०६ ६

षष्ठः प्रकाशः

अथ प्रवक्ष्ये श्री-कृष्ण-चरणाम्बुज-सेवनम् । समस्त-दुःख-दमनं नित्यानन्द-सुख-प्रदम् ॥१॥

तद् एव श्री-भगवतश् चरण-लाभस्य किम् उपायस् तद् आह – अहो ! अनन्यया भक्त्या, यथा श्री-भगवन्-नियमः—

भक्त्याहम् एकया ग्राह्यः श्रद्धयात्मा प्रियः सताम् । भक्तिः पुनाति मन्-निष्ठा श्वपाकान् अपि सम्भवात् ॥२॥ [भा।पु। ११.१४.२१]

तथा शुकोक्तिः—

न दानं न तपो नेज्या न शौचं न व्रतानि च । प्रीयतेऽमलया भक्त्या हरिर् अन्यद्-विडम्बनम् ॥३॥ [भा।पु। ७.७.५२] इति ।

भक्तिः किम् इति तद् आह नारद-पञ्चरात्रे—

सर्वोपाधि-विनिर्मुक्तं तत्-परत्वेन निर्मलम् । हृषीकेण हृषीकेश-सेवनं भक्तिर् उच्यते ॥४॥

तस्यां भक्तौ त्रि-विधं लक्षणं—साधनी, ज्ञानान्विता, प्रेम-लक्षणा च । साधनी यथा—

श्रवणं कीर्तनं चैव स्मरणं पाद-सेवनम् । अर्चनं वन्दनं चेति साधनी षड्-विधा मता ॥५॥

एतासाम् आदौ श्रवण-भक्तिर् इति श्रेष्ठा, यथा—

श्रवणाज् जायते श्रद्धाप्य् अरतिर् भक्तिर् उत्तमा । यन् न श्रुतं च तस्यैव कथं सङ्कीर्तनादयः ॥६॥

अत आदौ भक्ति-श्रवणम्, यथा—

पिबन्ति ये भगवत आत्मनः सतां कथामृतं श्रवण-पुटेषु सम्भृतम् पुनन्ति ते विषय-विदूषिताशयं व्रजन्ति तच्-चरण-सरोरुहान्तिकम् ॥७॥ [भा।पु। २.२.३७] इति । संसार-सिन्धुम् अतिदुस्तरम् उत्तितीर्षोर् नान्यः प्लवो भगवतः पुरुषोत्तमस्य । लीला-कथा-रस-निषेवणम् अन्तरेण पुंसो भवेद् विविध-दुःख-दवार्दितस्य ॥८॥ [भा।पु। १२.४.४०]

अतः श्रवणात् सङ्कीर्तन-भक्तिर् जायते, तथा—

श्री-कृष्ण-नाम-गुण-संश्रवणं समस्त- भक्तेर् निदानम् अपि सद्भिर् उदाहृतं तत् । यस्माद् भवेद् रतिर् अलं क्रमशोऽप्य् अखण्ड- सङ्कीर्तन-स्मरण-सेवन-वन्दनादौ ॥९॥

तद् एव हरेर् नाम्नां गुणानां च गानं कीर्तनम् उच्यते । यथा—

एतावतालम् अघ-निर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुण-कर्म-नाम्नाम् ॥१०॥ इत्य् आदि ।

तथैव—

शृण्वन् सुभद्राणि रथाङ्ग-पाणेर् जन्मानि कर्माणि च यानि लोके । गीतानि नामानि तद्-अर्थकानि गायन् विलज्जो विचरेद् असङ्गः ॥११॥ [भा।पु। ११.२.३९]

तथा पद्यावल्यां [२०]—

वेपन्ते दुरितानि मोह-महिमा सम्मोहम् आलम्बते सातङ्कं नख-रजनीं कलयति श्री-चित्रगुप्तः कृती । सानन्दं मधुपर्क-सम्भृति-विधौ वेधाः करोत्य् उद्यमं वक्तुं नाम्नि तवेश्वराभिलषिते ब्रूमः किम् अन्यत् परम् ॥१२॥

