५। षष्ठोऽध्यायः ६। कृष्ण-लीला-वर्णनं (३) कर्म-काण्ड-स्वरूपोऽयं मागधः कंस-बान्धवः ।
रुरोध मथुरां रम्यां ब्रह्म-ज्ञान-स्वरूपिणी ॥१॥
मायया बान्धवान् कृष्णो नीतवान् द्वारकां पुरीम् ।
म्लेच्छता-यवनं हित्वा स-रामो गतवान् हरिः ॥२॥
मुचुकुन्दं महाराजं मुक्ति-मार्गाधिकारिणम् ।
पदाहनद् दुराचारस् तस्य तेजोहतस् तदा ॥३॥
ऐश्वर्य-ज्ञान-मय्यां वै द्वारकायां गतो हरिः ।
उवाह रुक्मिणीं देवीं परमैश्वर्य-रूपिणीम् ॥४॥
प्रद्युम्नः काम-रूपो वै जातस् तस्याः हृतस् तदा ।
माया-रूपेण दैत्येन शम्बरेण दुरात्मना ॥५॥
स्वपत्न्या रति-देव्या सः शिक्षितः परवीरहा ।
निहत्य शम्बरं कामो द्वारकां गतवांस् तदा ॥६॥
मान-मय्याश् च राधायाः सत्यभामां कलां शुभाम् ।
उपयेमे हरिः प्रीत्या मण्य्-उद्धार-च्छलेन च ॥७॥
माधुर्य-ह्लादिनी-शक्तेः प्रतिच्छाया स्वरूपकाः ।
रुक्मिण्याद्या महिष्योऽष्ट कृष्णस्यान्तः-पुरे किल ॥८॥
ऐश्वर्ये फलवान् कृष्णः सन्ततेर् विस्तृतिर् यतः ।
सात्वतां वंश-संवृद्धिः द्वारकायां सतां हृदि ॥९॥
स्थूलार्थ-बोधके ग्रन्थे न तेषाम् अर्थ-निर्णयः ।
पृथग्-रूपेण कर्तव्यः सुधियः प्रथयन्तु तत् ॥१०॥
अद्वैत-रूपिणं दैत्यं हत्वा काशीं रमा-पतिः ।
हर-धामादहत् कृष्णस् तद्-दुष्ट-मत-पीठकम् ॥११॥
भौमबुद्धिमयं भौमं हत्वा स गरुडासनः ।
उद्धृत्य रमणीवृन्दमुपयेमे प्रियः सताम् ॥१२॥
घाटयित्वा जरासन्धं भीमेन धर्म-भ्रातृणा ।
अमोचयद् भूमि-पालान् कर्म-पाशस्य बन्धनात् ॥१३॥
यज्ञे च धर्म-पुत्रस्य लब्ध्वा पूजाम् अशेषतः ।
चकर्त शिशुपालस्य शिरः सन्द्वेष्टुर् आत्मनः ॥१४॥
कुरुक्षेत्र-रणे कृष्णो धरा-भारं निवर्त्य सः ।
समाज-रक्षणं कार्यम् अकरोत् करुणा-मयः ॥१५॥
सर्वासां महिषीणां च प्रतिसद्म हरिं मुनिः ।
दृष्ट्वा च नारदोऽगच्छद् विस्मयं तत्त्व-निर्णये ॥१६॥
कदर्य-भाव-रूपः स दन्तवक्रो हतस् तदा ।
सुभद्रां धर्म-भ्रात्रे हि नराय दत्तवान् प्रभुः ॥१७॥
शाल्वमायां नाशयित्वा ररक्ष द्वारकां पुरीम् ।
नृगं तु कृकलासत्वात् कर्म-पाशाद् अमोचयत् ॥१८॥
सुदाम्ना प्रीति-दत्तं च तण्डुलं भुक्तवान् हरिः ।
पाषण्डानां प्रदत्तेन मिष्टेन न तथा सुखी ॥१९॥
बलोऽपि शुद्ध-जीवोऽयं कृष्ण-प्रेम-वशं गतः ।
अवधीद् दिविदं मूढं निरीश्वर-प्रमोदकम् ॥२०॥
स्व-संविन्-निर्मिते धाम्नि हृद्-गते रोहिणी-सुतः ।
गोपीभिर् भाव-रूपाभी रेमे बृहद्-वनान्तरे ॥२१॥
भक्तानां हृदये शश्वत् कृष्ण-लीला प्रवर्तते ।
नटोऽपि स्व-पुरं याति भक्तानां जीवनात्यये ॥२२॥
कृष्णेच्छा काल-रूपा सा यादवान् भाव-रूपकान् ।
निवर्त्य रङ्गतः साध्वी द्वारकां प्लावयत् तदा ॥२३॥
प्रभासे भगवज्-ज्ञाने जराक्रान्तान् कलेवरान् ।
परस्पर-विवादेन मोचयामास नन्दिनी ॥२४॥
कृष्ण-भाव-स्वरूपोऽपि जराक्रान्तात् कलेवरात् ।
निर्गतो गोकुलं प्राप्तो महिम्नि स्वे महीयते ॥२५॥
इति श्री-कृष्ण-संहितायां
कृष्ण-लीला-वर्णनं नाम
षष्ठोऽध्यायः
॥६॥
—ओ)०(ओ—