धर्मप्राधान्यनैव । अथ व्यासः धर्मदयोतक- माह - सर्ववर्णाश्रमाणां यद्दध्यौ हितममोघदृगित्युक्त्वा चातुर्होत्रा- दिवेदविभागं कृतवान् इदं प्रोबाच धर्मविदिति च भारतादिना यश आदिकं प्रकटमेव । अथ वाराहः धर्मदयोतकमाह-‘जितं जितं ते जितयज्ञभावन त्रयीतनुं त्वां परिधुन्वते नमः । यद्रोम- गतेषु निलिल्युरध्वरास्तस्मै नमः कारणशूकरात्मने । ऐश्व- यदिकं धर्मप्राधान्यनैव । अथ बुद्धः धर्मदयोतकं एका- ( ४२ ) दशे- ‘वादै बिमोडयति यज्ञकृते तदन्’ इति धर्मावतारः । रामो धन्वन्तरिर्यज्ञः पृथुः कीर्त्ति प्रधानुगाः । यशः प्राधान्यं श्रदशमे - ‘यस्येव दुत्कलित रोष कटाक्ष मोक्षैर्वर्मा- दिशत् चुभितनक्रतिमिंगिलोऽब्धिः । सेतुः कृतः स्वयश उज्वलिता चलंका रक्षः शिरांसि भुवि ये तु रिषुततानि’ । यशः प्रधान्येन धर्ममाह ‘यः सत्यपाशपरिवीत पितुर्निदेशं स्त्र- रणस्य चापि शिरला जगृहे सभार्यः । राज्यं श्रियं प्रणयिनः सुहृदो निवासं त्यक्त्वा ययौ बनमसूनिब मुक्तसंग’ इति नवमे । अथ धन्वन्तरिः यशः प्राधन्यं द्वितीये- ‘धन्वन्तरिश्व भगवान् स्वयमेब कीत्तिनाम्ना नृणां प्ररुदतां रुज आशु हन्ति’ । धर्मादयोपि ज्ञेयाः । अथ यज्ञः यशः प्राधान्यं द्वितीये - सयामादयः सुरगणैर- पात्स्वायंभुवान्तरमिति, यशो द्वारा श्री चतुर्थे- आनिन्ये स्वगृहं पुत्र्या पुत्रं बिततरोचिष । अथ पृथुः यशः प्राधान्यं चतुर्थे- ‘अयं तु प्रथमो राज्ञां पुमान् प्रथयिता यशः । पृथुकीत्तिर्महाराजो भवि ष्यति पृथुश्रवाः । यशो द्वारा धर्ममाह-एष धर्मभृतां श्रेष्ठ लोकं धर्मेऽनुवत्तयन् । यशो द्वारा ऐश्वर्य्यमाह एष दोग्धा महीं बीरोगां सती मोजसोषधीः इति यशोऽवताराः कृष्णरामौ मोहनी च बामनः श्रीप्रधानुगाः पाद्म े - एतत्त े सर्वमाख्यातं बामनं वैभवं हरेः । श्रीप्राधान्यं रामकृष्णयोर्यथा- ‘अक्षण्वतां फलमिदं न परं विदामः सख्यः पशूननुविवेशयतोवयस्यैः । बक्त्रं ब्रजेशसु- तयोरनुवेणुजुष्टं यैव विपरीतमनुरक्तकटाक्षमोक्षम्’ । गुणेनैवा- वतारत्वं न तु स्वरूपतः अतः सजातीयोत्कर्षेणोक्त बृष्णीनां बासुदेवोऽस्मीति । अथ मोहनो श्रीप्राधान्यमष्टमे - अहो रूपमहो धाम अहो अस्या नवं वय इत्यादि । अथ बामन: श्रीप्राधान्य- माह - रूपानुरूपाबयवं दर्शनीयं मनोरमं । ज्यायान् गुणैरित्यादि श्रीद्वारा ऐश्वर्यं इति यशोऽवताराः । दत्तात्रेयश्च मत्स्यश्च ( ४३ ) कुमारः कपिलस्तथा । ज्ञानप्रधानविज्ञया ज्ञानान्ये गौणतां गताः । कुमारः ज्ञानप्रधानकः सर्वत्र ते विषमया इत्यादि । कपिल : यथा कपिलस्तत्वसंख्यातेत्यादि दत्तात्रेयः आन्वीक्षिकीमल- काय प्रल्हादादिभ्य ऊचिवानित्यादि । मत्स्यः आत्मतत्वम संशय- मित्यादि इति ज्ञानावताराः । नारायणो नरश्चापि कूर्मश्चाप्यर्ष- भस्तथा । वैराग्यरूपा विज्ञयास्तत्तत्कर्मानुसारतः । पाद्मे यत्कौ म्य वैभबं विष्णोः सर्वलोकनमस्कृतमिति । नरनारायणयोर्यथा देव्य- स्त्वनंगप्रतना घटितु न शेकुः । कूर्मः निद्राक्षणोद्रिपरिवर्तक- घारणकंडूः । नहि बैराग्यं बिना एतादृशे स्थले सुखं, ऋषभः- यो वै चचार समहक जडयोगच इति वैराग्यावताराः एवमन्येपि कार्यानुसारेण ज्ञेयाः । एवमवतारावतारिभावः सिद्धस्तथेश्वर एक एबाकारभेदस्तु तत्रैव किंच नास्माकमाग्रहः, गुणनैयंत्ये वैभवा- वस्थरूपस्य श्रयमाणत्वात् गुरूपदेशशास्त्राभ्यां विवृत्तमस्माभिः अन्यच्च वेदान्त न्यायादिभिरपि स्वीकृतत्वात् । मत्स्यादयाकाराणां प्रामाण्यं उपासना च परंतु मायिकत्वेऽनित्यत्वे पांचभौतिकत्वे च अदृष्टजन्यत्वादौ विप्रतिपत्तिः तत्त यथा स्थाने बिवृत्तं उक्त च पाद्म े - ‘परावस्था परेशस्य व्यूहाश्च बिभबादयः । उक्ता देबाबता राश्च बिष्वाकारादिकाः स्मृताः । अर्च्यावतारव्यादेश्याः वैभवाः परमात्मन इति’ । C आत्मा सर्वोत्तमस्यैब व्यापकत्वेन संमतः । शरीरं तु परिछिन्नमचिन्त्यानंतशक्तिकम् ॥ आत्मा निगुण एव स्याद्रसरूपस्तु विग्रहः । बिग्रहछिन्न एवात्मा पुरुषोत्तम ईरितः ॥ इन्द्रियादेस्तु राहित्यं केबलात्मनि युज्यते । बिभागोऽयं द्विधा ज्ञ ेयः शरीरे च तथात्मनि ।। कामद्वेषादयो दोषा नात्मन्येव बिशंति ते । ( ४४ ) पुरुषोत्तमे निशिद्वाश्चेदंशगा एब संमताः ॥ नहि कुत्रापि कृष्णस्य न शरीरं बिना क्वापि निषेधः प्राकृतैज्ञेयो भयहेतोरुपेक्षणम् । भीहेतोर्मरणं स्मृतम् ॥ बिधिस्त्व प्राकृतैर्मतः । यथा योगीश्वरो देही स्वशरीरेषु संस्थितः ॥ एबनेबाबतारी तु सर्वगामितया मतः । अन्यथा ह्रावतारेषु भेदाभेदः कथं भवेत् ॥ यथाकाशो द्विधा भिन्नः तथा कृष्णे प्रतीयताम् । मूर्त्तिमांश्च परिछिन्नः व्यापको मूर्त इष्यते ॥ तथा बिग्रहवानात्मा पुरुषोत्तम ईरितः । तत्तद्विप्रहबानात्मा अवतार इति स्मृतः ॥ आत्मैकत्वेन चैकात्म्यं विग्रहाद्भिन्नता स्मृता । पुरुषोत्तम बाच्यस्तु ह्येक एब मतो बुधैः ॥ योगजातेन धमेण कायव्यूहं करोति चेत् । न शरीरेष्वभेदः स्यान्न योगो व्यूहगो भवेत् ॥ अबतारेषु सर्वेषु तारतम्यं सुनिश्चलम् । नभगस्य बिभेदोऽस्ति नात्मनश्चेति निश्चयः ॥ ‘बिज्ञानादिभावे बा तदप्रतिषेधः’ इत्यधिकरणेन सर्वावतारेषु सर्वज्ञत्वा दिसाधितमनेकत्वं भाष्यकारेण बिवृतं । सर्व एते बासुदेव- प्रद ुम्न निरुद्धसंकषणाः आत्मानः भगवंतः बासुदेबा एब । बिज्ञानैश्वर्य बल बोय्य ते जो भिरीश्वर गुणैरन्विताः इति । तदभि- प्रायेण मया बिवृतं सूत्रार्थस्तु - विज्ञानादिभावे ऐश्वर्य्य- सत्वेऽपि चतुर्व्यूहै उत्पत्तिनिषेधकप्रमाणस्य अप्रतिषेधः निरा- करणं न उत्पत्तिर्नास्तीत्यर्थः । केचनोत्पत्ति चतुव्यू हेषु मन्यते । तन्निषेधकं सूत्रं तेषां नित्यत्वात् तथा सति पुत्रकलत्र - सप्तऋषि भार्यादिषु संबधो न स्यात् । तस्माच्छ्रीकृष्णः सर्वेश्वरावधिः ( ४५ ) , रसरूपश्च । अवतारेषु तरतमभावः तदुक्तं तृतीये- आसीन मूर्व्या भगवन्तमादय संकर्षणं देवमकुंठ-सत्वम् । विवित्सवस्त्वमृतः परस्य कुमार मुख्या मुनयोऽन्वपृच्छन् । स्वमेव धिष्ण्यं बहुमान- यन्तं यद्वासुदेवाभिधमामनन्ति इत्यादौ परत्वं श्रयते । यत्र कुत्र- चिदवतारत्वं तत्रावतारकार्यकत्त त्वेनावतारत्वं । तथा बिभूति- मध्ये वृष्णानां वासुदेवोऽस्मि इति । अतः श्रीकृष्णे चातुर्व्विध्यं, अवतारिकाय्यं कत्त त्वादवतारीत्वं भूभारादिहरण कत्तत्वादब- तारत्वं, विभूतित्वं च सजातीयोत्कर्षात् । बिलासैकस्वभावत्वा- व्रतयातीतत्वं । तथाहि - बभौ भूः पक्वशस्याढ्या कलाभ्यां नितरां हरेः । तथा ताविमो वै भगवतो हरेरंशाविहागतौ । भारख्ययाय च भुवः कृष्णौ यदुकुरूद्वहाविति । नरनारायणावृषीति च त्वरये नमंति मे इति च । रामानन्दवनैस्तु व्याख्यातं श्रभ्यां कला भूः वभो, यद्वा कलाभ्यां शोभाम्यां गौरश्यामलक्षणाभ्यां यद्वा हरे: हरिसंज्ञावतारात् कलाभ्यामधिकाभ्यां कला म्यान्मूलरै वृद्धाविति कापात् इति । कृष्णौ कृष्णाज्ज नौ प्रति नरनारायणौ प्राप्तावि- त्यर्थः । अन्यथा यदि महाकालस्यं तो अशौ भविष्येतां तर्हि दूर- तोऽपि अवलोकनं स्यात् । युवयोर्दिदृक्षुऐति दिदृक्षा न घटते । अर्जुनस्य प्रताडिताक्षत्वं वैकुंठागताश्वानां चाभिभव इत्यादिका भगबतीला यथा जरासंधात्पलायनं । महाकालस्य लोकपालेषु वैभवज्ञापनाय ज्ञातव्यम् । यथा रूद्र स्तुतिप्रणामादि, यथा श्रीगोबर्द्ध नाचले । तस्मै नमो व्रजजनैः सह चक्रेऽत्मनाऽत्मने इत्या- दिना गोपान् विस्मापयत् नमनादि चक्र े तथाजु नमपि । ततो- तथार्जुनमपि । ऽर्जुनस्य विस्मये सत्यपि श्रीकृष्णस्यैव वैभवं ज्ञातं । न तु महा- कालस्य । यत्किचित्पौरूषं पुंसां मन्ये कृष्णानुकम्पितमिति । हरिवंशे तु स्पष्टमेवो कम् । मद्दर्शनार्थं ते वाला हृतास्तेन महा- त्मना । बिप्रार्थमेष्यते कृष्णो नागच्छेदन्यथेतिहेति । पुनस्तत्रैव- ब्रह्मतेजोमयं दिव्यं महदूयद्दष्टवानसि । श्रहं स भारतश्रेष्ठ । ( ४६ ) मत्तजस्तत्सनातनमिति अर्जुनं प्रत्युक्तम् । उज्जहारात्मनः केशौ सितकृष्णौ महामुने इति । भारते च स चापि केशौ हरि रुद्रव शुक्ल मेकमपरं चापि कृष्णं । तौ चापि केशावाविशतां यदूनां कुले स्त्रियौ रोहिणीं देवकीं चेत्यादि वाक्यानां भूभारहर कार्य स्येषत्क- रत्वज्ञापनायाविष्कृतत्वात् । किंच श्रीकृष्णऽवतारित्वमवतारत्वं बिभूतित्वं च सर्वकाय्यंदर्शनात्तदुक्तमेव । किंच तत्तत् सर्वं प्रवृत्ति- मार्गाविकृतत्वात् वाव्यं । श्रीभागवतस्य सर्वोपमद्द कत्वात् बाधक- त्वमेव । तदुक्तं नारदेन युगुप्सितं धर्मकृतेऽनुशासनः स्वभावर- क्तस्य महान् व्यतिक्रमः । यद्वाक्यतो धर्म इतीतरः स्थितो न मन्यते तस्य निवारणं जन इत्यादिना श्रीव्यासेनापि बाध्यत्वमुक्तम् । किंवा भागवता धर्मा न प्रायेण निरूपिता इति । अन्यथोभयत्रा- क्ययोः व्यासक्त्त कत्वेन बिरोधः कथं स्यात् । तत एवं ज्ञायते । भारताढ्य क्तिश्चाभक्तदशायां श्रीनार दोपदेशानन्तरं भक्तदशायां श्री- भागवतोक्तिरिति । ततः श्रीभागवतस्य सर्वोपमद्द कत्वं यथार्थ - त्वात् । यथा श्रीकृष्णत्वरूपं तथा तन्नाम्नि ज्ञेयम् । अन्यथा कूर्मेत्युक्त े नृसिंहस्वरूपोपस्थितिः स्यात् । यथा श्रीकृष्णस्वरूपे बैलक्षण्यं तथैव कृष्णनाम्नि ज्ञेयम् । पुरुषोत्तमस्य केचिदशाः केचित् कला मताः । विभूतिश्चाप्यनेनैव त्रिभेदी शिष्टसंमताः । अन्यात्मनो प्रवेशेन ह्यवतारेषु चांशता । शक्तयान्यात्मप्रवेशस्तु कलात्वमभिधीयते । सजातीयेषु चोत्कर्षो यत्र सा भूतिरिष्यते । एके ऽवतारानियता लोकसेवकसंयुताः । अपरेऽनियतस्थान सेवकाः शास्त्रसंमताः यल्लोकाः सेवकाश्चैव श्रयन्ते तत्तथैव हि । मन्वन्तरावताराणां मूलेनैव स्थितिर्मता । । । ( ४७ ) यथा गंगाजलं क्वापि हिमतोयमयं भवेत् ! हिमाभावे द्रवत्वात गंगारूपेण तिष्ठति’ ।। शक्तयाविष्टास्त्वीश्वरत्वेन नोपास्याः । तदुक्तं पाद्मनोपास्यं हि भवेत्तस्माच्छक्तयावेशान्महात्मन’ इति । ‘एतन्नानावताराणां निधानं बीजमव्ययं । इत्यादिवाक्य प्रामाण्यात् स्वं मनोऽहं समादधे । वृन्दावने तु यद्दष्टं ब्रह्मणा तत्तथैवहि । किंच येतु व्यापकं शरीरं मन्यंते तैरपि परिच्छिन्न स्वीकरणीयम् । सिद्ध े साधके च तस्यावश्यकत्वात् तथा धर्मधम्मिनोश्चावश्यक- त्वात् नित्यत्वाच्च अतिस्मृतिपुराणोपदेशैः रमितव्यं भक्तिरसेनेति ॥ इतिश्रीनारायण भट्टविरचिते भक्तभूषण सन्दर्भे ईश्वर रत्नमणिमा- लागुम्फन : ( ऐश्वराख्यमणिमालागुरु फः ) प्रथमः परिच्छेदः ||२८ अथ भक्तपरिच्छेदः ‘अवतारावतारित्वमीशे द्वैविध्यमीरितं । जीवभक्ततयात्मापि द्विविधः परिकीर्त्यते’ | आत्मा द्विविधः जीवो भक्तश्च । स आत्मा विचार्यते । तत्र केचिदूब्रह्माभिन्न एव घटाकाशवत् । तत्रापि केचिदेके ह्युपाधित्वादेक एव जीवो ब्रह्माभिन्न: सांख्याः कूटस्थो व्यापकश्चेति नैयायिकाः श्रष्टादिगुणवान् व्यापक इति । तत्र केचित्प्रतिविम्वमिति । तन्निरूपयितुमशकय वात्तथाहि नहि निर्धम- कनिराकारस्य ब्रह्मणः प्रतिविम्बः संभवति श्रपरिछिन्नत्वात् । किंचोपाधिर्सर्वात्मना व्याप्नोति ? ब्रह्मणि वा? आदय प्रति- विम्वासंभवोऽभिन्नत्वा द्वितीये ब्रहृत्वव्याघातः, प्रतिविम्वस्य जड़त्वेन सुखदुःखधम्र्म्मादद्यभावेन नियोज्याभावाद्वदप्रयुक्तविधि- निषेधव्यर्थता स्यात् । तदुक्तं भास्करेण - “प्रतिबिम्वस्य जीवस्याव- स्तुत्वमिति । तस्माज्जीवो वस्तुभूतः । उपहसितं भाष्यकारेण ( ४८ ) द्वितीयचरणे- ‘नान्यतोऽस्ति द्रष्टेनि अ तेर्वचनसुभगा ? वचनमि- वाभेदे आदरणीयं त्वया । य आत्मनि तिष्ठन्निति भेदं प्रतिण- दयन्त्याः श्रुतेर्वचनं किमिति न अयत इति । उक्तं च रामानुजैः तोयाधारेषु दोषाकर इव बहुपूपाविषु ब्रह्म शुद्ध च्छायापन्न विशेषाद्भवति तनुभृतस्तत्प्रतिच्छंद भूताः इत्यप्यत्यं तदुस्थं प्रसजति च तदा जीवनाशोऽपवर्गः च्छायाछायवदैक्य’ न भवति न च तद्द- र्शनं ब्रह्मणास्ते’ इति । अभिज्ञास्तु अणुर्व्याप्यशीलः प्रसृतचैत- न्यवान् दीपवत् तत्र भिन्नरूपः सनातनः इत्यादि बाक्यबलान्नरक- स्वर्गादि भोगवैचित्र्याऽन्यथानुपपत्या परिदृश्यमाना सर्वात्मभ्रां त्येश्वरस्याभ्रां तत्वान्यथानुपपत्या । तदुक्तं वेदस्य प्रामाण्यात् तत्प्रतिपाद्यभेदस्यावाधितत्वात् भिन्न एव जीबः । कंठोक्त भास्करभाष्यकारेण द्वितीयचरणे । तदेवं चतुर्भिः सूत्रै जीवेश्वर- योर्भेदः प्रतिपादितो न्यायोपपन्नश्चेति । सूत्राणि तु अनुपपत्तश्च नाशरीरः, कर्मकत्त ‘व्यपदेशाच्च, शब्दविशेषाच्च, स्मृतेश्च इति । तृतीयचरणे च स्थित्यदनाभ्यां चैतस्मिन् सूत्रे सूत्रकारो जीवप रयोर्वास्तवभेदमुपगम्य जीवनिराकरणं चकार । अपरे श्रत्यर्थ- मत्रहुबानाः भेदं मायामात्रं संगिरंते इत्यपि कंठोक्त, भिन्नत्वे ईश्वर: सर्वज्ञो भ्रान्तिरहितः सर्वोहितवर्त्ता । तदुक्त-बेदप्रामा- स्यात् तत्प्रतिपादयानुष्ठानेन भ्रान्तजीवस्य भ्रमनिवृत्त्या कृतार्थ - त्वं तत्पतिपादयाननुष्ठानेन भ्रान्तजीवस्य नरकादिव्यबस्था समंजसा । अन्यथा नास्तिकतायां पय्र्यवमानं स्यात् । तस्माद्भिन्ना जीवाः । तथा सर्वोपनिषदि ‘अथैवांगिरास्त्रिविधः पुरुषः । तद्यथा वाह्यात्मान्तरात्मा-परमात्मा चेति । त्वकचर्म-मांसादि इत्येव वाह्या- त्मा नाम । अथान्तरात्मा नाम श्रोता घ्राता-रसयिता- मंता-वोद्धा कर्त्ता - कर्मविशेष करोत्येषोऽन्तरात्मा नाम । अथ परमात्मा नाम साक्षीभूतः शुद्धः सर्वव्यापी अचिन्त्यः अशुद्धान् पुनाति इत्येष / ( ४६ ) ८ परमात्मा पुरुषो नामेति भिन्नत्वेन प्रतिपादितः कर्मकत्त व्यपदे- शाच्च कर्मत्वेनोपासना विषयत्वेनेश्वर उक्तः कत्त ‘वेनोपासक- त्वेन जीव उक्तः । अथ उभयव्यपदेशाद्भेदः तथैव श्रीभाष्यका- रैरुक्त-गुहां प्रविष्टावात्मानौ तद्दर्शनात् श्रस्मिन्नधिकरणे- ‘तदेवं श्रति सूत्रकारौ जीवपरयोर्वास्तवं भेदं दर्शयन्तः ||१|| केचित्त श्रत्यर्थमेवाचार्योति च पृष्ठतः कृत्वा मायामात्रं स्व- वुद्धया कल्पयन्ति इति कंठोक्ति ज्ञेया । एक जीवपक्षेऽपि नास्ति - कतामेवानयति, कूटस्थपक्षेऽपि ज्ञानाश्रये ज्ञानस्वरूपे वा प्रवृत्ति- निवृत्त्यभावात् जड़तुल्यता स्यात् वेदव्यर्थता च । परतंत्र्या भावात् । नैयायिकपक्षेऽपि गत्यागत्यादिवाकयानां वाघप्रसंगात् ( वाघस्या प्रसंगात् ) । किं च व्यापकत्वे युगपद्द होत्पत्तिः स्याह- ष्टस्य ( विदयमानत्वात् अप्रेक्षणीयाभावात् । देहसंवारश्च स्यात् सर्वात्मनां सर्वदेहेषु विद्यमानत्वात् ) तदृष्टोपगृहीतताभावत्वं च बालप्रतारणमात्रं, अन्यथा योषिच्छरीरादिना पुरुषस्य भोगो न स्यात् । किं च कस्यचिद्भोगः कस्यचिन्न ेति व्यवस्थान्यथानुपपत्या पतिपुत्रादयदृष्टजन्यत्वं स्वीकरणीयं दृश्यते च कयचिच्छरी- रेण बहूनां दुःखं सुखं च । तस्मान्न जीवो व्यापकः ईश्वरस्तु व्यापकः नियन्तृत्वात् नियम्यत्वाद्वयाप्यः । भवतु यथा तथा जीवस्तु भिन्न एव तथैतत् श्रीभास्करभाष्यकारैः षट्शास्त्रम- तानुगैर्वेदान्तैकदेशिमतमत्यन्ताभेदः निराकृतः रिति काशकृष्नः अस्मिन् सूत्रे ||२|| अनवस्थिते- तथाहि केचिन्मायावादिनः ईश्वर एव देहे प्रविश्य संसारी नान्यतोऽस्ति द्रष्टेति श्रुतेरिति वते । तत्र ब्रूमः ‘संसारितां कथं कुर्य्यादात्मनि (दात्मानं ) स्वर्यामच्छया । स्वयं निर्मित मायात्मा वेदान्तश्रवणादना । ज्ञानं प्राप्नोति मुक्तयर्थं सर्वज्ञ इति कः क्रम’ इति याष्कोक्तिः । उपनिषदि ऋतं पिवन्तौ सुकृतस्य लोके गुहां( ५० ) प्रविष्टौ परमेऽपरार्द्ध इति । स्मृतिश्च द्वाविमौ पुरुषौ लोके तर- श्चातर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽतर उच्यते । उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः इति । द्वासुपर्णा सयुजा- सखाया समानं वृक्षं परिसस्वजाते । तयोरन्य: पिप्पलं स्वाद्वत्त्यन- श्नन्नन्यो भिचाकसीत्यादि श्रतिप्रामाण्याद्भिन्नः । तथा प्रथमाध्या- यद्वितीयचरणे- स्मृतेश्च, स्मृतर्हेतोर्जीबो भिन्नः, स्मृतिरन्तयामि- स्मृतिः, ततः जीवब्रह्मणोर्भेदः । ईश्वरः सर्वभूतानां हृद ेशेऽजुन तिष्ठति इत्यादिना ||३|| इदमत्र तत्वं नैसर्गिकोऽनादिसिद्धः सर्वोऽपि भेदो नित्य एव, तथा जड़चैतन्ययोः, सेव्यसेवकत्वेन लक्ष्मीनारायणयोर्भेदः, यः क्षादिरारोपितः सो नित्यः यथाहं ब्राह्मणः अहं दुःखी स्थूल इत्यादि भेदोऽनित्यः स ज्ञानेन भक्तया वा निवत्त ते चेतनेष्वारो- पितं ब्राह्मणत्वादिकं तत्वमसि - ब्रह्माहमस्मीत्यादद्य पासनया निव- र्त्तते । न तु जड़चैतन्ययो नित्यासिद्धो भेदः तदुक्त शास्त्रयोनि- त्वादित्यधिकरणे भाष्यकारेण कल्पितमारोपितं भेदमाश्रित्य तत्व- मस्यादिवाकयानां प्रवृत्तिः तन्निवृत्तये यथा कश्चिद्राजपुत्रो वाल :- भिल्ल ‘जतोऽहं भिल्लः तं यथा कश्चिदारोपितं भिल्लाचारं दूरीक- र्त्तमुपदिशति त्वं राजपुत्रोऽसि न भिल्लः इति ग्राहिते तत्वे सो भिल्लाचारं हित्वा स्वरूपं प्रतिपद्यते राजपुत्रोऽहं न भिल्लः इति कंठोक्तं तथा प्रकृते ज्ञानेन चैतन्यघनोऽहं न ब्राह्मणादिः भक्तया दासोऽस्मीति ज्ञेयम् । भारते- ‘यथा पक्षी च (सूत्रं च ) पक्षश्च नानावृक्षरसो यथा । यथा नदयः समुद्रश्च शुद्रोदलवणौ यथा । यथाचौरापहार्यौ च यथा पु’ विषयावपि । तथा जीवेश्वरौ भिन्नौ सर्वदैव विलक्षणौ ’ ॥४॥ ननु जीवस्यागुत्वे देहेन्द्रियव्यापि चैतन्यं सर्वावयवावच्छेदे सुखं दुःखं वा चैतन्यं न स्यात् । अनुमानं च श्रात्मातीन्द्रियः वहिरिन्द्रिये ( ५१ ) e अगुत्वात् परमाणुवत् तत्र सुखादिकमपि प्रत्यक्षं न स्यात् । किंव कार्यान्यथानुपपत्या परमाणुः कल्पयते । नहि प्रकृते किमप्यात्मो- पादेयमस्ति तस्मात् तद्वयापक इति च तत्र ब्रमः सर्वप्रमारगगम्य- स्वादत्वेन विरोधिता, विरोधाभास्तायां ते भासते न विरोधिता ( विरोधाभास आयातेर्भासते न विरोधिता ) तथाहि अगुत्वेनातीन्द्रियत्वेन साध्ये इष्टापत्तिः न ह्यतीन्द्रियत्वे- Sणुत्वे प्रयोजक मपि तु महत्त्वं सत्युद्ध तरूपवत्त्वाभावः । न चेदं प्रयोज्य प्रयोजकम गुत्वं प्रयोज्य प्रयोजकमरगुत्वं सर्वेन्द्रियाग्राह्ये प्रयोज- कमिति वाच्यं, परमाणूनां योग प्रत्यक्षत्वात् किं चाती- न्द्रियत्वे साध्ये हेत्वव च्छिन्नजडत्वमुपधिः नच पक्षे पक्षेत- रत्वे योगीश्वरयोर्वारणीयत्वात् । यद्वा श्रुतिस्मृतिपुराणादिना- गुल्वे सिद्ध प्रयोजकत्वाद्ध ेतोः पक्षेतरत्वमेवोपाधि भवतु भवतु वा यथा तथांतरेन्द्रिया ग्राह्यमेवेति भवता पाठ्यते । तत्त न संभवति । तथाहि उपदेशपरम्पराप्राप्तेन्द्रियशब्दार्थे निर्णीतेन्द्रि- यपदार्थसंनिकर्ष जन्यज्ञानविषयत्वमेव प्रत्यक्षतायां प्रस्तुतायां प्रयोजकं तदभावेः प्रत्यक्षतायामिति ( प्रतीक्षतामिति ) अन्यथा लौकिकालौकिकयो वहिरन्तरयोः षट् पदार्थेषु चाभावे पुच प्रत्येक्षा- प्रत्यक्षयोरनेककल्पना स्यात् । नच तत्वे आकाशश्चाक्षुषः स्या- दिति वाच्यं, विशेषसामप्रयभावात्तचोक्त कार्योपादेयतयागुत्वं कल्प्यत इति । तत्रामुष्यैव व्यभिचारात् किं च श्रतितर्काणां विरोधे अ तेवरिष्ठत्वं प्रमाणानां वलबत्वे श्रतेः संकोचः न तु वाधः प्रमाणानां समवलत्वे प्रमाणानां संकोचः । सूत्रकारेणाप्यु- क्तम् द्वितीयाध्यायतृतीयचरणे खशब्दोन्मानाभ्यां च खशब्दात् जीवशब्दात अगुरात्मा चेतसावेदितव्यः अतः जीवः अणुः, उद्ध- त्यामानं उन्मानं तस्माद्यणुः ‘वालाग्रशत भागस्य शतधा कल्पि- तस्य च । भागो जीवस्य विज्ञेयः स चानन्त्याय कल्पते’ । ‘आराम- ( ५२ ) मात्रोप्यबरेपि दृष्टः श्रुतिः, ‘सूर्य्यद्वारेण विरजाः प्रयान्ति’ । न च (तश्च्च) मनोवासनाबत्वविशिष्टाभिप्रायं मतान्तरे लिंगशरीराभिप्रायं चेति वाच्यं श्रत्यन्तरविशेधात् प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्षमुच्यते । आत्मशब्दस्य कंठोक्तत्वात् न ह्यपरिच्छिन्नः शरीरो भवति । स्वात्मनाचोत्तरयोरिति न्यायाच्च । उत्तरयोः गत्यागत्यो आत्मना स्वरूपेणैव न तु मनसा लिंगशरीरेण वा इति भाष्योक्तिः, व्यापकत्वे मार्गोक्तिवैयथ्यं स्यात् । तथा श्रुतिः ‘शतं चैका हृदयस्य नाड्यस्यासां मूर्द्धानमभिश्रितैका तयोर्द्धगत्या यदमृतत्वमेति विष्वक् गत्या उत्क्रमणो भवन्तीति’ । किं च पुरा- णागमयोः धूमार्चिमार्गश्रवणादगुरात्मा, एषोऽगुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पंचधा विवेशेति मण्डूकोपनिषदि । नहि चेतसा वोधने किंचिद्वाधकं प्रमाणमस्ति अणुत्वे तु वहिरिन्द्रिये तदपि लौकिके व्यापकत्वमपि चेतसो ग्रहणेऽप्रयोजकत्वादाकाश- वद् ग्रहणं च स्यात् । श्रात्मनस्तद्गुणानां च ग्रहणेनैव चेतसः सिद्ध ेः ते चान्द्रमसमेव लोकमभिजायते तदेव पुनरावत्तते इति प्रश्नोपनिषदि । नहि गमनागमनेऽन्यत् कल्पकं प्रमाणमस्ति । इन्द्रियवासना प्राणैरदृष्टविशेषोपगृहीतमनः कल्पत इति श्रतिवि- रोधः । स यदास्माच्छरीरादुत्क्रामति सहैवेति सर्वैरुत्क्रामति ये के चास्माल्लोकान् प्रयांति चन्द्रमसमेव ते सर्वे गच्छन्तीति समूहक- ल्पने तैः सर्वैः सहेति न स्यात् । श्रुत्यन्तरे च आराग्रमात्र हाव- रोपि दृष्ट इति । ‘वालाग्रशतभागस्य शतथा कल्पितस्य च । भागो जीव स विज्ञेयः स चानन्त्याय कल्पते’ । न चाणुत्वे देह- व्यादिसुखदुःखचैतन्यं न स्यात् यत्किंचिदेतत् तप्त तैलचन्दनवि- न्दुवत् दीपसूय्यैप्रभावत् श्रणुत्वेऽपि चैतन्यस्य प्रसरण स्वभाव- त्वात् द्रव्याधिकदेशवृत्तित्वोच्छिवगंधयोरिव अन्यथा पुष्प छिद्रत्वं न स्यात् अविरोधश्चन्दनविन्दुवत् इति न्यायादगुरात्मा द्विती- ( ५३ ) याध्यायतृतीय चरणे - ननु जीवस्यागुत्वे कथं बिश्लेषोऽपि चैतन्यं सुखं वा तत्राह श्रविरोधः जीवस्यागुत्वे सुखचैतन्ययोः सर्वदेहव्यापित्वे न विरोधः । ननु गुणस्य कथमधिकदेशबत्तित्वं तत्र दृष्टान्तेन साधयति चन्दनविन्दुवत् । यथा चन्दन विन्दुरेकदेशे गृहे, तैले वा स्थितः शीतो गुणः सर्वव्यापी तद्वदित्यर्थः । तदुक्त ब्रह्माण्डे यथा व्याप्य शरीराणि हरिचन्दनविपुषः इति । पानो- त्तरखण्डे द्वात्रिंशाध्याये - ज्ञानाश्रयो ज्ञानगुणश्चेतनः