तृतीयः प्रकाशः
पूर्णं सर्व-परं वक्ष्ये कृष्णम् आनन्द-विग्रहम् ।
नित्य-वृन्दावनासीनं राधिका-प्राण-वल्लभम् ॥१॥
अथ भगवद्-भावका वदन्ति – अहो यच् छ्री-कृष्णस्य गुणनुवादं श्रोतुं प्रश्नं कृतवन्तो भवन्तः । तद् एव सर्वोपरि नित्यानन्द-मय-परमात्म-स्वरूप-श्री-कृष्ण-चन्द्रस्य लीला-विग्रहस्य रूप-गुण-प्रकाशं नाना-शास्त्रानुसारेणाहं विवृणोमि । तद् एव सावधानं श्रूयताम् । सम्यग् ब्रह्मादिभिर् न ज्ञायते यत् । यथा ब्रह्म-संहितायाम्—
ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः । अनादिर् आदिर् गोविन्दः सर्व-कारण-कारणम् ॥२॥ पन्थास् तु कोटि-शत-वत्सर-सम्प्रगम्यो वायोर् अथापि मनसो मुनि-पुङ्गवानाम् । सो ऽप्य् अस्ति यत्-प्रपद-सीम्न्य् अविचिन्त्य-तत्त्वे गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥३॥ कृष्णो यः कथ्यते वेदैः पूर्णः सर्वेश्वरः पुमान् । स एव निखिलाधारो निर्गुणः प्रकृतेः परः ॥४॥
निर्गुणो यथा विष्णु-पुराणे—
सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः । स शुद्धः सर्व-शुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥५॥ [VइP १.९.४४] इति ।
तथा पाद्मे—
योऽसौ निर्गुण इत्य् उक्तः शास्त्रेषु जगद्-ईश्वरः । प्राकृतैर् हेय-संयुक्तैर् गुणैर् हीनत्वम् उच्यते ॥६॥ इति ।
अतः प्राकृत-गुणैर् वर्जितो लीलया स-गुणः । श्रि भागवते रासे अव्ययस्याप्रमेयस्य निर्गुणस्य गुणात्मनः [भा।पु। १०.२९.१४] इत्य् आदि । अथ—
अथापि ते देव पदाम्बुज-द्वय- प्रसाद-लेशानुगृहीत एव हि ।
जानाति तत्त्वं भगवन् महिम्नो
न चान्य एकोऽपि चिरं विचिन्वन् ॥७॥ [भा।पु। १०.१४.२९]
विष्णु-पुराने भगवान् यथा [VइP ६.५.७९]—
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः । भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥८॥ इति ।
अथ यत्र भौतिक-देहस् तत्र माया, यत्र माया तत्र गुणाः, यत्र गुणास् तत्र प्रलयो ध्रुव एव । एवं भौतिक-देह-देह-देहि-भेदो वर्तते । अतः स एव नश्वरः । ईश्वरस्य श्री-वृन्दवन-चन्द्रस्य न बहुतिको देहः । यथा सम्मोहन-तन्त्रे सनक उवाच—
तद् आनन्द-मयी राधा तद् आनन्द-मयो हरिः । न भौतिको देह-बन्धस् तयोर् आनन्द-स्वरूपयोः ॥९॥
तथैवेश्वरस्य देह-देहि-भेदो नास्ति, यथा कौर्मे—
देह-देहि-विभेदस् तु नेश्वरे विद्यते क्वचित् । अतो लीला-मयो देहः कृष्णस्य परमात्मनः ॥१०॥
तथा आदि-यामले—
सर्वेषां नश्वरो देहो देह-देहि-विभेदतः । सर्वात्मकानन्द-मये प्रलयः किम् उ जायते ॥११॥
तथा—
