चतुर्थः प्रकाशः तद् अत्र नित्यो निरन्तर-स्व-प्रकाशो नित्य-विभवः परिपूर्णा नन्द-मयः समस्त-कालातीत इत्य् आदि ।
अथ प्रवक्ष्ये सर्वेशं श्री-कृष्णं नन्द-नन्दनम् । परमानन्द-सन्दोहं वृन्दावन-विनोदनम् ॥१॥
अथ परिपूर्णानन्दो नित्य-प्रकाशः श्री-कृष्ण-चन्द्रो यदीरितस् तद् एव ज्ञातम् । श्रीमन्-नन्द-नन्दनः क एष इति सन्देहः । यथा आदि-यामले—
कृष्णोऽन्यो यदु-सम्भूतो यः पूर्णः सोऽस्त्य् अतः परः । वृन्दावनं परित्यज्य स क्वचिन्न् एव गच्छति ॥२॥ सर्वदा द्विभुजः सोऽपि न कदाचिच् चतुर्भुजः ॥३॥
इत्य् एवं यदु-वंश-सम्भूतः कृष्णः क इत्य् उच्यताम् । तस्मिन् भागवता वदन्ति यः पूर्वः प्रसिद्धः श्री-कृष्ण-चन्द्रः स एव नन्द-नन्दन इत्य् असन्देहः । यथा ब्रह्माह—
वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः । जनिष्यते तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः ॥४॥ [भा।पु। १०.१.२३]
तथा रासे—
नॄणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप । अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः ॥५॥ [भा।पु। १०.२९.१४]
तथा—
अनुग्रहाय भक्तानां मानुषं देहम् आश्रितः । भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेत् ॥६॥ [भा।पु। १०.३३.३६]
अतो यः पूर्णः पूर्णतमः स एव नन्द-किशोर इत्य् असन्देहः । यथा श्री-भागवते [भा।पु। १.३.२८]—
एते चांश-कलाः पुंसः कृष्णस् तु भगवान् स्वयम् ॥७॥
तथा ब्रह्म-संहितायाम्—
कृष्णः स्वयं समभवन् परमः पुमान् यो गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥८॥
तथा ब्रह्म-वैवर्ते द्वितीयाध्याये नारदं प्रति ब्रह्मोवाच—
शृणु पुत्र प्रवक्ष्यामि चरितं परमाद्भुतम् । योगेश्वरस्य कृष्णस्य भक्तानुग्रह-कारिणः ॥९॥ सतां निःश्रेयसार्थाय दुष्टानां निग्रहाय च । व्यक्तिर् भगवतस् तस्य नित्यस्य परमात्मनः ॥१०॥ वसुदेवस्य भार्यायां देवक्यां स जनिष्यति ॥११॥ इति ।
अथैतत् श्रुत्वा वादिनो वदन्ति—अहो महद् आश्चर्यम्, य एव नित्य-वृन्दावनस्थः स्व-प्रकाशो नित्यानन्दो नित्य-पूर्णो निरीहस् तस्य जन्म इति किम् ? तत्र भागवता वदन्ति – स्व-प्रकाशस्य जन्मावतारासम्भव इति यद् उक्त, तत् सत्यम् । स्व-प्रकाशत्वात् । यथानन्द-यशोदां च प्रति मद्-उद्धव-वाक्यम् [भा।पु। १०.४६.३८-४०]
न माता न पिता तस्य न भार्या न सुतादयः । नात्मीयो न परश् चापि न देहो जन्म एव च ॥१२॥ न चास्य कर्म वा लोके सद्-असन्-मिश्र-योनिषु । क्रीडार्थं सो ऽपि साधूनां परित्राणाय कल्पते ॥१३॥ सत्त्वं रजस् तम इति भजते निर्गुणो गुणान् । क्रीडन्न् अतीतो ऽपि गुणैः सृजत्य् अवति हन्त्य् अजः ॥१४॥
अथावतार-कारणम् उच्यते । यथा बृहद्-वामन-पुराणे वृन्दावन-रजो-माहात्म्ये तद् एव श्रुति-प्रार्थितम् अवधार्य तासां स्तुति-वशो भूत्वा सदयस् ताभ्यः सन्दर्शनं ददौ, तत् श्रुतय ऊचुः—
