पञ्चमः प्रकाशः तस्य नन्दात्मजस्यापि ब्रह्मणः परमात्मनः ।
अंशांशावताराणां प्रवक्ष्ये परमोत्सुकम् ॥१॥
अथ वृन्दावनान् मथुरां गतः क एषः ? तद् उच्यताम् । तद् अत्र स एव श्री-कृष्ण-चन्द्रः सर्व-सम्पूर्ण-प्रकाशस् तथाल्प-प्रकाश इति भेदत्वात् पृथङ् मन्यते, यथा—
हरिः पूर्णतमः पूर्णतरः पूर्ण इति त्रिधा । श्रेष्ठ-मध्यादिभिः शब्दैर् नाट्ये यः परिपठ्यते ॥२॥ प्रकाशिताखिल-गुणः स्मृतः पूर्णतमो बुधैः । असर्व-व्यञ्जकः पूर्णतरः पूर्णोऽल्प-दर्शकः ॥३॥ [Bर्स् २.१.२२१-२]
इत्य् एवं वृन्दावने पूर्णतमः श्री-भगवान् कृष्ण-चन्द्रःस्व-प्रकाशः । अन्यत्राल्प-प्रकाशः । तद् एव पूर्णतरत्वेन द्वारका-नाथो वासुदेवो बलरामश् च पूर्णोऽपि सह-प्रद्युम्नानिरुद्धादिः । तद् अन्यच् च पूर्ण-कल्पत्वेन ब्रह्म-विष्णु-शिव-महाविष्ःव्-आदयः । तत्र विष्णुर् वासुदेवो यथा मथुरां गतवन्तं श्री-भगवन्तं सहस्र-शिरसोऽनन्तस्य क्रोडे अक्रूरोऽपश्यद् यथा—
तस्योत्सङ्गे घन-श्यामं पीत-कौशेय-वाससम् । पुरुषं चतुर्-भुजं शान्तं पद्म-पत्रारुणेक्षणम् ॥४॥ [भा।पु। १०.३९.४६] इत्य् आदि ।
तथात्रैव रुक्मिणि-रभसे श्री-भगवन्तं वासुदेवं प्रति रुक्मिण्य् उवाच— यत्-कर्ण-मूलम् अरि-कर्षण नोपयायाद् युष्मत्-कथा मृड-विरिञ्च-सभासु गीता ॥ [भा।पु। १०.६०.४४] इत्य् अत्र विष्णोर् उल्लेखो न कृतः । यद् एव तत् श्री-वासुदेवः विष्णुर् इति सूचितम् । तद्-गुणो यथा बृहन्-नारदीये—
अग्रत्वाद् अथ पूर्णत्वात् स्वयम्भुर् इति कथ्यते । हरः संसार-हरणाद् विभुत्वाद् विष्णुर् उच्यते ॥५॥
श्री-वासुदेव-स्वरूप-विष्णोर् वैभवं यथा-मथुरायां कंस-वधाय गत्वा स्व-वैभवं दर्शितम् । तद् एव श्री-भागवते मल्लानाम् अशनिर् नृणां नर-वरः स्त्रीणां स्मरो मूर्तिमान् [भा।पु। १०.४३.१७] इत्य् आदि । तथैव द्वारकायां षोडश-सहस्र-स्त्रीणां गृहे षोडश-सहस्राणि पुमांसो भूत्वा रराम । महा-मुनि-नारदेन दृष्टः । तद् अनु अर्जुनं प्रति विश्व-रूपं दर्शितम् । तथा रुक्मिणी-हरण-पारिजात-हरणादि-महा-महा-युद्धे चतुर्भुजत्वं प्रकटितम् । गरुड-वाहनश् च शङ्ख-चक्र-गदा-पद्म-धारी च । अतः श्री-रुद्र उवाच—
यः परं रंहसः साक्षात् त्रि-गुणाज् जीव-सञ्ज्ञितात् । भगवन्तं वासुदेवं प्रपन्नः स प्रियो हि मे ॥६॥ [भा।पु। ४.२४.२८] ।
इत्य् आदि प्रमाणेन ज्ञातव्यम् विष्णोर् वासुदेवस्य परः श्री-कृष्ण-चन्द्रः । विष्णुर् अपि वैकुण्ठेश्वरः । अतएव महाविष्णुः । तथात्र प्रमाणम् आह – यदा वैकुण्ठ-द्वारि जय-विजययोर् ब्रह्म-शापो बभूव तदा भगवता श्री-विष्णुना आज्ञप्तम्—यदि मयि शत्रुभावं कृत्वा पतथः, तदा जन्म-त्रयानन्तरं युवाम् अहं मोचयिष्यामि इति । अतो जय-विजयौ हिरण्याक्ष-हिरण्यकशिपु-रूपौ भूत्वा जातौ । विष्णुर् अपि वराह-नृसिंह-रूपौ भूत्वा तौ जघान । युगान्तरे पुनस् तौ रावण-कुम्भकर्णौ भूत्वा जातौ । विष्णुर् अपि श्री-राम-लक्ष्मण-रूपौ भूत्वा तौ जघान । जन्मान्तरे पुनस् तौ शिशुपाल-दन्तवक्र-रूपौ भूत्वा जातौ । विष्णुर् अपि श्री-वासुदेव-बलभद्रौ भूत्वा तौ जघान । एवं जन्म-त्रयानन्तरं जय-विजयौ मुक्तो बभूवतुः । अत एतत् सर्वं विष्णोर् वैभवम् एव । वृन्दावन-चन्द्रस्य नैतत्, यतः सर्वेषां परः श्री-कृष्ण-चन्द्रस्य वैभवः । अतो नारद-पञ्चरात्रे रामादयोऽवताराश् च कार्यार्थे सम्भवन्ति च इति ।
अत एते सर्वे श्री-कृष्णस्यांशा विष्णु-स्वरूपावतारा इति ज्ञापनीयम् । यतो दिव्य-वृन्दावन-स्थो भगवान् श्रि-कृष्ण-चन्द्रः । यथा श्री-गोलोक-संहितायां—
ज्योतिर्मयं ब्रह्म यत्र तत्र वृन्दावनं महत् । तत्रैव राधिका देवी सर्व-शक्ति-नमस्कृता । तत्रैव भगवान् कृष्णः सर्व-देव-शिरोमणिः ॥७॥
