१। प्रथमोऽध्यायः—वैकुण्ठ-वर्णनम् श्री-कृष्ण-तत्त्व-निर्देशे कृपा यस्य प्रयोजनम् ।
वन्दे तं ज्ञानदं कृष्ण-चैतन्यं रस-विग्रहम् ॥१॥
समुद्र-शोषणं रेणोर् यथा न घटते क्वचित् ।
तथा मे तत्त्व-निर्देशो मूढस्य क्षुद्र-चेतसः ॥२॥
किन्तु मे हृदये कोऽपि पुरुषः श्यामसुन्दरः ।
स्फुरन् समादिशत् कार्यम् एतत् तत्त्व-निरूपणम् ॥३॥
आसीद् एकः परः कृष्णो नित्य-लीला-परायणः ।
चिच्-छक्त्याविष्कृते धाम्नि नित्य-सिद्ध-गणाश्रिते ॥४॥
चिद्-विलास-रसे मत्तश् चिद्-गणैर् अन्वितः सदा ।
चिद्-विशेषान्विते भावे प्रसक्तः प्रिय-दर्शनः ॥५॥
जीवानां नित्य-सिद्धानां स्वाधीन-प्रेम-लालसः ।
प्रादात् तेभ्यः स्वतन्त्रत्वं कार्याकार्य-विचारणे ॥६॥
येषां तु भगवद्-दास्ये रुचिर् आसीद् बलीयसी ।
स्वाधीन-भाव-सम्पन्नास् ते दासा नित्य-धामनि ॥७॥
ऐश्वर्य-कर्षिता एके नारायण-परायणाः ।
माधुर्य-मोहिताश् चान्ये कृष्ण-दासाः सुनिर्मलाः ॥८॥
सम्भ्रमाद् दास्य-बोधे हि प्रीतिस् तु प्रेम-रूपिणी ।
न तत्र प्रणयः कश्चिद् विश्रम्भे रहिते सति ॥९॥
माधुर्य-भाव-सम्पत्तौ विश्रम्भो बलवान् सदा ।
महा-भावावधिः प्रीतेर् भक्तानां हृदये ध्रुवम् ॥१०॥
जीवस्य नित्य-सिद्धस्य सर्वम् एतद् अनामयम् ।
विकाराश् चिद्-गताः शश्वत् कदापि नो जडान्विताः ॥११॥
आत्म-परमात्मनोर् ऐक्य-भाव-व्यतीतायाम् अप्राकृतावस्थायां प्रणयस्याभावः । तस्मान् महाभावाद्य्-अवस्था-सकलं यद् यद् विचार्यते, तत् तद् प्राकृतम् एव, तेषां वास्तविकाप्राकृतत्वं नास्ति इति केचित् । एतद् अशुद्ध-मतं निर्काकरोति—जीवस्येति । नित्य-सिद्धस्य जीवस्य प्रणय-विकाराः जड-गताविद्या-विकारा न सन्ति, अपि तु चिद्-गत-विलासा एव ॥११॥
वैकुण्ठे शुद्ध-चिद्-धाम्नि विलासा निर्विकारकाः ।
आनन्दाब्धि-तरङ्गास् ते सदा दोष-विवर्जिताः ॥१२॥
शुद्ध-चिद्-धाम-रूपे वैकुण्ठे ये विलासा दृश्यन्ते, ते सर्वे सर्व-दोष-रहिताः, आनन्द-समुद्रस्य तरङ्ग-विशेषाश् च । तद्-विषये विकार-शब्दो न प्रयोज्यः ॥१२॥
यम् ऐश्वर्य-परा जीवा नारायणं वदन्ति हि ।
माधुर्य-रस-सम्पन्नाः कृष्णम् एव भजन्ति तम् ॥१३॥
कृष्ण-नारायणयोर् अभेदत्वं वदति । ऐश्वर्य-चक्षुषा तं पुरुषं नारायणं वदन्ति । माधुर्य-चक्षुषा तं कृष्ण-रूपे दृश्यते । वस्तुतस् तु अस्मिन् विषये आलोच्य-गत-भेदो नास्ति, केवलं तु आलोचकालोचना-गत-भेदाव् एव ॥१३॥
रस-भेद-वशाद् एको द्विधा भाति स्वरूपतः ।
अद्वयः स परः कृष्णो विलासानन्द-चन्द्रमाः ॥१४॥
विलासानन्द-चन्द्रमाः परम-तत्त्वं श्री-कृष्णो हि अद्वय-तत्त्वम् । रस-भेदाद् एव स्वरूप-भेदो लक्ष्यते ॥१४॥
आधेयाधार-भेदश् च देह-देहि-विभिन्नता ।
धर्म-धर्मि-पृथग्-भावा न सन्ति नित्य-वस्तुनि ॥१५॥
