०८

७। अष्टमोऽध्यायः ८। व्रज-भाव-विचारः अत्रैव व्रज-भावानां श्रेष्ठ्यम् उक्तम् अशेषतः ।

मथुरा-द्वारका-भावास् तेषां पुष्टिकरा मताः ॥१॥

जीवस्य मङ्गलार्थाय व्रज-भावो विविच्यते ।

यद्-भाव-सङ्गतो जीवश् चामृतत्वाय कल्पते ॥२॥

अन्वय-व्यतिरेकाभ्यां विविच्योऽयं मयाधुना ।

अन्वयात् पञ्च सम्बन्धाः शान्त-दास्यादयश् च ये ॥३॥

केचित् तु व्रज-राजस्य दास-भागवताः सदा ।

अपरे सख्य-भावाढ्याः श्रीदाम-सुबलदयः ॥४॥

यशोदा-रोहिणी-नन्दाः वात्सल्य-भाव-संस्थिताः ।

राधाद्याः कान्त-भावे तु वर्तन्ते रास-मण्डले ॥५॥

वृन्दावनं विना नास्ति शुद्ध-सम्बन्ध-भावकः ।

अतो वै शुद्ध-जीवानां रम्ये वृन्दावने रतिः ॥६॥

तत्रैव कान्त-भावस्य श्रेष्ठता शास्त्र-सम्मता ।

जीवस्य नित्य-धर्मोऽयं भगवद्-भोग्यता मता ॥७॥

न तत्र कुण्ठता काचित् वर्तते जीवकृष्णयोः ।

अखण्ड-परमानन्दः सदा स्यात् प्रीति-रूप-धृक् ॥८॥

सम्भोग-सुख-पुष्ट्य्-अर्थं विप्रलम्भोऽपि सम्मतः ।

मथुरा-द्वारका-चिन्ता व्रज-भाव-विवर्धिनी ॥९॥

प्रपञ्च-बद्ध-जीवानां वैध-धर्माश्रयात् पुरा ।

अधुना कृष्ण-सम्प्राप्तौ पारकीय-रसाश्रयः ॥१०॥

श्री-गोपी-भावम् आश्रित्य मञ्जरी-सेवनं तदा ।

सखीनां सङ्गतिस् तस्मात् तस्माद् राधा-पदाश्रयः ॥११॥

तत्रैव भाव-बाहुल्यान् महाभावो भवेद् ध्रुवम् ।

तत्रैव कृष्ण-सम्भोगः सर्वानन्द-प्रदायकः ॥१२॥

एतस्यां व्रज-भावानां सम्पत्तौ प्रतिबन्धकाः ।

अष्टादश-विधाः सन्ति शत्रवः प्रीति-दूषकाः ॥१३॥

आदौ दुष्ट-गुरु-प्राप्तिः पूतना स्तन्य-दायिनी ।

वात्या-रूप-कुतर्कस् तु तृणावर्त इतीरितः ॥१४॥

तृतीये भार-वाहित्वं शकटं बुद्धि-मर्दकम् ।

चतुर्थे बाल-दोषाणां स्वरूपो वत्स-रूप-धृक् ॥१५॥

पञ्चमे धर्म-कापट्यं नामापराध-रूपकम् ।

बक-रूपी महा-धूर्तो वैष्णवानां विरोधकः ॥१६॥

तत्रैव सम्प्रदायानां बाह्य-लिङ्ग-समादरात् ।

दाम्भिकानां न सा प्रीतिः कृष्णे व्रज-निवासिनि ॥१७॥

नृशंसत्वं प्रचण्डत्वम् अघासुर-स्वरूपकम् ।

षष्ठापराध-रूपोऽयं वर्तते प्रतिबन्धकः ॥१८॥

बहु-शास्त्र-विचारेण यन् मोहो वर्तते सताम् ।

स एव सप्तमो लक्ष्यो ब्रह्मणो मोहने किल ॥१९॥

धेनुकः स्थूल-बुद्धिः स्याद् गर्दभस् ताल-रोधकः ।

अष्टमे लक्ष्यते दोषः सम्प्रदाये सतां महान् ॥२०॥

इन्द्रियाणि भजन्त्य् एके त्यक्त्वा वैध-विधिं शुभम् ।

नवमे वृषभास् तेऽपि नश्यन्ते कृष्ण-तेजसा ॥२१॥

खलता दशमे लक्ष्या कालीये सर्प-रूपके ।

सम्प्रदाय-विरोधोऽयं दावानलो विचिन्त्यते ॥२२॥

प्रलम्बो द्वादशे चौर्यम् आत्मनो ब्रह्म-वादिनाम् ।

प्रविष्टः कृष्ण-दास्येऽपि वैष्णवानां सुतस्करः ॥२३॥

कर्मणः फलम् अन्वीक्ष्य देवेन्द्रादि-प्रपूजनम् ।

त्रयोदशात्मको दोषो वर्जनीयः प्रयत्नतः ॥२४॥

चौर्यानृत-मयो दोषो व्योमासुर-स्वरूपकः ।

श्री-कृष्ण-प्रीति-पर्याप्तौ नराणां प्रतिबन्धकः ॥२५॥

वरुणालय-सम्प्राप्तिर् नन्दस्य चित्त-मादकम् ।

वर्जनीयं सदा सद्भिर् विस्मृतिर् ह्य् आत्मनो यतः ॥२६॥

प्रतिष्ठा-परता भक्ति-च्छलेन भोग-कामना ।

शङ्खचूड इति प्रोक्तः षोडशः प्रतिबन्धकः ॥२७॥

आनन्द-वर्धने किञ्चित् सायुज्यं भासते हृदि ।

तन् नन्द-भक्षकः सर्पस् तेन मुक्तः सुवैष्णवः ॥२८॥

भक्ति-तेजः-समृद्ध्या तु स्वोत्कर्ष-ज्ञानवान् नरः ।

कदाचिद् दुष्ट-बुद्ध्या तु केशिघ्नम् अवमन्यते ॥२९॥

दोषाश् चाष्टादश ह्य् एते भक्तानां शत्रवो हृदि ।

दमनीयाः प्रयत्नेन कृष्णानन्द-निषेविना ॥३०॥

ज्ञानिनां माथुरा दोषाः कर्मिणां पुर-वर्तिनः ।

वर्जनीयाः सदा किन्तु भक्तानां व्रज-दूषकाः ॥३१॥

इति श्री-कृष्ण-संहितायां

व्रज-भावानाम् अन्वयव्यतिरेकविचारो नाम

अष्टमोऽध्यायः

॥८॥

—ओ)०(ओ—