सृष्टिं स्थितिं च प्रलयं यः करोति स ईश्वरः । तस्मिन् सर्वाणि लीयन्ते स कुत्र परिलीयते ॥१२॥
अथ श्री-कृष्ण-चन्द्रस्य देहो नित्यो न भौतिकः । तस्मिन् देह-देहि-भेदो नास्ति, तत् किम् इति तद् अत्र श्रूयताम्—
उदयते बहिर् योऽसौ स्थूल-सूक्ष्म-परः पुमान् । लीलया स-तनुर् भाति नित्यानन्दः सनातनः ॥१३॥
अहो यद्य् एवं तदा कथं प्रकृति-सङ्गः ? न तु तद् एव द्वयोर् एकत्वाद् एक एव, यथा श्री-कृष्ण-यामले ऊन-विंशाधिक-शततम्-पटले स्त्री-रूपम् आश्रित्य श्री-भगवता वासुदेवेन दिव्य-वृन्दावने राधया श्री-कृष्णो दृष्टोऽभेदेन—
अन्योन्याश्लेषिताङ्गौ तौ राधा-कृष्णौ ददर्श सा । राधां स्फुरद्-रसां कृष्ण-सर्वाङ्ग-स्वाङ्ग-गोपिताम् ॥१४॥ चुम्बन्तीं कृष्ण-चन्द्रस्याधर-दिव्य-सुधाश्रयाम् । कृष्णो राधाङ्ग-रागेण कुङ्कुमी-कृत-विग्रहः ॥१५॥ इत्य् आदि ।
तद् इति विष्णु-धर्मोत्तरे—
सच्-चिद्-आनन्द-सान्द्रत्वाद् द्वयोर् एवाविशेषतः । औपचारिक एवात्र भेदोऽयं देहयोर् द्वयोः ॥१६॥
एवं राधाङ्गजाङ्गवतः । तदा कथं द्विधा-रूपः ? तथा नारद-पञ्चरात्रे—
स्वयं हि बहवो भूत्वा रमणार्थं महा-रसः । तयातिरसया रेमे प्रियया चैक-रूपया ॥१७॥
प्रियया राधया सह । तथा गोविन्द-वृन्दावने अर्धाङ्गात् राधा-समुत्पन्ना इत्य् अग्रे वक्ष्यामि । तत्र व्यक्तीभविष्यति ।
अथ कैश्चिद् उक्तम् – यदि स्व-प्रकाशो लीला-रस-मयः परमात्म-स्वरूपस् तस्मिन् कथं श्याम-वर्णत्वं सर्वत्र प्रसिद्धम् ? यथा श्रुतौ—रूपं न वेद्यं न च बिन्दु-नादः इत्य् आदि । तद् आह—
श्यामाभत्वं विधत्ते यत् सर्व-वर्णोऽत्र लीयते । नित्यं च प्रभवत्य् एव कालोऽस्मिन् नैव विद्यते ॥१८॥
अथ कैश्चिद् उक्तम् – नित्यत्वं कथम् उक्तम् ? महा-प्रलयेऽपि सर्वं नश्यत्य् एव, यथा न केऽपि स्थातारः सुर-गिरि प्रभृतयः इति वेदान्त-प्रमाणम् । तत् प्रत्युत्तरम् आह—
भूर्-लोकाद् ऊर्ध्वतः स्थानं लक्ष-योजन-मानतः । सूर्यस्यैव सुधांशोश् च तद् ऊर्ध्वं लक्ष-योजनम् ॥१९॥
तद् वशात् काल-नियमो न तत्र चकासति । यत्र दिव्य-वृन्दावनम् । तत्र चन्द्र-सूर्ययोः प्रकाशो नास्ति । यत्र कालो नास्ति तत्र कथं प्रलयः ? यतः काल-नियमात् प्रलयः । यथा गोलोक-संहितायाम्—
पाद-गम्यं तु यत् किञ्चित् स भूर्लोक इति स्मृतः । आसूर्यं तु भुवर्-लोक आध्रुवं स्वर्ग उच्यते ॥२०॥ महर्-लोकः क्षितेर् अर्धम् एक-कोटिस् तु मानतः । कोटि-द्वयेन विख्यातो जनो लोकस् तु योजने ॥२१॥ चतुष्कोटि-प्रमाणस् तु तपो लोकस् तु भूतलात् । उपरिष्टात् ततः सत्यं कोटिर् अष्टौ प्रमाणतः ॥२२॥ सत्याद् उपरि वैकुण्ठः कोटिर् अष्टौ प्रमाणतः । तस्योपरिष्टात् कौमार उमा-लोकस् ततः परः ॥२३॥ शिव-लोकस् तद्-उपरि गोलोकस् तद्-उपरि स्मृतः । ज्योतिर्मयं तत्र ब्रह्म तत्र वृन्दावनं महत् ॥२४॥ तत्रैव राधिका देवी सर्व-शक्ति-नमस्कृता । तत्रैव भगवान् कृष्णः सर्व-देव-शिरोमणिः ॥२५॥