कन्दर्प-कोटि-लावण्ये त्वयि दृष्टे मनांसि नः । कामिनी-भावम् आसाद्य स्मर-क्षुब्धान्य् असंशयः ॥१५॥ यथा त्वल्-लोक-वासिन्यः काम-तत्त्वेन गोपिकाः । भजन्ति रमणं मत्वा चिकीर्षाजनिनस् तथा ॥१६॥ श्री-भगवान् उवाच— दुर्लभो दुर्घटश् चैव युष्माकं सुमनोरथः । मयानुमोदितः सम्यक् सत्यो भवितुम् अर्हति ॥१७॥ आगामिनि विरिञ्चौ तु याते सृष्ट्य्-अर्थम् उद्यते । कल्पं सारस्वतं प्राप्य व्रजो गोप्यो भविष्यथ ॥१८॥ पृथिव्यां भारते क्षेत्रे माथुरे मम मण्डले । वृन्दावने भविष्यामि प्रेयान् वो रास-मण्डले ॥१९॥ जार-धर्मेण सुस्नेहं सुदृढं सर्वतो ऽधिकम् । मयि सम्प्राप्य सर्वे ऽपि कृत-कृत्या भविष्यथ ॥२०॥
एवं श्रुतो नामभिमत-सिद्ध्य्-अर्थं वृन्दावने स्व-प्रकाशस् तद् अत्र प्रमाणम् अधिगम्यताम् [भा।पु। १०.३२.१३] –
तद्-दर्शनाह्लाद-विधूत-हृद्-रुजो मनोरथान्तं श्रुतयो यथा ययुः । इति ।
तद् एव श्रुतयो गोप्यो भूत्वा श्री-कृष्ण-चन्द्रं प्रापुः । तत्र गोप्यो यथा अङ्ग-जा नित्याः श्रुति-रूपा देव-कन्या इति । पञ्चधा अतः स एव श्री-कृष्ण-चन्द्रः स्व-प्रकाशः, न तु गर्भ-वासः । तत्र वादिनो वदन्ति यदि गर्भ-सम्भवो नैव, तदा कथम्—
वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः । जनिष्यते तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रियः ॥२१॥ इति । [भा।पु। १०.१.२३] वसुदेवस्य भार्यायां देवक्यां स जनिष्यति ॥ इति ब्रह्म-वैवर्ते पाठः ।
अतः सन्देहः । तद् अत्र श्रूयताम् – स्वायम्भुव-मनौ पृष्णि-सुतपा दम्पतीभ्यां तपसा श्री-भगवान् आराधितः । पुत्रत्वे वरो याचितः । श्री-भगवता चैवं स्वीकृतः । ततस् तद्-वर-सिद्धये स्वांश-विष्णो रूपं दर्शितम् । यथा–तम् अद्भुतं बालकम् अम्बुजेक्षणं; चतुर्-भुजं शङ्ख-गदाद्य्-उदायुधम् इत्य् आदि । तथा पितरौ एवं रूपं दर्शयित्वा श्री-भगवान् उवाच—
एतद् वां दर्शितं रूपं प्राग्-जन्म-स्मरणाय मे । नान्यथा मद्-भवं ज्ञानं मर्त्य-लिङ्गेन जायते ॥२२॥ [भा।पु। १०.३.४४]
इति तद् एव स्वांश-विष्णो रूपं दर्शितम्, न तु स्वरूपम् एवेति ज्ञातव्यम् । यथा सर्वदा द्विभुजः सोऽपि न कदाचिच् चतुर्भुजः इति यामल-प्रमाणम् । तथैव [भा।पु। १०.९०.४८] जयति जननिवासो देवकी-जन्म-वादः इति जन्म-वाद-मात्रम्, न तु श्री-भगवतो जन्म इत्य् एव ज्ञातव्यम् ॥
अथ केचिद् वादिनो वदन्ति । विष्णु-पुराणे [VइP ५.१.५९-६०] ब्रह्मणा प्रार्थितः श्री-भगवान् क्षीरोदशायी विष्णुर् ब्रह्मणे स्व-केशौ दत्तवान्, तौ राम-कृष्णौ बभुवतुर् इति —
एवं संस्तूयमानस् तु भगवान् परमेश्वरः । उज्जहारात्मनः केशौ सित-कृष्णौ महा-मुनेः ॥२३॥ उवाच च सुरान् एतौ मत्-केशौ वस्तुधा-तले । अवतीर्य भुवो भारं क्लेश-हानिं करिष्यतः ॥२४॥
इत्य् अत्रापि सन्देहः । तत्र कार्ष्णा वदन्ति एतद् एव सामान्य-वचनम् । विशेषोऽत्र श्रूयताम्। एवं श्री-कृष्णं प्रति नोक्तम् । यतः स एव सर्व-बीज-स्वरूपः स्व-प्रकाशः, तस्यांशाः सर्वे, स कस्यांशः ? अत एतन् नैवम् । तद्-अंशो विष्णु-बलभद्रौ भविष्यत इत्य् उक्तौ यथा मत्-केशौ भुवो भार-क्लेश-हानिं करिष्यतः । एतेनैतद् व्यक्तीकृतम्—यथा स्थिति-कारको विष्णुर् असुरादीन् हत्वा पृथिवी-भार-हरणं कृतवान् । श्री-कृष्ण-चन्द्रस्य नैष प्रभावः । यथा—न तस्य कश्चिद् दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा [भा।