०७

६। सप्तमोऽध्यायः ७। कृष्ण-लीला-तत्त्व-विचारः एषा लीला विभोर् नित्या गोलोके शुद्ध-धामनि ।

स्वरूप-भाव-सम्पन्ना चिद्-रूप-वर्तिनी किल ॥१॥

जीवे साम्बन्धिकी सेयं देश-काल-विचारतः ।

प्रवर्तेत द्विधा साऽपि पात्र-भेद-क्रमाद् इह ॥२॥

व्यक्ति-निष्ठा भवेद् एका सर्व-निष्ठाऽपरा मता ।

भक्तिमद् धृदये सा तु व्यक्ति-निष्ठा प्रकाशते ॥३॥

या लीला सर्व-निष्ठा तु समाज-ज्ञान-वर्धनात् ।

नारद-व्यास-चित्तेषु द्वापरे सा प्रवर्तिता ॥४॥

द्वारकायां हरिः पूर्णो मध्ये पूर्णतरः स्मृतः ।

मथुरायां विजानीयाद् व्रजे पूर्णतमः प्रभुः ॥५॥

पूर्णत्वं कल्पितं कृष्णे माधुर्य-शुद्धता-क्रमात् ।

व्रज-लीला-विलासो हि जीवानां श्रेष्ठ-भावना ॥६॥

गोपिका-रमणं तस्य भावानां श्रेष्ठ उच्यते ।

श्री-राधा-रमणं तत्र सर्वोर्ध्व-भावना मता ॥७॥

एतस्य रस-रूपस्य भावस्य चिद्-गतस्य च ।

आस्वादन-परा ये तु ते नरा नित्य-धर्मिनः ॥८॥

सामान्य-वाक्य-योगे तु रसानां कुत्र विस्तृतिः ।

अतो वै कविभिः कृष्ण-लीला-तत्त्वं वितन्यते ॥९॥

ईशो ध्यातो बृहज् ज्ञातं यज्ञेशो यजितस् तथा ।

न राति परमानन्दं यथा कृष्णः प्रसेवितः ॥१०॥

विदन्ति तत्त्वतः कृष्णं पठित्वेदं सुवैष्णवाः ।

लभन्ते तत् फलं यत् तु लभेद् भागवते नरः ॥११॥

इति श्री-कृष्ण-संहितायां

कृष्ण-लीलातत्त्व-वर्णनं नाम

सप्तमोऽध्यायः

॥७॥

—ओ)०(ओ—