१। द्वितियोऽध्यायः २। भगवच्-छक्ति-वर्णनम् अत्रैव तत्त्व-विज्ञानं ज्ञातव्यं सततं बुधैः ।
शक्ति-शक्तिमतोर् भेदो नास्त्य् एव परमात्मनि ॥१॥
अत्र द्वितीयेऽध्यये पण्डितानां ज्ञातव्यं वैकुण्ठ-तत्त्व-विज्ञानं विचार्यते । शक्ति-शक्तिमतोर् भेदो नास्तीति प्रथमं ज्ञातव्यम् । पर-ब्रह्मणः शक्ति-हीनत्वे स्थापिते न किम् अपि सिद्ध्यति । अत एव सार-ग्राहिभिः शक्ति-तत्त्वम् अवश्य-स्वीकर्तव्यम् । शक्तिमतो ब्रह्मणः शक्तिः कदापि भिन्न-तत्त्वं नास्ति । यद्यपि जड-जगति परमार्थ-सम्बन्धे सम्यग्-उदाहरणं न प्राप्यते, तथापि आदर्शानुकरण-सम्बन्ध-वशतः आंशिकोदारणं दातुं शक्यत एव, यथाग्नि-स्व-दाहिक-शक्ती भिन्न-भिन्न-रूपेषु अवस्थातुं न शक्येते, तथा ब्रह्म-ब्रह्म-शक्ती भिन्नत्वे न वर्तेते ॥१॥
तथापि श्रूयतेऽस्माभिः परा शक्तिः परात्मनः ।
अचिन्त्य-भाव-सम्पन्ना शक्तिमन्तं प्रकाशयेत् ॥२॥
परात्मनः पर-ब्रह्मणः समाधि-कृत्-पुरुषाद्य्-अचिन्त्य-भाव-सम्पन्ना परा शक्तिर् शक्तिमन्तं प्रकाशयति । यद्य् अग्निः स्व-दाहिका-शक्तितः भिन्न-रूपेण सृष्टोऽभविष्यत्, तर्हि शक्त्य्-अभाव-वशतः अग्नि-सत्ता अप्रकाशितावर्तिष्यत । तथा, ब्रह्म-शक्त्यां सुप्तायां सत्यां, ब्रह्म अप्रकाश इव वर्तते ॥२॥
सा शक्तिः सन्धिनी भूत्वा सत्ता-जातं वितन्यते ।
पीठ-सत्ता-स्वरुपा सा वैकुण्ठ-रूपिणी सती ॥३॥
पर-BRणः शक्तिः त्रिषु भिन्नेषु भावेषु उपलभ्यते—ते भावाः क्रमशः सन्धिनी संवित् ह्लादिनी चेति । तस्य पर-ब्रह्मणः प्रथम-प्रकाशः SAअ एव । स SAअः सन्धिनी-संवित्-ह्लादिनी-त्रि-भाव-संयुक्तः । आदौ पर-ब्रह्मासीत्, ततः स्व-ज़्कि-PKअ-द्वार्Ā SAओऽभूद् इति काल-परिणामत्वं पर-ब्रह्मणि न कदाप्य् आरोप्यम् । स SAअ-SVओ हि अनाद्य्-अनन्त-नित्य एवेति सारग्राहिभिर् बोध्यम् । सन्धिनीतः समस्त-सत्ता-जातस्योदयः, यथा पीठ-सत्ता, अभिधा-सत्ता, रूप-सत्ता, सङ्गिनी-सत्ता, सम्बन्ध-सत्ता, आधार-सत्ता, आकारादि च ।
परायाः ज़्केः वा सत्ता-जातं वितन्यते ।
पीठ-सत्ता-स्वरुपा सा वैकुण्ठ-रूपिणी सती ॥३॥
कृष्णाद्य्-आख्याभिधा सत्ता रूप-सत्ता-कलेवरम् ।
राधाद्या सङ्गिनी-सत्ता सर्व-सत्ता तु सन्धिनी ॥४॥
सन्धिनी-शक्ति-सम्भूताः सम्बन्धा विविधा मताः ।
सर्वाधार-स्वरूपेयं सर्वाकारा सद्-अंशका ॥५॥
