२। त्र्तियोऽध्यायः ३। अवतार-लीला-वर्णनम् भगवच्-छक्ति-कार्येषु त्रिविधेषु स्व-शक्तिमान् ।
विलसन् वर्तते कृष्णश् चिज्-जीव-मायिकेषु च ॥१॥
चित्-कार्येषु स्वयं कृष्णो जीवे तु परमात्मकः ।
जडे यज्ञेश्वरः पूज्यः सर्व-कर्म-फल-प्रदः ॥२॥
सर्वांशी सर्व-रूपी च सर्वावतार-बीजकः ।
कृष्णस् तु भगवान् साक्षान् न तस्मात् पर एव हि ॥३॥
अचिन्त्य-शक्ति-सम्पन्नः स कृष्णः करुणा-मयः ।
माया-बद्धय्स जीवस्य क्षेमाय यत्नवान् सदा ॥४॥
यद्-यद्-भाव-गतो जीवस् तत्-तद्-भाव-गतो हरिः ।
अवतीर्णः स्व-शक्त्या स क्रीडतीव जनैः सह ॥५॥
मत्स्येषु मत्स्य-भावो हि कच्छपे कूर्म-रूपकः ।
मेरु-दण्ड-युते जीवे वराह-भाववान् हरिः ॥६॥
नृसिंहो मध्य-भावो हि वामनः क्षुद्र-मानवे ।
भार्गवोऽसभ्य-वर्गेषु सभ्ये दाशरथिस् तथा ॥७॥
सर्व-विज्ञान-सम्पन्ने कृष्णस् तु भगवान् स्वयम् ।
तर्क-निष्ठ-नरे बुद्धो नास्तिके कल्किर् एव च ॥८॥
अवतारा हरेर् भावाः क्रमोर्ध्व-गतिमद् धृदि ।
न तेषां जन्म-कर्मादौ प्रपञ्चो वर्तते क्वचित् ॥९॥
जीवानां क्रम-भावानां लक्षणानां विचारतः ।
कालो विभज्यते शास्त्रे दशधा ऋषिभिः पृथक् ॥१०॥
तत्-तत्-काल-गतो भावः कृष्णस्य लक्ष्यते हि यः ।
स एव कथ्यते विज्ञैर् अवतारो हरेः किल ॥११॥
केनचिद् भज्यते कालश् चतुर्विंशतिधा विदा ।
अष्टादश-विभागे वा चावतार-विभागशः ॥१२॥
मायया रमणं तुच्छं कृष्णस्य चित्-स्वरूपिणः ।
जीवस्य तत्त्व-विज्ञाने रमणं तस्य सम्मतम् ॥१३॥
छायायाः सूर्य-सम्भोगो यथा न घटते क्वचित् ।
मायायाः कृष्ण-सम्भोगस् तथा न स्यात् कदाचन ॥१४॥
मायाश्रितस्य जीवस्य हृदये कृष्ण-भावना ।
केवलं कृपया तस्य नान्यथा हि कदाचन ॥१५॥
श्री-कृष्ण-चरितं साक्षात् समाधि-दर्शितं किल ।
न तत्र कल्पना मिथ्या नेतिहासो जडाश्रितः ॥१६॥
वयं तु चरितं तस्य वर्णयामो समासतः ।
तत्त्वतः कृपया कृष्ण-चैतन्यस्य महात्मनः ॥१७॥
सर्वेषाम् अवताराणाम् अर्थो बोध्यो यथा मया ।
केवलं कृष्ण-तत्त्वस्य चार्थो विज्ञापितोऽधुना ॥१८॥
वैष्णवाः सार-सम्पन्नास् त्यक्त्वा वाक्यम् अलं मम ।
गृह्णन्तु सार-सम्पत्तिं श्री-कृष्ण-चरितं मुदा ॥१९॥
वयं तु बहु-यत्नेन न शक्ता देश-कालतः ।
समुद्धर्तुं मनीषां नः प्रपञ्च-पीडिता यतः ॥२०॥
तथापि गौरचन्द्रस्य कृपा-वारि-निषेवणात् ।
सर्वेषां हृदये कृष्ण-रसाभावो निवर्तताम् ॥२१॥
इति श्री-कृष्ण-संहितायां
अवतार-लीला-वर्णनं नाम
तृतीयोऽध्यायः
॥३॥
—ओ)०(ओ—