पु। १०.३८.२२] इत्य् आदि । यतः स एव कृष्ण-चन्द्रो निर्गुणः प्रकृतेः परः । केवल-परमानन्द-स्वरूपः । तत्र मत्-केशौ द्वि-वचनाद् विष्णुर् बलभद्रश् च । बलरामो यथा—रामेति लोक-रमणाद् बलभद्रं बलोच्छ्रयाद् बलः [भा।पु। १०.२.१३] इति नाशक-स्वभावात् तमो-गुणः । यथा गोविन्द-वृन्दावने (२.७), भगवन्तं प्रति बलराम उवाच—
अहं तमो-गुण-मयश् चोदितस् तव मायया । न जाने तव तत्त्वं हि कीदृशं च जगत्-प्रभो ॥
अतएव बलोच्छ्रयत्वाद् अनन्तांशः । बलभद्रस् तु दुष्ट-निग्रहार्थम् अवतीर्णः । अतो द्वौ केशौ दत्तौ । किन्तु कृष्ण-चन्द्रः स्व-प्रकाशः परम-पुरुषः, यथा ब्रह्मोवाच—वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः [भा।पु। १०.१.२३] इत्य् आदि । वसुदेव-गृहे इत्य् औपचारत्वात् पुरा प्रोक्तम् । तत्र भगवता क्षीरोदशायिना शिरोरुह-व्याजेनेति सूचितम् । पृथिव्यां परम-पुरुषो मम शिरोमणि-स्वरूपो दिव्य-वृन्दावनेश्वरः श्री-कृष्णः स्व-प्रकाशो भविष्यतीति । तद्-अंशौ विष्णु-बलरामौ जातौ । यथोक्तं—अवतीर्णौ हि भगवान् अंशेन जगदीश्वरः [भा।पु। १०.३३.२६] इति । किन्तु, स भगवान् एक एव, यथा गोविन्द-वृन्दावने—स्वयं ज्योतिः स्वयं कर्ता स्वयं हर्ता स्वयं प्रभुः । अतोऽंशेन कथम् अवतीर्णोऽपि कार्यार्थेन । यथा संस्थापनाय धर्मस्य प्रशमायेतरस्य च इति । अतो विष्णु-बलराम-स्वरूपांशेनेति । अथांशेनैक-वचनम् । द्वौ कथम् उक्तौ ? तद् एवम् अंशे प्रोक्ते—एको द्वौ बहवः इति मन्तव्यम् । अंश-जाति-स्वभावत्वात् । तथा श्री-कृष्ण-यामले—एवं चतुः-षष्ठि-भागैर् अवताराः परात्मनः इति ।
केनचिद् उक्तं—यदि जन्म औपचारत्वात् । तदा कथं बाल्यादि-लीला प्रकटिता ? तद् एव भक्तानुरोधेन, यथा देवकी-वसुदेव-नन्द-यशोदादीनाम् अनुग्रहाय वात्सल्य-प्रेमामृत-पानार्थम् । परं च सम्मोहन-तन्त्रे—
मुनिः शुचिश्रवा नाम सुरर्चा नाम चापरः । कुशध्वजस्य ब्रह्मर्षेः पुत्रौ तौ वेद-पारगौ ॥२६॥ ऊर्ध्व-पादौ तपो घोरं चेरतुस् त्र्य्-अक्षरं मनुम् । ओं हंस इति कृत्वैवं जपन्तौ यत-मानसौ ॥२७॥ ध्यायन्तौ गोकुले कृष्णं बालकं दशमासिकम् । कन्दर्प-सम-रूपेण तारुण्य-तरुणेन च ॥२८॥ पश्यन्तीर् व्रज-बिम्बौष्ठीर् मोहनतम् अनारतम् । तौ कल्पान्ते तनुं त्यक्त्वा लब्धवन्तौ जनिं व्रजे ॥२९॥ सुधीर-नाम्नो गोपस्य सुते परम-शोभने । ययोर् हस्ते च दृश्येते शारिका-शुक-वादिनी ॥३०॥ इति ।
एवं भक्त-भावानुरोधेन बाल्य-रूपं दर्शितम् । यमलार्जुनयोर् मोक्षणार्थं स्व-सेवक-नारद-वचन-प्रतिपालनाय । यथा—
ऋषेर् भागवत-मुख्यस्य सत्यं कर्तुं वचो हरिः । जगाम शनकैस् तत्र यत्रास्तां यमलार्जुनौ ॥ देवर्षिर् मे प्रियतमो यद् इमौ धनदात्मजौ । तत् तथा साधयिष्यामि यद् गीतं तन् महात्मना ॥ [भा।पु। १०.१०.२४-५] इति ।