अत एव महा-विष्णु-वैभवम् एव । तत्र केचिद् वदन्ति—सर्वम् एतद् अस्य श्री-वृन्दावन-चन्द्रस्य वैभवम् एव। स एव किं न विभुः ? अहो भद्रम् उक्तम् । तस्यांश-वैभवा विष्णुर् वासुदेवादयः । अहो यदि नैवम्, तदा कथं वासुदेवो ब्रह्मादिभिः प्रार्थितो वैकुण्ठं गन्तुम् ? यथा श्री-ब्रह्मोवाच—
भूमेर् भारावताराय पुरा विज्ञापितः प्रभो । त्वम् अस्माभिर् अशेषात्मन् तत् तथैवोपपादितम् ॥ [भा।पु। ११.६.२१] शरच्-छतं व्यतीयाय पञ्च-विंशाधिकं प्रभो । नाधुना ते ऽखिलाधार देव-कार्यावशेषितम् । कुलं च विप्र-शापेन नष्ट-प्रायम् अभूद् इदम् ॥ [भा।पु। ११.६.२५-६] इति ।
अतः सर्वोपाधि-रहितस्य श्री-कृष्ण-चन्द्रस्य नैतत् । स एवं दिव्य-वृन्दावनेशः पूर्ण-रसमयः । अनन्त-वैकुण्ठ-नाथास् तस्य किङ्कराः । यथा ब्रह्म-संहितायां [५.४३-४]—
गोलोक-नाम्नि निज-धाम्नि तले च तस्य देवि महेश-हरि-धामसु तेषु तेषु । ते ते प्रभाव-निचया विहिताश् च येन गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥११॥ अहम् आत्मा परं ब्रह्म सच्-चिद्-आनन्द-विग्रहः । सदा-शिव-महा-विष्णु-ब्रह्म-रुद्रादि-कारकः । नराकृतिर् नित्य-रूपी वंशी-वाद्य-प्रियः सदा ॥१२॥
अतएव तेषां सर्वेषां परः श्री-कृष्ण-चन्द्र एव । यथा ब्रह्म-संहितायां [५.४१] ब्रह्मणः स्तुतिः—
माया हि यस्य जगद्-अण्ड-शतानि सूते त्रैगुण्य-तद्-विषय-वेद-वितायमाना । सत्त्वावलम्बि-पर-सत्त्वं विशुद्ध-सत्त्वम्- गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥१३॥
तत्र सत्त्वावलम्बी महा-विष्णुः । पर-सत्त्वो वासुदेवः । विशुद्ध-सत्त्वो गोविन्दः । स एव श्री-कृष्ण-चन्द्रः । तद् इति । तमो-रजोभ्यां संवलितं सत्त्वं अस्मिन्न् अस्तीइत् सत्त्वावलम्बी विष्णुर् वासुदेव एव । विष्णुना यथा सृष्टिं कर्तुं माया विस्तारिता । अतो विष्णु-माया-रुद्धा सृष्टिः । लक्ष्मी-सरस्वत्य्-आदि-परिवार इति रजो-गुणः । तमसा नाना-दैत्य-संहारः कृतः । यथा दैत्यारिर् जनार्दनो मधुसूदन इति नाम्ना ज्ञातव्यम् । तद् एव वासुदेवश् च रजसा कृत-पुर्यां द्वारकायां षोडश-सहस्र-महिषीषु षट्-पञ्चाशत्-कोटि-स्व-वंशो विस्तारितः । तमसा कंस-नरकाद्य्-असुर-वधः कृतः । सत्त्वेन पृथिवीं पालयति । अतः सत्त्व-गुणो विष्णुः । एवं सत्त्वावलम्बी महा-विष्णुर् यथा ब्रह्म-संहितायां—
हैमान्य् अण्डानि जातानि महा-भूतावृतानि तु । प्रत्य्-अण्डम् एवम् एकांशाद् एकांशाद् विशति स्वयम् । सहस्र-मूर्धा विश्वात्मा महा-विष्णुः सनातनः ॥१४॥ वामाङ्गाद् असृजद् विष्णुं दक्षिणाङ्गात् प्रजापतिम् । ज्योतिर्-लिङ्ग-मयं शम्भुं कूर्च-देशाद् अवासृजत् ॥१५॥ अहङ्कारात्मकं विश्वं तस्माद् एतद् व्यजायत ॥१६॥
इति रजो-गुणः । सत्त्वेन सर्वम् एतद् वहत्य् एव । अतो रजो-गुण-संवलित-सत्त्वो महा-विष्णुः । अतएव विशुद्ध-सत्त्वः श्री-कृष्ण-चन्द्रः । तथा हि ब्रह्म-संहितायां [५.४७-४८]–यः कारणार्णव-जले भजति इत्य् आदि, यस्यैक-निश्वसित-कालम् अथावलम्ब्य इत्य् आदि ।
पर-सत्त्वो वासुदेवो यथा नारद-पञ्चरात्रे—
दिव्यातिदिव्य-श्री-देहं काल-मायाद्य्-अगोचरम् । श्वेतद्वीपेश्वरं पूर्णं वासुदेवं चतुर्भुजम् ॥१७॥ इति ।
विशुद्ध-सत्त्वो गोविन्दो, यथा शक्र-स्तुतिः—
विशुद्ध-सत्त्वं तव धाम शान्तं तपो-मयं ध्वस्त-रजस्-तमस्कम् । माया-मयो ऽयं गुण-सम्प्रवाहो न विद्यते ते ऽग्रहणानुबन्धः ॥१८॥ [भा।पु। १०.२७.४]
तथा वासुदेवोपनिषदि—
यद्-रूपम् अद्वयं ब्रह्म मध्याद्य्-अन्त-विवर्जितम् । स्व-प्रभं सच्-चिद्-आनन्दं भक्त्या जानाति चाव्ययम् ॥१९॥