प्रकृतेः परः । अगुर्नित्यो व्याप्य शीलश्चिदानन्दात्मकस्तथा । अहमर्थोऽव्ययः क्षेत्रो भिन्नरूपः सनातनः’ इति कंठोक्तः । विष्णुधम्मोत्तरे वाला- प्रशतशो भागः कल्पितस्तु सहस्रधा । तस्यापि शतशो भागो जीव इत्यभिधोयते’ । सूक्ष्माणामप्यहं जीव इति भगबदुक्तिः तथा अथ- र्वसर्वशिखोपनिषदि स एष इत्यूद्ध मुत्क्रामयतीत्याकारः । इति स्थानविशेषनियमाच्चिद्वयापकः । अथास्य पुरुषस्य चत्वारि स्था- नानि भवन्ति नाभि-हृदय-कंठ-मूर्द्धति ब्रह्मोपनिषदि । अंगुष्ठ- मात्रः पुरुषः इति वल्गूकोपनिषदि । वालाग्रशतसहस्रविकल्पा- दिभिर्न लभ्यते इत्यात्मोपनिषदि । तस्मादात्मागुः देहप्रसृत- चैतन्यवान् घटगृहदीपवत् । श्रदृष्टविशेषेण महदल्पचैतन्यवान् मूर्खतवत् खादिनिमित्तावछिन्न सर्व देव्याप्यव्यापि भोगवान् सिद्धः भेदवांश्च त्रैविध्या विषयानां तु त्रिभेदी शिष्टसंमता विस्वस्मिन । जीवेश्वरयो विभाग एब उक्त च रामानुजैः भिन्ना जीवाः स्वतः स्युः प्रतिनियमतया धीस्मृतीच्छासुखादेश्चेतो भेदा व्यवस्था न तु भवति तथा देहवान् ( देहगत्याक्षभेदात् ) सांख्यभेदात् भिन्नान् नित्यांश्च जीवान् कथयति निगमः । तद्धि नोपाधिना स्यादित्यादिना ||५|| अथात्मा द्विविधः जीवो भक्तश्च भक्तिरहित आत्मा जीवः जीवस्य यद्गुणास्फुरणादीश्वरतादुःखित्वाज्ञत्व- संसारित्व - पापि- ( ५४ ) नार कित्व - दुर्भगत्व - हीनत्व- वैराग्यर राहित्यासामर्थ्याशुचित्व- निगुण व जडत्वादयो भवन्ति, भगवदैश्वर्य्यास्फुरणात् लोभित्व- हीनत्व - भोगित्व - मोहत्व-कृपणत्वादेवनिष्ठत्व-चिन्तादयः, धर्मस्या- स्फुरणात अविनयात्मश्लाघा - मात्सर्य हिंसा-धर्म राहित्य- रोगादयः, यशसोऽस्फुरणात् क्रोधित्व कठोरत्व क्रूरत्वानृतत्व-निंदकत्व - कलहा- दयः, श्रियोऽस्फुरणात् पराधीनतालस्य सापेक्षतार्त्तितृष्णादयः, ज्ञानास्फुरणात् अल्पज्ञत्वाशांतित्वाधैय्र्य सन्देहानैपुण्यभयादयः, वैराग्यास्फुरणात् कामित्व-वंचकत्व- दम्भाहंकारादयो जीवस्य ज्ञेयाः षड्गुणान्यतमास्फुरणाद्भवन्तीति तात्पर्य्यम् ||६|| वैराग्यादयोऽपि जीवे भक्त े च संभवन्ति, प्रकारभेदेन । मिथ्यात्वेन दुःखदत्वेन वा वैराग्यमभक्तस्य, भक्तस्य तु यत्र भक्तिरस सम्वन्धशून्यता तत्र वैराग्यं ‘परिग्रहोऽतिदुःखाये ‘त्यनु- संधानेन स्वाश्रमधर्मेण वा निःपरिग्रहताऽभक्तस्य । अयं परिग्रहः भगवद्धर्म्मविरोधीत्यनुसन्धानेन निःपरिग्रहता भक्तस्य चतुष्टय- फलोद्द ेशेन जितेन्द्रियताऽभक्तस्य भक्तिप्रतिबन्धकस्येन्द्रियस्य जयो भक्तस्य चतुष्टयोद्देशेन वा वर्णाश्रमविधिना वा धर्मोऽभक्तस्य, फलोद्द ेशं विना दास्येन धर्मो भक्तस्य, धम्र्मोद्द ेशेन विधिना तीर्थाटनं जीवस्य, भगवत्सेवानिर्वाहकं पूर्त्त भक्तस्य भक्तीतर फलो- शेन विधिना तीर्थाटनं जीवस्य, भक्त्यर्थं तीर्थाटनं भक्तम्य, विधिना दानं जीवस्य, भगवदौदार्यानुसंधानेन दान भक्तम्य, विधिना संन्यासो जीवस्य, भक्तिप्रतिबंधकानुसंधानेन संन्यासो भक्तस्य, अदृष्टोत्पादकानुसन्धानेन पूजाजपो जीवस्य तदनु- संधानं विना भक्तस्य, मोक्षोत्पादक समाधिर्जीबस्य, फलरूपो भक्तस्य इत्यादय ह्यम अन्यदपि स्नानादिकम् ॥७ अथ भक्तः भक्तिमानात्मा भक्तः तस्य स्वरूपं पाद्म- ‘भगव- त्परतन्त्रोऽसौ तदायत्तात्मजीवनः । तस्मिन्म्य स्तभरः श्रीशे तत्क- ( ५५ ) म्मैव समाचरेत् । परमात्महरेर्दासः स्यामहं तस्य सर्वदेति’ । पाद्म े प्रकरणान्तरे ‘महत्ववुद्धिर्भक्तस्तु स्नेहपूर्वा विधीयते । तदैव व्यज्यते सम्यक् जीवरूपं सुखात्मकमिति । दासत्वादिना तदीय- त्वाभिमानी भक्त इति त सामान्यस्वरूपम् । श्रीवैष्णवा अपि- तु कारार्थो विष्णुर्जगदुदयरक्षाप्रलयकृत् मकारार्थो जीवस्तदुप- करणं वैष्णवमिदम् । उकारो नान्योऽहं नियमयति संबंधमुभयो- रित्यादि भक्तिस्तु वक्षमारणा ज्ञेया । ते भक्तास्तु देहेन्द्रियवत्वे- नैवान्यथात्मत्वेन सर्वत्रानित्यात्वाभक्तत्वेन कथिताश्चेद् तदा वैकु- ण्ठ इति व्यर्थता स्यात् । पाद्मन्यैः परिजनैर्नित्यै मुक्तश्च परि- संवृताः । नित्याः सर्वे परे धाम्नि ये चान्ये च दिवौकस - इति उपा- सना सिद्धाश्च ‘मंत्राष्टाक्षरसंसिद्धा भक्तया षोडशरूपया । गत्वा- स्मिन् न निवर्त्तन्ते विष्णुना सह मोदते । न दास्यं वै परेशस्य वंधनं परिकीर्त्तितम् । सर्वबंधननिमुक्ताः हरिदासाः निरा- मयाः । श्रतिश्च नित्यशरीरं कथयति ‘तथा तां उ विश्र तिः अश्व- इव रोमाणि विधूय पापं चंद्र इव राहोमु खात्प्रमुच्य धृत्वा शरीरं सकृतं ( शरीरमकृतं ) कृतात्मा ब्रह्मलोकमभिसंभवति’ । श्रुत्यन्तरे ’ न पश्यो मृत्यु पश्यति स स्वराट् भवति । तमेवं विद्वानमृत इह भवति’ । इह शब्देन शरीरे एवेति विवक्षितम् । -इत्यादिवाक्य र्नित्यत्वम् । किंच भगवच्छरीरस्य नित्यत्वेनैव पार्षद लोकयोरपि नित्यत्वमन्यथेश्वरत्वं राजवत् स्यात् । तथा कृणोपनिषदि अष्टादशाक्षरमन्त्रमुक्त्वा ‘यः सकृदुच्चरेत्तस्य नास्ति मृत्युः नान्यगतिरिति । श्रीभागवते - ‘देहेन्द्रियासु नानां वैकुण्ठ- पुरवासिनाम् । देहसंवन्धसंवन्धमेतदाख्यातुमर्हति’ । प्राकृत- - देहेन्द्रियासुद्दीनानामित्यर्थः । चिदानंदात्मकं देहेन्द्रियवत्त्वमिति हृदयं । तथा च प्रथमे - ‘प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् । श्रारब्धकर्मनिर्वाणो न्यपतत् पांचभौतिकमिति’ पांच- । ( ५६ ) भौतिकं कर्मणि नारव्धं चायाति । उक्त चाभियुक्त’: ‘चिन्मात्रा- गीन्द्रियाण्याहु मुक्तानामन्यदेवतेति’ । किंच मुक्तिषु स्वर्गनरक- सादृश्येन हेयत्वे उक्त भजनस्य तु नित्यत्वेऽर्थापत्त्या च नित्यं देहेन्द्रियवत्त्वं सिध्यति । तदुक्त पाद्म-निर्वाणखण्डे -‘गोपालाः मुनयः सर्वे वैकुण्ठानन्दमूर्त्तयः’ इति । तथा च पाद्म े कार्त्तिक- माहात्म्ये- ‘एते हि यादवाः सर्वे मद्रणा एव भामिनि । सर्वदा मप्रियाः देवि ! मत्त ल्यगुणशालिनः’ । किं च भक्त र्निव्यत्वे तद्- धिकरणागमैर्भक्तानां नित्येविग्रहवत्त्वं सिद्धम् ||८|| इत्यत्र इदानीं श्रीकृष्णरूपगुणभेदैर्भक्तभेदो विचार्य्यते । तत्र चतु- विधोपासना श्रीकृष्णस्य चातुर्विध्यात् केचित् ब्रह्मोप सका: केचित्परमात्मोपासकाः केचित् भगवदुपासकाः केचित् श्रीकृष्णस्य रूपोपासकाः तदुक्त प्रथमे ‘बदन्ति तत्तत्वविदस्तत्वं यज्ञामद्वयम् । ब्रह्म ेति परमात्मेति भगवानिति शब्दयते’ चतुर्विध्यायति । अथ चैकादशे - नारायणाभिधानस्य ब्रह्मणः परमात्मनः इति त्रयमुद्देिश्य लक्षणमुक्त्वा परमवेहीति चतुर्थमुक्तम् । त्रयाणां तु श्रीकृष्णे तादात्म्यं ज्ञेयं यथा अमृतात्मके चन्द्रो देवत्वं श्रौषधिपतित्वं ग्रहत्वं चेति । ततश्चोपासकानां चतुर्णां भिन्नव परिपाटी फलं च तत्र ब्रह्मोपासनादैकमग्नौ विस्फुलिंगप्रवेशवत्, भक्तथा परमात्मो- पासनेन सालोकयादि, भगवदुपासनया शुद्धा भक्तिः श्रीकृष्ण- स्वरूपोपासनया सर्वरसाश्राबिरण रसरूपाभक्तिरितिरुत्सर्गः ॥६॥ विश्वस्याधिष्ठानतया जाग्रदादिषु वहिश्च यत्सत्वेन स्थित- मशरीरं तद्ब्रह्म, चेतनाचेतनप्रेरकः परमात्मा, यः सर्वकर्त्ता कत्तमन्यथाकत्तु समर्थः शरीरी स भगवान्, यस्त्रयाणामा- श्रयभूतः सौन्दर्य्यादिविशिष्टशरीरवान् सः श्रीकृष्णः । तदुक्त- मेकादशे’ -स्थिात्युद्भवप्रलय हेतुरहेतुरस्य यः स्वप्नजागरसुषुप्तिषु ( ५७ ) सहिश्च । देहेन्द्रियासु हृदयानि चरति येन संजीविताति तदवेहि परं नरेन्द्र’ ! | श्रुतिश्च ‘तुरीयं पृथिव्यामन्तरो यमयति’ ‘सर्वस्य कर्त्ता सर्वस्य वशी सर्वस्येशानः’ । ‘रसो वै सः’ रसं ह्येवायं लब्ध्वानन्दी भवतीति’ । तथा श्रीगोपालोपनिषदि - ब्रह्मणः प्रश्न ईश्वरं प्रति कथं वा देवाः यजन्ति ब्रह्मा यजति विनायकाः यजंति रुद्राः यजन्ति द्वादशादित्याः प्रयजन्ति । उत्तरं - रुद्र ेषु रौद्री ब्रह्म- येवं ब्राह्मी देवेषु दैवीत्यादयु क्त्वा उपसंहारे विज्ञानघनानन्द- घनस्य सच्चिदानन्दैकरसे भक्तियोगे तिष्ठति इति रसभक्तौ रसा- त्मिकेति तात्पर्य्यम् ॥१०॥ तत्र ब्रह्मोपासनया धृतराष्ट्रस्यैकय विस्फुलिंगस्य यथाग्नौ घटाकाशस्य महाकाशे श्रीकृष्णस्य किरणस्थानीये ब्रह्मणि लय एवैकयौं । श्रीकृष्णस्य भिन्नत्वात् तृतीयाकाशवत् । तदुक्तं प्रथमे- ‘विज्ञानात्मति संयोज्य क्षेत्रज्ञे प्रविलाप्य तप् । ब्रह्मण्यत्मानमा- धारे घटाम्बरमिवाम्बरे । तथा गांधार्य्यादावपि ||११|| अथ परमात्मोपासकाः, भीष्मस्य परमात्मत्वेन श्रीकृष्ण उपास्यः । ‘हृदिस्थं पूजयामास माययोपात्तविग्रहम्’ | ‘सर्वात्मन: सर्वदृशो ह्यद्वयस्यानहं कृते:’ । ’ इति मतिरूपकल्पिता वितृष्णा भगवति सात्वतपुंगवे विभूम्नि ।’ व्यापकस्वरूपे एव रतिः, त्रिभुवनकमनं तमालवर्णमित्यादिभक्तानुग्रहार्थं तथोपसंहारः । ‘तमिममहमजं शरीरभाजणं हृदि हृदि धिष्ठितमात्मकल्पितानाम् । प्रतिदृशमिव नैकधार्कमेकं समधिगतोऽस्मि विधूतभेदमोह :’ । परमात्मत्वेन स्फुरणात् युद्धादौ प्रवृत्तिरभक्तपक्षपातः द्रौपदया- दय पेक्षा च । द्वादश-भक्तेषु तु धर्मप्रतिपादन मात्रे गणना, नतु रसप्रतिपादने । आस्वादने च फलविरोधात् । ‘संपदद्यमानमा- ज्ञाय भोष्मं ब्रह्मणि निष्कले । सर्वे बभूवुस्ते तूष्णीं वयांसीव ‘दिनात्यये’ इति सामीप्यादिमुक्तिर्ज्ञेया ॥ १२॥ ( ५८ ) केचित्त क्षीरनीरवदैक्यमिच्छन्ति तथा च भेदोऽभेदश्च हंसेषु तथा कृतिदर्शानात् । ततश्च दुग्धजलयोद्रवत्वधर्म योरेवाल षो नतु धर्मिणोः श्रीकृष्णकृपया मुक्तानामपि पुरुषरथानश्रव- गात् शुकवत् तथा नवयोगीन्द्रा :- " ततस्ते भगवद्र पं विश्व सदसदात्मकं । श्रात्मनो व्यतिरेकेण पश्यन्तो व्यचरन् महीम्” “श्रात्मविद्याविशारदाः” इति । श्रात्मोपासकानां भक्तिः पर- मात्मप्रापिका तथा श्रुतदेवः - “नादय नो दर्शनं प्राप्तः परं परमपुरुषः । यहीं शक्तिभिः सृष्ट्वा प्रविष्टो हयात्ममायया” । तथा सनकादिजनक भरतदत्तात्रेयकद्दमकपिलदेवहूत्यादयः तेवां परमात्मोपासना ऐश्वय्र्याविकयाश्च त्साष्टिर्भवति, वैराग्याधि- कथात् सालोकय ज्ञानाधिक्यात् सारूप्यं, धर्माधिकयात्सा- मीप्यं, श्रियः यशस अधिकयाद्वा दास्येन सामीप्यं अथ भग- वदुपासकस्य शुद्धदासत्वं तथा व्यासस्य परमात्मगुणविशिष्टो भगवान् सेव्यः । कर्मत्रतादेस्त्यागात् “जज्ञासितमधीतं च ब्रह्म यत्तत् सनातनं” इति च नारदं प्रति महात्म्यानुवादाच्च “सबै भवान् वेदसमस्त गुह्यमुपासितो यः पुरुषः पुराणः” इति नारदोपदेशानन्तरं “पश्यत् पुरुषं पूर्णं मायां च तदुपाश्रयाम् । अनर्थोपशमं साक्षात् भक्तियोगमधोक्षजे” इति फलं । ब्रह्मणः सर्वरूपः सर्वेश्वरत्वेनोपास्यः’ द्वितीये विराटरूप धारणमुक्त्वो- पसंहारे - “एवं पुरा धारण यात्मयोनिः नष्टां स्मृतिप्रत्यवरु- ध्य तुष्टादिति” । येन स्वरोचिषा विश्व रोचितं रोचयाम्यहं इति । नारायणपरो वेद इत्यादिनोपसंहाराच्च, सर्वं पुरुष एवेदमित्यादि, तथाधिकारिका रुद्रादयोऽपि तथानधीकृता । “अंबरीषो वलिश्वव प्रल्हादः पृथुरेव च । मालाकारो मनु- चित्रकेतुश्चाथ रहूगणः । प्रियव्रतोऽजामिलश्च यस्तथा” इति ॥