अथ सेवकानुरोधेन बाल्य-कौमार-पौगण्डादि-वयसा परिक्रीडमानः । अन्यच् च नन्द-यशोदयोर् वात्सल्य-भाव-पूरणार्थम् । यथा—अहो भाग्यवती देवी यशोदा नन्द-गेहिनी इत्य् आदि कारणेन बाल्यं । नन्दस् तु सर्वेषां व्रज-वासिनां नायकः श्रेष्ठश् च । तस्य प्रिय-तनयो भूत्वा गोरक्षनादिकं कृतम् । किं तस्य किङ्करा न सन्ति ? तदा कथम् एवं कृतम् ? तद् एव भजते तादृशीः क्रीडा याः श्रुत्वा तत्-परो भवेद् [भा।पु। १०.३३.३६] इति । एतत् कारणम् इति मन्तव्यम् ।
अथ केनचिद् उक्तम्—अये ! यदि श्री-भगवान् कृष्ण-चन्द्रः स्व-प्रकाशः सर्वात्मा निरीहः—न तस्य कश्चिद् दयितः सुहृत्तमो न चाप्रियो द्वेष्य उपेक्ष्य एव वा [भा।पु। १०.३८.२२] इत्य् आदि, तदा कथं पूतना-शकट-तृणावर्ताघ-बकादीन् जघान ? किम् एतत् ? अथैतत् कारणं मत्तः श्रूयताम् । भगवान् कृष्ण-चन्द्रः सर्वत्र सम-दर्शनः । निरीहः परम-रस-मयः, केषाञ्चिद् वधाय सङ्गत इति नैव । यथा श्री-शुक उवाच—
कामं क्रोधं भयं स्नेहम् ऐक्यं सौहृदम् एव च । नित्यं हरौ विदधतो यान्ति तन्-मयतां हि ते ॥ [भा।पु। १०.२९.१५]
आगत्य येन एतादृग्-भावेन श्री-कृष्ण-चन्द्रः स्पृष्टस् तम् एवात्म-सात्करोतीति । न तु केषाञ्चित् मारणाय समुद्यतः स एव ।
असुर-वधाय सुसज्जः स एव तद्-अंशो विष्णुः पृथिवी-पालनाय ? प्रत्युत्तरम्—अहो ! एतत् सत्यम् । किन्तु त्वरितम् आगत्य विषोदे कालीय-फणि-दमनं कृतं कथम् इति ? तत्राह—स्वांशो विष्णुस् तस्य सेवकः गरुडः । कालीयस् तु निरन्तरं गरुडस्य भयाद् गरुड-मयं समस्तं ददर्श, ततो गरुडो वैष्णवः । तद् एव—
श्रीमत्-पङ्कज-तार्क्ष्य-फाल्गुन-शुक-प्रह्लाद-भीष्मोद्धव- व्यासाक्रूर-पराशर-ध्रुव-मुखान् वन्दे मुकुन्द-प्रियान् । यैस् तीर्थैर् इव पावितं त्रिभुवनं रत्नैर् इवालङ्कृतं सद्-वैद्यैर् इव रक्षितं सुख-करैश् चन्द्रैर् इवाप्यायितम् ॥ इति ।
अतो गरुडो विष्णु-रथो वैष्णवः । वैष्णवो विष्णुर् यथा—वैष्णवाल् लभते भक्तिं भक्त्या मां लभते नरः । तस्माद् वै वैष्णवो विष्णुः इत्य् आदि । विष्णुर् अपि श्री-कृष्णस्य स्वांशः । तन्-मयत्वात् कालीयायानुग्रहः कृतः । तेनाभयं ददौ सः । न तं निहतवान् इति । अतएव बाल्य-लीलया यत् कृतं तत् परोपकाराय । यथा—नृणां निःश्रेयसार्थाय व्यक्तिर् भगवतो नृप [भा।पु। १०.२९.१४] इत्य् आदि । परं तु भक्त-प्रेम-वशो भूत्वा तद्-अनुरोधेन च, यथा—
न चान्तर् न बहिर् यस्य न पूर्वं नापि चापरम् । पूर्वापरं बहिश् चान्तर् जगतो यो जगच् च यः ॥ तं मत्वात्मजम् अव्यक्तं मर्त्य-लिङ्गम् अधोक्षजम् । गोपिकोलूखले दाम्ना बबन्ध प्राकृतं यथा ॥ [भा।पु। १०.९.१४]
एवं भक्त-भक्ति-वशेन बन्धनम् अपि स्वीकृतम् । तद् एव श्री-भगवान् उवाच—
नित्य-मुक्तोऽपि बद्धोऽहं भक्तस्य स्नेह-रज्जुभिः । अजितोऽपि जितोऽहं तैर् अवश्योऽपि वशीकृतः ॥
अतएव च बाल्य-लीलया यद् यत् कृतं तत् सर्वं मायया विहितम् । श्री-भगवता बाल्य-रूपं यत् प्रकटितम् । तत् सर्वं मायिकम् । न स्वभावेन । यतः श्री-कृष्ण-चन्द्रस्य कैशोर-वयः स्वभावः । कैशोर-वयो विना यद् यद् रूपं तद् एव मायिकम् इति वेदादि-सर्व-शास्त्र-सम्मतम् । केचिद् बाल्य-रूपं स्वभावं मत्वा तद् एव प्रशंसन्ति—बाल्य-रूपं प्रशंसन्ति श्री-कृष्णस्य क्वचित् क्वचित् इति । तद् एव सम्मोहन-तन्त्रे—