तत्र श्री-भगवान्, यथा [VइP ६.५.७८]—
आयतिं नियतिं चैव भूतानाम् अगतिं गतिम् । वेत्ति विद्याम् अविद्यां च स वाच्यो भगवान् इति ॥२६॥
अतएव भगवतः कथं प्रलयः ? तच् च श्री-भगवद्-अङ्ग-ज्योतिषा सर्वम् उद्दीपितम् । तस्मिन् कथं कालः ? अतएव भगवतः कथं प्रलयः ? तच् च श्री-भगवद्-अङ्ग-ज्योतिषा सर्वम् उद्दीपितम् । तस्मिन् कथं कालः ? अथ वादिनो वदन्ति यदि चन्द्र-सूर्य-गति-वशान् न काल-नियमोऽभूत् । तत् किं निमेषादिभिः कालो मन्तव्यः ? तेन प्रलय-महा-प्रलयादिर् विधातव्यः । यथा निमेषादिर् अयं कालस् तद् एव अमर-कोषः—
अष्टादश-निमेषास् तु काष्ठास् त्रिंशत् तु ताः कलाः । तास् तु त्रिंशत् क्षणस् ते तु मुहूर्तो द्वादश-स्त्रियाम् ॥२७॥ इति ।
तत्र विहस्य भागवता वदन्ति—उदीरितार्थोऽपि भवद्भिर् न ज्ञायते तद् एव यत्र च न भौतिको देहः । तत्र कथं निमेषो वर्तते ? निमेषादिर् इति वायोः स्वभावः । अतएव भौतिके देहो निमेषादिः । यथा पृथिव्य्-आपस् तथा तेजो वायुर् आकाश एव च इति । वायुर् यथा गोरक्ष-संहितायां योग-वशिष्ठे च—
प्राणोऽपानः समानश् च उदानो व्यान एव च । नागः कूर्मोऽथ कृकारो देवदत्तो धनञ्जयः ॥२८॥
तत्र कूर्म-वायोर् निमेषोन्मेषादि-गुणः । तथा तत्रैव नागो गृह्णाति चैतन्यं कूर्मश् चैव निमीलति वाशिष्ठे—निमीलनादि कूर्मस्य क्षुत् तृष्णा कृकरस्य च इत्य् एवं श्री-कृष्ण-चन्द्रे कालो नास्तीति । यथा गोविन्द-वृन्दावने बलरामं प्रति श्री-भगवान् उवाच—
प्रेमानन्द-मयः शुद्धः सर्वदा नव-यौवनः । कालः काल-स्वरूपोऽहं कालात्मा काल-गोचरः ॥२९॥ समस्त-काल-रहितः सर्व-कारण-कारणम् । चित्-स्वरूपो ज्ञान-रूपोऽद्वितीयः सम-दृक् परः ॥३०॥
एवं रूपः सदैवाहं तिष्ठाम्य् अत्रैव सर्वदा । अत एव कृष्ण-चन्द्रो नित्य-महा-रस-मयः समस्त-काल-रहित इति ज्ञातव्यम् । तिष्ठाम्य् अत्रैव इति वृन्दावने इत्य् उक्तम् ।
अथ यथा श्री-भगवान् तथा वृन्दावनम् एव, यथा पद्म-पुराणे निर्वाण-खण्डे रहस्याध्याये श्री-भगवान् उवाच—
नित्यां मे मथुरां विद्धि वनं वृन्दावनं तथा । ममावतारो नित्योऽयम् अत्र मा संशयं कृथाः ॥३१॥ [Pअद्मP ५.७३.२६]
तद् अत्र वृन्दावनं, यथा—
वृन्दावनं च द्विविधं नित्यं दिव्यम् इतीरितम् । नित्यं भुवि तथा दिव्यं सर्वोपरि विराजते ॥३२॥