बृहन्-नारदीये [१.३२.४७]—

यन्-नामोच्चारणाद् एव महा-पातक-नाशनम् । यं समभ्यर्च्य विप्रर्षे मोक्ष-भागी भवेन् नरः ॥१३॥

एवं सङ्कीर्तनात् स्मरणं जायते । ब्रह्म-वैवर्ते—

स्वस्ति श्री-विष्णु-लोकाद्धरि-चरण-रजः-पुञ्ज-पिञ्जोत्तमाङ्गः कालारिः संयमन्यां मधुरिपु-वचनाद् आदिशत्य् अर्क-पुत्रम् । भव्यं चान्यन् मुरारेः स्मरण-विघटिताशेष-पापान्धकाराः पूर्णा अप्य् उद्धवन्तो न कथम् अपि न वा वारणियास् त्वयैव ॥१४॥

तथैव स्कान्दे—

तद् एव पुरुषो मुक्तो जन्म-दुःख-जरादिभिः । भक्त्या तु परया नूनं यदैवं स्मरते हरिम् ॥१५॥

तत्र श्री-कृष्ण-स्मरणेन न केवलं दुःख-हरणम्, भक्ति-मुक्तिदम् एव । यथा गोविन्द-वृन्दावने प्रथम-पटले [१.२०]—

कृष्ण एव परं ब्रह्म सच्-चिद्-आनन्द-सुन्दरः । स्मृति-मात्रेण येषां वै भक्ति-मुक्ति-फल-प्रदः ॥१६॥ इत्य् आदि ।

एवं श्री-कृष्ण-पादाम्बुज-स्मरणेन पाद-सेवनादौ मतिर् जायतेऽन्तर्-निर्मलत्वेन, यथा—

प्रविष्टः कर्ण-रन्ध्रेण स्वानां भाव-सरोरुहम् । धुनोति शमलं कृष्णः सललस्य यथा शरत् ॥१७॥

अथ पाद-सेवनम्, यथा—

तं सुखाराध्यम् ऋजुभिर् अनन्य-शरणैर् नृभिः । कृतज्ञः को न सेवेत दुराराध्यम् असाधुभिः ॥१८॥ [भा।पु। ३.१९.३६] त्वय्य् अम्बुजाक्षाखिल-सत्त्व-धाम्नि समाधिनावेशित-चेतसैके । त्वत्-पाद-पोतेन महत्-कृतेन कुर्वन्ति गोवत्स-पदं भवाब्धिम् ॥१९॥ [भा।पु। १०.२.३०]

अथैवं पाद-सेवनाद् अर्चने मतिर् जायते । तद् अर्चनं यथा—

यत्-पादयोर् अशठ-धीः सलिलं प्रदाय दूर्वाङ्कुरैर् अपि विधाय सतीं सपर्याम् । अप्य् उत्तमां गतिम् असौ भजते त्रि-लोकीं दाश्वान् अविक्लव-मनाः कथम् आर्तिम् ऋच्छेत् ॥२०॥ [भा।पु। ८.२२.२३]

नारदीये—

जलेनापि जगन्नाथः पूजितो क्लेशहा हरिः । परितोषं व्रजत्य् आशु तृष्णार्तः सलिलैर् यथा ॥२१॥

[Nआर्P १.३२.३८]

मानुषं दुर्लभं प्राप्य यो हरिं नार्चयेत् सकृत् । मूर्खः परतरस् तस्मात् कोऽन्यस् तस्माद् अचेतनः ॥२२॥

तथैव [Nआर्P १.३२.४६]

ध्यातः स्मृतः पूजितो वा प्रणतो वा जनार्दनः । संसार-पाश-विच्छेदी कस् तं न प्रतिपूजयेत् ॥२३॥

अथ प्रणामम् आह नारसिंहे—

नमस्कारः स्मृतो यज्ञः सर्व-यज्ञेषु चोत्तमः । नमस्कारेण चैकेन साष्टाङ्गेन हरिं व्रजेत् ॥२४॥

