८। नवमोऽध्यायः ९। कृष्णाप्ति-वर्णनम् व्यासेन व्रज-लीलायां नित्य-तत्त्वं प्रकाशितम् ।
प्रपञ्च-जनितं ज्ञानं नाप्नोति यत् स्वरूपकम् ॥१॥
जीवस्य सिद्ध-सत्तायां भासते तत्त्वम् उत्तमम् ।
दूरता-रहिते शुद्धे समाधौ निर्विकल्पके ॥२॥
माया-सूतस्य विश्वस्य चिच्-छायत्वात् समानता ।
चिच्-छक्त्य्-आविष्कृते कार्ये समाधाव् अपि चात्मनि ॥३॥
तस्मात् तु व्रज-भावानां कृष्ण-नाम-गुणात्मनाम् ।
गुणैर् जाड्यात्मकैः शश्वत् सादृश्यम् उपलक्ष्यते ॥४॥
स्व-प्रकाश-स्वभावोऽयं समाधिः कथ्यते बुधैः ।
अतिसूक्ष्म-स्वरूपत्वात् संशयात् स विलुप्यते ॥५॥
वयं तु संशयं त्यक्त्वा पश्यामस् तत्त्वम् उत्तमम् ।
वृन्दावनान्तरे रम्ये श्री-कृष्ण-रूप-सौभगम् ॥६॥
नर-भाव-स्वरूपोऽयं चित्-तत्त्व-प्रतिपोषकः ।
स्निग्ध-श्यामात्मको वर्णः सर्वानन्द-विवर्धकः ॥७॥
त्रि-तत्त्व-भङ्गिमा-युक्तो राजीव-नयनान्वितः ।
शिखि-पिच्छ-धरः श्रीमान् वन-माला-विभूषितः ॥८॥
पीताम्बरः सुवेशाढ्यो वंशी-न्यस्त-मुखाम्बुजः ।
यमुना-पुलिने रम्ये कदम्ब-तलम् आश्रितः ॥९॥
एतेन चित्-स्वरूपेण लक्षणेन जगत्-पतिः ।
लक्षितो नन्दजः कृष्णो वैष्णवेन समाधिना ॥१०॥
आकर्षण-स्वरूपेण वंशी-गीतेन सुन्दरः ।
मादयन् विश्वम् एतद् वै गोपीनाम् अहरन् मनः ॥११॥
जात्यादि-मद-विभ्रान्त्या कृष्णाप्तिर् दुर्हृदां कुतः ।
गोपीनां केवलं कृष्णश् चित्तम् आकर्षणे क्षमः ॥१२॥
गोपी-भावात्मकाः सिद्धाः साधकास् तद्-अनुकृतेः ।
द्विविधाः साधवो ज्ञेयाः परमार्थ-विदा सदा ॥१३॥
संसृतौ भ्रमतां कर्णे प्रविष्टं कृष्ण-गीतकम् ।
बलाद् आकर्षयंश् चित्तम् उत्तमान् कुरुते हि तान् ॥१४॥
पुम्भावे विगते शीघ्रं स्त्री-भावो जायते तदा ।
पूर्व-रागो भवेत् तेषाम् उन्माद-लक्षणान्वितः ॥१५॥
श्रुत्वा कृष्ण-गुणं तत्र दर्शकाद् धि पुनः पुनः ।
चित्रितं रूपम् अन्वीक्ष्य वर्धते लालसा भृशम् ॥१६॥
प्रथमं सहजं ज्ञानं द्वितीयं शास्त्र-वर्णनम् ।
तृतीयं कौशलं विश्वे कृष्णस्य चेश-रूपिणः ॥१७॥
व्रज-भावाश्रये कृष्णे श्रद्धा तु राग-रूपका ।
तस्मात् सङ्गोऽथ साधूनां वर्तते व्रज-वासिनाम् ॥१८॥
कदाचिद् अभिसारः स्याद् यमुना-तट-सन्निधौ ।
घटते मिलनं तत्र कान्तेन सहितं शुभम् ॥१९॥
कृष्ण-सङ्गात् परानन्दः स्वभावेन प्रवर्तते ।
पूर्वाश्रितं सुखं गार्ह्यं तत्-क्षणाद् गोष्पदायते ॥२०॥
वर्धते परमानन्दो हृदये च दिने दिने ।
आत्मनामात्मनि प्रेष्ठे नित्य-नूतन-विग्रहे ॥२१॥
चिद्-आनन्दस्य जीवस्य सच्चिद्-आनन्द-विग्रहे ।
याऽनुरक्तिः स्वतः-सिद्धा सा रतिः प्रीति-बीजकम् ॥२२॥
सा रती रसम् आश्रित्य वर्धते रस-रूप-धृक् ।
रसः पञ्च-विधो मुख्यः गौणः सप्त-विधस् तथा ॥२३॥
शान्त-दास्यादयो मुख्याः सम्बन्ध-भाव-रूपकाः ।
रसा वीरादयो गौणाः सम्बन्धोत्थाः स्वभावतः ॥२४॥
रस-रूपम् अवाप्येयं रतिर् भाति स्वरूपतः ।
विभावैर् अनुभावैश् च सात्त्विकैर् व्यभिचारिभिः ॥२५॥
एषा कृष्ण-रतिः स्थायी भावो भक्ति-रसो भवेद् ।
बद्धे भक्ति-स्वरूपा सा मुक्ते सा प्रीति-रूपिणी ॥२६॥
मुक्ते सा वर्तते नित्या बद्धे सा साधिता भवेत् ।
नित्य-सिद्धस्य भावस्य प्राकट्यं हृदि साध्यता ॥२७॥
आदर्शाच् चिन्-मयाद् विश्वात् सम्प्राप्तं सुसमाधिना ।
सहजेन महाभागैर् व्यासादिभिर् इदं मतम् ॥ २८॥
महा-भावाविर्भावो महा-रासावधिः क्रिया ।
नित्य-सिद्धस्य जीवस्य नित्य-सिद्धे परात्मनि ॥२९॥
एतावज् जड-जन्यानां वाक्यानां चरमा गतिः ।
यद्-ऊर्ध्वं वर्तते तन् नो समाधौ परिदृश्यताम् ॥३०॥
इति श्री-कृष्ण-संहितायां
कृष्णाप्ति-वर्णनं नाम
नवमोऽध्यायः
॥९॥
—ओ)०(ओ—