सन्ति तस्य महाभागा अवताराः सहस्रशः । तेषां मध्येऽवताराणां बालत्वम् अतिदुर्लभम् ॥३८॥
तद् अत्र शास्त्रान्तरे कैशोर-स्वभावः—
बाल्यं मायामयं रूपं सर्व-शास्त्रे प्रतिष्ठितम् । तस्माद् वृन्दावनान्तःस्थं कैशोरं च सुदुर्लभम् ॥३९॥
तथा रुद्र-यामले—कुच-कलस-पिबन्तं मायिनं कृष्णम् ईडे ।
तथैव वत्स-हरणे—
अम्भोजन्म-जनिस् तद्-अन्तर-गतो मायार्भकस्येशितुर् द्रष्टुं मञ्जु महित्वम् अन्यद् अपि तद्-वत्सान् इतो वत्सपान् । नीत्वान्यत्र कुरूद्वहान्तरदधात् खे ऽवस्थितो यः पुरा दृष्ट्वाघासुर-मोक्षणं प्रभवतः प्राप्तः परं विस्मयम् ॥ [भा।पु। १०.१३.१५]
अतो बाल्य-वयो माया-मयम् । सर्वोपरि कैशोर-वयः स्वभावः । तथा—
कृष्ण-चन्द्र-विहारस्य स्थानं बहुतरं स्मृतम् । तत्रैव गोकुलं वृन्दावनं परम-दुर्लभम् ॥४१॥ सर्वेषाम् उपरि-स्थानं वृन्दावनम् इतीरितम् । यत्र कैशोर-रूपेण स्व-प्रकाशः स्वयं हरिः ॥४२॥ गोकुले बाल्य-भावस् तु वृन्दारण्ये किशोरकः । नाना-रूप-धरोऽन्यत्र सर्व-शास्त्र-मतं यथा ॥४३॥ सर्वस्माद् गोकुलं श्रेष्ठं तस्माद् वृन्दावनं वरम् । वृन्दावनात् परं स्थानं न कृष्णस्य प्रियं क्वचित् ॥४४॥ वृन्दावने च कैशोर-रूपः स्वाभाविकः स्मृतः । गो-गोप-गोपी-वंशीभिर् यत्र क्रीडति सर्वदा ॥४५॥
तथा वराह-संहितायां (२.२०)—
वृन्दावन-विहारेषु कृष्णः कैशोर-विग्रहः । अन्यारण्येषु स्थानेषु बाल्य-पौगण्ड-यौवनम् ॥४६॥
तथा सम्मोहन-तन्त्रे—
देहेषु यौवनं रम्यं कैशोरं तत्र दुर्लभम् । किशोरं यत्नतः कृष्णं ध्यायेद् आनन्द-विग्रहम् ॥४७॥
तथा वराह-संहितायां (२.३४) श्री-कृष्ण-स्वरूप-निरूपणे—
व्रजेन्द्र-नियतैश्वर्यो व्रज-प्राणैक-वल्लभः । यौवनोद्भिन्न-कैशोर-वयः स्वाकृति-विग्रहः ॥४८॥
यथा पद्यावल्यां (८२)—
श्यामम् एव परं रूपं पुरी मधु-पुरी वरा । वयः कैशोरकं ध्येयम् आद्य एव परो रसः ॥४९॥
तथा बृहद्-वामन-पुराणे परोक्षे श्री-भगवन्तं संस्तुत्य श्रुत्य ऊचुः—
आनन्द-मात्रम् इति यद् वदन्तीह पुरा-विदः । तद्-रूपं दर्शयास्माकं यदि देयो वरो हि नः ॥५०॥
ततः श्रुत्य्-अभिमतम् अवधार्य स्वरूपं दर्शयति—
नाना-रास-रसोन्मत्तो यत्र गोपी-कदम्बकम् ।
तत्-कदम्बक-मध्यस्थः किशोराकृतिर् अच्युतः ॥५१॥
दर्शयित्वेति च प्राह ब्रूत किं करवाणि वः । दृष्टो मदीयो लोकोऽयं यतो नास्ति परं पदम् ॥५२॥
ततो वराह-संहितायां (२.१५४-५) श्री-कृष्ण-स्वरूप-निरूपणे—
सर्व-देवस्य मन्त्राणां विष्णु-मन्त्रस् तु जीवनम् । श्री-विष्णोः सर्व-मन्त्राणां कृष्ण-मन्त्रस् तु कारणम् ॥५३॥ सर्वेषां कृष्ण-मन्त्राणां कैशोरम् अतिहैतुकम् । कैशोरं सर्व-मन्त्राणां हेतुश् चूरामणिर् मनुः ॥५४॥