पाद्मे देवदूत-विकुण्डल-संवादे—

कृत्वापि बहुशः पापं नरो मोह-समन्वितः । न याति नरकं गत्वा सर्व-पाप-हरं हरिम् ॥२५॥ [Pअद्मP ३.३१.१४८]

तत्र दण्ड-प्रणामं यथा—

दण्ड-प्रणामं कुरुते विष्णवे भक्ति-भावतः । रेणु-सङ्ख्यं वसेत् स्वर्गे मन्वन्तर-शतं नरः ॥२६॥

तत्र प्रदक्षिण-माहात्म्यं, यथा वाराहे—

एवं कृत्वा तु कृष्णस्य यः कुर्याद् द्विः प्रदक्षिणाम् । सप्त-द्वीपवती-पुण्यं लभते तु पदे पदे । तत् ख्यातं यत् सुधर्मस्य पूर्वस्मिन् गृध्र-जन्मनि । कृष्ण-प्रदक्षिणाभ्यासान् महा-सिद्धिर् अभूद् इति ॥२७॥

तथा—

पतितः स्खलितो वार्तः क्षुद्-बाधा-विवशो गृणन् । हरये नम इत्य् उच्चैर् मुच्यते सर्व-पातकात् ॥२८॥

अथ ज्ञानानिविता, यथा दास्यं सख्यं तथा चात्म-निवेदनम् इति त्रयम् । तत्र दास्यं, यथा—

यन्-नाम-श्रुति-मात्रेण पुमान् भवति निर्मलः । तस्य तीर्थ-पदः किं वा दासानाम् अवशिष्यते ॥२९॥ [भा।पु। ९.५.१६]

श्री-कृष्ण एव सर्वेषां परं सर्वोपासनीय इति निश्चय-ज्ञानेन सद्भिः श्री-भगवद्-दासत्वं स्वीकृतम् । ततस् तद् अनुसन्धीयते । तद् एव—

एताः परं तनु-भृतो भुवि गोप-वध्वो गोविन्द एव निखिलात्मनि रूठ-भावाः । वाञ्छन्ति यद् भव-भियो मुनयो वयं च किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥३०॥ [भा।पु। १०.४७.५८]

तत्र दास्यम् एव द्विविधम् । दासत्वं दासीत्वं च । तत्र दास-भावः—

अहं हरे तव पादैक-मूल- दासानुदासो भवितास्मि भूयः । मनः स्मरेतासु-पतेर् गुणांस् ते गृणीत वाक् कर्म करोतु कायः ॥३१॥ [भा।पु। ६.११.२४]

विष्णु-धर्मोत्तरे—

परमात्मम् अशेषस्य जगतः प्रभवाप्ययम् । शरण्यं शरणं गच्छन् गोविन्दं नावसीदति ॥३२॥

तत्र दासी-भावो, यथा सम्मोहन-तन्त्रे—

दास-भावः सख्य-भावः पुत्र-भावस् तथैव च । नारी-भावो विशेषेण गुह्याद् गुह्यतमं स्मृतः ॥३३॥

तथादि-पुराणे—

गोपी-भावेन ये भक्ता माम् एवं समुपासते । तेषु तेष्व् इव तुष्टोऽहं सत्यं सत्यं वदाम्य् अहम् । भावानुरूपं सर्वत्र पार्थ व्यवहराम्य् अहम् ॥३४॥

अत्र सख्य-भावो, यथा—श्री-कृष्ण एव परम-ब्रह्म रस-मय-लीला-विग्रहः । यद् यद् वाञ्छन्ति, तत् तत् प्राप्नुवन्ति इति ज्ञानेन सख्य-भावं कुर्वन्ति सन्तः । तद् यथा—

कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च । नित्यं हरौ विदधतो यान्ति तन्-मयतां हि ते ॥३५॥ [भा।पु। १०.२९.१५]

यथा महाभारते—

अर्जुनस्य सखा कृष्णः कृष्णस्य हि सखार्जुनः । उभयोर् अन्तरं नास्ति पवनाकाशयोर् इव ॥३६॥