तथा ब्रह्म-संहितायां—
माया हि यस्य जगद्-अण्ड-शतानि सूते त्रैगुण्य-तद्-विषय-वेद-वितायमाना । सत्त्वावलम्बि-पर-सत्त्वं विशुद्ध-सत्त्वम्- गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥२०॥
तथा नारद-पञ्चरात्रे—
द्विभुजं तु घन-श्यामं किशोरं वन-मालिनम् । दिव्याभरण-दिव्याङ्गं गोप-कन्या-गणावृतम् ॥२१॥ दयितं प्रेम-भक्तानाम् अद्वैतं ब्रह्म-वादिनाम् । मीन-कूर्मादयो यस्य स्वांशांशाः सर्व-देवताः ॥२२॥
ततः सच्-चिद्-आनन्द-स्वरूपो विशुद्ध-सत्त्वो गोविन्दः । स एव श्री-कृष्ण-चन्द्रः स्व-प्रकाशो दिव्य-वृन्दावनेशो नित्य-वृन्दावने प्रकाशोऽभूद् इति वेद-वेदान्तादिभिर् निर्दिष्टम् । तथा हि ब्रह्म-संहितायां [५.१]—
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः । अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥२३॥ इति ।
किन्त्व् एवं श्रुतं तल्-लक्षणम् । यद्य् अङ्ग-चिह्नेन जन-दृग्-गोचरीभवति । तदा प्रतीयते । तत्र श्रवणाद् दर्शनं श्रेष्ठम् । दर्शनात् स्पर्शनम् इत्य् आदि । तद् एव पाद-चिह्नेन ज्ञायते । यथा पद्म-पुराणे नारदं प्रति ब्रह्मोवाच—
शृणु नारद वक्ष्यामि पादयोश् चिह्न-लक्षणम् । भगवत्-कृष्ण-रूपस्य ह्य् आनन्दैक-घनस्य च ॥२४॥ अवतारा ह्य् असङ्ख्येयाः कथिता मे तवानघ । परं सम्यक् प्रवक्ष्यामि कृष्णस् तु भगवान् स्वयम् ॥२५॥ देवानां कार्य-सिद्ध्य्-अर्थम् ऋषीणां च तथैव च । आविर्भूतस् तु भगवान् स्वानां प्रिय-चिकीर्षया ॥२६॥ यैर् एव ज्ञायते देवो भगवान् भक्त-वत्सलः । तान्य् अहं वेद नान्योऽस्ति सत्यम् एतन् मयोदितम् ॥२७॥ षोडशैव तु चिह्नानि मया दृष्टानि तत्-पदे । दक्षिणेनाष्ट-चिह्नानि इतरे सप्त एव च ॥२८॥ ध्वजाः पद्मं तथा वज्रम् अङ्कुशो यव एव च । स्वस्तिकं चोर्ध्व-रेखा च अष्ट-कोणस् तथैव च ॥२९॥ सप्तान्यानि प्रवक्ष्यामि साम्प्रतं वैष्णवोत्तम । इन्द्र-चापं त्रिकोणं च कलसं चार्ध-चन्द्रकम् ॥३०॥ अम्बरं मत्स्य-चिह्नं च गोष्पदं सप्तमं स्मृतम् । जम्बू-फल-समाकारं दृश्यते यत्र कुत्रचित् ॥३१॥ अङ्कान्य् एतानि भो विद्वन् दृश्यन्ते तु यदा कदा । कृष्णाख्यं तु परं ब्रह्म भुवि जातं न संशयः ॥३२॥ एतानि वत्स चिह्नानि दृष्टानि च श्रुतानि च । वेदाग्र-कथितान्य् एव पुनः किं कथयाम्य् अहम् ॥३३॥
पुराणान्तरे शङ्ख-चक्रातपत्रादि-चिह्न-त्रयं च । यथा चादि-वाराहे मथुरा-मण्डल-माहात्म्ये—
यत्र कृष्णेन सञ्चरितं क्रीडितं च यथा-सुखम् । चक्राङ्कित-पदा तेन स्थाने ब्रह्म-मये शुभे ॥३४॥
यथा क्रम-दीपिकायां [३.१५]– मत्स्याङ्कुशारदर-केतु-यवाब्ज-वज्र-संलक्षितारुण-कराङ्घ्रि-तलाभिरामम् । अरि-दरं चक्र-शङ्खम् । इति मत्स्य-ध्वजातपत्रं चेति रूपेण चिह्नितं चरण-द्वयम् इति । एतच् चिह्न-त्रयेणोनविंशति-चिह्नानि श्री-भगवच्-चरण-कमले निर्दिष्टानीति ।
द्वयं वाथ त्रयं वाथ चत्वारि पञ्च एव च । दृश्यते वैष्णव-श्रेष्ठ अवतारे कथञ्चन ॥३५॥
अथापरं च वत्स-हरणे महाश्चर्यं दृष्ट्वा ब्रह्मादि—
अद्यैव त्वद् ऋतेऽस्य किं मम न ते मायात्वम् आदर्शितम् एकोऽसि प्रथमं ततो व्रज-सुहृद्-वत्साः समस्ता अपि । तावन्तोऽसि चतुर्भुजास् तद् अखिलैः साकं मयोपासितास् तावन्त्य् एव जगन्त्य् अभूस् तद् अमितं ब्रह्माद्वयं शिष्यते ॥३६॥ [भा।पु। १०.१४.१८]
अथ वासुदेवादयो ब्रह्मादयो मत्स्य-कूर्मादयः क इत्य् उच्यताम् । तद् एव भागांश-कलाशक्त्यावेशत्वेन निरूपिताः । यथ श्री-कृष्ण-यामले—