अतो वृन्दावनं नित्यम् । श्री-कृष्णः कैशोर-विग्रहो नित्य इति ज्ञापनीयम् । अथैतत् सर्वं नित्यम् इत्य् असन्देहः । कैशोर-विग्रहो नित्यम् इति किम् अभिप्राय इति तद् आह—श्री-कृष्ण-चन्द्रः परिपूर्णानन्द-रस-मयो लीलया रूपवान् स-प्रकृतिर् इति आदि-रस-विस्तारणाय, यथा नारद-पञ्चरात्रे—तयातिरसया रेमे प्रियया चैक-रूपया इति । आदि-रसः प्रधानम् एव । आदि-रसोपभोगे बाल्य-वयो न सम्भाव्यम् । यौवने तु रसाधिक-क्षण-प्रमाणेन रसस्य न्यूनत्वम् । अतः कैशोर-वय इति पूर्णम् उज्ज्वल-रसे प्रशस्तम् । यतः क्षणे क्षणे रसस्य वर्धिष्णुता भवति । अत आदि-रसे कैशोर-वयः पूर्ण-रस-मयं वर्दमानम् इति ज्ञातव्यम्॥
अथ केनचिद् उक्तम्—अहो ! यदि वृन्दावने नित्य-किशोर-वयाः श्री-कृष्णस् तदा कथम् अन्यत्र मथुरादिषु गतवान् स्थितिर् वैभवश् च प्रकटितः ? वृन्दावनं परित्यज्य स क्वचिन् नैव गच्छति इति यामल-प्रमाणम् । तद् अत्र सन्देहः । तत्र भागवता वन्दन्ति—अहो ! वृन्दावने कैशोर-वयसा श्री-कृष्णो नित्यम् अस्तीति सत्यम् । नात्र सन्देहः । तद् इति—
वृन्दावनाद् यदि गतो भगवान् मुकुन्दो गुञ्जा-प्रवाल-शिखि-शिखण्ड-किशोर-नीपाः । वंशी-वर-व्रज-वधू-जन-धेनु-सङ्घा एषां न कोऽप्य् अनुगतो वद कोऽत्र हेतुः ॥५५॥
अतएव श्री।-राधा-कान्तोऽंशेनान्यत्र गतवान्, स्वरूपेण वृन्दावनेऽवस्थितः । अथ केचिद् वदन्ति—अथैतैर् वेश-भूषाभिर् न गतवान्, तेन किं स एव गतवान् ? यथा सम्मोहन-तन्त्रे—ध्यानस्य संस्थितिर् नास्ति हरेर् इच्छानुरूपतः ।
तत्र प्रत्युत्तरम्—तद् एव वृन्दावनान्तर् विनान्यत्र बोद्धव्यम् । वृन्दावनेऽप्य् एतैर् वेश-भूषादिभिस् तिष्ठन्न् इत्य् असन्देहः । किन्तु ये यद्-रूपं श्री-कृष्णं ध्यायन्ति । तेषु तद्-रूपं दर्शयति, यथा भगवद्-गीतासूपनिषत्सु श्री-भगवान् उवाच—ये यथा मां प्रपद्यन्ते तांस् तथैव भजाम्य् अहम् [Gईता ४.११] इति । तत्र स्व-प्रकाशो वंशी मयूर-पुच्छ-गुञ्जा-पीतांशुकादिभिर् भूषित एव यैर् यैर् वृन्दावन-चन्द्र आराध्य दृष्टः । तैस् तैर् एतैर् वेश-भूषादिभिर् एव । यथा नारद-पञ्चरात्रे विजयं प्रति दुर्गोवाच—
कोटि-चन्द्र-मुखं कोटि-मन्मथाद्भुत-विग्रहम् । कोटि-सूर्य-प्रतीकाशं श्यामं परम-सुन्दरम् ॥५६॥ वृन्दावन-महा-हेम-मणि-मन्दिर-मध्य-गम् । वंशी-विनोदिनं गोप-सुन्दरी-प्राण-नायकम् ॥५७॥ नाना-रस-सुधोद्गार-प्रेम-रङ्ग-तरङ्गिणम् । गूढ-मर्म-रसानन्द-महाम्भोधि-महा-विधुम् ॥५८॥ राधिका-हृदयाकूत-रस-लाम्पट्य-विभ्रमम् । सुधा-तरङ्गिणी-लीला-लोहिताम्बुज-लोचनम् ॥५९॥ द्विभुजं कौस्तुभानन्दि-वन-माला-विभूषितम् । पीताम्बर-महा-रत्न-हाराभरण-भूषितम् ॥६०॥ रत्न-कुण्डल-भादीप्यन् नासाग्र-मणि-मौक्तिकम् । बिम्ब-माणिक्य-बन्धूक-सुन्दर-द्विज-सुन्दरम् ॥६१॥ चतुः-सम-महा-गन्ध-मोहितानेक-मानसम् । बर्हापीड-महा-कान्त-रस-प्रेम-मुखाम्बुजम् ॥६२॥ कन्दर्प-लोक-कन्दर्पं रमणी-प्रेम-वल्लभम् । किङ्किणी-स्वन-मञ्जीर-मणि-लिप्त-पदाम्बुजम् ॥६३॥ भावयेद् आत्म-भावेन परमात्मानम् अच्युतम् । कृष्ण-मन्त्र-जपेनैव कृष्ण-प्रेम लभेन् नरः ॥६४॥ इति ।
अथ ब्रह्म-वैवर्ते पूर्व-जन्मनि नन्द-यशोदयोस् तपो-वशो भूत्वा श्री-भगवान् आविर्बभूव । तदा भगवन्तं वसुर् ददर्श, यथा—
