४। पन्चमोऽध्यायः ५। कृष्ण-लीला-वर्णनं (२) प्रीति-प्रावृट्-समारम्भे गोप्यो भावात्मिकास् तदा ।
कृष्णस्य गुण-गाने तु प्रमत्तास् ता हरि-प्रियाः ॥१॥
श्री-कृष्ण-वेणु-गीतेन व्याकुलास् ता समार्चयन् ।
योग-मायां महा-देवीं कृष्ण-लाभेच्छया व्रजे ॥२॥
येषां तु कृष्ण-दास्येच्छा वर्तते बलवत्तरा ।
गोपनीयं न तेषां हि स्वस्मिन् वान्यत्र किञ्चन ॥३॥
एतद् वै शिक्षयन् कृष्णो वस्त्राणि व्यहरन् प्रभुः ।
ददर्शानावृतं चित्तं रति-स्थानम् अनामयम् ॥४॥
ब्राह्मणांश् च जगन्नाथो यज्ञान्नं समयाचत ।
ब्राह्मणा न ददुर् भक्तं वर्णाभिमानिनो यतः ॥५॥
वेद-वाद-रता विप्राः कर्म-ज्ञान-परायणाः ।
विधीनां वाहकाः शश्वत् कथं कृष्ण-रता हि ते ॥६॥
तेषां स्त्रियस् तदागत्य श्री-कृष्ण-सन्निधिं वने ।
अकुर्वन्न् आत्म-दानं वै कृष्णाय परमात्मने ॥७॥
एतेन दर्शितं तत्त्वं जीवानां सम-दर्शनम् ।
श्री-कृष्ण-प्रीति-सम्पत्तौ जाति-बुद्धिर् न कारणम् ॥८॥
नराणां वर्ण-भागो हि सामाजिक-विधिर् मतः ।
त्यजन् वर्णाश्रमान् धर्मन् कृष्णार्थं हि न दोष-भाक् ॥९॥
इन्द्रस्य कर्म-रूपस्य निषिध्य यज्ञम् उत्सवम् ।
वर्षणात् प्लावनात् तस्य ररक्ष गोकुलं हरिः ॥१०॥
एतेन ज्ञापितं तत्त्वं कृष्ण-प्रीतिं गतस्य वै ।
न काचिद् वर्तते शङ्का विश्व-नाशाद् अकर्मणः ॥११॥
येषां कृष्णः समुद्धर्ता तेषां हन्ता न कश्चन ।
विधीनां न बलं तेषु भक्तानां कुत्र बन्धनम् ॥१२॥
विश्वास-विषये रम्ये नदी चिद्-द्रव-रूपिणी ।
तस्यां तु पितरं मग्नम् उद्धृत्य लीलया हरिः ॥१३॥
दर्शयामास वैकुण्ठं गोपेभ्यो हरिर् आत्मनः ।
ऐश्वर्यं कृष्ण-तत्त्वे तु सर्वदा निहितं किल ॥१४॥
जीवानां नित्य-सिद्धानाम् अनुगतानाम् अपि प्रियः ।
अकरोद् रास-लीलां वै प्रीति-तत्त्व-प्रकाशिकाम् ॥१५॥
अन्तर्धान-वियोगेन वर्धयन् स्मरम् उत्तमम् ।
गोपिका-रास-चक्रे तु ननर्त कृपया हरिः ॥१६॥
जडात्मके यथा विश्वे ध्रुवस्याकर्षणात् किल ।
भ्रमन्ति मण्डलाकाराः स-सूर्या ग्रह-सङ्कुलाः ॥१७॥
तथा चिद्-विषये कृष्णस्याकर्षण-बलाद् अपि ।
भ्रमन्ति नित्यशो जीवाः श्री-कृष्णे मध्यगे सति ॥१८॥
महा-रास-विहारेऽस्मिन् पुरुषः कृष्ण एव हि ।
सर्वे नारी-गणास् तत्र भोग्य-भोक्तृ-विचारतः ॥१९॥
तत्रैव परमाराध्या ह्लादिनी कृष्ण-भासिनी ।
भावैः सा रास-मध्य-स्था सखिभी राधिकावृता ॥२०॥
महा-रास-विहारान्ते जल-क्रीडा स्वभावतः ।
वर्तते यमुनायां वै द्रव-मय्यां सतां किल ॥२१॥
मुक्त्य्-अहि-ग्रस्त-नन्दस् तु कृष्णेन मोचितस् तदा ।
यशो-मूर्धा सुदुर्दान्तः शङ्खचूडो हतः पुरा ॥२२॥
घोटकात्मा हतस् तेन केशी राज्य-मदासुरः ।
मथुरां गन्तु-कामेन कृष्णेन कंस-वैरिणा ॥२३॥
घट्यानां घटकोऽक्रूरो मथुराम् अनयद् धरिम् ।
मल्लान् हत्वा हरिः कंसं सानुजं निपपात ह ॥२४॥
नास्तिक्ये विगते कंसे स्वातन्त्र्यम् उग्र-सेनकम् ।
तस्यैव पितरं कृष्णः कृतवान् क्षिति-पालकम् ॥२५॥
कंस-भार्या-द्वयं गत्वा पितरं मगधाश्रयम् ।
कर्म-काण्ड-स्वरूपं तं वैधव्यं विन्यवेदयत् ॥२६॥
श्रुत्वैतन् मागधो राजा स्व-सैन्य-परिवारितः ।
सप्तदश-महा-युद्धं कृतवान् मथुरा-पुरे ॥२७॥
हरिणा मर्दितः सोऽपि गत्वाष्टदशमे रणे ।
अरुन्धन् मथुरां कृष्णो जगाम द्वारकां स्वकाम् ॥२८॥
मथुरायां वसन् कृष्णो गुर्व्-आश्रमाश्रयात् तदा ।
पठित्वा सर्व-शास्त्राणि दत्तवान् सुत-जीवनम् ॥२९॥
स्वतः-सिद्धस्य कृष्णस्य ज्ञानं साध्यं भवेन् न हि ।
केवलं नर-चित्तेषु तद्-भावानां क्रमोद्गतिः ॥३०॥
कामिनाम् अपि कृष्णे तु रतिः स्यान् मल-संयुता ।
सा रतिः क्रमशः प्रीतिर् भवतीह सुनिर्मला ॥३१॥
कुब्जायाः प्रणये तत्त्वम् एतद् वै दर्शितं शुभम् ।
व्रज-भाव-सुशिक्षार्थं गोकुले चोद्धवो गतः ॥३२॥
पाण्डवा धर्म-शाखा हि कौरवाश् चेतराः स्मृताः ।
पाण्डवानां ततः कृष्णो बान्धवः कुल-रक्षकः ॥३३॥
अक्रूरं भगवान् दूतं प्रेरयामास हस्तिनाम् ।
धर्मस्य कुशलार्थं वै पापिनां त्राण-कामुकः ॥३४॥
इति श्री-कृष्ण-संहितायां
कृष्ण-लीला-वर्णनं नाम
पञ्चमोऽध्यायः
॥५॥
—ओ)०(ओ—