भागस् त्व् अर्धं तद्-अर्धं च अंश इत्य् अभिधीयते । तद्-अर्धं कुलम् आख्यातं कला तस्यार्धम् उच्यते ॥३७॥ तद्-अर्धं शक्तिर् आख्याता आवेशः स्यात् तद्-अर्धकः । एवं चतुः-षष्टि-भागैर् अवताराः परात्मनः ॥३८॥
तन्-निरूपणम् आह—तद्-अर्ध-भागो राधा । तद् यथा पद्म-पुराणे—
आद्या शक्तिः स्वयं राधा मुकुन्दार्धाङ्ग-सङ्गता । सुशीला सुगतिः साध्वी वृन्दावन-विलासिनी ॥३९॥
तथा सम्मोहन-तन्त्रे प्रथम-पटले—
पूर्णानन्द-स्वरूपं यत् तन् नित्यं नेतरत् पुनः । तद्-आनन्द-मयी राधा तद्-आनन्द-मयो हरिः ॥४०॥ न भौतिको देह-बन्धस् तयोर् आनन्द-रूपयोः ।
एकं ब्रह्म द्विधा-भूतं योगिनां ज्ञान-हेतवे ॥४१॥
दाहकेन यथा वह्नौ वह्निं प्राप्य विजृम्भते । शक्ति-शक्तिमतोर् ऐख्यं यथा ज्ञेयं मनीषिभिः ॥४२॥
तथार्धाङ्गात् समुत्पन्ना अर्धाङ्ग-स्वरूपा राधा । यथा गोविन्द-वृन्दावने बलरामं प्रति श्री-कृष्ण उवाच—
शृणुष्व कथयिष्यामि बलराम यथा मम । त्रिभङ्गत्वं च तां वंशीं गृहीत्वा हृष्ट-मानसः ॥४३॥ दिव्य-नीपाङ्घ्रि-पतले मणि-बद्धे महा-प्रभे । सुवर्ण-वेदिका-मध्ये निर्मले प्रतिनिर्मले ॥४४॥ सम्पश्यन्न् आत्मनात्मानं स्वयम् एव विमोहितः । एतस्मिन्न् एव समये यातो मे हृदये रसः ॥४५॥ शृङ्गाराख्यः सुखमयः सर्व-लोकैक-मोहनः । आत्मानं रन्तुम् इच्छामि नारीत्वं मनसेप्सितम् ॥४६॥ इति सञ्चिन्तिते चित्ते मनस् तत्र स्वतां गतम् । रसाद् आनन्द आनन्दाद् अनुभाव-विबोधिनी । स्वयम् आत्मा द्विधाभूता परमानन्द-रूपिणी ॥४७॥ रस-स्वरूपिणी देवी वामांशेन विनिर्गता । विद्युत्-पुञ्ज-निभा गौरी दिव्याभरण-भूषिता । कृष्णार्ध-स्वरूपा राधा सर्व-शक्ति-मयी स्मृता ॥४८॥ इत्य् आदि ।
तथा श्री-कृष्ण-यामले चतुर्दशाधिक-शततम-पटले श्री-वासुदेवं प्रति त्रिपुरोवाच—
आकारेणोच्यते कृष्ण उ-कारेणैव राधिका । कलयात्मा कलाभिज्ञा वासनावर-विग्रहात् । बिन्दुवत्त्वं परं तत्त्वम् अनयोः पाद-चारणे ॥४९॥
तथा गोविन्द-वृन्दावने द्वितीय-पटले बलभद्रं प्रति श्री-कृष्ण उवाच—
त्रि-तत्त्व-रूपिणी सा तु राधिका मम वल्लभा । प्रकृतेः पर एवाहं सापि शक्ति-स्वरूपिणी ॥५०॥ प्रकाश-त्रय-रूपेण निर्गुणाकार-चित्-परः । एवं सर्वत्र सर्वेशः सापि सर्वेश्वरेश्वरी । क्रिया-रूपेण सा प्रोक्ता द्वयोः सम-रसात्मिका ॥५१॥
इत्य् एवं श्री-कृष्णार्ध-भागो राधा सर्व-शक्ति-स्वरूपा च । तथा सम्मोहन-तन्त्रे नारद-स्तुतिः—
का त्वम् आश्चर्य-विभवे ब्रह्म-रुद्रादि-दुर्गमे । योगीन्द्राणां ध्यान-पथं न त्वं स्पृशसि कुत्रचित् ॥५२॥ इच्छा-शक्तिर् ज्ञान-शक्तिः क्रिया-शक्तिस् तथेशितुः । तवांश-मात्रम् इत्य् एवम् अणीयांशः प्रवर्तते ॥५३॥ या या विभूतयोऽचिन्त्याः शक्तयश् चारु-मायिनः । परेशस्य महा-विष्णोस् ताः सर्वास् ते कलाकलाः ॥५४॥
इति सर्वाः शक्तयः श्री-राधायां विद्यन्ते ।
अथ केनचिद् उक्तम्—आद्या-शक्तिर् भगवतो दुर्गेति सर्वत्र ख्यातिः । कथम् अन्या ? तद् अत्रावधीयतां वराह-संहितायां (२.३१-२, ७८-९) सप्तावरण-विवरणे वृन्दावन-स्थान-निरूपणे—
तत्रोपरि च माणिक्य-स्वर्ण-सिंहासने स्थितम् । अष्टादलारूणाम्भोजं तत्रैव सुख-निर्मितम् ॥५५॥ गोविन्दस्य प्रियं स्थानं किम् अस्य महिमोच्यते । श्री-गोविन्दं तु तत्रस्थं वल्लवी-वृन्द-वल्लभम् ॥५६॥ तत्-स्पर्श-गन्ध-पुष्पादि-नाना-सौरभ-सन्निभम् ॥५७॥ तत्-प्रिया प्रकृतिस् त्व् आद्या राधिका तस्य वल्लभा । तत्-कला-कोटि-कोट्य्-अंशा दुर्गाद्या त्रिगुणात्मिका ॥५८॥
सर्व-शक्तिः श्री-भगवता कृष्णेन राधायाम् आरोपिता, अभेदत्वात् । स्वयं निर्विण्णः परम-रस-मयः परमानन्द-स्वरूपः । निर्गुणः प्रकृतेः परो नित्य-प्रकाशस् तथापि राधायाश् चाभेदत्वात् । तस्मिन् भगवति सर्व-शक्तित्वं स-गुणत्वं प्राकृतत्वं निरूपितम् ॥