ततो वसुर् हृष्ट-मना दृष्ट्वा तं पीत-वाससम् । महा-मरकत-श्यामं शिखण्डाबद्ध-कुन्तलम् ॥६५॥ किशोरं हार-मञ्जीर-वलयाङ्गद-भूषणम् । जित-चन्द्र-मुखं देवं सुन्दरं सुभ्रु-नासिकम् ॥६६॥ बिम्बाधर-पुट-द्वन्द्व-शोभि-दन्तावलि-द्वयम् । स्मितावलोकितं धीरं द्विभुजं सर्व-सुन्दरम् ॥६७॥ निपत्य दण्डवद् भूमौ स ननाम जनार्दनम् । हृष्यत्-तनु-रुहो भक्त्या कृष्णं प्रति वदिष्यति ॥६८॥ इति ।
तथा ब्रह्म-संहितायाम् (५.३०)—
वेणुं क्वणन्तम् अरविन्द-दलायताक्षम्- बर्हावतंसम् असिताम्बुद-सुन्दराङ्गम् । कन्दर्प-कोटि-कमनीय-विशेष-शोभं गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥६९॥
तथा गोविन्द-वृन्दावने बलरामं प्रति श्री-कृष्ण उवाच—
शब्द-ब्रह्म-मयी वंशी वदनो रस-सागरः । वनमाली पीतवासः सुकुञ्चित-शिरोरुहः ॥७०॥ बर्हिबर्ह-कृतोत्तंसः पारिजातावतंसकः । प्रेमानन्दमयः शुद्धः सर्वदा नव-यौवनः । एवं रूपः सदैवाहं तिष्ठाम्य् अत्रैव सर्वथा ॥७१॥
अत्र केनचिद् उक्तम्—एवं-रूपेण वृन्दावने नित्यं तिष्ठतीति तदा कथं मथुरां गत इति सर्वैर् दृश्यते । अनन्तरं वृन्दावने कथं दृग्-गोचरो नैवेति सन्देहः । अहो एतत्-कारणं मत्तः श्रूयताम् । आविर्भाव-तिरोभावाव् ईश्वरस्य बोधव्यौ । तद् एव भक्ताभक्त-रूपेण । यथा ब्रह्माण्ड-पुराणे—
अनादेयम् अहेयं च रूपं भगवतो हरेः । आविर्भाव-तिरोभावाव् अयोक्ते ग्रह-मोचने ॥७२॥
तथा गोविन्द-वृन्दावने तृतीय-पटले नारद-प्रश्ने श्री-कृष्ण उवाच—
इदं वृन्दावनं रम्यं मम धामैव केवलम् । अत्र मे पशवः पक्षि-मृगाः कीटा नरामराः ॥७३॥ अत्र देवाश् च भूतानि वर्तन्ते सूक्ष्म-रूपतः । सर्व-देव-मयश् चाहं न त्यजामि वनं क्वचित् ॥७४॥ आविर्भावस् तिरोभावो भवेन् मेऽत्र युगे युगे । तेजो-मयम् इदं रम्यम् अदृश्यं चर्म-चक्षुषा । ब्रह्मादीनां सुराणां च न भवेद् दृष्टि-गोचरः ॥७५॥ इति ।
अथ यदि केषाञ्चिद् दृग्-गोचरो नैव, तदा कथम् उदार-लीलया समस्त-लोक-गोचरो भूत्वा गोप-गोपीभिर् नाना-क्रीडा-रसो विस्तारितः ? अथ तद् एव श्रूयताम्—ग्राम्य-लोकेन सह यत् कृतं तत् स्व-माययाच्छादितो भूत्वा, किन्तु वृन्दावने रास-क्रीडादि यत् कृतं, तद्-अङ्गजा नित्या श्रुति-मुनिजा-देवकन्यादि-गोप्यस् तासां गोचरो भूत्वा रास-क्रीडादिकं कृतवान् । स्व-मायया स्व-प्रकाशः स्वयम् एव नान्येषां गोचरः कथम् अभूत् । तदैव सङ्गजा राधा अङ्गवन् नित्या नित्यं सन्ति ईश्वरवत् । श्रुतिर् वेदास् त एव भगवद्-अङ्गम् एव । एक-सप्तति-सहस्र-मुनीनां शत-कल्पावधि अग्नि-शाय्याग्निभुक्-कठोर-तपसा वशो भूत्वा तेषाम् अभिमत-सिद्ध्य्-अर्थं तान् एवात्म-सात्-कृतवान् । देव-कन्या ब्रह्माज्ञया गोप्यो बभूवुः । एतासां नित्य-गोचरः श्री-कृष्ण-चन्द्रो नित्य-वृन्दावन-स्थ इत्य् असन्देहः । तत्र प्रमाणम् अधिगम्यताम्—यद् एव भगवान् श्री-कृष्ण-चन्द्रो मथुरागमन-समये गोपीः प्रत्यवदत् तद् एव—
तास् तथा तप्यतीर् वीक्ष्य स्व-प्रस्थाने यदूत्तमः । सान्त्वयाम् आस स-प्रेमैर् आयास्य इति दौत्यकैः ॥७६॥ [भा।पु। १०.३९.३५]
तथा ब्रह्म-वैवर्ते—
माधिं कुरुध्वं सुभगां समेष्ये तूर्णं विलम्बो न ममेति कृष्णः । इत्थं समाश्वास्य जनं समुत्सुकं चचाल तूर्णं सह गोप-वृन्दैः ॥७७॥