१३॥ 1 शतरुपाद- ( ५६ ) एवं तु साधनानुसारेण भक्तिसुखास्वादतारतम्यं । तथापि ब्रजस्त्रीणां माधुयतयातिशयेन सुखास्वादनं तत्र तु राधयापि विलक्षण - चमत्कारकारि - परममाधुर्यतया भक्तिरसास्वादनं । मनुस्वायम्भुवागमे नारदं प्रति शिववाक्य - “ब्रह्मानन्दरसा- दन्तगुणितो रम्यो रसो वैष्णव, स्तस्मात्कोटिगुणोज्य- लश्च मधुरः श्रीगोकुलेन्द्रो रसः । तच्चानन्त चमत्कृतिप्रतिमुहु- वर्षद्रसानां परं श्रीराधापदपद्ममेव परमं सर्वस्वभूतं मम । तथा ब्रह्माण्डे - " माधुर्ये मधुरा राधा महत्वे राधिका गुरुरिति” तस्मात् सर्व भक्तानां मध्ये श्रेष्ठत्वं सूचितं । तथा श्री शमे- “नया राधितो नूनं भगवान् हरिरीश्वर” इति । ऋपरिशिष्ट " राधया माधवो देवो माधवेनैव राधिकेति” । तथा गौतमीये “राधिका परदेवतेति” । ननु इतरेषां वथं रसविशेषोपि न । आस्वाद्यते उक्त इतरे विद्यमानेऽपि तादृशदुग्धस्य परि- मितत्वात् - दुग्धामोदक - दधिघृततरेव स्नेहोपादकत्वादिति हृदयं । किंच दर्शनं तद्विदां लोके आत्मनो भृत्यवश्यतामि- त्यत्र तद्विदां सव्र्वैश्वर्य्यज्ञानवतां भृत्यवश्यतां रसभरणीयव- श्यतां तद्विदां गौणत्वमुक्त’ । " इत्थं सतां ब्रह्मसुखानुभूत्या दास्यं गतानां परदैवतेन । मायाश्रितानां नरदारकेन साकं विजहु : कृतपुण्यपुञ्जाः” इत्यत्र उत्तरोत्तरोत्कर्षेऽपि गोपानां भिन्नत्वेन सर्वोत्तमत्वमुक्त ं । ते तु ब्रह्महृदं नीता इत्यत्र च ब्रह्मवैकुण्ठयोः सुखे ज्ञानेऽपि उत्कर्षाभावाच्च । पुरस्थितेभ्योऽपि श्रेष्ठाः उचुः पौरा “हो गोप्यस्तपः किमचरन् महत्” “पुण्यावत ब्रज्भुवो यदयं नृलिंगेतिः” “गोप्यस्तपः किमचरन् यदमुष्यरूपं लावण्य- सारमसमोर्द्ध मनन्यसिद्धम् । दृग्भिः पिवन्तीत्यादि द्वारकास्थिते- भ्योऽपि श्रेष्ठः । रुक्मिण्यादीनां वाक्यं न वयं साध्वि साम्राज्य- मित्यादयुक्त्वा पादरजः कामयामहे इत्युक्त तत्रायमभिप्राय 1( ६० . ) गूढ़ यद्यपि सर्वदा व्यवधानेन स्थितिः तथापि ऐश्वर्य्य- मिश्रतया केवलस्वरूपप्राप्तिरतिदुर्लभेति ज्ञापयितु चरणरजस उत्कर्षो वर्ण्यते ब्रजस्त्रियो यद्वाञ्छन्ति पुलिन्दयस्तृणविरुधः, गावश्चारयतो गोपाः पादस्पर्शं महात्मनः इति । रसेऽर्जुनो- द्धवादीनामाधिकयम् । तत्र चाजु नः नित्यशरणः श्रीकृष्णवत् प्रादुर्भावः । ‘अर्जुने तु नरावेशः कृष्णो नारायणः स्वयमिति’ तन्त्रोक्तः । चतुर्थे- ‘ताविमौ वै भग- वतो हरेरंशाविहागतौ । भारव्ययाय च भुवः कृष्णौ यदुकुरूद्वहौ’ । भीष्मपर्वणि भीष्मवाकय’ ‘एष नारायणः कृष्णः फाल्गुनश्च नरः स्मृतः । नारायणो नरश्वव सत्वमेकं द्विधाकृतिः । एतौ हि कर्मणा लोकान् भवते क्षयमध्रुवान् । अक्षयश्चाव्ययश्चैव यथा लोके पितामहः । तथैव भगवन्तौ तौ नरनारायणावुभौ” । तत्रैव संबन्धे-‘अजु’ नः पाण्डवश्रेष्ठः पुरन्दरसुतो वली । नरः प्रजा- पतिर्वीरः पूर्वदेहः सनातनः” इति । तथा द्रोणपर्वणि “पूर्वदेवौ महात्मानौ नरनारायणावुभौ । एकात्मानौ द्विधाभूतौ दृश्येते मानवौ भुवि” ऐश्वर्ये बलदेवसात्विकीप्रभृतीनामाधिकय’, ऐश्व- स्वादने रुक्मिण्यादीनां रसे सत्यभामादीनामाधिकथम् । द्रौपदीसुभद्रोत्तरादीनां शुद्धरसे युधिष्ठिरादीनां मिश्ररसे, श्रीशु- कस्य शुद्धो रसोऽन्यथान्येन ब्रह्मसुखमग्नस्याकर्षणा संभवात् उक्त’ च प्रथमे स वै निवृत्तिनिरत इति प्रश्नानां परिहारः इत्थंभूतगुणो हरिरिति । शौनकस्य भगवत्ताविशिष्टश्रीकृष्ण विषयो रसः । ‘सूत जानासि’ इत्युपक्रम्य ‘तरवः किं न जीवन्ति’ ‘यच्छण्वतां रसज्ञानां स्वादु स्वादु पदे पदे’ इत्युपसंहारात् । श्रीसूतस्य रसात्मकः श्रीकृष्णः, यत्कृतः कृष्णः संप्रश्न इति प्रशंसनात् ॥ १४ ॥ अथा भक्तभेदाः - आत जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ - ति’ । भगवति कृष्णे नतु रसरूपे स्वपर सामर्थ्य राहित्ये कायवाङ्म- ( ६१ ) मनोभिरीश्वरनिष्ठत्वं श्रत्वम् । ते गजेन्द्र-राजादयः । ईश्वर- भक्तभक्तीनां तत्तद्र पेण ज्ञानेच्छुः जिज्ञासुभक्तः मैत्रेयरहुगणा- दयः । अन्यनिराकरणादीश्वरादर्थेच्छुरर्थार्थी ते ध्रुवकद्दमादयः । सर्वत्रेश्वरदृष्टित्वे सत्यपि भजनवान् ज्ञानीभक्तः ते सनकादि- नवयोगीन्द्रादयः । किंचान्ये भक्ताः परिभाषिकाः न तु भक्तियुक्ताः । यथा वृहन्नारदीये” शिवे च परमेशाने विष्णौ च परमात्मनि । समबुद्धया प्रवर्त्तन्ते ते वै भागवतोत्तमाः” । स्कान्दे- “धर्मार्थ जीवितं येषां सन्तनार्थं च मैथुनम् । पचनं विप्रभिक्षार्थ ज्ञेयास्ते वैष्णवाः नराः” । विष्णुपुराणे- “न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षे । न हरति न च इंति कंचिदुखः सितम- नसं तमवैहि विष्णुभक्तम्” इत्यादौ वेदरूपभगवदाज्ञाया अनु- लंघनात् प्रजास्वरूपेषु वर्णाश्रमेषु भक्तत्वमुच्यते प्रशंसार्थं न तु भक्तत्वं । तृतीये- “यस्य वाचा प्रजाः सर्वा गावस्तंत्येव योजितः । वलिं हरंत्यवनतास्तस्मै मुख्याय ते नमः” इति । उक्त च भग- वन्नामकौमुदीकृद्भिः उपलक्षणमेतत् शाखाग्रमिव चन्द्रस्य न तु भक्तिः उत्तरश्लोकेन भक्तः पृथगुपादानात् । " मनसि कृतवृता- यनं मनुष्यं सततमवैहि हरेरतीवभक्तमिति” । किं च तर्हि स्मा- भिक्तयोः पृथगभिधानं दृश्यते ततोऽयमर्थः- शिवे तामसत्व- निंदोपेक्षे वैष्णवै र्नकाय्यै इत्येतदर्थं वैष्णवत्वमुच्यते । किं च भगवच्छिवयोर्भेदोऽस्ति न वा । तत्राह-भेदे प्रशंसार्थमेव समत्वं अभेदे वाकयेन विधानं व्यर्थ नहि राघवेन्द्रोपासकः नृसिंह निन्दन्ति, किं च वैष्णवे विष्णुशिवयोः समतां पश्यन् पाषण्डी स्यात् तथोक्त’ वैष्णवतन्त्रे - “यस्तु नारायणं देवं ब्रह्मरूदादिदै - वतैः । समत्वेनैव पश्येत स पाषण्डी भवेद्ध वमिति” । एवं जातीयकानि वाकयानि पद्मपुराणे वहुशः एवं धर्मार्थं जीवित- ( ६२ ) 1 मित्यादिकं तु भगवदाज्ञारूपवेदै कदेशप्रतिपादिकार्थकत्त ध्वन वैष्णवत्वं न तु दासत्वं एवं न चलति निजेत्यादि ज्ञेयं विष्णो- रयं वेदप्रतिपादितवर्णाश्रमादिधर्मकर्त्ता वैष्णवः अष्टौ वर्णा- श्रमाः प्रजाः नतु दासाः यथा महाराजस्य एके प्रजाः एके सेवकाः एके सम्वन्धिनः, एके दासाः तद्वत् । तथाहि प्रजाः कृष्यादिना जीवन्ति चौर्य्यादिना म्रियते । सेवकाः नित्यसेवायां द्रव्यादिकं प्राप्नुवन्ति, अन्यथौदासिन्यं । सम्वन्धिनस्त सम्बन्धत्वेन पोष्याः, दासास्तु स्वशरीरवदनन्तराः । तथा भगवति । वर्णधर्मा- श्रितो वर्ण: वैष्णवशब्दपर्य्यायः । एवमाश्रमोऽपि । ततश्च वर्णा- श्रमधर्मवत्वं वैष्णवत्वमिति पर्य्यायः, नियतार्थत्वात् । भजनेन भक्तत्वं भिन्नमेव । अन्यथा पार्षदानां भक्तत्वं न स्यात् वर्णाश्रमा- भावात् । यदि वर्णाश्रमधर्मवत्वं वैष्णवत्वं स्यात्तर्हि अम्वरीष पृथ्वादोनां भक्तानां तन्न स्यात् । अन्यत्र ब्राह्मणकुलादन्यत्राच्युत- गोत्रत इत्युक्तः, वस्तुतस्तु बर्णाश्रमधर्मवान्स्मार्त्तः । भगवद्धर्म्म- वान् भक्तः । तथा तृतीयस्कन्धे - स चापि भगवद्धर्मात् काममूढ़: पराङ्मुखः । यजते क्रतुभिः देवान् अपि च श्रद्धयान्वितः इति । ज्ञानो प्रियतमो मे इत्यादी तु कर्मनिष्ठापेक्षया । अन्यथा ‘ज्ञात्वाज्ञात्वाथ ये वै मां याबात् यश्चास्मि तत्वतः । भजन्त्य- नन्यभावेन ते मे भक्ततमामताः” इत्यत्र ज्ञानाज्ञानयोरोदास न्य- मुक्तम् । तस्माद्भक्तिमान् स एव वैष्णवः न त्वन्यः । एते तु रस- तु रूपादन्यत्र । दासत्वं तु वितरणमेव यथा दशमे " - तावद्रागादयः स्तेनास्तावत् कारागृहं गृहम् । तावन्मोहोंब्रिनिगडो यावत् कृष्ण न ते जनाः” । तथा एकादशे” - कायेन वाचा मनसेन्द्रियैर्वा वुद्धयात्मनाबानुसृतस्वभावात् । करोति यद्यत्सकलं परस्मै नारा- यणायेति समर्पयेत्तत्” इत्यादिना । एवंतु सख्यवात्सल्योज्व- ( ६३ ) 1 लानां तूत्तरोत्तरेणोत्तमत्वं ज्ञेयम् । यथा श्रीदशमे -“अहोभाग्यमहो- भाग्यं नंदगोपत्र जौकसाम् । यन्मित्रं परमानन्दं पूर्ण ब्रह्म सना- तनम्” । तत्रैव - “यशोदा वा महाभागा पपो यस्याः स्तनं हरिः” “गोप्यस्तपः किमचरन् यदमुष्येत्यादिना । अथ भक्तः तस्यो- कर्ष प्रथमे “स वै पुंसां परो धर्मो यतो भक्तिरवोजे । है- तुकयप्रतिहता ययात्मा संप्रसोदति । अतो वै कवयो नित्यं । भक्ति परमया मुदा । वासुदेवे भगवति कुर्यात्यात्मप्रसादनीम्” । द्वितीये” अकामः सर्वकामो वा मोक्षकाम उदारवीः । तोब्रण भक्तियोगेन भजेत पुरुषं परम्” । चतुर्थे - " तत्कर्म हरितोषं यत् सा विदया तन्मतिर्यया । हरिर्देहभृतामात्मा स्वयं प्रकृतिरीश्वरः"। अथ भक्ति: “सेव्यत्वेन मतिः कृष्णे भक्ति रित्यभिधोयते” । अस्य स्तु भक्तः सायोज्यातिरिक्तमभिलषितं फलं । " ज्ञानकर्मा- दभावेन भगवद्धर्म्म सेवातः । द्र तस्य मनसो वृत्तिः कृष्णे भक्तिरितिरीता" । तदुक्त’ भागबते- “मद्र गश्र तिमात्रेण मयि सर्व गुहाशये । मनोगतिरविच्छिन्ना यथा गंगाम्भसोऽम्बुधौ देवानां गुण लिंगानामानुश्रविकर्मणां । सत्व एवैक मनसो वृत्तिः स्वाभाविकी तु या । अनिमित्ता भागवती भक्तिः सिद्धर्गरीय- सीति’च । वस्तुतस्तु सा भक्तिः रसास्वादिका नतु भक्तिः रसात्मिका मूर्त्तिमतीभक्ति भिन्ना, मनसः द्रुतौ तादात्म्यापन्ना । ततश्च - यमास्वादपरिपाटी - एकादशरसांगा मधुरसशिरस्का श्रवणा- दिनवोपकरणा ततः क्रीडाप्रवानालम्वनपरिकरा मूर्त्तिमतिभक्ति- रालम्वनान्यतरेण स्वचित्तद्र ुतौ सजातीयधर्मेण सजातीयोप- करणपरिकरैः सह तादात्म्यापन्ना स्वादयते, न विजातीयैः जले पीतरक्तद्रवादिवत् । नहि जले पीतरक्तादिकाष्ठ तादात्म्यं भवति अपि तु सजातीयं काष्ठ तु निःशरीरभूतं तिष्ठति । तथा ( ६४ ) प्रकृतेऽपि रसभक्तेः परिकरैकदेशगुणापि ज्ञानांगस्य ब्रह्मण: कर्ममार्गपरस्यापि न भक्तौ प्रवेश इत्यादि ज्ञेयाः । इदानीं नराणां तु (इदानींतनानां तु) चित्तद्र तौ भक्तेरुपकरणस्य श्रवणा- देरास्वादः श्रवणादिभक्तिः, अद्भुतमनसा भक्तेरनुपकरणस्य श्रवणादेप्रहणं धर्मजनकं पापनाशकं वा मोक्षादिजनकं वा । तथा द्रुतमनसा भक्तेरपरिकरस्यैव ग्रहणं फलं मोक्षादीनां जन- कम् । नन्वेकस्यैव श्रवणादेर्भक्ताश्चत्वारस्तस्य कथं भक्तित्वं भक्ति- भिन्नत्वमिति चेत् सामग्रिवैचित्र्यात् देवदत्ते शत्रुमित्रादिवत् देवासुरयोर्विष्णाविव भक्त नोच्चारिते कृष्णेति भक्तस्य भगवद्ध- मेण चित्तद्रुतौ भक्तास्वादः अभक्तस्य कर्मज्ञानाभ्यासाद्रु त- चेतसा कृष्णेति ग्रहणं भक्तिभिन्नमिति भिन्नादिकरावेत- विषयत्वान्न विरोध इति भावः । अत एव ज्ञानकर्ममिश्र- भगवद्धर्माश्रय-ब्रह्मत्व-विजातीयफलदातृत्वविशिष्टस्यास्वादः श्री- भागवतप्रामाण्यात्तथा तथा स्वीकरणीयम् । कुत्रापि श्रयते ईश्वर- त्वेन कुत्रापि परमात्मत्वेन कुत्रचिद्विभुत्वेन कुत्रचित् फलदातृत्वेन कुत्रचित् मोक्षदातृत्वेन कुत्रचित् ब्रह्मत्वेन कुत्रचित् भक्तवात्सल्य- त्वेन कुत्रचिद्रसरूपेणेति अतएवानन्दवैचित्री । उक्त पाद्म-“ऐश्व- र्यात्परमाद्विष्णो