९। दसमोऽध्यायः १०। कृष्णाप्त-जन-चरित्रम् येषां रागोदितः कृष्णे श्रद्धा वा विमलोदिता ।
तेषाम् आचरणं शुद्धं सर्वत्र परिदृश्यते ॥१॥
अशुद्धाचरणे तेषाम् अश्रद्धा वर्तते स्वतः ।
प्रपञ्च-विषयाद् रागो वैकुण्ठाभिमुखो यतः ॥२॥
अधिकार-विचारेण गुण-दोषौ विविच्यते ।
त्यजन्ति सततं वादान् शुष्क-तर्काननात्मकान् ॥३॥
सम्प्रदाय-विवादेषु बाह्य-लिङ्गादिषु क्वचित् ।
न द्विषन्ति न सज्जन्ते प्रयोजन-परायणाः ॥४॥
तत् कर्म हरि-तोषं यत् सा विद्या तन्-मतिर् यया ।
स्मृत्वैतन् नियतं कार्यं साधयन्ति मनीषिणः ॥५॥
जीवने मरणे वापि बुद्धिस् तेषां न मुह्यति ।
धीरा नम्र-स्वभावाश् च सर्व-भूत-हिते रताः ॥६॥
आत्मा शुद्धः केवलस् तु मनो जाड्योद्भवं ध्रुवम् ।
देहं प्रापञ्चिकं शश्वद् एतत् तेषां निरूपितम् ॥ ७॥
जीवश् चिद्-भगवद्-दासः प्रीति-धर्मात्मकः सदा ।
प्राकृते वर्तमानोऽयं भक्ति-योग-समन्वितः ॥८॥
ज्ञात्वैतद् व्रज-भावाढ्या वैकुण्ठ-स्थाः सदात्मनि ।
भजन्ति सर्वदा कृष्णं सच्-चिद्-आनन्द-विग्रहम् ॥ ९॥
चित्-सत्त्वे प्रेम-बाहुल्याल् लिङ्ग-देहे मनो-मये ।
मिश्र-भाव-गता सा तु प्रीतिर् उत्प्लाविता सती ॥१०॥
प्रीति-कार्यम् अतो बद्धे मनो-मयम् इतीक्षितम् ।
पुनस् तद्-व्यापितं देहे प्रत्यग्-भाव-समन्वितम् ॥११॥
सार-ग्राही भजन् कृष्णं योषिद्-भावाश्रितेऽत्मनि ।
वीरवत् कुरुते बाह्ये शारीरं कर्म नित्यशः ॥१२॥
पुरुषेषु महा-वीरो योषित्सु पुरुषस् तथा ।
समाजेषु महाभिज्ञो बालकेषु सुशिक्षकः ॥१३॥
अर्थ-शास्त्र-विदां श्रेष्ठः परमार्थ-प्रयोजकः ।
शान्ति-संस्थापको युद्धे पापिनां चित्त-शोधकः ॥१४॥
बाहुल्यात् प्रेम-सम्पत्तेः स कदाचिज् जन-प्रियः ।
अन्तरङ्गं भजत्य् एव रहस्यं रहसि स्थितः ॥१५॥
कदाहं श्री-व्रजारण्ये यमुना-तटम् आश्रितः ।
भजामि सच्-चिद्-आनन्दं सार-ग्राहि-जनान्वितः ॥१६॥
सार-ग्राहि-वैष्णवानां पदाश्रयः सदास्तु मे ।
यत्-कृपा-लेश-मात्रेण सार-ग्राही भवेन् नरः ॥१७॥
वैष्णवाः कोमल-श्रद्धा मध्यमाश् चोत्तमास् तथा ।
ग्रन्थम् एतत् समासाद्य मोदन्तां कृष्ण-प्रीतये ॥१८॥
परमार्थ-विचारेऽस्मिन् बाह्य-दोष-विचारतः ।
न कदाचिद् धत-श्रद्धः सार-ग्राहि-जनो भवेत् ॥१९॥
अष्टादश-शते शाके भद्रके दत्त-वंशजः ।
केदारोऽरचयच् छास्त्रम् इदं साधु-जन-प्रियम् ॥२०॥
इति श्री-कृष्ण-संहितायां
कृष्णाप्त-जन-चरित्र-वर्णनं नाम
दशमोऽध्यायः
॥१०॥
।ओ हरिः हरिः हरिः ।ओ