०४

३। चतुर्थोऽध्यायः ४। कृष्ण-लीला-वर्णनम् यदा हि जीव-विज्ञानं पूर्णम् आसीन् मही-तले ।

क्रमोर्ध्व-गति-रीत्या च द्वापरे भारते किल ॥१॥

तदा सत्त्वं विशुद्धं यद् वसुदेव इतीरितः ।

ब्रह्म-ज्ञान-विभागे हि मथुरायाम् अजायत ॥२॥

सात्वतां वंश-सम्भूतो वसुदेवो मनो-मयीम् ।

देवकीम् अग्रहीत् कंस-नास्तिक्य-भगिनीं सतीम् ॥३॥

भगवद्-भाव-सम्भूतेः शङ्कया भोज-पांशुलः ।

अरुन्धद् दम्पती तत्र कारागारे सुदुर्मदः ॥४॥

यशः-कीर्त्य्-आदयः पुत्राः षड् आसन् क्रमशस् तयोः ।

ते सर्वे निहता बाल्ये कंसेनेश-विरोधिना ॥५॥

जीव-तत्त्वं विशुद्धं यद् भगवद्-दास्य-भूषणम् ।

तद् एव भगवान् रामः सप्तमे समजायत ॥६॥

ज्ञानाश्रय-मये चित्ते शुद्ध-जीवः प्रवर्तते ।

कंसस्य कार्यम् आशङ्क्य स याति व्रज-मन्दिरम् ॥७॥

तथा श्रद्धा-मये चित्ते रोहिण्यां च विशत्य् असौ ।

देवकी-गर्भ-नाशस् तु ज्ञापितश् चाभवत् तदा ॥८॥

अष्टमे भगवान् साक्षाद् ऐश्वर्याख्यां दधत् तनुम् ।

प्रादुरासीन् महावीर्यः कंस-ध्वंस-चिकीर्षया ॥९॥

व्रज-भूमिं तदानीतः स्वरूपेणाभवद् धरिः ।

सन्धिनी-निर्मिता सा तु विश्वासो भित्तिर् एव च ॥१०॥

न ज्ञानं न च वैराग्यं तत्र दृश्यं भवेत् कदा ।

तत्रैव नन्द-गोपः स्याद् आनन्द इव मूर्तिमान् ॥११॥

उल्लास-रूपिणी तस्य यशोदा सहधर्मिणी ।

अजीजनन् महामायां यां शौरिर् नीतवान् व्रजात् ॥१२॥

क्रमशो वर्धते कृष्णः रामेण सह गोकुले ।

विशुद्ध-प्रेम-सूर्यस्य प्रशान्त-कर-सङ्कुले ॥१३॥

प्रेरिता पूतना तत्र कंसेन बाल-घातिनी ।

मातृ-व्याज-स्वरूपा सा ममार कृष्ण-तेजसा ॥१४॥

तर्क-रूपस् तृणावर्तः कृष्ण-भावान् ममार ह ।

भारवाहि-स्वरूपं तु बभञ्ज शकटं हरिः ॥१५॥

आननाभ्यन्तरे कृष्णो मात्रे प्रदर्शयन् जगत् ।

अदर्शयद् अविद्यां हि चिच्-छक्तिर् अतिपोषिकाम् ॥१६॥

दृष्ट्वा च बाल-चापल्यं गोपी सूल्लास-रूपिणी ।

बन्धनाय मनश् चक्रे रज्ज्वा कृष्णस्य सा वृथा ॥१७॥

न यस्य परिमाणं वै तस्यैव बन्धनं किल ।

केवलं प्रेम-सूत्रेण चकार नन्द-गेहिनी ॥१८॥

बाल-क्रीडा-प्रसङ्गेन कृष्णस्य बन्ध-छेदनम् ।

अभवद् वार्क्ष-भावात् तु निमेषाद् देव-पुत्रयोः ॥१९॥

अनेन दर्शितं साधु-सङ्गस्य फलम् उत्तमम् ।

देवोऽपि जडतां याति कुकर्म-निरतो यदि ॥२०॥

वत्सानां चारणे कृष्णः सखिभिर् याति काननम् ।

तथा वत्सासुरं हन्ति बाल-दोषम् अघं भृशम् ॥२१॥

तदा तु धर्म-कापट्य-स्वरूपो बक-रूप-धृक् ।

कृष्णेण शुद्ध-बुद्धेन निहतः कंस-पालितः ॥२२॥

अघोऽपि मर्दितः सर्पो नृशंसत्व-स्वरूपकः ।

यमुना-पुलिने कृष्णो बुभुजे सखिभिस् तदा ॥२३॥

गोपाल-बालकान् वत्सान् चोरयित्वा चतुर्मुखः ।

कृष्णस्य मायया मुग्धो बभूव जगतां विधिः ॥२४॥

अनेन दर्शिता कृष्ण-माधुर्ये प्रभुताऽमला ।

न कृष्णो विधि-बाध्यो हि प्रेयान् कृष्णः स्वतश् चिताम् ॥ २५॥

चिद्-अचिद्-विश्व-नाशोऽपि कृष्णैश्वर्यं न कुण्ठितम् ।

न कोऽपि कृष्ण-सामर्थ्य-समुद्र-लङ्घने क्षमः ॥२६॥

स्थूल-बुद्धि-स्वरूपोऽयं गर्दभो धेनुकासुरः ।

नष्टोऽभूद् बलदेवेन शुद्ध-जीवेन दुर्मतिः ॥२७॥

क्रूरात्मा कालीयः सर्पः सलिलं चिद्-द्रवात्मकम् ।

सन्दुष्य यामुनं पापो हरिणा लाञ्छितो गतः ॥२८॥

परम्पर-विवादात्मा दावानलो भयङ्करः ।

भक्षितो हरिणा साक्षाद् व्रज-धाम-शुभार्थिना ॥२९॥

प्रलम्बो जीव-चौरस् तु शुद्धेन शौरिणा हतः ।

कंसेन प्रेरितो दुष्टः प्रच्छन्नो बौद्ध-रूप-धृक् ॥३०॥

इति श्री-कृष्ण-संहितायां

कृष्ण-लीला-वर्णनं नाम

चतुर्थोऽध्यायः

॥४॥

—ओ)०(ओ—