इत्य् एवं स्व-निगमः आयास्यामीति । तद् एव कथं व्यक्तं नाभूत् । तद् आह श्री-भगवान् कुत्र वा गच्छति ? कुत्र वा आगच्छति ? यथादि-यामले—वृन्दावनं परित्यज्य स क्वचिन् नैव गच्छति इति । आयाय्सामीत्य् उक्तम् औपचारिकत्वात्, वास्तवं नैव । दौत्यकैर् इति वचनाद् एतद् व्यक्तीकृतम् । इत्य् एवं नित्य-वृन्दावन-स्थः श्री-राधा-कान्तोऽंशेन श्री-विष्णु-स्वरूप-वासुदेवेनैव गतवान् स्यात् । यदि वृन्दावन-त्यागो भवेत् तदा पुनर् आगमनं च न भविष्यत्य् एवेत्य् आदि ज्ञातव्यम् ॥
अथ केचिद् वादिनो वदन्ति—एतासां चेन् नित्य-गोचरः श्री-कृष्ण-चन्द्रस् तदा कथं उद्धवं प्रस्थाप्य गोपीनां विरह-निवारणं कृतवान् इति । यथा—
गच्छोद्धव व्रजं सौम्य पित्रोर् नौ प्रीतिम् आवह । गोपीनां मद्-वियोगाधिं मत्-सन्देशैर् विमोचय ॥७८॥ [भा।पु। १०.४६.३]
अथाङ्गजा-नित्या-श्रुति-मुनि-रूपाः प्रति नैवम् । देव-कन्या प्रति ज्ञातव्यम् । कथम् एवम् ? ता एव ब्रह्माज्ञया देव-कन्या भुवि समागत्य गोप्यो भूत्वा भगवत्-प्रीतिं चक्रुः । न तु प्रेम-भक्त्या तपसा वा आराधितः प्रभुर् नैवं ब्रह्माज्ञयापि, यथा–
वसुदेव-गृहे साक्षाद् भगवान् पुरुषः परः । जनिष्यते तत्-प्रियार्थं सम्भवन्त्व् अमर-स्त्रियः ॥७९॥ [भा।पु। १०.१.२३] इति ।
अतएव देव-कन्याः प्रत्य् एवम् । यथा देव-कन्याभिर् ज्ञातः श्री-कृष्ण-चन्द्रो मथुरां गत एव । अन्यासां भगवतो विच्छेदोऽस्ति नैवम् । यथादि-यामले—
प्रोक्तेयं विरहावस्था स्पष्ट-लीलानुसारतः । कृष्णेन विप्रयोगः स्यान् न जातु व्रज-वासिनाम् ॥८०॥ [Bर्स् ३.३.१२८]
तथा स्कान्दे मथुरा-खण्डे –
वत्सैर् वत्सतरीभिश् च सदा क्रीडति माधवः । वृन्दावनान्तर-गतः स-रामो बालकैर् वृतः ॥८१॥
तथा ब्रह्माण्डे—
कैर् अपि प्रेम-वैराग्य-भाग्भिर् भागवतोत्तमैः । अद्यापि दृश्यते कृष्णः क्रीडन् वृन्दावनान्तरे ॥८२॥
तथैव ब्रह्म-वैवर्ते नारदं प्रति ब्रह्माह—
नित्यं क्रीडति विश्वात्मा गोपैर् गोपीभिर् एव च । पीतवासा जगत्-स्वामी वनमाली स्मितेक्षणा ॥ इत्य् आदि ।
अतएव नित्य-वृन्दावन-स्थः श्री-कृष्ण-चन्द्र इति ज्ञातव्यम् । कल्प-कोटि-महा-तपसा प्रेम-भक्त्या महा-साधनेन भक्त-दृग्-गोचरो भवति । अन्यथा क एव द्रष्टुं समर्थाः ? नित्यं वृन्दावने स्व-प्रकाश इति ज्ञातव्यम् । यथा हस्तामलके (१०)—घन-च्छन्न-दृष्टिर् घन-च्छन्नम् अर्कं यथा निष्प्रभं मन्यते चातिमूढः इत्य् आदि । तथैवं निरन्तरं वृन्दावने स्व-प्रकाशः साधन-व्यतिरेकेण श्री-भगवन्तं राधा-कान्तं द्रष्टुं कथं योग्यः । एवम् अज्ञात्वा मूढैः कथ्यते—श्री-भगवतः श्री-कृष्ण-चन्द्रस्य वृन्दावन-त्याग इत्य् आदि ।
वृन्दारण्ये निरवधि भगवान् कृष्ण आत्म-स्वरूपो गो-गोपीभिर् विलसति परमानन्द-पूर्ण-प्रकाशः । एवं ब्रह्मादिभिर् अपि निगमैः स्तूयते तत्-परत्वं माणिक्यं तत् कुरु हृदाभरणं राघवेणेहितं यत् ॥८४॥
इति श्री-श्री-कृष्ण-भक्ति-रत्न-प्रकाशे
श्री-कृष्णस्य वृन्दावनान्तर्-नित्य-प्रकाश-निरूपणं नाम
चतुर्थं रत्नम्
॥४॥
–ओ)०(ओ–