तद् एव नित्य-वृन्दावनं यथा श्री-कृष्ण-यामले त्रयोदशाधिक-शततम-पटले—
नित्या वेदैः प्रगीयन्ते सिद्धिदाः सिद्धि-काङ्क्षिभिः । नित्य-वृन्दावनं स्थानं पूर्णाति-पूर्णम् उच्यते ॥३३॥ लीलाः पूर्णातिपूर्णाश् च तुरीयास् तत्र कीर्तिताः ॥३४॥
दिव्य-वृन्दावनं, यथा—
येन विलासयत्य् एव श्री-कृष्णं दिव्य-नायकम् । दिव्यं च यद् यथा देव्या राधया अङ्ग-सौभगम् ॥३५॥ क्रीडनीयं परेशस्य दिव्यं तेनैव कथ्यते । तुरीयादि-त्रयं स्थानं दिव्य-वृन्दावनं वयम् ॥३६॥ पूर्णातिपूर्ण-पूर्णं यत् स्वरूपं राधिका-पतेः । यस्यांशांश-प्रणिहिता लीलास् तेषु प्रतिष्ठिताः ॥३७॥ दिव्य-वृन्दावने कृष्णः श्री-राधा-वल्लभस् तथा । गोपी-जन-वल्लभस् तु नित्य-वृन्दावने सदा ॥३८॥
वृन्दावनम् इति श्री-भगवद्-अङ्ग-विशेषः । अतः तद् एव कालादि-रहितम् । अथ यत्र श्री-कृष्ण-चन्द्रस् तद्-अङ्ग-ज्योतिषा वृन्दावनादि-समस्तं प्रदीप्तम् । यथा गोलोक-संहितायां बलभद्रं प्रति श्री-भगवान् आह—
एकोऽनेक-स्वरूपोऽहं सर्व-शक्ति-मयः पुमान् । मद्-देहान् निर्गतं ज्योतिः सर्व-भूत-मयं परम् ॥३९॥
तथैव गोविन्द-वृन्दावने बलराम-प्रश्ने—
अन्यत् तु सूर्य-चन्द्रादि-प्रकाश-सदृशं तव । तनु-पाद-नखाज् ज्योतिः किम् इदं तद् वदस्व मे ॥४०॥ श्री-भगवान् उवाच— ज्योतिर् ब्रह्म-मयं तेजो मच्-छरीराद् विनिर्गतम् । ममानेन न भेदोऽस्ति ब्रह्म-ज्योतिर् अहं-परम् ॥४१॥ पृथिव्य्-आपो-वह्नि-रूपैर् वायु-रूपैस् तथैव च । आकाश-रूपैः सदा पश्य जल-भाण्डे यथा रविः ॥४२॥ दुर्लभं दुर्लभं ज्योतिर् दुर्दशं सर्वगं शुचि । सुखदं मोक्षदं मह्यं पादाङ्गुष्ठाद् विनिर्गतम् । एतद् ध्यात्वा योगिनोऽपि यान्ति निर्वाणम् उत्तमम् ॥४३॥
तथा अथर्वोपनिषदि गोपाल-तापनीये ब्रह्माणं प्रति श्री-भगवान् उवाच—
चित्-स्वरूपं परं ज्योतिः स्वरूपं रूप-वर्जितं । हृदा मां संस्मरन् ब्रह्मन् तत्-पदं याति निश्चितम् ॥४४॥ [ङ्तु २.४२]
अथ वराह-संहितायां श्री-वराह उवाच—
तच्-छ्याम-देह-किरणैः परानन्द-रसामृतैः । तद्-अंश-कोटि-कोट्य्-अंशा जीवास् तत्-किरणात्मकाः ॥४५॥
एवं श्री-कृष्ण-चन्द्र-तनु-पाद-नख-ज्योतिषाम् उज्ज्वलं वृन्दावनादि-समस्त-स्थलम् इति मन्तव्यम् । तत्र कालादि-प्रवेशो नैव, यत्र श्री-कृष्ण-चन्द्रः स्व-प्रकाशो नित्य-किशोरः समस्त-कालादि-रहितः । तथा हि, गोविन्द-वृन्दावने श्री-कृष्णं प्रति बलराम उवाच—