सर्व-शक्तिर् यथा—क्रिया-शक्तिर् इच्छा-शक्तिर् ज्ञान-शक्तिर् इति त्रिधा । तत्र क्रिया-शक्तिर् यथा—ब्रह्म-विष्णु-महेश-महाविष्णु-नारायणादयः । यथा—
सत्त्वं रजस् तम इति निर्गुणस्य गुणास् त्रयः । स्थिति-सर्ग-निरोधेषु गृहीता मायया विभोः ॥५९॥ [भा।पु। २.५.१८]
तथा ब्रह्म-वैवर्ते—
एवं प्रत्यण्डकं ब्रह्मा कोऽहं जानामि किं विभो । रजो-गुण-प्रभावोऽहं सृजाम्य् एतत् पुनः पुनः ॥६०॥ सत्त्वस्थो भगवान् विष्णुः पाति सर्वं चराचरम् । रुद्र-रूपी च कल्पान्ते संहरत्य् एतद् एव हि ॥६१॥ एवं प्रवर्तितं चक्रं नित्यं चानित्यवन् मुने ॥६२॥
महाविष्णुर् यथा ब्रह्म-संहितायाम् [५.१४-१६]—
सहस्र-मूर्धा विश्वात्मा महा-विष्णुः सनातनः । वामाङ्गाद् असृजद् विष्णुं दक्षिणाङ्गात् प्रजापतिम् ॥६३॥ ज्योतिर्-लिङ्ग-मयं शम्भुं कूर्च-देशाद् अवासृजत् । अहङ्कारात्मकं विश्वं तस्माद् एतद् व्यजायत ॥६४॥
नारायणो, यथा द्रुमिल उवाच—
भूतैर् यदा पञ्चभिर् आत्म-सृष्टैः पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधानम् अवाप नारायण आदि-देवः ॥६५॥ [भा।पु। ११.४.३]
अयम् एव महाविष्णुः श्री-कृष्णस्य कलाः, यथा—
विष्णुर् महान् स इह यस्य कला-विशेषो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥ इति ।
आदि-देवो गोविन्दः । इति क्रिया-शक्तिः । अथेच्छा-शक्तिर् यथा ब्रह्म-संहितायाम् [५.४४]
सृष्टि-स्थिति-प्रलय-साधन-शक्तिर् एका छायेव यस्य भुवनानि बिभर्ति दुर्गा । इच्छानुरूपम् अपि यस्य च चेष्टते सा गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥६६॥
अथ श्री-भगवद्-गीतासूपनिषत्सु श्री-भगवान् उवाच (८.१०) मयाध्यक्षेण प्रकृतिः सूयते स-चराचरम् इति इच्छा-शक्तिः श्री-भगवती दुर्गा । अथ ज्ञान-शक्तिर् यथा श्री-भगवद्-अवधान-मात्रेण सृष्टेर् उद्भवः प्रभवः प्रलयश् च भवति, यथा श्रुतेर् वाक्य-वृत्तौ (१९) अनापन्न-विकारः सन्न् अयस्कान्तवद् एव यः । बुद्ध्यादींश् चालयन् प्रत्यक् इत्य् आदि । अयस्कान्त-सन्निधाने लौहं च चलति यथा अयस्कान्तो न किञ्चित् करोति, न किञ्चित् पालयति । न किञ्चित् संहरति च इत्य् एवं ज्ञान-शत्किः ॥
अथांश-भागो यथा वासुदेव-सङ्कर्षण-प्रद्युम्नानिरुद्धादयः । यथा वराह-संहितायां (२.८२) श्री-भगवान् वराह उवाच—
राधया सह गोविन्दं स्वर्णं सिंहासन-स्थितम् । पूर्वोक्त-रूप-लावण्यं दिव्य-भूषास्रग्-अम्बरम् ॥६७॥
एवं भगवतः सप्तावरणस्य पञ्चमावरणं, यथा (वर्।सं। २.११०…११९)—
तद् बाह्ये स्वर्ण-प्राचीरे कोटि-सूर्य-समुज्ज्वले । चतुर्दिक्षु महोद्यान-मञ्जु-सौरभ-मोहिते ॥६८॥ पश्चिमे सम्मुखे श्रीमत् पारिजात-द्रुमाश्रये । तत्राधस् तु स्वर्ण-पीठे स्वर्ण-मन्दिर-मण्डिते ॥६९॥ तन्-मध्ये मणि-माणिक्य-रत्न-सिंहासनोज्ज्वले । तत्रोपरि परानन्दं वासुदेवं जगद्-गुरुम् ॥७०॥ शङ्ख-चक्र-गदा-पद्म-धारिणं वन-मालिनम् ॥७१॥ रुक्मिणी सत्यभामा च नाग्निजित्या सुलक्षणा ॥७२॥ मित्रविन्दा सुनन्दा च तथा जाम्बवती प्रिया । सुशीला चाष्ट महिषी वासुदेवाग्रतः स्थिताः ॥७३॥ उद्धवाद्याः पारिषदा वृतास् तद्-भक्ति-तत्-पराः । उत्तरे दिव्य उद्याने हरि-चन्दन-संस्थिते । सुविस्तीर्णे स्वर्ण-पीठे मणि-मण्डप-मण्डिते ॥७४॥
श्री-सङ्कर्षणावरणं, यथा (वर्।सं २.१२४…१३३)