भक्त यादोनामनादितः । ब्रह्मादीनां प्रसूयत्रा- ह्यानन्दादेर्विचित्रते”ति । भक्त रंगानि अद्भुतः वीरः रौद्रः करुणः भयानकः बीभत्सः हास्यः शान्तः प्रेयान् प्रीतः वत्सलः, अंगी उज्वलः विशेषस्तु भक्तिरस तरङ्गिण्यां, एतदधिकरणभूताः पंच- विधा ज्ञेयाः पुरुष - स्त्री-पशु- वृक्ष-पक्षिण इति विवरणं तत्रैव । अथ साधनं ज्ञानमिश्रायां “सर्वत्रात्मेश्वरान्वीक्षां कैवल्यमनिकेतयां । विविक्तचीरवसनं सन्तोषं येन केनचित्” इति । कर्ममिश्रायां तु ईश्वरार्पणकर्म तपस्यादि, शुद्धायां तु ज्ञानकर्मसाधक साधनसाध्य- ( ६५ ) त्यागेन श्रवणकीर्त्तनादि । सर्वधर्मान् परित्यज्येति, व्यक्त्वा स्वधर्ममित्यादयुक्तः । रसरूपायां तु त्रितयानुसंधानं विनानु- रागेनैव प्रवृत्तिरित्यादि गुरूपदेशगम्यता सर्वत्र ज्ञेया । ननु भक्त - रसाधारणं कारणं किं एकादशे - “यथानुष्ठीयमानेन त्वयि भक्ति- नृणां भवेत् । स्वधर्मेणारविन्दाअ तन्ममाख्यातुमर्ह, सी"त्युद्धव- प्रज्ञानन्तरं धर्मानुक्त्वा” इति मां यः स्वधर्मेण भजन्नित्यमनन्य- भाक् । सर्वभूतेषु मद्भावो मद्धति लभते चिरात्” इति । " इष्ट’ दत्तं कृतं जप्त मदर्थे यद्व्रतं तपः । एवं धम्मैर्मनुष्याणामुद्धवात्म- निवेदनम् । मयि संजायते भक्तिः कोऽन्येऽर्थोऽस्यावशिष्यते” इत्यादिना स्वधर्म इति चेन्न स्वधर्मे निष्ठानामृष्यादीनां भक्तय- श्रबणात् । तृतीये च - “सचापि भगबद्धर्मात् काममूढः परा- ङ्मुखः । यजते क्रतुभिर्देवान् पितृ व श्रद्धयान्वित” इति, तत्रैव- " द्वादशैते बिजानीमो धर्म भागवतं भट्टाः” इतिनियमो न स्यात् । देवानां शुद्धसत्वानामृषीणाममलात्मनाम् । भक्तिमुकुन्द- चरणे न प्रायेणोपजायते” इत्यादिबाकथबिरोधाच्च । न च क्षीण- पापस्य भक्तिबरणात् पापाभावेन भक्तिरिति, उक्त’ च “नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते” इति बाच्यं । पापबतोऽपि भक्तिश्रबणात्, “अपि चेत् सुदुराचारो भजते मामन्यभाकू” इति । भक्तिसुधोदये च - “भगबति नृहराबनन्यचेता भृशमलिनोपि विराजते मनुष्यः । नहि शशकलषुच्छबिः कदाचित् तिमिरपरा- भवतामुपैति चन्द्रः” इति । श्रीभागवत सिद्धान्तोऽऽराध्यो वैष्णवसंगतः । प्रकाश्यते मया सिद्धः श्रीकृष्णाज्ञानुसारतः ॥ साधकं बाधकं मिश्र वैराग्यं त्रिविधं स्मृतम् । तथानुरागो बिज्ञेयः साध्यसाधकसाधने ॥ ( ६६ ) ज्ञानं च त्रिविधं प्रोक्तमात्मोपास्यगुणानुगम् । ज्ञानमपि बिज्ञेयमात्मोपास्यगुणेष्विति ॥ अथवैराग्यं- ब्रह्माहमस्मीति ज्ञानं सर्वस्मिन् साधने रुचिः । इत्थं भूतं हि वैराग्यं भक्तौ साधकमिष्यते । श्रीकृष्णभक्त त्यानादेरभिबादे (रुत्सबादे) स्तथैबं च । शक्तया श्रद्धादिना बापि वैराग्यं बाधकं स्मृतम् ॥ प्रकारभेदमाश्रित्य बाधकं साधकं च यत् । वैराग्यं मिश्रसंज्ञं तत् प्रोक्त भक्तिरसानुगैः ॥ भक्त रपोशकत्वेन प्रपंचांशो यदा मतः । तस्य त्यागो हि वैराग्यं साधकं मिश्रसंज्ञकम् ॥ प्रपंचो दुःखदत्वेन मिध्यात्वादनिवारितः । एतादृशं तु वैराग्यमंशो बाधकमिष्यते ॥ इति अथानुरागः- भक्तयानन्दास्वादने तु बिषयत्वेन या रुचिः । साध्येऽनुरागो बिज्ञेयः साधकोऽयं निरूपितः ॥ भक्ततरैर्य आनन्दः साध्यस्तत्रानुरागिता । साधकमित्याहुरनुरागविवेचनात् सैब ॥ साध्येऽनुराग मिश्रोहि प्रकारबलसंश्रयात् । भक्तयाधीनादिगुणके श्रीकृष्णे या रतिर्भवेत् ॥ सा साधकै बिनिता रसज्ञैर्वैष्णवेष्विति । निरपेक्षे भगवति ह्याभासत्वेन या रतिः ॥ सा बाधकैव भक्तेषु श्रीकृष्णाकृतिदर्शनात् । इति त्रिविधः साध्यानुरागः ॥ अथ साधकानुरागः- ( ६७ ) शुद्धभक्तेषु यो रागः सर्वथैबहि साधकः । अभक्त साधके रागः सर्वदा बाधकः स्मृतः ॥ स शल्ये धनुरागो हि मिश्रत्वेन प्रकीर्त्तितः ॥ श्रंशेन साधको ज्ञेयो ह्य शेनैव तु बाधकः । इति साधकानुरागः ॥ अथ साधनानुरागः- 7 सिद्ध या स्यान्निवृत्तिस्तु नव (तंत्र) रागस्तु साधकः । अन्न ब्रह्मेति बात्मादिसाधने या रुचिर्भवेत् ॥ सा बाधकैव बिज्ञेया ब्रजनिष्ठैस्तु साधकैः । । एकादश्युपबासादयः काम्या नित्या रुचिर्यदा || हरिबासरतो बापि बाधिका च प्रकीर्त्तिता । इति त्रिबिधसाधनानुरागः ॥ अथात्माज्ञनं- तदीयत्वेन यज्ज्ञानं साधकत्वेन कीर्त्तितम् ॥ ब्रह्मत्वेनात्मविज्ञानं सर्बाशेनैव बाधकम् । ब्राह्मणत्वादिना ज्ञानं मिश्र सद्भिरुदाहृतम् ॥ ब्राह्मणा भगवत्प्रजा इत्येवं बाधकं स्मृतम् । ब्राह्मणप्रकृतिर्भक्तिरित्येवं साधकं स्मृतम् ॥ अथोपास्यज्ञानं- इत्यात्मज्ञानम् । सेव्यत्वेन ह्य् पास्यस्य ज्ञानं साधकमीरितम् । निर्गुणत्वेन यद् ज्ञानं बाधकं शुष्केश्वरात्मविषयं भक्तिवर्त्मनि ॥ मिश्र बाधक संमतम् । इत्युपास्यज्ञानम् । अथ आत्मगुणज्ञानं - ( ६८ ) आत्मभेदस्य विज्ञानं साधकं रसवर्त्मनि ॥ जीवस्य यो ज्ञानगुणास्तज्ज्ञानं बाधकं स्मृतम् । प्रतीतिः शुद्वतायाश्च मिश्रत्वे परिकिर्तिता ॥ ब्रह्मत्वेन प्रतीतिस्तु सर्वथा वाधितैव हि । संसारी प्रतीतिस्तु साधकैव सुनिश्चला ॥ इत्यात्मज्ञानम् ॥ अथोपास्यगुणज्ञानं- भक्तबात्सल्यविज्ञानं सर्वाशे साधकं विदुः । उपेक्षायास्तु विज्ञानं सर्वाशे बाधकं स्मृतम् ॥ समताया: प्रतितीश्च मिश्रत्वे परिकीर्तितम् । प्रकारभेदे समता भक्ताभक्तेषु बाधिका ॥ सैव शास्त्रषु रसिता साधकैब प्रकारतः । अथात्मज्ञानम् - इत्युपास्यगुणज्ञानम् ॥ सर्वांशे ब्रह्मताज्ञानं स्वमिन् साधकमिष्यते ॥ तदीयत्वेन यज्ज्ञानं सर्वकालेषु बाधकं । ब्राह्मणत्वादि यज्ज्ञानं प्रकारेणोभयात्मकम् ॥ अथोपास्यज्ञानं— । इत्यात्मज्ञानं । आनन्दादिप्रतीतिस्तु साधिका नतु वाधिका ॥ आनन्दरूपताज्ञानं बाधकं बिबिधं स्मृतम् । संसारित्वस्य चाज्ञानं साधकं बाधकं स्मृतम् ॥ संसारित्वं द्वारकादौ तदभाबस्तु लौकिके । । इत्युपास्याज्ञानम् ॥ ( ६६ अथ श्रात्मगुणाज्ञानं— क्रोधादिका प्रतीतिस्तु सर्वत्रैव हि साधिका । प्रयत्नेच्छाप्रतीतीनामज्ञानं सर्वबाधकम् ॥ श्रद्धाज्ञानं विमिश्च हि लौकिकालौकिकत्वतः । अथोपास्यगुणाज्ञानम्- इत्यात्मगुणाज्ञानम् ॥ न हि तस्य तृषादेस्तु यज्ज्ञानं साधकं स्मृतम् । क्षुधातृष्णादेरज्ञानं बाधकं परिकीर्तितम् । अज्ञानं निरपेक्षत्वे साधकं बाधकं तथा । साधकं भक्तविज्ञानमभक्तः बाधकं हि तत् ॥ एतत् साधनैः साध्या भक्तिरेब रसात्मिका भक्तस्तु बिषयः कृष्णः सैव तस्यापि बस्तुतः ॥ द्वयोः परिकरा ज्ञेयास्तथैव च बिचारतः आनन्दसत्यविज्ञानस्वरूपः कृष्ण एव हि ॥ त्रितयस्यापि बिषयो भक्तिरेव प्रकीर्त्तिता । नहि भक्ति बिना कृष्णः स्वाद्यतां प्रतिपद्यते ॥ नहि कृष्णं बिना भक्ति: कुत्रापि परिदृश्यते । ई ग्विधौ बिवेकस्तु गुहृतः कृष्णभक्तितः ॥ भगबद्धर्मशून्यं हि * जंन नैबाबलोय. येत् । ईश्वरस्य च बिज्ञानं शुष्कं तन्निष्टकान् जनान् ॥ न माता न पितेत्यादि गुणकं त्वीश्वरं कचित् । अस्मन्मतानुसारी यो नोपासीत कदाचन ॥ १४५ || इति श्रीनारायणभट्टविरचिते भक्तभूषणसन्दर्भे भक्तभेदनिरूपणं नाम द्वितीयः परिच्छेदः ॥२॥ जन( ७० ) c अथ बिश्व बिचार्य्यते- तत्र केचिदबिदयाकल्पितमात्मोपादानकं बिबर्त्त मन्यते । अन्ये तु आत्मनिमित्तमबिद्याप रेाममिति । अपरे ईश्वर- कत्तकं परमाणूपादानकं जीबभोगार्थमिति । एके आविर्भाव - तिरोभावात्मकं नित्यमिति । अपरे सृष्टप्रलयादिभावात्परिदृश्य- मानप्रवाहरूपेण नित्यमिति । अभिज्ञास्तु प्रामाणिकं भगबत् कत्तकं क्रीडार्थ भक्तार्थमिति मन्यन्ते । तत्र श्राश्रमः प्रथमः कल्पः नियतः सृष्टित्वात् नहि स्थानाबज्ञानात् मनुष्य एबा- रोप्यतेऽपि अन्योऽपि । तथा ब्रह्मा ब्रह्माण्डातिरिक्तस्थापि स्यात् । किंच केनारोप्यते इत्यादि बिकल्पे ब्रह्मणि पर्य्यबसानं स्यात् । किं च विश्व यदि मिथ्या स्यात् स्वप्नसादृश्यं स्यात् श्रमिति चेत्तर्हि मनोरथेनापि सर्वं सुखादिकं प्राप्त स्यात् क्रियो- पार्जितवत् । नहि स्वप्नमनोरथेनान्नादौ भुक्त तृप्तिर्दृश्यते न स्वप्नादिवदिति न्यायात् च । स्वप्नमृगतृष्णादिवत् विश्व मिथाभवितु नार्हति कस्मात् वैधर्म्यात् । तत्र हि निद्राकरण- दोषो गृह्यते प्रवुद्धस्य बाध्यते स्वप्नस्यापि शुभाशुभकत्वान्न मिथ्यात्वं तथा जाग्रत्प्रसुप्तस्य न मिथ्यात्वं । ये तु बौद्धमताबल- म्बिनो मायाबादिनस्तेऽप्यनेन न्यायेन सूत्रकारेण निरस्ता वेदि- तव्या इति । भाष्यकारकंठोक्तिः द्वितीयाध्यायद्वितीयचरणे । अन्यच्च सारूप्यं तत्वामहं बिदयाहानिबंधनं नहि किंचित् सारूत्यमस्ति येन कल्पितं स्यात् । ईश्वर-जीव-वेद सृष्टिबिशिष्ट- बामदेव – स्वर्गापवर्गब्रह्मह्ननाग्निहोत्रनरक - सर्वशास्त्रगौतमादीनां . वेदप्रतिपादितानां लौकिकानां च जाग्रत्स्वप्नयोर्बिबिच्य दुःखादिकमनुभवतां हिताहितप्राप्तिपरिहारादनुभवतां प्रत्यक्षादि- प्रमाणानां वा भवतो वा ( वाच्यं ) बाध्यानन्तत्वं कल्पनीयं लाघवात्त्वमेव भ्रातः तत्वव्यबहारात्संवादाच्च च यदि सर्वस्य सुख- ( ७१ ) 27 ऽपि तु रजतसंसर्गः तथा प्रकृतेऽपि देहे आत्मत्वसंबन्धभावः श्रात्मनि शरीरत्वादि सम्बन्धस्येति, उक्त च भाष्यकारेण फला- ध्याये अनारन्धकार्य इति सूत्रविचारेऽपि पुनः मायामात्रबादिन- स्तेषां कापि व्यवस्था नोपपद्यते इति अतः प्रपञ्चस्य बस्तुत्व- मायाति द्वितीयाध्याये च केचिन्मायाबादिन: “मृत्तिकेव सत्य- मित्यत्र मायाबाद संचारयन्ति तत्र ब्रमः मृत्तिकाया अपि असत्यत्वं प्रपञ्चत्वात् ततः पारमार्थिक एव भेद: कार्य भिन्न प्रामाणिकं चेति भाष्यकारकंठोक्तिः उक्त’ च रामानुजैः “ब्रह्मणो यदि दृश्यत्वं व्याबहारिकमुच्यते । प्रपञ्चस्यापि दृश्यत्वं तात्विकं किं त्वयोच्यते इति द्वितीयपक्षेऽपि विद्या परिणतं बदतः स्वमतस्य स्वस्य च भ्रमत्व स्वीकारादुन्माद बदुपेचणीयः तृतीय- पक्षेऽपि जीबभोगार्थमिति विश्व विचारयिष्यामः । आविर्भाव- भ्रमत्वं तर्हि त्वया किमित्यगम्यान्निवर्त्तते किमिति च गर्हितः पुरुषस्त्यज्यते नहि रजतसर्प भ्रमवतोर्विशेोऽस्ति यथा सत्यवा दिनामस्माकं तथाऽसत्यवादिनस्तव दर्शनात् स्वयमेब भ्रान्तः : बक्षमाणश्रुत्यादिप्रामाण्यात्त्वमेव भ्रान्तः अलं भ्रान्तविबादेन अहो निर्लज्जतायाः प्रावल्यं येन ईश्वरत्वं शुक्तिरजतबदुच्यते किंच यथा ब्रह्मणः साक्षात्कारविषयत्वेऽपि सत्यत्वं तथा प्रपञ्चस्यापि अतएव दृश्यत्वं हेतुः सत्यत्वमेव जयति न च शुक्तिरजतेऽपि प्रसक्तिरुभयोः सत्यत्वात् नहि शुक्तिरजतं न चास्तीति बाधो- तिरोभाबपक्षेऽपि न युक्तिः यद्वा यदि आविर्भाव-तिरोभावश्च स्यात् तर्हि मृतपुत्रस्यापि मातृपित्र्याचरणेनाबिर्भाबः स्यात्, विधिनिषेधप्रवृत्तिनिवृत्तीनां च व्यर्थता स्यात्, आविर्भाव्या- बिर्भाबादीनामपि नित्यत्वात् अनीश्वरबादिनां मतं जारजातोति बज्ज्ञेयम् । इदानीमभिज्ञानां पक्ष बिचार्यते । ( ७२ ) " नारायणे तु तत्वानां न कदाचित् प्रलीनता । नित्यानन्दशरीरत्वाल्लक्ष्मीभूमिवदिष्यते तेषां तु कार्यभूतानां तत्वान्यन्यानि सन्ति हि । सर्व ब्रह्माण्डतत्वानां कारणानीति निश्चयात् ॥ एकैकशस्तु ब्रह्मण्डे तत्वानां भेद इष्यते । 11 लीनता कार्यभूतानां कारणानां तु नित्यता ॥ तत्वात्मकस्य देहस्य रागादिरहितस्य वै । 9 बिनाशो लीनता ज्ञेया नान्यतत्वस्य कुत्र चेन्” ॥ तत्रयं प्रक्रिया - सर्वाणि तत्वानि भगवत् पार्षदभूि नित्यानि आनन्दाचेद्यनरूपाणि यथा लक्ष्मीः श्रीबाराहभाग्या भूमिश्च ेति जडत्वे तु तत्वानां कार्यत्वेन यथा भूः कार्यभूता मृत्तिकात्मिका जडा शरीरिणा सा निव्या लक्ष्मी: श्रीनारायण- श्रिता नित्या बक्षस्थलबासिनो सुबर्णादिवैभवावस्थापन्ना या सा जडा तद्विदित्यर्थः । तदक्त’ ब्रह्मसंहितायां “योगनिद्रा भग- वती तस्य श्रीरिब संगतेति” । ततश्च तेषां तत्वानां कार्य- भूतानि वैभबाबस्थारूपाणि सर्वब्रह्माण्डतत्वानां नियंतृरूपाणि अन्यानि संनितानि तु सर्वब्रह्माण्डमन्वंतरनियंता महाकालस्तस्ये महाकालस्य निकटे ब्रह्माण्डतत्वानि तेषु स्थितानि तत्वेषु लीयन्ते पुनरुत्पद्यन्ते च यथा वह्नयो लक्ष्म्यः तस्मिन् नरेन्द्र-दिति- जेन्द्र - सुरेन्द्र-लक्ष्मी र्नाना विभान्ति” इत्युक्तः तस्मिन् राजनि युधिष्ठिरे न तु कुरुपाण्डवे सन्तु किमर्थं त्रिविधानिति चेन्न अन्यथानुपपत्तिशब्दाव्यां त्रिबिधसिद्ध ेः तथाहि एकब्रह्माण्ड- नाशे सर्वब्रह्माण्डनाशः स्यात् तत्वानां नत्वात् एवमुत्पत्तावपि तृतीये - " प्रबुद्वकर्मा देवेन त्रयविंशतिको गणः । प्रेरितोऽजन- यत्स्वाभिर्मात्राभिरधिपुरुगं । परेण बिदयता (बिशता) स्व- स्मिन् मात्रया बिश्वसृग्गणः । चुभान्योन्यमासादय यस्मिंल्लो- काश्चराचरा” इति । मात्राभिरंरौः न तु स्वरूपेण श्र. श्रुतिश्च ( ७३ ) “अजामेकां लोहितशुक्लकृष्णां बह्री प्रजां जनयन्तीं सरूपां” सरूपा इति तु पाठः शाखान्तरे - सरूपपदेनैबान्या कार्यरूपा प्रकृतिरायति तत्र बिश्व सर्वप्रमाणगम्यं प्रत्यक्षं ताबत् पशु- मज्ञानिनं पशु च । तृप्तस्ताभ्यां तृणमन्न च त्यजेत् वृष्टया- भावेन मनोरथेन भक्षणमावर्त्तते तथा बिश्वमिथ्याबादि- नापि एत्रमनुमानादिभिरपि । अन्यथा मिध्यात्व बिशेषात् उभयं समं स्यात् । तथेब भाष्यकारोक्त तृतीयाध्याये प्रथमचरणे “पुन: जागरितावस्थां मायामात्रमिति बदन्ति ते सूत्रकाराभिप्रायं नाशयन्तः श्रोत्रियजनं व्यायोहयन्तीति” श्रुतिश्च “अक्षरात्संभ- बन्तीह बिश्वं सत्यं लोकाः कर्मसु चामृतं यः सर्वज्ञः सर्बबित् यस्य ज्ञानमयं तपः यस्मादेतत् ब्रह्मनामरूपमनन्तं च जायते तदेतत् सत्यं” इति तु मण्डूकोपनिषदि सत्यं प्रामा- णिकं नाशोऽपि प्रामाणिको व्याघातात् तथोक्त भाष्य- कारेण तत्तु समन्वयादित्यधिकरणे तस्माद्यत् किंचित् मिथ्या- त्वप्रतीतिज्ञानमस्ति यथा प्रपश्चास्तित्वमज्ञस्य तथैव ज्ञानिनः पुनः पुनः स एव किल नास्तीति कथं प्राहय बचो भवे- दिति भाष्योक्तो प्रपञ्चः प्रामाणिकः न तु मिथ्येति, न च नित्यत्वं सत्यमनित्यत्वं मिथ्यात्वमितिबाच्यं परिभाषात्वात् अन्यथात्मसाक्षात्कारस्य मिथ्यात्वे मोक्षो न स्यात्, तत्वेवास- सारसाक्षात्कारादपि मोक्षो न स्यात् मिथ्यात्वविशेषात् । न च सत्यविषयत्वं प्रयोजकमिति वाच्यं सत्यत्वाविषयत्वात् किंच विश्वस्य भ्रान्तित्वे यस्यैष महिमेत्यादौ यस्येषा भ्रांतिरिति स्यात् तवैष महिमेत्यादौ च तवैवा भ्रान्तिरिति स्यात् तथा मण्डू- कोपनिषदि प्रभवः सर्वभावानमित्यादिकं निरूप्य सृष्टिमुक्त्वा देबस्यैष स्वभाव इत्युपसंहृतं अन्यथा देवस्यैषा भ्रान्तिरिति स्यात् किंच मिथ्यात्वे स्वप्रजाप्रद्विषययोर्मिथ्या सत्यबिभागो ( ७४ ) न स्यात् अथावैतथ्यापनिषदि स्यप्रवृत्तावन्तश्च तसा कल्पितं तदसत् वहिश्च तसा गृहीतं सत् स्वप्रजाप्रत् बिषयमिथ्यात्वं सत्यत्वमुक्त’ तथा जाग्रदेवं मनोरथबिषयस्य मिथ्यात्त्वं वाह्यस्य सत्यत्वं जाग्रतवृत्ताबपि अन्तश्च तसा कल्पितं तद्- सत् बहिश्च तसा गृहीतं हि सत् इत्यादि नत्वंते सदसतो य- र्ध्य दृष्टमित्युक्त सत्यं परं साक्षात्कारे जाते विषय स्त्यज्यते नित्यत्वेनेति तात्पर्यं । विषयादीनामनित्यत्वं दुःसंगयुक्तत्व- (दुःखसयुक्त) मेव प्रयोजकं मिथ्यात्वस्याभासादेब हेयत्वा- भावात् । अन्यच्च सर्वस्य मिथ्यात्वे स्वनधर्माणामेब मिथ्यात्व- बिभागो व्यर्थता स्यात् । तथा आलातोपनिषदि “ सर्व धर्म- मृषा स्वप्न” इति, तथा श्रुत्यन्तरे- पृथिवीं च बायु चाकाशं च देबाश्च मनुष्याश्चोक्त्वा धमं चेति कारणत्वेनोपसंहृतं तस्माद्वा एतस्मादात्मन आकाशः संभूतः इत्यादिसृष्टिप्रतिपादिका श्रुतिरे- वप्रामाणिकत्वमानयति न च लोकानुबादकत्वेनाध्यारोपापबा- दार्थमिति वाच्यं । प्रामाणिकस्यैबाध्यारोपात् अन्यथा वंध्यापुत्रा- देरध्यारोपः स्यात् कण्ठोक्त श्रीभाष्यकारेण सत्यस्य सत्यं प्रारणा वै सत्यं यदचसत्यं बिधेयं स्यात्तर्हि प्रारणा वै असत्यं इति यात् अतः प्रामाणिकः न चारोपे प्रतीतिमात्रं प्रयोजकं लाघबात् ने तु प्रमितत्वमिति बाच्यं प्रामाणिकत्वस्य कुत्राप्यनंगीकारेण तत्वा- भावात् साक्षात्कारस्य भ्रान्तत्वात् मोक्षो न स्यात् संसारतत्व- ज्ञानयोर्ज्ञातत्वात् । न च बिचारदशायां संमुग्धत्वेन भवत्स्वीकृतं सर्व मयापि स्वीक्रियते इति बिचारान्तरं प्रमितं प्रतीतं वा पर्य्य- बस्यतीति । किंच न चास्माकं स्थाप्यः पक्षोऽस्ति येन नियोज्यता स्यादिति वाच्यं सत्यं ज्ञानमनन्तं ब्रह्म ेत्यादि श्रुत्या सत्यत्वादि धर्माणां व्यवहारवत् स्वीकार्य्यत्वात् । किंच संसारभ्रमज्ञा- नस्यानादिसिद्धत्वात्तत्वज्ञानस्य सादित्याद्द ुर्वलत्वेन बाधकत्वा- ( ७५ ) १ इति संभवात् प्रमेयवलमेव स्वीकरणीयं, नहि बाधितार्थं श्रुतिर्बोध- यितु ं शक्नोति । बक्षमाणश्र तिस्मृतिपुराणागमादीनां प्रामा- स्यात् सृष्टः प्रामाणिकत्वं । मिथ्यावादिनोऽत्यंताभिनिवेशे पंचशस्त्रीयाः प्रतिभट्टीकरणीयाः बहुनामनुग्रहो न्याय्य न्यायाच्च । तर्काप्रतिष्ठानादिति सूत्राच्च । “सत्यमप्रतिष्ठ ते जगदाहुरनीश्वरमिति” गीतोक्तः । तस्मात् सृष्ट ेः प्रामाणिकत्वं सिद्ध ं तथैबोक्त ं सूत्रकारेण - “वैधर्म्याच्च न स्वप्नवत्” अस्य भाष्यं जगत्पक्षः स्वप्नमृगतृष्णाबत् मिथ्याभवितुं नार्हति कुतो वैधर्म्यात् तत्र हि निरा- (निद्रा) करणदोषो गृह्यते ये तु बौद्ध- मतावलम्बिनो मायाबादिनस्तेऽपि सूत्रकारेण निरस्ता वेदि- तव्याः इति तु कठोक्त श्रीभाष्यकारेण श्रीरामानुजैश्च । दृश्य- त्वाद्विश्वमिथ्यावचसि बिहितयो सिद्धयश्चात्र उक्ताः । पक्षादेः सिद्ध्यसिद्ध्योर्नहि गतिरितरानापि वादांगमीदृकू इत्यादिना प्रामाणिकत्वं उक्तम् । इदानों सृष्टः प्रयोजनमुपन्यस्यते जीब- भोगापवर्गार्थमेव सृष्टिरिति केचित् तत्तु विचारणीयं भगवत ईशत्वं जगत्कत्त त्वं फलदातृत्वं ज्ञानादिमत्वं कत्तु मत्तम- न्यथाकत्तत्वं अस्ति न वा नास्ति चेत् लोकशास्त्र- बिरोधः स्यात् । अस्ति चेत्तर्हि जीबार्थमेवेति न नियमः । न चादृष्टाभाबाद्भोगाभावः ततः परार्थमेवेति बाच्यं तचदृष्टा- भावात् नियन्तृत्वादिकमपि न स्यात् कर्मबादा एव वरीयान् । नहि कश्चित् प्रयोजनं बिना लोके राजादिर्वेदे ब्राह्मणादिर्बा प्रबर्त्तते । नच ब्रह्मादौ लिकवत्कश्चन भोगो दृश्यतेऽपि तु मदीयं विश्वमेतावन् मात्रं अाभावेऽपेि उत्पत्तिस्थितिरिं- त्यादिलीलाप्राधान्यात् सर्वानन्दकदम्बत्वं स्वभावो भगवतः । तथा च श्रुतिः - “भोगार्थं सृष्टिरित्यन्ये क्रीडार्थमिति चापरे । ईशस्यैव स्वभावोऽयमाप्तकामस्य का स्पृहेति” लीलाप्राधान्य- मेबोक्त’ मण्डूकोपनिषदि । लोकवल्लीलाकै बल्यमिति सूत्राच्च । ( ७६ ) न तस्य प्रवृत्तौ प्रयोजनं किंतु लीलाकैवल्यं स्वरूपचेष्टा या लीला तस्याः कैवल्यं केबलमिति भावः । यथा लोके परिपूर्णो- ऽपि राजा क्रीडां करोति इति भाष्यकारः । न हि स्वभाव: पर्यनुत्यक्त शकयते इति च । नारायणसंहितायां च सृष्टया - दिकं हरिर्नैव प्रयोजनमपेक्षते । कुरुते केबलानन्दाद्यथा मत्त- स्य नर्त्तनम्” इति, लक्ष्मीपतित्वान्यथानुपत्र्या नित्य एव भोगः स्वीकृयते श्रुतिपुराणागमादिषु । तथा पाद्मोत्तरखण्डे एकत्रिंशे- “यो वै नित्यपदो नित्यो नित्यभोगकभोगबान् । ईशः सर्वस्य जगतः सबै नारायणः स्मृतः” इति लौकिकालौकिकयोरलौकि- कस्य बलवत्त्वात् । तत्रैब “योऽसौ यज्ञेश्वरो यज्ञो जज्ञभुग् जज्ञकृत् बिभुरि”ति, “सर्बभोगभागिति “श्रु तेः । यथा पाद्म- “क्रीडार्थं देवदेवस्य विष्णोर्लीलाविहारिणः । लोकैश्चतुर्दशविधैः सागरैद्वीपसंगतैरिति” । श्रीभागबते - “क्रीडार्थमात्मन इदं त्रिजगत् कृतं ते स्वाम्यं तु तत्र कुधियो पर ईश कुर्युरित्यादि । नुमा- नेऽस्य सुखत्वं नित्यवृत्तिगुणबिभाजकधर्मत्वात् रूपत्वादिवत् । नच संयोगपरत्वापरत्वादृष्टविषयत्वादिवत्-पृथक् व्यभिचार इति बाच्यं चाकमतोक्तत्वात् । किंच लोकसिद्धातिरिक्तस्त्वया स्वीकृयते न वा नो चेच्चार्वाक मतप्रवेशः स्वीकृयते तर्हि वेदादय- क्त स्वीकृयतां लक्ष्म्या बक्षस्थलत्वाश्रित्य संयोगः पार्षदानां नित्यत्वात्तन्निष्ठविषयत्वादीनामीश्वरज्ञानविषयत्वान्नित्यत्वं । बि- द्याविद्यादीनां नित्यत्वात्तद्धर्म्मतया धर्माधर्मयोर्नित्यत्वं । तदुक्त’ श्रीदशमे - “श्रिया पुष्टचा गिरा कांव्या कीर्त्या तुष्टय लयोर्जया । बिदययाबिदयया शक्तया मायया च निषेवितमिति” । भबि- ष्यपुराणे चेति - “याः पृथिव्यभिमानिन्यो देवताः प्रथितौजसः । अचिन्त्यशक्तयस्तासां दृश्यन्ते मुनिभिश्च ताः । ताश्च सर्वगता नित्यं वासुदेवैकसंश्रया” इति । (श्रुतिश्च ) अहं नित्यः स्व- तेजो पन्नः प्रकाशः अथाह चेतनाश्वाचेतनाश्च तेजोवंता- ( ७७ ) 1 भ्याकाश ( वंन्नान्या) इति ॥ तथा नित्यभोगश्च पाद्म े - “ईशया सह भोगार्थं दिव्यमंगलरूपबान्” इति रेमे श्रियासौ जगतां जनन्या स्वज्योत्स्नया चंद्र इवामृतांशुः " । “अयं च जगदीश्वर्या कुमारो नित्ययौवनः । कन्दर्पकोटिलावण्यः संतस्थौ परमे पदे । भोगार्थं परमव्योम लीलार्थमखिलं जगत् ” । तस्मान्नित्यो भोगः नित्या क्रीडा च ॥१६॥ ननु क्रीडायाश्च ष्ट्रात्मकत्वात् कथं लीलाया: नित्यत्वं ब्रह्म- ब्रह्माण्डदैत्यादीनां नाशादिति चेत् भ्रांतोऽसि नहि सर्वनाशे ज्ञानेच्छादीनां नाशः तथा चेद्रादेरपि प्रामाण्येन नित्यत्वेऽवगते किमनुपपन्नः । तथा च श्रति:- “अथैनमाह नित्यकर्मेति नित्यं तवासौ कुरुते अथैनमाहुः सत्यकर्मेति सत्यं त्वेवेदं विश्वमसौ सृजते " इति ||१७|| ननु चेष्टायाः नित्यत्वे युगपदेव त्रितयं स्यात् तस्मात् यथा भवता स्वेच्छा-ज्ञानादीनां नित्यत्वादपि युगपन्न स्वीकृयते यथा- स्माकमपि । वस्तुतस्तु युगपद्भवत्येवेति ब्रूमः । ननु एकबिषयत्वे त्रितयानां विरोधो न तु भिन्नविषयत्वे ब्रह्माण्डानामनन्तत्वात् । तदुक्त’–“क्वेद्द ग्विधाविगणितांडपराणुचर्या वाताध्वरोमविवरस्य च ते महित्वं, " यद्वासुरादीना (नन्वसुरादीना) मनित्यत्वात् कथं तद्धननस्य नित्यत्वं कथं वा वृन्दाबनादीनां नित्याधिकरणत्वं द्वारकातोऽपि वैण्ठगमनादेः श्रयमाणवात् कथं स्थितेर्नित्यत्वं । प्रियतो यतो लोकस्य बिरहा दिश्रवणात् कथं विलासस्य नित्यत्व- मिति चेत् अत्र केचित् नहि मेषादिराशौ सूर्यादिगमने कृते वृष- राशिगतपुरुषाणां नाशे सति तेषां गतेविच्छेदस्तदवदत्रापि । किंच रसस्तु संयोगेऽपि त एव रसत्वं लभते तथाभासत्वं उक्त च पाद्म - " द्वापरादौ युगे भूत्वा कलया मानुष्यादिषु । स्वागमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु । मां च गोपय येन स्यात् ( ७८ ) सृष्टिरेषोत्तरात्तरा” । मार्कण्डेय उवाच । “ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति” । ब्रह्माण्डे - " अमोहाय गुणा विष्णोराकारश्चिच्छरीरता । निर्दो घत्वं तारतम्यं मुक्तानामपि दुष्करम् । एतद्विरुद्ध यत्सर्वं तन्मो- हायेति निश्चयेति” । पाद्म े भगवद्वाक्य - मोहार्थं “त्वामाराध्य तथा शंभो ग्रहिष्यामि बरं सदेति” वाकयः रससंगोपने तात्पर्य्यम् ॥ १८ ॥ किंच बाकयानां बहूनां विरुद्धानां भगवति भवात् (संभवात् ) जीवस्तु अन्तरवाकयार्थं स्वीकृत्य खलु भजनीयः । पाद्म- “अस्थूलो नचव स्थूलोऽणुर्विश्व एव वा । बिरुद्धधर्मरूपो - ऽसावैश्वय्र्यात् पुरुषोत्तम” इति वाराहे च “प्रदय मोहं सृजा- म्याशु जनान् संमोहयिष्यति । त्वं च रुद्र महावाहो मोहशा- स्त्राणि कारय । अतध्यानि वितथ्यानि दर्शयस्व महाभुज । प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु” । स्कान्दे-“शिवशास्त्रे- ऽपि तद्ग्राह्य बिष्णुशास्त्रोपयोगि यत्” इति । तथाहि वृन्दा- बनादीनां नित्याधिकरणत्वं यथा भगवता वैकुण्ठाद्यागते वैकु एठस्य न शून्यता तथात्रापि अचिन्त्यशक्तयादिना समत्वात्, प्रियवर्गस्य बिरहादिः किंतु (कं तु ) मधुररसांगं न तु विरहः विद्यमानेऽपि विरहदर्शनात्, न च श्रीकृणगमनस्य चक्र रस्या- गमनस्योद्धवेन संन्देशहरणस्य ब्रजस्यानां कुरुक्षेत्रगमनस्य शश्वच्छ्रयमानत्वात् कथं व्रजस्य नित्यविलासाधिकरणत्वमिति बाच्यं । उद्धवब्रह्मरुद्रादीनामागम्यत्वेन ब्रह्मप्रार्थनपरिपाटि- मर्यादाशास्त्रेन रसरूपस्य संगोपितत्वाद्रसस्यागाधतां प्रतिपा- दयितु ं दुर्लभतां च ज्ञापयितु ं सर्वरसज्ञैर्विज्ञेयम् । अन्यथा लक्ष्म्या अगम्योक्तिः कोटिशः वाकयश्च विरोधः स्यात् । किंच ब्रह्मसुखस्य वैकुण्ठपरमानन्दस्य च श्रीगोपाल- गोपस्य स्मृति-पथा- ( ७ह ) रोहः स्यात् । अन्यच्च यथा श्रुतित्वे श्रीभागवतवाकयानां बाधः स्यात् । तस्मात् श्रीशुकस्योपासकत्वादास्वादकत्वात् परमरहस्य संगोपयितुमिति ज्ञेयम् । तथाहि “मथुरा भगवान् यत्र नित्यं संनिहितो हरिः” । “नित्यं गिरिबनेचराः,” “वृन्दाबनं जना- जीव्यद्र माकीर्णं समां प्रियं” । “सर्वकालसुखाबहं” । “मित्रा- ग्रीवा जिताबासद्र तरुट् तर्षकादिकं” । तथा कृष्णोपनिषदि " बने वृन्दावने क्रीडन् गोपगोपी सुरैः सहेति” । ततः श्रीकृष्णस्या- व्यभिचारिनियतं स्थानं श्रीमथुरापुरीवैभबावस्था श्रीकृष्णस्य नारायणतया वैभवलोकावस्था वैकुण्ठरूपा स्वरूपपराकाष्ठा श्रीकृष्णस्य च लोकपराकाष्टा मधुपुरीति तु रसज्ञे ज्ञेयं न तर्कैः । तदुक्त कृष्णोषनिवदि “गोकुलं बनवैकुण्ठं तापसास्तत्र ते द्रुमाः” इति । तथा श्रुत्यन्तरे - श्रीनारायणमुपक्रम्य श्रीकृष्ण- स्यैबावधित्वमुक्तम तथाहि नारायणोपनिषदि “वैकुण्ठबनलोकं गमिष्यति तदिदं पुरमिदं पुण्डरीकं बिज्ञानघनस्तस्मात्तदिहा- बभासं ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यः सोपनिषदमधीते स सर्वेभ्योऽ- र्थेभ्यो विमुक्तो भवति स सर्वांश्च लोकानवाप्नोति” इति बनशब्देन श्रीवृन्दाबनाख्यमेवान्यथा बनपदं व्यर्थं स्यात् । नारदवाकय’ - “भुवि गोबिन्द बैकुण्ठं तस्मिन् बृन्दाबने नृप” ! | “कृष्णोऽयं साक्षात् ब्रह्म ेति” नारायणीश्र तिः । तथा चाथर्वणे - कृष्णो वै परम- दैवतं गोबिन्दान्मृत्यु विभेति गोपीजनबल्लभो भुवनानि दधे " इति । तस्मात् श्रीकृष्णस्यैबाधिकथं श्रीनारायणादीनामवता रित्वं तथा तत्तल्लोकानामपि मधुपुर्य्यां तादात्म्यम् ॥१६॥ न तु तत्र लोके मधुपुर्याइति सर्वावधित्वं श्रीनारायणस्य श्रयते सत्यं तत्त ऐश्वर्य्यमान्येबाबतारापेक्षया ऐश्वर्य्य रसयो- रबाधेत्वं श्रीकृष्णस्यैव । तदुक्त ं बृहद्वामनपुराणे भृग्वादीन् प्रति ब्रह्मणोऽपि बाकय’-” षष्टिवर्षसहस्राणि मया तप्तं तपः पुरा ।नंदगोपव्रजस्त्रीणां पादरेणू पलब्धये । तथापि न मया प्राप्ता- स्तासां वै पादरेणवः” पुनः भृगुना प्रश्न कृते किमित्यन्यान् भक्तान् बिहाय प्रार्थ्यते तत्राह- “नाहं शिवश्च शेषश्च श्रीश्च ताभिः समाः क्वचित् । ब्रह्मानन्दमयो लोको व्याप्यवैकु ठसंज्ञितः 11 तत्तल्लोकेऽपि तत्रस्थैः स्तुतो वेदैः परात्परः । तुष्टोऽस्मि ब्रूहि भो प्राज्ञ ! वरं यन्मनसि स्थिथम् ।। वेदा ऊचु:- नारायणादिरूपाणि ज्ञातान्यस्माभिरच्युत । सगुणं ब्रह्म सर्वेदं बस्तुबुद्धिर्न तेषु नः ब्रह्म ेति पठयतेऽस्माभिर्यद्र ूपं निर्गुणं परम् । आनन्दमात्रमिति यद्वदन्ति हि पुराविदः ॥ तद्रपं दर्शयास्माकं यदि दत्तो बरो हि नः । श्रुत्वैतद्दर्शयामास स्वलोकं प्रकृतेः परम् ॥ केबलानुभवानन्दमात्रमक्षरमव्ययम् । यत्र बृन्दाबनं नाम बनं कामदुधैद्रमैः ॥ शश्वद्रासरसोन्मत्तं यत्र गोपीकदम्बकम् । तत्कदम्बकमध्यस्थः किशोराकृतिरच्युतः” इति ॥ यदि वैकुण्ठेश्वरयोरबधित्वं स्यात्तर्हि श्रीनारायणप्रसादफलं श्री - बृन्दाबनं श्रीकृष्णश्च न स्यात् । तस्मात् वैकु ंठलोकाद यबधित्वं श्रीमधुपुर्याः ईश्वरत्वावित्वं श्रीकृष्णस्येति निर्णीयते । अतो गमनादिकं रससंगोपनार्थमिति । ननु तर्हि ब्रह्मादयः किमिति न गोपयन्ति उपासनाभावात् आस्वादयाभावाच्च शाब्दमेव ज्ञानं तेषां अतएव श्रीशुकेन प्रियबर्गाणां तत्परिबाराणां च नामानिरु- रुक्तिः, तथा श्रीगोपालोपनिषदि - साक्षात् ब्रह्म श्रीगोपालपुरी हीति भबति, यथाहि सरसि पद्म तिष्ठति तथा भूम्यां हि तिष्ठति इति (02) ( ८१ ) चक्रेण रक्षिता गोपालपुरीति भवति द्वाशशवने बसितामुक्त्वा ततो बैकुण्ठस्थदेवै रक्षिता वेष्टितेत्युक्त्वा पश्चात् ब्रह्मानारायणश्च े- त्युक्त्वा रामादिमूर्त्तिरुक्त्वा तत्रहि रामस्य राममूर्त्तिः एकां हि रूद्राः यजन्ति द्वितीयां हि ब्रह्मा यजति तृतीयां हि ब्रह्मजा यजति इत्यादिना बिलासस्य श्रीकृष्णस्य चात्रधित्वं ज्ञेयम् । अतएव यत्र कुत्रचित् पूजकः श्रीमथुरामेव प्राप्नोति, तथोक्त गोपालोपनिषदि- " स एवाव्यक्तानंतो नित्यो गापाल एवाव्ययो मथुरायां स्थितिः ब्रह्मन् सदा भविष्यति,” ब्रह्माणं प्रत्युक्तिः - " मथुरामण्डले यस्तु जम्बुद्वीपे स्थितोऽपि वा । योऽर्चयेत् प्रतिमां प्रीत्या स मे प्रिय- तरो भुबि” । तथा स्वायंभुवागमे पञ्चाशीतिपटले “स्वात्मानंद - सुखोकशब्दादिग्यात्मकम् । वृन्दाबनं कुसुमितं नानावृक्ष- बिहंगमैः । संस्मरेत्साधको धीमान् बिलासैकनिकेतनमित्यनेन बिलासतादात्म्यं श्रीकृष्णे ज्ञेयम् । देश बिशेषे भक्तिबिशेषे अप्र- तीतौ अपि सूर्य्यकिरणादिवत् ज्ञेयम् । तथा बायुपुराणे- " चत्वारिं- शत् योजनानां ततस्तु मथुरा स्मृता । यत्र देवो हरिः साक्षात्स्वयं तिष्ठति सर्वदा । वत्सैर्वत्सतरीभिश्च सदा क्रीडति माधब " इति । भोजनशयनादिकमपि क्रीडैन । पाद्म निर्वाणखण्डे भग- वद्वाकच “नित्यां मे मथुरां विद्धि वनं बृन्दावनं तथा । यमुनां गोपकन्याश्च तथा गोपालबालकान् " इति । अतो (तीव) रसो- द्र कादैश्वर्यस्याप्रतीतेः नित्यत्वेनोपदेशः । तथा पाद्म े निर्वाण- खण्डे“गोपालाः मुनयः सर्व बैकुण्ठानन्दमूर्त्तयः” । बैकुण्ठे ये आनंदास्तेषां मूर्त्तयोऽधिष्ठातार इत्यर्थः । तषां स्वभाबः कः मुनयः रसमननस्वभावा इत्यर्थः । वौद्धायनेन सादरवाकथं- “भुवि गोबिन्द बैकुण्ठं तस्मिन्वृन्दावने नृप । यत्र वृन्दादयो भृत्याः सन्ति गोबिन्दलालसाः । तस्मिन् वृन्दाबने पुण्यं गोबिन्द- स्य निकेतनम् । तत्सेवकसमाकीर्णं तत्रैव स्थियते सदा” । यथा 1 ( ८२ ) महारत्नं विदग्धैर्महता प्रबन्धेन संगोप्यते अबिदग्धैः स्वल्पे- नापि क्रयविक्रयेनः व्यवह्रीयते तथा श्रीकृष्णे मधु पुर्यां च । पाद्मोत्तरखण्डे - " शिशुपालं निहतं श्रुत्वा कृष्णेन योद्ध.. मथुरा- माजगाम । श्रीकृष्णस्तु तत् श्रुत्वा रथमारुह्य तेन योद्धु ं मथुरा- माययौ । कृष्णोऽपि तं हत्वा यमुनामुत्तीर्य नंदब्रजं गला सर्वान् सन्तर्पयामास । कालिन्द्रयाः पुलेने रम्ये पुण्यवृ समा- चिंते । गोपनारीभिरानेशं क्रीडयामास केशबः” । एतैर्बाकय- बिलासत्य नित्यत्वम् । पातालखण्डे -” यमुनाजलकल्लोले सदा . क्रीडति माधवः” इति । ततश्चायं फलितोऽर्थः सर्बाबताराबता- रिबीजं श्रीकृष्णस्तदविष्ठानं श्रोमधुपुरी, तत्र रसात्मकं सिंहा- सनं श्रीवृन्दावनं, सभासदः श्रीब्रजदेव्यः, ततो बहिराबर हायाः (स्थानीयाः) श्रीनारायणादयः स्वपादा- सहिता इति ज्ञेयम् । परमरहस्यं तत्तु श्रीकृष्णप्रियवर्गकृपया स्फुरति नान्यथा अज्ञाः स्वाज्ञत्वान्न बर्णयन्ति । श्रोशुकादयस्तु स्वकायं सर्वस्वं महा- रत्नवत् प्रकारान्तरेणैतत् सर्वे मनवदयम् । तदुक्तमादिबाराहे- " बसन्ति मथुरायां ये विष्णुरूपाः हि ते खलु । अज्ञानास्तान्न पश्यन्ति पश्यन्ति ज्ञानचक्षुत्रः” इति । गोपालोपनिषदि - “चक्र ेण रक्षिता मथुरा जन्मजराभ्यां भिन्नः स्थागुरिति” ततो बनान्युक्त्वोपसंहारान्ते “एतैराषृता पुरीति” । कृष्णापनि- षदि " चिन्तयेच्च तसा कृष्णं गोपगोपोगबांचितम्” । तथात्तरभागे कृष्णोपनिषदे -” बने बृन्दावने क्रोडन् गोपगोप सुरैः सहेति” तथा गोपालोपनिषदि - " तत्र हि रामस्य राममूर्त्तिः प्रदय म्नस्य प्रदय म्नमूर्त्तिः अनिरुद्वस्यानिरुद्रमूर्त्तिः” सप्त मुनयः ब्रह्मा नारायणश्च आबरणपरिपाटी ज्ञेयाः, श्रुतिः “बनेष्वेवं मथुरा- स्वेवं द्वादश मूर्त्तयो भवन्ति एकां हि वै रुद्रा यजन्ति द्वितायां ब्रह्मज्ञा यजन्ति तृतोयां हि ब्रह्मा यजतात्यादयुक्त तत्रैब तत्र Mix ( ८३ ) तेष्वेव गहनेष्वेव देवा मनुष्या-गंधर्वा नागाः किंनरा गायन्तीति तत्र द्वादशादित्या एकादश रुद्रा इति” । श्रीमथुरायाः बाह्यवैभवं ब्रह्माण्डलक्षणं तदुक्त श्रीगोपालोपनिषदि - “मध्यते तु जगत्सर्वं ब्रह्मज्ञानेन येन वा । तत्सारभूतं यद्यस्मात् मथुरा सा निग- दयते । अष्टदिक पालिभिः सेव्यं पद्म बिकसितं जगत् । संसा- रार्णबसंज्ञा ते (संजातं) से बितं सममानसैः । चन्द्रसूर्यार्श्विषो दिव्या ध्वजा मेरुर्हिरण्मयः । श्रातपत्रं ब्रहृलोकमधस्तच्चरणं स्मृत- मित्यादिना श्रीमथुराश्रितवैभवं तु ज्ञेयम् । सर्वकामः सर्वरस इत्यादौ सर्वकामबत्त्वं सर्वरसबत्वं ज्ञेयम् । रसं ह्यो बायं लब्ध्वानंदी भवतीत्यादौ रसविशेषणं विधीयते न बिशेषों (विशेष्यं) लोहितो स्मीषा प्रचरयत्तीतिवत् । “जयति जननिबासो देबकी - जन्मबाद”- इत्यादौ बर्त्तमानपदप्रयोगात् बिशेष्यस्य नित्यत्वं यथा देवदत्ते पुत्रत्व - पितृत्व-भ्रातृत्व-बिषयत्वादिधम्मैस्तेषां विशिष्टबाधितमेव श्री कृष्णेऽपि तत्तल्लीलाविशिष्टत्वात् तत्र प्रतिनियत्यत्वं तथाहि ब्रजेश्वरीं प्रति” दाम्ना चोलूखले बद्ध” इति कृपया लीलाबिशिष्टः श्रीदामोदरः ब्रजदेबीप्रभृतिषु भविष्यपुराणोक्तलीलया तथाहि- " तस्मिन् दिने च भगवान् रात्रौ राधागृहं ययौ । सा च क्रुद्धा तमुदरे क्वचिद्दाम्ना बबंध है । ब्रजेश्वरी महोत्साहब सात् कृष्णः सशंकितः । ततः प्रसन्नः श्रीराधां प्रतिबाधयम सौ ब्रबीत् । किंचि- द्दाम त्वया तन्वि उदरे यन्ममार्पितम् । दामोदरेति मे नाम प्रियं तेन शुभानने” इत्यादि ॥ ऋग्वेदेऽपि श्रीवृन्दाबनस्यैवाधिकय- “तां बां बास्तून युष्मसि गमध्ये यत्र गावो भूरिशृंग्यो प्रयासः तदुरुगायस्य विष्णोः परम- पद्मबभाति भूरीति” बां युबयोः श्रीगोपीश्रीकृष्णयोः तां बास्तून् (तानिबांन) प्रसादत्वेन ब्रजसंबन्धिलीलास्थानानि गमध्ये प्राप्त युष्मसि कामयामहे तानीति प्रकटयति यत्र ब्रजे भूरिशृग्यो ( ८४ ) गाव: अयासः शुभाः सन्तीति शेषः, उरुगायस्याधिक र्त्त : श्रीकृष्णस्य कामान् बर्षतीति बिष्णुस्तस्य गोपिकासु कामबर्षकस्य तद्गोकुलं पदं वैकुण्ठस्थानमिति यावत् वैकुण्ठादपि परमं श्रेष्ठ भूरि सर्वरसपरमाबधिरूपं । तथा तैत्तरीयके- “ते ते धामान् युष्मसि गमध्यै गाबो यत्र भूरिशृग्यो प्रयास अत्राह तदुरुगायस्य विष्णोः परमं पदमबभागते भूरिरिति, ते तव ते तानि धामानि स्थानानि भूरिरासोत्सवे बहुरूपत्वेन प्रतीतस्य, तदनन्तरमिति “बिष्णोः कर्माणि पश्यत यतो व्रतानि पश्यसो इन्द्रस्य पूज्यः सखास्तद्विष्णोः परमं पदं सदा पश्यंति सूरयः दिबीब चक्षुराततं” सूरयः भक्ताः सदा नित्यं पश्यन्ति नित्यत्वात् तर्ह्यन्ये किमिति न पश्यन्ति दिबीव चक्षुः सर्वं पश्यति तथा बिदद्यमानेऽपि भक्तचैव ज्ञायते इति कीदृशं चक्षुराततं सर्वरूप- दर्शनात् परिच्छिन्नमपि ततं व्याप्त । तर्हि गोकुलस्यापि श्रानन्दरूपत्वात् तस्य रस्यात् अस्यैब स्फुरणं परं सर्वमाधुर्यानु- भवक्रमेणापि पित्ताक्रान्ते सिताबत् । अतएबोक्त त्वां कर्माणि पश्यत शरणं पश्यत गोबर्द्धनोद्धारणादीनि यदि न स्युः तर्हि पश्यतेति नियमो न स्यात् तस्माद्वर्त्तत एव यतः कर्मदर्शनानन्तरं व्रतानि काम्याच नादीनि पश्यति निकटत्वात्, यद्वा यतः कर्मेभ्यः लीला- प्राधान्यात् यथा तृतीये “पश्यन्ति ते मे रुचिराण्यंव सन्तः प्रसन्न- वक्त्रारुणलोचनानि । रूपाणि दिव्याति बरप्रदानि साकं बाचं स्पृहणीयां वदन्ति । तैर्दर्शनीयावयवैरुदारबिलासहा सेक्षितवाम- सूक्तः । हृतात्मनो हृतप्राणांश्च भक्तिरनिच्छतो गतिमवीं प्रयुक्त” इति ॥२१॥ एवं तु भक्तवात्सल्यगुणविशिष्टेन भक्तच्छानियामकतया प्रदर्श्यत इति वाच्यं अभक्तानां तु यथा तृतीये- “तान् शोच्यशो- च्यानविदोऽनुशोचे हरेः कथायां विमुखानघेन । क्षिणोति देवो- ( ८५ ) नमस्तु येामायुवृथावादगतिस्मृतीनामिति” । व्रतानि आत्मा- रामत्वादीनि श्रीकृष्णः पश्यसे ववाधे स्पृशवाधनस्पर्शयोरिति धातो’ लिटिरूपं । अयमर्थः स्वनिष्ठानि अन्यनिष्ठानि च प्रातिव्रता- दोनि निराकृतवान्नित्यर्थः । यद्वा इन्द्रस्य ब्रतानि यागादीनि पश्यसे ववाधे । कीदृशः श्रीकृष्णः पूज्यः योगाह : श्यामत्वाद्गो- पीनां गौरवात् योग्या सन्वा समानशीलवानित्यर्थः । तस्माच्छी- कृष्णस्य लीलायाश्च सदेकरूपत्वं नित्यत्वं रसरूपं च ज्ञेयम् । तथा प्राकृतोपकरणानामानुकूल्येन नित्यवं प्रातिकूल्येना नित्यमिति । एवमानुकूल्येनाशुद्धमपि शुद्ध प्रातिकूल्येन शुद्धमप्यशुद्ध ब्राह्म- चाण्डालयोरिव भक्तिरसस्तु भक्तयैव वेदयो न तर्कादिना तस्मात् सर्वमनवदयं ततश्च यथार्थेनैव भजनं कार्य अन्यथा न भक्तिरसास्वादः तथा श्रति:- “योऽन्यथा संत्मात्मानमन्यथा प्रति- पदयते । किंते न तु कृतं पापं चोरेणात्मापहारिणेति” । यथा श्रीकृष्णस्य सर्वरस कदम्वत्वेन नित्यत्वं एत्रामवताराणामप्यं- शत्वेन ||२२|| 2 अथ वैकुण्डादिलोका उच्यंते तत्र वैकुण्ठो ब्रह्माण्डश्च वैकुण्ठो भोगार्थी ब्रह्माण्डो लीलार्थ इति । तत्र वैकुण्ठस्त्रिविधः ब्रह्माण्डमध्ये आवरणमध्ये वहिश्च । त एव विचार्यते पाद्म े त्रय- त्रिंशे - “भोगार्थं परमब्योम लोलार्थमखिलं जगत्” । भगवद्भागार्थ ब्रह्माण्डरूपेण श्रीः स्थिता तत्र वैकुण्ठे मूर्त्तिमती । तदुक्त तत्रैव- “लक्ष्म्या स्वरूपा सा व्याप्य जगत् कृत्स्नं व्यवस्थिता । तोयादिरसरूपेण सत्र लोलावनुर्भवेत्” । तत्र विश्वोल चित्रकारः नत्रेयं प्रक्रिया- “चतुर्विंशतिभिस्तत्वैः परोता महदादिभिः । विदय- याविद्यया शक्तचा मायया च निषेवितमि”त्यादिवाक्य: शक्ति– त्वेन नित्यत्वं वैरूभ्यं च यथा यमुना दुरून्यं तथा पृथिव्याकाशा- दोनां स्थूल सूक्ष्मं च । तत्र स्थूलं परमाण्वादिरूपं सूक्ष्मं मूर्त्ति- ( ८६ ) मत् । तत्राधिकारे प्रकृत्याः मुख्यत्वं नियंतृत्वं च प्रकृतेरपि निया- मिका लक्ष्मीः । तत्रेश्वरेच्छया प्रकृत्यादिस्थूलरूपानामवयवेषु परमाण्वादिषु क्रियया दचरणुकादिप्रक्रमेण स्थूलरूपाः महदादयः उत्पदद्यते ततश्च सूक्ष्म रूपा महदादयो मूत्तिमन्तः स्थूलरूपेषु तादात्म्यापन्नास्तु कृपावलोकेन लब्धसामर्थ्याः ब्रह्माण्डं निर्माय भगवते निवेदितवंतः ॥ ३॥ ननु महदादय ुपक्रमेणैब सृष्टिर्न तु दद्यणुकादिप्रक्रमेण सत्यं तत्तु अबयबवहुत्वे (अवयवद्वारा) यथा स्थूला पृथ्वी तथा चतुर्विंशतितत्वानां स्थूलाबस्था प्राप्तानां ब्रह्माण्डरचने योग्यतोक्ता नत्ववयबाबस्थां दूरीकर्त्तु तथोक्त’ तृतीये - “चरमः सद्विशेषाणा- मनेको नेकसंयुतः” इति “गुढौं परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः” इत्यादि । भोगार्थं परमव्योमेति व्याप्यवैकुण्ठः सप्तावरण- भेदानन्तरं यत्प्राप्यते । तदुक्त पाद्म े - “ प्रधानपरमव्योम्नो- रन्तरे बिरजा नदी | बेदांगस्वेदजनिततोयैः प्रस्तोषिता (प्रस्राविता) शुभा । तस्याः पारे परं व्योम त्रिपाद्भुतं सनातनं” इति । प्रधानाद्वहि: अक्षरं परमं धाम बैकुण्ठम् । शाश्वतं परमिति” कश्चन लोकः जलावरण-मध्ये तदुक्त पाद्मोत्तरखण्डे चतुबिशे- जलाबरणमध्ये तु वैकुण्ठं कारणं शुभम्” ब्रह्माडाबरणमध्ये “द्वितीयं वैष्णवं लोकं शृणु वक्ष्यामि सुव्रते । योऽयं नित्य इति ख्यातो लोकोऽयं वैष्णवः स्मृतः” । स्वेतद्वीपं प्रसिद्धमेव । " तोयान्धेरुत्तरे कूले स्वेतद्वीपमिहोच्यते । दुग्धान्धौ वैकुण्ठ- लोको ब्रह्मलोकातरेषतः " । वैकुण्ठलोकः यत्र सनकादयो गताः “वैकुण्ठो निर्मितो येन लक्ष्म्याः प्रियचिकीर्षया " भुबः इति चतुद्दशले केषु च चतुर शवैकुण्ठलोकाः स्थानेपि महाकालस्थानं वैकुण्ठलोकः एबमन्येऽपि नित्याः । तदुक्त ं पाद्म-” त्रिपाद् बिभूते लोकस्त असंख्य: ( 50 ) परिकीर्त्तितः । सर्वे नित्या निर्मिकारा हेयरागविवर्जिताः” । इति मोक्षपदबाच्यतापि तत्तल्लोक प्राप्तिरेव । पाद्म े - " तद्विष्णोः परमं धाम मोक्ष इत्यभिधीयते । विष्णोरनुचरत्वं च मोक्षमाहु- र्मनीषिणः” इत्यादि । श्रीभागबते - अधोक्षजालंभमिहाशुभात्मनः शरीरिणः संसृतिचक्रशातनम् । तद्ब्रह्मनिर्वाणसुखं बिदुर्बुधास्ततो भजध्वं हृदये हृदीश्वरम् ।। पञ्चमे - " यथा वर्णविधानमपवर्गश्चापि भवति, योऽसौ भगवति सर्वभूतात्मनि अनात्म्येऽनिरुक्त, नि- लयने परमात्मनि बासुदेबेऽनन्यनिमित्तभक्तियोगलक्षणो” अनेन गद्यन मोक्षस्वरूपमुक्त अतः भक्तानां भिन्न एव मोक्षः श्रभक्तानां तु प्रीतिरेव मोक्ष इति बिवेकः किंच एहिकामुष्मिके (पञ्चविधो मोक्षः) साधने भक्तिरेब साधनं फलं च तथा च श्रुतौ “भक्ति- रेवैनं नयति भक्तिरेवैनं दर्शयति भक्तिवशं पुरुषो भक्तिरेब भूयसी- ति " काठरश्र ुतौ स्वरूपमुच्यते । प्रपञ्चस्य तु वस्तुत्वं भगवत् संग्रहेण वा । निवेदने तु शुद्धत्वं धातुत्वं (धातुजं) पुरटं यथा ॥ बिषयाभिनिवेशेन भोगवान् विषयी स्मृतः । तदभावे बिरक्तः स्यात् इत्येवं परमार्थता ॥ भक्तौ वैराग्यभोगौ तु हथ दासीनतया मतौ । स्पृहा (महा) प्रसादस्वीकारो भक्तिरेव न भोगभृत् ॥ वैराग्यमुत्तरांगं हि व्यञ्जकं भक्तिवत्मनि । दाता तु भगवात् कृष्ण आत्मानमपि यच्छति ।। satara इति ज्ञात्वा तु दातव्यं सर्वस्वं किमुतापरम् । तदीयत्वेन यद्दानं तहानं भगवत् कृतम् ॥ मदीयत्वेन यद्दानं तद्दानं प्राकृतं विदुः । भगवद्वस्तुना भोगो न कार्य अधिकारिणा ॥ प्रसादेनैव कार्यो हि तदभावाय बध्यते । । (छ) वैकुण्ठवृक्षगुल्मानां भक्तानां चेश्वरस्य हि ॥ रूपचेष्टादिश्चिदानन्दतया मतः विग्रहो प्रकृतीनां (प्रकृताणां) तू भक्तानां शरीरं नित्यमेव हि ॥ तु चिदानन्दादिकं तस्मिन् सिद्धावस्थानुगं मतं । सच्चिदानन्दरूपं हि ज्ञापयन्ति हि केचन ॥ प्रतीतिर्नारदादौ हि वैष्णवासुरयोः यथा । भक्त दृटबिरोधो हि मूर्त्तिदेहादिदर्शनात् ॥ भक्त नैव तु न ग्राहयः प्रतीकोपासने यथा । नारायणे तु तत्वानां न कदाचित् प्रलीनता ॥ नित्यानन्दशरीरत्वाल्लक्ष्मी - भूमीवदिष्यते । तेषां तु काय्यंभूतानि तत्वान्यान्वसंतीति हि ॥ सर्वब्रह्माण्ड तत्वानां कारणानीति निश्चयात् । एकैकशस्तु ब्रह्माण्डे तत्वानां भेद् इष्यते ॥ लीनता कार्यभूतानां कारणानां तु नित्यता । मुक्तौ जीवस्य रागादेर्विनाशः शिष्टसंमतः ॥ न तु प्रकृत्यधीनानां तत्वानां च कदाचन । तत्वात्मकस्य देहस्य रागादिसहितस्य वै ॥ विनाशो लीनता ज्ञेया नान्यतत्वस्य कुत्रचित् । भगवद्धर्मशून्यं च जनं नैबाबलोकयेत् ॥ ईश्वरस्य च विज्ञानं शुष्कं तन्निष्ठकान् जनान् । इति श्री भास्करात्मजनारायण भट्टविरचिते भक्तभूषण सन्दर्भे भगवद्धामनिरूपणं नाम तृतीयः परिच्छेदः ॥ :-:::- श्रीगौरहरिप्रेस, कुसुमसरोवर, (राधाकुण्ड ) क्र० सं० से प्रकाशित पुस्तकें:- प्रन्थ १- विरुदावलीलक्षणम् (श्रीपादरूपगोस्वामीकृत) २- (लघु) श्रीश्रीनारायणभट्टचरितामृतम् ३- स्वकीयात्वनिराशविचार एवं परकीयास्थापन (श्रीपाद विश्वनाथचक्रवर्तीकृत) ४- श्रीश्री माधवेन्द्रपुरी एवं वल्लभाचार्य प्रणयता ग्रन्थ सं० ११० १११ ११२, ११३ ११४ ११५, ११६ ११७ ११८ ११६ जीवगोस्वामी कृत) १२० ५- श्रीमाधवदासजी की वाणी तथा आदर्शजीवनी ६ - भक्तितत्वप्रकाशिका (श्रीचैतन्यदासजीकृत) गीतिविंशतिका (श्रीगोस्वामीगोपीलालजीकृत) भक्तिविवेक (श्रीश्री नारायणभट्टजी कृत ) “नर्पितचरों चिरादिति” श्लोकव्याख्या (श्रीपाद. ७ - आमोदमहाकाव्यम् (श्रीअनूपनारायणभट्टाचार्यकृत) १२१ 5- श्रीकृष्णकौतुकम (श्रीश्रीपरमानन्दपाद महोदयकृत) ६- श्रीराधिकास्तोत्र (सानुवाद) (श्रीपाद प्रबोधानन्द- १२२ सरस्वतीकृत) १२३ १० - श्रीगोपाल तापिनी उपनिषद्भाष्य (श्रीपाद प्रबोधानन्द- ११- श्रीभक्तभूषणसंदर्भः (सानुवादः) (श्रीपादनारायण- यन्त्रस्थ ग्रन्थ– सरस्वतीकृत) १२४ भट्ट कृत) १२५ १- (सानुवाद) गोविन्दलीलामृत (श्रीकृष्णदासकविराज- गोस्वामीकृत) १२६ २-साधनदीपिका (श्रीपादनारायणभट्टकृत) १२७ ३- रासपञ्चाध्यायी (रमिकाल्हादिनी टीका) १२८