राधा-कान्त जगन्नाथ श्रीमद्-गोकुल-नागर । श्यामसुन्दर गोपीश गोकुलानन्द-चन्द्रमः ॥४६॥ वृन्दावन-सुखानन्द पीतवासः प्रिय प्रभो । पादाम्बुज नख-ज्योतिर् आप्त-लोक-त्रय प्रभो ॥४७॥ शब्द-ब्रह्म-मयी वंशी-प्रिय पद्म-दलेक्षण । प्रेम-भक्ति-पुष्प-मयी-वन-माला प्रियोत्तम ॥४८॥ गोविन्द गो-गणार्तिघ्न गोपते गो-गणार्चित । यत् त्वया कथितं तत्त्वम् आत्मनस् तु समासतः ॥४९॥ किं-स्वरूपोऽसि भगवन् किम्-ईहः किं-स्वरूपकः । विस्तरेण पुनस् तस्मै श्रोतुम् इच्छामि तद्वत् ॥५०॥ श्री-भगवान् उवाच— अहम् आत्मा परं ब्रह्म सच्-चिद्-आनन्द-विग्रहः । शब्द-ब्रह्म-मयः साक्षात् स्वयं प्रकृतिर् ईश्वरः ॥५१॥ आद्य्-अन्त-रहितः स्थूलातीतः परात्परः । स्वयं ज्योतिः स्वयं कर्ता स्वयं हर्ता स्वयं प्रभुः ॥५२॥ कटाक्ष-मात्र-ब्रह्माण्ड-कोटि-सृष्टि-विनाश-कृत् । सदाशिव-महाविष्णु-रुद्र-ब्रह्मादि-कारकः ॥५३॥ नराकृति-नित्य-रूपी वंशी-वाद्य-प्रियः सदा । इन्द्रनील-मणि-श्यामस् त्रिभङ्गी मधुराकृतिः ॥५४॥ पूर्णेन्दु-कोटि-सदृशो नाना-लावण्य-वारिधिः । पुण्डरीक-दलाकार-नयनः प्रेम-सागरः । जित-काम-धनुर्-दिव्य-भ्रू-लता-ललितोत्सवः ॥५५॥ त्रिभङ्ग-ललित-श्रीमत्-तीर्यग्-ग्रीवातिसुन्दरः । शब्द-ब्रह्म-मयी-वंशी-वादनोत्सव-सागरः ॥५६॥ वन-माली पीतवासाः सुकुञ्चित-शिरोरुहः । बर्हि-बर्ह-कृतोत्तंसः पारिजातावतंसकः ॥५७॥ प्रेमानन्द-मयः शुद्धः सर्वदा नव-यौवनः । कालः काल-स्वरूपोऽहं कालात्मा काल-गोचरः ॥५८॥ समस्त-काल-रहितः सर्व-कारण-कारणम् । चित्-स्वरूपो ज्ञान-रूपोऽद्वितीयः सम-दृक्-परः । एवं रूपः सदैवाहं तिष्ठाम्य् अत्रैव सर्वदा ॥५९॥
तथा ब्रह्म-संहितायाम्—
अद्वैतम् अच्युतम् अनादिम् अनन्त-रूपम् आद्यं पुराण-पुरुषं नव-यौवनं च । वेदेषु दुर्लभम् अदुर्लभम् आत्म-भक्तौ गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥६०॥ इति ।
अथ सर्वेश्वरत्वम् । श्री-भगवन्-निरूपणं, यथा ब्रह्म-संहितायाम् श्री-भगवन्तम् आलोक्य ब्रह्मा आष्टादशाक्षर-मन्त्रं प्राप । तद् अनु श्री-भगवन्तं स्तौति । यथा श्री-भगवतः समुद्भूय ब्रह्मा सर्वत्र्न्धकारं दृष्ट्वा भगवन्तःम् स्तौति । ततो ब्रह्माणं प्रति अष्टादशाक्षरम् अदात् ।
अथ तेपे स सुचिरं प्रीणन् गोविन्दम् अव्ययम् । श्वेतद्वीप-पतिं कृष्णं गोलोक-स्थं परात् परम् ॥६१॥ प्रकृत्या गुण-रूपिण्या रूपिण्या पर्युपासितम् । सहस्र-दल-सम्पन्ने कोटि-किञ्जल्क-बृंहिते ॥६२॥ भूमिश् चिन्तामणिस् तत्र कर्णिकारे महासने । समासीनं चिद्-आनन्दं ज्योति-रूपं सनातनम् ॥६३॥ शब्द-ब्रह्म-मयं वेणुं वादयन्तं मुखाम्बुजे । विलासिनी-गण-वृतं स्वैः स्वैर् अंशैर् अभिष्टुतम् ॥६४॥ अथ वेणु-निनादस्य त्रयी-मूर्ति-मयी गतिः । स्फुरन्ती प्रविवेशाशु मुखाब्जानि स्वयम्भुवः ॥६५॥ गायत्रीं गायतस् तस्माद् अधिगत्य सरोजजः । संस्कृतश् चादि-गुनुणा द्विजताम् अगमत् ततः ॥६६॥ त्रय्या प्रबुद्धो ऽथ विधिर् वीज्ञात-तत्त्व-सागरः । तुष्टाव वेद-सारेण स्तोत्रेणानेन केशवम् ॥६७॥