तन्-मध्ये मणि-माणिक्य-दिव्य-सिंहासनोज्ज्वले । प्रद्युम्नं सरतिं देवं तत्रोपरि समास्थितम् ॥७५॥ जगन्-मोहन-सौन्दर्य-सार-श्रेणी-रसात्मकम् । असिताम्बुज-पुञ्जाभम् अरविन्द-दलेक्षणम् । पूर्वोद्याने महारण्ये सुर-द्रुम-समाश्रये ॥७६॥ तस्याधस् तु महा-पीठे हेम-मण्डप-मण्डिते । तस्य मध्य-स्थिते राजद्-दिव्य-सिंहासनोज्ज्वले ॥७७॥ श्रीमत्या ऊसया श्रीमद्-अनिरुद्धं जगत्-पतिम् । सान्द्रानन्दं घन-श्यामं सुस्निग्ध-नील-कुन्तलम् । नीलोत्पल-दल-स्निग्धं चारु-चञ्चल-लोचनम् ॥७८॥ प्रिय-भृत्य-गणाराध्यं यन्त्र-सङ्गीतक-प्रियम् । पूर्ण-ब्रह्म-रसानन्दं शुद्ध-सत्त्व-स्वरूपिणम् ॥७९॥ इति ।
एवं श्री-वासुदेवादयः श्री-राधा-कृष्णस्यावरणेनेत्य् अंश-भागाः । तथा श्री-कृष्ण-यामले—
तुरीयातीत एवासौ श्री-कृष्णः प्रेम-नायकः । पञ्च-भेदै रसत्य् अत्र सर्व-तेजो-मयः प्रभुः । तुरीयातीत एवासौ तुरीयत्वं निगद्यते ॥८०॥ इति ।
अथ ब्रह्मादयः के ? इति यद् उक्तं तद् एवांश-भागः । तथा बृहन्-नारदीये प्रथम-श्लोकः—
वृन्दे वृन्दावनासीनम् इन्दिरानन्द-मन्दिरम् । उपेन्द्रं सान्द्र-कारुण्यं परानन्दं परात्-परम् ॥८१॥ ब्रह्म-विष्णु-महेशाख्या यस्यांशा लोक-साधकाः । तम् आदि-देवं चिद्-रूपं विशुद्धं परमं भजे ॥८२॥
तद् अत्र इन्दिरानन्द-विग्रहम् इति विशेषणं कथम् ? तत्राह—श्री-कृष्णं प्राप्तुं लक्ष्मीस् तपति । यथा श्री-सङ्क्षेप-भागवतामृते [१.५.३४९-३५१]—
सदा वक्षः-स्थलस्थापि वैकुण्टेशितुर् इन्दिरा । कृष्णोरः-स्पृहयास्यैव रूपं विवृणुतेऽधिकम् ॥८३॥ पौराणिकम् उपाख्यानम् अत्र सङ्क्षिप्य लिख्यते ॥८४॥ श्रीः प्रेक्ष्य कृष्ण-सौन्दर्यं तत्र लुब्धा ततस् तपः । कुर्वतीं प्राह तां कृष्णः किं ते तपसि कारणम् ॥८५॥ विजिहीर्षे त्वया गोष्ठे गोपी-रूपेति साब्रवीत् । तद् दुर्लभम् इति प्रोक्ता लक्ष्मीस् तं पुनर् अब्रवीत् ॥८६॥ स्वर्ण-रेखेव ते नाथ वस्तुम् इच्छामि वक्षसि । एवम् अस्त्व् इति सा तस्य तद्-रूपा वक्षसि स्थिता ॥८७॥
यथोक्तं श्री-दशमे नागपत्नीभिः (१०.१६.३६) –
कस्यानुभावोऽस्य न देव विद्महे तवाङ्घ्रि-रेणु-स्पर्शाधिकारः । यद्-वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रता ॥८८॥ इति ।
श्री-सङ्क्षेप-भागवतामृते [१.५.३५३, ३५६]—
नाम्नोऽपि महिमेतस्य सर्वतोऽधिक ईर्यते ॥८९॥ अतः स्वयं-पदादिभ्यो भगवान् कृष्ण एव हि । स्वयं-रूप इति व्यक्तं श्रीमद्-भागवतादिषु ॥९०॥
यथा ब्रह्म-संहितायाम् [५.२९] लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानं गोविन्दम् आदि-पुरुषं तम् अहं भजामि इत्य् एवम् इन्दिरानन्द-मन्दिरम् इति विशेषणं च ।
अथ विष्णु-महाविष्णु-ब्रह्म-शिव-मत्स्य-कूर्मादय इति भगवतः श्री-राधा-कान्तस्यांश-कुल-कला-शक्त्य्-आवेशादिषु वर्तन्ते । एतेषां अंशादीनां निर्णयं कर्तुं कर्ता श्री-भगवान् एव नान्यः । पुराणादिषु यद् दृश्यते, तद् अत्र लिख्यते । यथा ब्रह्म-संहितायाम् [५.४८]—
यस्यैक-निश्वसित-कालम् अथावलम्ब्य जीवन्ति लोम-विलजा जगद्-अण्ड-नाथाः । विष्णुर् महान् स इह यस्य कला-विशेषो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥९१॥
तथा वराह-संहितायां श्री-कृष्ण-स्वरूप-विवरणे [२.५३-४]—
ध्वज-वज्राङ्कुशाम्भोज-कराङ्घ्रितल-शोभितम् । नखेन्दु-किरण-श्रेणी-पूर्ण-ब्रह्मैक-कारणम् ॥९२॥ केचिद् वदन्ति तद्-रश्मि-ब्रह्म-चिद्-रूपम् अव्ययम् । तद्-अंशांशं महाविष्णुं प्रवदन्ति मनीषिणः ॥९३॥
तथा तत्रैव श्री-कृष्णस्य माहात्म्य-कथन-प्रसङ्गे पृथिवीं प्रति श्री-भगवान् वराह उवाच (२.७१)—
यद्-अङ्घ्रि-नख-चन्द्रांशु-महिमान्तो न विद्यते । तन् माहात्म्यं कियद् देवि प्रोच्यते त्वं तदा शृणु ॥९४॥ इति । आद्यन्त-रहितः सूक्ष्म-स्थूलातीतः परात्परः । स्वयं-ज्योतिः स्वयं कर्ता स्वयं हर्ता स्वयं प्रभुः ॥९५॥ कटाक्ष-मात्र-ब्रह्माण्ड-कोटि-सृष्टि-विनाश-कृत् । सदा-शिव-महाविष्णु-रुद्र-ब्रह्मादि-कारकः । नराकृतिर् नित्य-रूपी वंशी-वाद्य-प्रियः सदा ॥९६॥