अथात्म-निवेदनं, यथा—

सर्व-भूतेषु यः पश्येद् भगवद्-भावम् आत्मनः । भूतानि भगवत्य् आत्मन्य् एष भागवतोत्तमः ॥३७॥ [भा।पु। ११.२.४५]

इति ज्ञात्वा आत्म-समर्पणं कुर्वन्ति सन्तः ।

आत्मानम् अर्पयेत् कृष्णे भवेद् आत्म-निवेदनम् । अनन्य-भावम् आश्रित्य तवाहं च बलिर् यथा ॥३८॥ विक्रीता गौः प्रदत्ता वा स्वयं यत् तन् न विद्यते । तदा देहादिकं सर्वं दत्तं कृष्णाय नात्मनः ॥३९॥

तथा कविर् उवाच—

कायेन वाचा मनसेन्द्रियैर् वा बुद्ध्यात्मना वानुसृत-स्वभावात् । करोति यद् यत् सकलं परस्मै नारायणायेति समर्पयेत् तत् ॥४०॥ [भा।पु। ११.२.३६॥

अथैवं ज्ञान-भक्त्या प्रेम-लक्षणा भक्तिर् जायते, यथा ब्रह्म-संहितायां—

प्रबुद्धे ज्ञान-भक्तिभ्याम् आत्मन्य् आनन्द-चिन्-मयी । उदेत्य् अनुत्तमा भक्तिर् भगवत्-प्रेम-लक्षणा ॥४१॥ [Bर्ष् ५.५८]

तद् एवादि-पुराणे अर्जुनं प्रति श्री-भगवान् उवाच—

न तपोभिर् न वेदैश् च नाचारैर् न च विद्यया । वशोऽस्मि केवलं प्रेम्णा प्रमाणं तत्र गोपिकाः ॥४२॥

तथात्र प्रेम यथा—ज्ञानाद्य्-अनपेक्षया ममैवेत्य् आकार-पुरः-सरं सहज-स्फूर्तिः प्रेम । तद् एव—

या दोहने ऽवहनने मथनोपलेप- प्रेङ्खेङ्खनार्भ-रुदितोक्षण-मार्जनादौ । गायन्ति चैनम् अनुरक्त-धियो ऽश्रु-कण्ठ्यो धन्या व्रज-स्त्रिय उरुक्रम-चित्त-यानाः ॥४३॥ [भा।पु। १०.४४.१५]

अथ कीदृक् प्रेम ? तद् आह—

प्राण-प्रतिम-रूपेण दर्शनादर्शनेन च । जीवनं मरणं स्याद् यत् तत् प्रेमेति निगद्यते ॥४४॥

पद्म-पुराणे—

अव्यलीकेन मनसा प्रेष्ठस्याराधनं प्रति । आनन्दआनुभवाद् भक्तिर् धियो वृत्तिर् अचञ्चला ॥४५॥ अत्यन्त-सुख-सम्प्राप्तौ विच्छेदे दुःख-सन्ततेः । हेतुर् एकोऽयम् एवेति संश्रयो भक्तिर् उच्यते ॥४६॥ द्वाभ्यां संवलितैर् भावैः प्रेम-भक्तिर् इति स्मृतम् ॥४७॥ इति ।

अथैवं श्री-भगवद्-भक्तिः केनोपायेन जायते ? तद् उतु सत्-सङ्गाद् एव । श्री-भगवान् उवाच—

सतां प्रसङ्गान् मम वीर्य-संविदो भवन्ति हृत्-कर्ण-रसायनाः कथाः । तज्-जोषणाद् आश्व् अपवर्ग-वर्त्मनि श्रद्धा रतिर् भक्तिर् अनुक्रमिष्यति ॥४८॥ [भा।पु। ३.२५.२५]

यथा प्रेम-सुधा-सारण्याम्—

सतत-प्रेम-परायण-जन-मुख-गलित-कृष्ण-कथा-माध्वी । श्रवण-पुटेन निपीता वितरति कृष्णेऽमलं प्रेम ॥४९॥