संविद्-भूता परा शक्तिर् ज्ञान-विज्ञान-रूपिणी ।
सन्धिनी-निर्मिते सत्त्वे भाव-संयोजिनी सती ॥६॥
भावाभावे च सत्तायां न किञ्चिद् अपि लक्ष्यते ।
तस्मात् तु सर्व-भावानां संविद् एव प्रकाशिनी ॥७॥
सन्धिनी-कृत-सत्त्वेषु सम्बन्ध-भाव-योजिका ।
संविद्-रूपा महा-देवी कार्याकार्य-विधायिनी ॥८॥
विशेषाभावतः संविद् ब्रह्म-ज्ञानं प्रकाशयेत् ।
विशेष-संयुता सा तु भगवद्-भक्ति-दायिनी ॥९॥
ह्लादिनी-नाम-सम्प्राप्ता सैव शक्तिः पराख्यिका ।
महा-भावादिषु स्थित्वा परमानन्द-दायिनी ॥१०॥
सर्वोर्ध्व-भाव-सम्पन्ना कृष्णार्ध-रूप-धारिणी ।
राधिका सत्त्व-रूपेण कृष्णानन्दमयी किल ॥११॥
महाभाव-स्वरूपेयं राधा कृष्ण-विनोदिनी ।
सख्य अष्ट-विधा भावा ह्लादिन्या रस-पोषिकाः ॥१२॥
तत्-तद्-भाव-गता जीवा नित्यानन्द-परायणाः ।
सर्वदा जीव-सत्तायां भावानां विमला स्थितिः ॥१३॥
ह्लादिनी सन्धिनी संविद् एका कृष्णे परात्परे ।
यस्य स्वांश-विलासेषु नित्या सा त्रितयात्मिका ॥१४॥
एतत् सर्वं स्वतः कृष्णे निर्गुणेऽपि किलाद्भुतम् ।
चिच्-छक्ति-रति-सम्भूतं चिद्-विभूति-स्वरूपतः ॥१५॥
जीव-शक्ति-समुद्भूतो विलासोऽन्यः प्रकीर्तितः ।
जीवस्य भिन्न-तत्त्वत्वात् विभिन्नांशो निगद्यते ॥१६॥
परमाणु-समा जीवाः कृष्णार्क-कर-वर्तिनः ।
तत् तेषु कृष्ण-धर्माणां सद्-भावो वर्तते स्वतः ॥१७॥
समुद्रस्य यथा बिन्दुः पृथिव्या रेणवो यथा ।
तथा भगवतो जीवे गुणानां वर्तमानता ॥१८॥
ह्लादिनी सन्धिनी संवित् कृष्णे पूर्णतमा मता ।
जीवे त्व् अणु-स्वरूपेण द्रष्टव्या सूक्ष्म-बुद्धिभिः ॥१९॥
स्वातन्त्र्ये वर्तमानेऽपि जीवानां भद्र-काङ्क्षिणाम् ।
शक्तयोऽनुगताः शश्वत् कृष्णेच्छायाः स्वभावतः ॥२०॥
ये तु भोग-रता मूढास् ते स्व-शक्ति-परायणाः ।
भ्रमन्ति कर्म-मार्गेषु प्रपञ्चे दुर्निवारिते ॥२१॥
तत्रैव कर्म-मार्गेषु भ्रमत्सु जन्तुषु प्रभुः ।
परमात्म-स्वरूपेण वर्तते लीलया स्वयम् ॥२२॥
एषा जीवेशयोर् लीला मायया वर्ततेऽधुना ।
एकः कर्म-फलं भुङ्क्ते चापरः फल-दायकः ॥२३॥
जीव-शक्ति-गता सा तु सन्धिनी सत्त्व-रूपिणी ।
स्वर्गादि-लोकम् आरभ्य पारक्यं सृजति स्वयम् ॥२४॥
कर्म कर्म-फलं दुःखं सुखं वा तत्र वर्तते ।
पाप-पुण्यादिकं सर्वम् आशा-पाशादिकं हि यत् ॥२५॥
जीव-शक्ति-गता संविद् ईश-ज्ञानं प्रकाशयेत् ।