वस्तुतः स्वरूप-गतो न कश्चिद् भेदो वर्तते, नित्य-वस्तुनि भगवति आधेयाधार-देह-देहि- धर्म-धर्मीत्य्-आदि-भेदाभावत्वात् । मनुष्यादि-शरीर्र-विशिष्टस्य बद्ध-जीवस्य तेऽपि भेदा देहाभिमानतो लक्ष्यन्ते । प्राकृत-वस्तुनि तु एतादृशा भेदाः स्वभाव-गता एव ॥१५॥
विशेष एव धर्मोऽसौ यतो भेदः प्रवर्तते ।
तद्-भेद-वशतः प्रीतिस् तरङ्ग-रूपिणी सदा ॥१६॥
वैशेषिकाणां मते एक-जातीय-वस्तुतोऽन्य-जातीय-वस्तुनो भेदो विशेष इत्य् अभिहितः । धर्मादि-भेदा विशेष-नाम्ना अभिहिताः । एव धर्मोऽसौ यतो भेदः प्रवर्तते ।
तद्-भेद-वशतः प्रीतिस् तरङ्ग-रूपिणी सदा ॥१६॥
प्रपञ्च-मलतोऽस्माकं बुद्धिर् दुष्टास्ति केवलम् ।
विशेषो निर्मलस् तस्मान् न चेह भासतेऽधुना ॥१७॥
भगवज्-जीवयोस् तत्र सम्बन्धो विद्यतेऽमलः ।
स तु पञ्च-विधः प्रोक्तो यथात्र संसृतौ स्वतः ॥१८॥
शान्त-भावस् तथा दास्यं सख्यं वात्सल्यम् एव च ।
कान्त-भाव इति ज्ञेयाः सम्बन्धाः कृष्ण-जीवयोः ॥१९॥
भावाकार-गता प्रीतिः सम्बन्धे वर्ततेऽमला ।
अष्ट-रूपा क्रिया-सारा जीवानाम् अधिकारतः ॥२०॥
शान्ते तु रति-रूपा सा चित्तोल्लास-विधायिनी ।
रतिः प्रेमा द्विधा दास्ये ममता-भाव-सङ्गता ॥२१॥
सख्ये रतिस् तथा प्रेमा प्रणयोऽपि विचार्यते ।
विश्वासो बलवान् तत्र न भयं वर्तते क्वचित् ॥२२॥
वात्सल्ये स्नेह-पर्यन्ता प्रीतिर् द्रव-मयी सती ।
कान्त-भावे च तत् सर्वं मिलितं वर्तते किल ।
मान-रागानुरागैश् च महा-भावैर् विशेषतः ॥२३॥
वैकुण्ठे भगवान् श्यामः गृहस्थः कुल-पालकः ।
यथात्र लक्ष्यते जीवः स्व-गणैः परिवेष्टितः ॥२४॥
शान्ता दासाः सखाश् चैव पितरो योषितस् तथा ।
सर्वे ते सेवका ज्ञेयाः सेव्यः कृष्णः प्रियः सताम् ॥ २५॥
सार्वज्ञ्य-धृति-सामर्थ्य-विचार-पटुता-क्षमाः ।
प्रीताव् एकात्मतां प्राप्ता वैकुण्ठेऽद्वय-वस्तुनि ॥२६॥
चिद्-द्रवात्मा सदा तत्र कालिन्दी विरजा नदी ।
चिद्-आधार-स्वरूपा सा भूमिस् तत्र विराजते ॥२७॥
लता-कुञ्ज-गृह-द्वार-प्रासाद-तोरणानि च ।
सर्वाणि चिद्-विशिष्टानि वैकुण्ठे दोष-वर्जिते ॥२८॥
चिच्-छक्ति-निर्मितं सर्वं यद् वैकुण्ठे सनातनम् ।
प्रतिभातं प्रपञ्चेऽस्मिन् जड-रूप-मलान्वितम् ॥२९॥
सद्-भावेऽपि विशेषस्य सर्वं तन् नित्य-धामनि ।
अखण्ड-सच्-चिद्-आनन्द-स्वरूपं प्रकृतेः परम् ॥३०॥
जीवानां सिद्ध-सत्त्वानां नित्य-सिद्धिमताम् अपि ।
एतन् नित्य-सुखं शश्वत् कृष्ण-दास्ये नियोजितम् ॥३१॥
वाक्यानां जड-जन्यत्वान् न शक्ता मे सरस्वती ।
वर्णने विमलानन्द-विलासस्य चिद्-आत्मनः ॥३२॥
तथापि सारजुट् वृत्त्या समाधिम् अवलम्ब्य वै ।
वर्णिता भगवद्-वार्ता मया बोध्या समाधिना ॥३३॥
यस्येह वर्तते प्रीतिः कृष्णे व्रज-विलासिनि ।
तस्यैवात्म-समाधौ तु वैकुण्ठो लक्ष्यते स्वतः ॥३४॥
इति श्री-कृष्ण-संहितायां
वैकुण्ठ-वर्णनं नाम
प्रथमोऽध्यायः
॥१॥
—ओ)०(ओ—