तथा पद्म-पुराणे—

न तपांसि न तीर्थानि न शास्त्राणि यजन्ति नः । संसार-सागरोत्तारे वैष्णव-सेवनं विना ॥५०॥

तद् एव—

नो रोधयति मां योगो न साङ्ख्यं धर्म एव च । न स्वाध्यायस् तपस् त्यागो नेष्टा-पूर्तं न दक्षिणा ॥५१॥ व्रतानि यज्ञश् छन्दांसि तीर्थानि नियमा यमाः । यथावरुन्धे सत्-सङ्गः सर्व-सङ्गापहो हि माम् ॥५२॥ [भा।पु। ११.१२.१-२]

तथा अतएव भगवद्-भक्तिः क्षिप्रम् उत्पद्यते, यथा—

न ह्य् अम्-मयानि तीर्थानि न देवा मृच्-छिला-मयाः । ते पुनन्त्य् उरु-कालेन दर्शनाद् एव साधवः ॥५३॥ [भा।पु। १०.४८.३१]

तथा नव-सिद्धान् प्रति निमि-नृप उवाच—

अत आत्यन्तिको क्षेमं पृच्छामो भवतो ऽनघाः । संसारे ऽस्मिन् क्षणार्धो ऽपि सत्-सङ्गः शेवधिर् नृणाम् ॥५४॥ [भा।पु। ११.२.३०]

अथ सन्तः कीदृशा इत्य् उच्यताम् । तद् एव—

महत्-सेवां द्वारम् आहुर् विमुक्तेस् तमो-द्वारं योषितां सङ्गि-सङ्गम् । महान्तस् ते सम-चित्ताः प्रशान्ता विमन्यवः सुहृदः साधवो ये ॥५५॥ [भा।पु। ५.५.२]

तथा श्री-भगवान् उवाच—

कृपालुर् अकृत-द्रोहस् तितिक्षुः सर्व-देहिनाम् । सत्य-सारो ऽनवद्यात्मा समः सर्वोपकारकः ॥५६॥ कामैर् अहत-धीर् दान्तो मृदुः शुचिर् अकिञ्चनः । अनीहो मित-भुक् शान्तः स्थिरो मच्-छरणो मुनिः ॥५७॥ अप्रमत्तो गभीरात्मा धृति-माञ् जित-षड्-गुणः । अमानी मान-दः कल्यो मैत्रः कारुणिकः कविः ॥५८॥ आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः ॥५९॥ ज्ञात्वाज्ञात्वाथ ये वै मां यावान् यश् चास्मि यादृशः । भजन्त्य् अनन्य-भावेन ते मे भक्त-तमा मताः ॥६०॥ [भा।पु। ११.११.२९-३३]

एवं भागवतम् आराध्य श्री-कृष्णे भक्तिः प्रजायत इत्य् असन्देहः । यथा श्री-भगवन्-निगमः—

सत्-सङ्गेन हि दैतेया यातुधाना मृगाः खगाः । गन्धर्वाप्सरसो नागाः सिद्धाश् चारण-गुह्यकाः ॥६१॥ [भा।पु। ११.१२.३] इत्य् आदि ।

अतः सन्तम् आराध्य श्री-हरौ भक्तिः करणीया अनन्य-भावेन । यथा श्री-भगवद्-गीतायाम् अर्जुनं प्रति श्री-भगवान् उवाच—

सर्व-धर्मान् परित्यज्य माम् एकं शरणं व्रज । अहं त्वा सर्व-पापेभ्यो मोक्षयिष्यामि मा शुचः ॥६२॥ [Gईता १८.६६]

तथा च ब्रह्म-संहितायां ब्रह्माणं प्रति श्री-भगवान् उवाच—

धर्मान् अन्यान् परित्यज्य माम् एकं भज विश्वसन् । यादृशी यादृशी श्रद्धा सिद्धिर् भवति तादृशी ॥६३॥ [Bर्स् ५.६१]

तथा—

तस्मात् त्वम् उद्धवोत्सृज्य चोदनां प्रतिचोदनाम् । प्रवृत्तिं च निवृत्तिं च श्रोतव्यं श्रुतम् एव च ॥ [भा।पु। ११.१२.१४] इति ।