ज्ञानेन येन जीवानाम् आत्मन्य् आत्मा हि लक्ष्यते ॥२६॥
वैराग्यम् अपि जीवानां संविदा सम्प्रवर्तते ।
कदाचिल् लय-वाञ्छा तु प्रबला भवति ध्रुवम् ॥२७॥
जीवे या ह्लादिनी-शक्तिर् ईश-भक्ति-स्वरूपिणी ।
माया-निषेधिका सा तु निराकार-परायणा ॥२८॥
चिच्-छक्ति-रति-भिन्नत्वाद् ईश-भक्तिः कदाचन ।
न प्रीति-रूपम् आप्नोति सदा शुष्का स्वभावतः ॥२९॥
कृतज्ञता-भाव-युक्ता प्रार्थना वर्तते हरौ ।
संसृतेः पुष्टि-वाञ्छा वा वैराग्य-भावना-युता ॥३०॥
कदाचिद् भाव-बाहुल्याद् अश्रु वा वर्तते दृशोः ।
तथापि न भवेद् भावः श्री-कृष्णे चिद्-विलासिनि ॥३१॥
विभिन्नांश-गता लीला कृष्णस्य परमात्मनः ।
जीवानां बद्ध-भूतानां सम्बन्धे विद्यते किल ॥३२॥
चिद्-विलास-रता ये तु चिच्-छक्ति-पालिताः सदा ।
न तेषाम् आत्म-योगेन ब्रह्म-ज्ञानेन वा फलम् ॥३३॥
माया तु जड-योनित्वाच् चिद्-धर्म-परिवर्तिनी ।
आवरणात्मिका शक्तिर् ईशस्य परिचारिका ॥३४॥
चिच्-छक्तेः प्रतिबिम्बत्वान् मायया भिन्नता कुतः ।
प्रतिच्छाया भवेद् भिन्ना वस्तुनो न कदाचन ॥३५॥
तस्मान् माया-कृते विश्वे यद् यद् भाति विशेषतः ।
तत् तद् एव प्रतिच्छाया चिच्-छक्तेर् जल-चन्द्रवत् ॥३६॥
मायया बिम्बितं सर्वं प्रपञ्चः शब्द्यते बुधैः ।
जीवस्य बन्धने शक्तम् ईशस्य लीलया सदा ॥३७॥
वस्तुनः शुद्ध-भावत्वं छायायां वर्तते कुतः ।
तस्मान् माया-कृते विश्वे हेयत्वं परिदृश्यते ॥३८॥
सा माया सन्धिनी भूत्वा देश-बुद्धिं तनोति हि ।
आकृतौ विस्तृतौ व्याप्ता प्रपञ्चे वर्तते जडा ॥३९॥
जीवानां मर्त्य-देहादौ सर्वाणि करणानि च ।
तिष्ठन्ति परिमेयानि भौतिकानि भवाय हि ॥४०॥
संविद्-रूपा महा-माया लिङ्ग-रूप-विधायिनी ।
अहङ्कारात्मकं चित्तं बद्ध-जीवे तनोत्य् अहो ॥४१॥
सा शक्तिश् चेतसो बुद्धिर् इन्द्रिये बोध-रूपिणी ।
मनस्य् एव स्मृतिः शश्वत् विषय-ज्ञान-दायिनी ॥४२॥
विषय-ज्ञानम् एव स्यान् मायिकं नात्म-धर्मकम् ।
प्रकृतेर् गुण-संयुक्तं प्राकृतं कथ्यते जनैः ॥४३॥
सा माया-ह्लादिनी प्रीतिर् विषयेषु भवेत् किल ।
कर्मानन्द-स्वरूपा स भुक्ति-भाव-प्रदायिनी ॥४४॥
यज्ञेश-भजनं शश्वत् तत्-प्रीति-कारकं भवेत् ।
त्रिवर्ग-विषयो धर्मो लक्षितस् तत्र कर्मिभिः ॥४५॥
इति श्री-कृष्ण-संहितायां
भगवच्-छक्ति-वर्णनं नाम
द्वितीयोऽध्यायः
॥२॥
—ओ)०(ओ—