तथा नारद-पञ्चरात्रे नारदानन्त-संवादे भक्ति-रहस्ये—
ताम्र-पर्णी नदी-तीरे द्राविडेऽस्ति किम् अद्भुतम् । भक्तिर् मूर्तिमती जाता मलय-ध्वज-मन्दिरे ॥९७॥ नाम्ना प्रेम्णा सदानन्दा ध्यायन्ती पुरुषोत्तमम् । तल्-लोक-वासिनं देवं वृन्दारण्य-पुरन्दरम् ॥९८॥ दिव्यातिदिव्यं श्री-देहं काल-मायाद्य-गोचरम् । दयितं प्रेम-भक्तानाम् अद्वैतं ब्रह्म-वादिनाम् । मीन-कूर्मादयो यस्या अंशांशाः सर्व-देवताः ॥९९॥
तथैवात्र प्रेम-तत्त्व-निरूपणे—
साङ्ख्य-तत्त्वं प्रवक्ष्यामि आत्म-तत्त्वं विशेषतः । भक्तिं मुक्तिं वदिष्यामि प्रेम-तत्त्वं वदाम्य् अहम् ॥१००॥ गुप्तम् अद्वय-निर्लेपं सच्चिदानन्द-विग्रहम् । ब्रह्माण्ड-कोटि-कोटीनां स्रष्टारं पालकं विभुम् ॥१०१॥ ब्रह्म-विष्णु-महेशानां नाथानां नाथम् अद्वयम् । अनन्त-फणा-माणिक्य-सेवितं चरणाम्बुजम् ॥१०२॥
अतो यावद् एवावतार-स्वरूपास् ते सर्वे श्री-कृष्ण-चन्द्रस्यांश-कलादयः । यथा—
रामादि-मूर्तिषु कला-नियमेन तिष्ठन् नानावतारम् अकरोद् भुवनेषु किन्तु कृष्णः स्वयं समभवत् परमः पुमान् यो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥१०३॥ [ब्र।सं। ५.३८] इति ।
अथ यदि श्री-कृष्णः परम-पुमान् निरीहः । तस्यावताराः कथम् ? तद् आह, यथा नारद-पञ्चरात्रे गृह्योपनिषदि—
रामादयोऽवताराश् च कार्यार्थे सकला भुवि । भारावतारा भूम्याश् च महा-भार-विनाशनाः ॥१०४॥
तद् एव श्री-वासुदेवादयः पृथ्वी-भार-हरणाय । ब्रह्मादयः सृजन-पालन-संहरणाय, मत्स्यस् तु वेदोद्धरणाय, कूर्मस् तु मन्दर-धारणाय, वराहस् तु पृथिव्य्-उद्धाराय हिरण्याक्ष-वधाय च, नृसिंहस् तु हिरण्यकशिपु-वधाय, वामनस् तु बलि-च्छ्लनाय, परशुरामस् तु पृथ्वी-निःक्षत्री-करणाय, श्री-रामस् तु रावणादि-राक्षस-वधाय, बलरामस् तु प्रलम्बादि-महा-महा-दैत्य-वधाय, बुद्धस् तु भूत-दया-विस्तारणाय, कल्की च म्लेच्छ-संहरणाय । परेशत्वं कल्किनोऽपि विष्णु-धर्मे विलोक्यते । तथा व्यासस् तु वेद-धर्म-प्रकाशनाय । एवं श्री-भगवतोऽवतारा असङ्ख्याः प्रयोजनापेक्षकाः । तथ श्री-भगवद्-गीतोपनिषत्सु श्री-भगवान् उवाच—
यदा यदा हि धर्मस्य ग्लानिर् भवति भारत । अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्य् अहम् ॥१०५॥ [Gईता ४.७]
अतः सर्वेऽवताराः सनिमित्ताः । अथ एतेऽवताराः किं-स्वरूपाः ? तद् आह ब्रह्माण्ड-पुराणे—
एतस्यैवापरेऽनन्ता अवतारा मनोहराः । महाग्नेर् इह यद्वत् स्युर् उल्काः शत-सहस्रशः ॥१०६॥
तथैव—
वन्या-जलं प्रायम् अशेष-निस्तृतं विष्वक् क्षितिं व्याप्य विवर्धते भृशम् । यस्मात् समुद्भूतम् अहो ततः पुनः काले भूयः प्रविशेत् तथैवम् ॥१०७॥
श्री-सङ्क्षेप-भागवतामृते (१.५.३८३)—
अत एव पुराणादौ केचिन् नर-सख्यात्मताम् । महेन्द्रानुजतां केचित् केचित् क्षीराब्धि-शायिताम् ॥१०८॥ सहस्र-शीर्षतां केचित् केचिद् वैकुण्ठ-नाथताम् । ब्रूयुः कृष्णस्य मुनयस् तत्-तद्-वृत्तान्त-गामिनः ॥१०९॥
तथा नारद-पञ्चरात्रे—
तद्-आज्ञा-कारिणः सर्वे ब्रह्माण्डेश्वर-रूपिणः । लीला-सुख-मयात्मानस् तत्-प्रेम-रूप-भावनाः ॥११०॥
तथा—
नस्य् ओत-गाव इव यस्य वशे भवन्ति ब्रह्मादयस् तनु-भृतो मिथुर् अर्द्यमानाः । कालस्य ते प्रकृति-पूरुषयोः परस्य शं नस् तनोतु चरणः पुरुषोत्तमस्य ॥१११॥ [भा।पु। ११.६.१४]