भक्तानां धर्म-कर्मादि-बाधेन दूषणम् अस्ति ? नैवम् । तथा—

देवर्षि-भूताप्त-नॄणां पितॄणां नायं किङ्करो नायम् ऋणी च राजन् । सर्वात्मना यः शरणं शरण्यं गतो मुकुन्दं परिहृत्य कर्तम् ॥ [भा।पु। ११.५.४१]

तथा बृहन्-नारदीये—

वासुदेव-प्रसङ्गेन क्रिया-लोपो भवेद् यदि । तस्य कर्माणि कुर्वन्ति तिस्रः कोट्यो महर्षयः ॥६५॥

तथैव—

आज्ञायैवं गुणान् दोषान् मयादिष्टान् अपि स्वकान् । धर्मान् सन्त्यज्य यः सर्वान् मां भजेत स तु सत्तमः ॥६६॥ [भा।पु। ११.११.३२]

तथा—

यदा यस्यानुगृह्णाति भगवान् आत्म-भावितः । स जहाति मतिं लोके वेदे च परिनिष्ठिताम् ॥६७॥ [भा।पु। ४.२९.४६]

इत्य् एवं श्री-भगवद्-भक्तानाम् अनुपपतितिर् भयादयः सन्ति, नैवम् । यथा श्रीमद्-भागवते– समाश्रिता ये पद-पल्लव-प्लवं महत्-पदं पुण्य-यशो मुरारेः [भा।पु। १०.१४.५८] इत्य् आदि । तथा–

तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः ॥ [भा।पु। १०.२.३३] इत्य् आदि ॥

तथा श्री-भगवद्-गीतासु—

अनन्याश् चिन्तयन्तो मां ये जनाः पर्युपासते । तेषां नित्याभियुक्तानां योग-क्षेमं वहाम्य् अहम् ॥ [Gईता ७.२२]

अतएव श्री-कृष्ण-चन्द्र-पादारविन्दाश्रयणे न किञ्चिद् दुर्लभम् । जन्म-मरण-भयातीत-पदं च प्राप्यते । नित्यानन्द-पदम् अपि प्राप्यते च । यथा—

मर्त्यो मृत्यु-व्याल-भीतः पलायन् लोकान् सर्वान् निर्भयं नाध्यगच्छत् । त्वत् पादाब्जं प्राप्य यदृच्छयाद्य सुस्थः शेते मृत्युर् अस्माद् अपैति ॥ [भा।पु। १०.३.२७]

तथा श्री-विष्णु-सहस्र-नाम-स्तोत्रे—

न वासुदेव-भक्तानाम् अशुभं विद्यते क्वचित् । जन्म-मृत्यु-जरा-व्याधि-भयं वाप्य् उपजायते ॥

तथा—

भगवत उरु-विक्रमाङ्घ्रि-शाखा- नख-मणि-चन्द्रिकया निरस्त-तापे । हृदि कथम् उपसीदतां पुनः स प्रभवति चन्द्र इवोदिते ऽर्क-तापः ॥ [भा।पु। ११.२.५४]

इत्य् आदि श्री-भगवद्-भक्तेर् महत्त्वम् । अत्रैवाग्रे श्री-भगवद्-भजनोद्देश-रत्नादौ कतिचिद् उक्तम् । तत्रैव ज्ञातव्यम् इति ॥

अतः—

नाना-देव-निषेवणं परिहर प्राणादि-संरोधनं धर्मं कर्म च दान-तीर्थ-नियम-ब्रह्मादिकोपासनम् । सर्वेषां परमेश्वरस्य परमानन्द-प्रदस्यात्मनः श्री-कृष्णस्य सदाव्ययस्य चरण-द्वन्द्वारविन्दं भज ॥७२॥

तथा—

राधा-कृष्ण-पदारविन्द-विगलत्-प्रेम-प्रवाहामृतं पायं पायम् अनारतं पर-सुखी भूत्वा महान् उन्मदः । नान्यत्रापि मनो दधाति न वदत्य् अन्यं स्मरेन् नेतरं तस्यिवाङ्घ्रि-यशो विनाप्य् अत इमं चक्रे कवी राघवः ॥७३॥ स्वर्-वापी-सविधे महा-मुनि-वरस्याम्रातकस्याश्रमे नाना-शास्त्र-विधिज्ञ-पण्डित-युते स्थानेऽम्बिकाधिष्ठिते । ब्रह्म-व्यास-महेश-गोपित-धनं कृष्ण-प्रकाशाभिधं रत्नं राघव-नाम-धेय-कृतिना वेद्यं कृतं सर्वतः ॥७४॥ ये जानन्ति महान्त एव सुधियस् ते मोदयन्त्य् उत्तमाः क्षीणा ये न विदन्ति तत्त्वम् इदमे वाध्याययन्त्व् आशु ते । एतद् ये तु विहाय चान्य-विषये कुर्वन्त्य् अहो मानसे ते किं कृष्ण-पदारविन्द-सुरसं सम्प्राप्नुवन्त्य् अज्ञकाः ॥७५॥

परम्—

श्री-कृष्णाङ्घ्रि-सरोज-युग्म-विगलन्-माध्वीक-धारामृतं पीतं यैर् न च चारु-चित्त-चषकैस् ते वञ्चिता दुःखिताः । अन्यं वानुसरन्त्य् अनित्य-विभवं सौख्याशया बालिशा यास्यन्त्य् उद्भव-मृत्यु-तीव्र-कदनेष्व् आजन्म-कोटिष्व् अपि ॥७६॥

अतः सर्वम् अन्यं विहाय सर्वोपरि श्री-कृष्ण-चरणारविन्दं ब्रह्मादिभिर् भजनीयं भजत । तद् एव क्रुतैतद् दुर्लभ-सङ्ग्रहानुसारेण । तद् एवम् इमं सङ्ग्रहं विरुद्ध-मतिषु न प्रकाशयेत् । तद् इति—

धूर्तायात्यन्त-मूर्खाय तथा पण्डित-मानिने । पाषण्ड-मतये चैव अन्यद् एवोपसेविने ॥७७॥ अभक्ताय च लोलाय रिक्तोपासापराय च । नास्तिकाय तामसाय तथाहङ्कार-कारिणे ॥७८॥ न प्रकाश्यो न देयश् च कदाचिन् नैष सङ्ग्रहः ॥७९॥ देयो विशुद्ध-मतये कृष्ण-पादाब्ज-सेविने । गुरु-भक्ताय शान्ताय सत्य-सन्धाय सर्वदा ॥८०॥

तथा श्री-भगवद्-गीतासु [Gईता १८.६७-८]—

इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥८१॥ य इदं परमं गुह्यं मद्-भक्तेष्व् अभिधास्यति । भक्तिं मयि परां कृत्वा माम् एवैष्यत्य् असंशयः ॥८२॥ इति ।

[Gईता १८.६१-२]

ईश्वरः सर्व-भूतानां हृद्-देशेऽर्जुन तिष्ठति । भ्रामयन् सर्व-भूतानि यन्त्रारूढानि मायया ॥८३॥ तम् एव शरणं गच्छ सर्व-भावेन भारत । तत्-प्रसादात् परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥८४॥

इत्य् एवं ज्ञात्वा श्री-कृष्ण-चरणारविन्दम् एव शरणं कर्तव्यम् इति शेषः ।

इति श्री-कृष्ण-प्रकाश-रत्ने भक्ति-विरचनं नाम

षष्ठ-प्रकाश-रत्नं समाप्तम् ।

श्री-कृष्ण-भजनोपाय-चिन्तामणिर् अयं ग्रन्थः ।

प्रेम-भक्ति-प्रदो यत् तत् समाश्रयत सत्तमाः ॥

समाप्तश् चायं ग्रन्थः ।

श्री-गुरुदेवाय समर्पणम् अस्तु ।

शुभम् अस्तु शकाब्दः १६०६ (लिपि-कालोऽयम्)