तथा गोकुल-संहितायां श्री-भगवतो जिह्वा-मूलात् सरस्वत्य्-उद्भूय श्री-कृष्णं प्रति साकाङ्क्षं कटाक्षम् अकरोत् इति दृष्ट्वा श्री-भगवान् सरस्वतीं प्रति शशाप । भवति तरु-रूपा भव । अन्ते ब्रह्मा स्यात् समुद्भूय ब्रह्मणः पत्नीत्वम् आयास्यतीति शाप-द्वयं श्रुत्वा सरस्वती चुकोप । सरस्वत्य् अपि श्री-भगवन्तं श्री-कृष्णं प्रतिशप्तवती । सरस्वत्य् उवाच—हे भगवन् ! एकापराधे शाप-द्वयं दत्तं यथा, तथा अहम् अपि शपामि—भगवन् ! अङ्गजया सह रमिष्यसि इति । तद् अनु सापराधैव सरस्वती स्तुतिं चकार—
जगत् सर्वं त्वयि न्यस्तं न्यस्ताः प्रकृतयस् तथा । पुरुषाश् च तथा कृष्ण त्वयि सर्वं प्रतिष्ठितम् ॥११२॥ त्वय्य् एव विलयं यान्ति उत्पत्स्यन्ति रमन्ति च । दोष एष कृतोऽज्ञानात् क्षमस्व परमेश्वर । इत्य् उक्त्वा सा महा-देवी विरराम सरस्वती ॥११३॥
तथा ब्रह्म-संहितायां (५.५१)—
अग्निर् महि गगनम् अम्बु मरुद् दिशश् च कालस् तथात्म-मनसीति जगत्-त्रयाणि । यस्माद् भवन्ति विभवन्ति विशन्ति यं च गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥११४॥ इति ।
अथ श्री-कृष्णस्यावताराणां स्वरूपम् आह पद्म-पुराणे निर्वाण-खण्डे रहस्याध्याये श्री-भगवान् उवाच व्यासं प्रति—
यद् इदं मे त्वया पृष्टं रूपं दिव्यं सनातनम् । निष्कलं निष्क्रियं शान्तं सच्-चिद्-आनन्द-विग्रहम् ॥११५॥ पूर्णं पद्म-पलाशाक्षं नातः परतरं मम । सत्यं व्यापि परानन्दं चिद्-घनं शाश्वतं परम् । ममावतारो नित्योऽयम् अत्र मा संशयं कृथाः ॥११६॥
अतः सर्वोपरि-वैभवः सर्वेषाम् आधार-स्वरूपः श्री-कृष्ण-चन्द्रः सर्वेषाम् आत्म-स्वरूपः । अथैतस्य समं तन् माययाच्छन्नाः केचिद् अन्यं कुर्वन्तीति तत्राह—
यस्यैवाङ्घ्रि-कलांश-सम्भव-महाविष्णुस् त्व् अनेकस् ततस् तस्यैकस्य च रोम-कूप-जठरे ब्रह्माण्डकोऽनेकशः । तस्यैकाण्डक-मध्यतो भगवतोऽनेकावताराः स्थिताः श्री-कृष्णस्य च तस्य साम्यम् अकरोद् अन्यं त्व् अहोऽस्याज्ञता ॥११७॥
तच् च—
यथा कोटीश्वरो राजा तत्-तुल्यः किं शताधिपः । पलं पलार्धं कर्षं वा तुल्यं मूल्यं किम् इष्यते ॥११८॥ सुवर्णस्य च रत्नस्य वस्तु चैकं न चान्यथा । गङ्गायाः कुम्भ-संस्थाप्यं जलं गङ्गा-जलं स्मृतम् । गङ्गायां च विनिक्षिप्तं पुनर् गङ्गेव तद् यथा ॥११९॥
तद् एव सम्पूर्णानन्द-विग्रहः श्री-कृष्ण-चन्द्रः । तस्यांश-कलात्वेनान्ये निरूपिताः । इत्य् आदि सर्वं पूर्वम् उक्तं तस्मिंश् च ज्ञातव्यम् एव । इत्य् आदि श्री-भगवतोऽनन्त-महिम्नो गुण-प्रकाशादि यत् किञ्चित् पुराणदिषु दृष्टं तद् उक्तम् । सम्यग् ब्रह्मादयो वक्तुं न समर्थाः । यथा श्री-भागवते—
को वेत्ति भूमन् भगवन् परात्मन् योगेश्वरोतीर् भवतस् त्रिलोक्याम् । क्व वा कथं वा कति वा कदेति विस्तारयन् क्रीडसि योग-मायाम् ॥१२०॥ [भा।पु। १०.१४.२१] नारायणस् त्वं न हि सर्व-देहिनाम् आत्मास्य् अधीशाखिल-लोक-साक्षी । नारायणोऽङ्गं नर-भू-जलायनात् तच् चापि सत्यं न तवैव माया ॥१२१॥ [भा।पु। १०.१४.१४]
तथा—
यस्यैव योऽनुगुण-भुक् बहुधैक एव शुद्धोऽप्य् अशुद्ध इव मूर्ति-विभाग-भेदैः । ज्ञानान्वितः सकल-सत्त्व-विभूति-कर्ता तस्मै नतोऽस्मि पुरुषाय सदाव्ययाय ॥१२२॥
तथा—
आस्थाय योगं निपुणं समाहितस् तं नाध्यगच्छं यत आत्म-सम्भवः । नतो ऽस्म्य् अहं तच्-चरणं समीयुषां भवच्-छिदं स्वस्त्य्-अयनं सुमङ्गलम् ॥१२३॥ [भा।पु। २.६.३४-५]
इत्य् एवं—
श्री-कृष्णः परमः पुमांश् च परमानन्द-स्वरूपो विभू राधा-प्रेम-समन्वितो रसमयः श्यामो जगन्-मोहनः । एवं तद्-गुण-वर्णनं मरकतं रत्नं किरीटं कुरु क्षिप्रं राघव-कृन्-निवेदनम् इदं श्रुत्वान्य-चित्तं त्यज ॥
इति श्री-कृष्ण-भक्ति-रत्न-प्रकाशे
श्रीमन्-नन्द-किशोर-स्वरूप-कृष्ण-चन्द्र-प्रकाश-निरूपणं नाम
पञ्चमं रत्नम्
॥५॥
–ओ)०(ओ–