चिन्तामणि-प्रकर-सद्मसु इत्य् आदि । तथा नारद-पञ्चरात्रे नारदानन्त-संवादे भक्ति-रहस्ये—
चिद्-आनन्द-स्वरूपं च निगुणं प्रकृतेः परम् । सुधा-तोयं लता-कल्प-लता-चिन्तामणि-स्थली ॥६८॥ ब्रह्म-ज्योतिः प्रिया लक्ष्मीर् अस्त्रं वेणुः पुमान् हरिः ॥६९॥ कथा गानं गतिर् नाट्यं परिखा क्षीर-सागरः । तल्-लोक-वासिनां देवं वृन्दावन-पुरन्दरम् ॥७०॥ दिव्यातिदिव्यं श्री-देहं काल-मायाद्य्-अगोचरम् । द्विभुज मेघ-श्यामाङ्गं किशोरं वनमालिनम् ॥७१॥ दिव्याभरण-भूषाङ्ग-गोप-कन्या-समावृतम् । दयितं प्रेम-भक्तानाम् अद्वैतं ब्रह्म-वादिनाम् ॥७२॥ मीन-कूर्मादयो यस्य अंशांशाः सर्व-देवताः । यस्य स्मरण-मात्रेण नरो नारी भवत्य् अपि ॥७३॥ पौराणिका यजन्त्य् एवं वैतानैर् ब्रह्म-वादिनः । भक्ति-तन्त्र-विधानेन त्रिकाण्डेनैव साधवः ॥७४॥
तथा सम्मोहन-तन्त्रे द्वितीय-पटले नारदं प्रति सनक उवाच—
ध्यायेत् कृष्णं च सुश्यामं पूर्णानन्द-कलेवरम् । कोटि-सूर्य-प्रभं चैव योगिनाम् अपि दुर्लभम् ॥७५॥ सर्व-सौन्दर्य-निलयं राधालिङ्गित-विग्रहम् । पूर्णानन्द-स्वरूपं तं न तु भूतमयं हि तत् ॥७६॥ यादृशी वेश-भूषा च मनसः प्रीति-दायिनी । तादृशी च हरेर् ज्ञेया भक्तानुग्राहको हरिः ॥७७॥ इति ।
अथ श्रुतिभिर् अवलोकितो यथा बृहद्-वामन-पुराणे वृन्दावन-माहात्म्ये श्री-कृष्णं प्रति श्रुतय ऊचुः, यथा—
प्राकृते प्रलये प्राप्तेऽव्यक्ते व्यक्तिं गते पुरा । श्लिष्टे ब्रह्मणि चिन्-मात्रे काल-मायातिगेऽक्षरे ॥ ब्रह्मानन्द-मयो लोको व्यापी वैकुण्ठ-सञ्ज्ञकः ॥७८॥ निर्गुणोऽनाद्य्-अनन्तश् च वरते केवलेऽक्षरे । अक्षरं परमं ब्रह्म-वेदानां स्थानम् उत्तमम् ॥७९॥ तल्-लोक-वासि-तत्र-स्थैः स्तुतो वेदैः परात्परः । चिरं स्तुत्वा ततस् तुष्टः परोक्षः प्राह तान् गिरा ॥८०॥ श्रुतीः प्रति श्री-भगवान् उवाच— तुष्टोऽस्मि ब्रूत भोः प्राज्ञा वरं यन् मनसीप्सितम् ॥८१॥ श्रुतय ऊचुः— नारायणादि-रूपाणि ज्ञातान्य् अस्माभिर् अच्युत । स-गुणं ब्रह्म सर्वेदं वस्तु बुद्धिर् न तेषु नः ॥८२॥ ब्रह्मेति प्रोच्यतेऽस्माभिर् यद्-रूपं निर्गुणं परम् । वाङ्-मनो-गोचरातीतं ततो न ज्ञायते हि तत् ॥८३॥ आनन्द-मात्रम् इति यद् वदन्तीह पुराविदः । तद्-रूपं दर्शयास्माकं यदि देयो वरो हि नः ॥८४॥ श्रुत्वैतद् दर्शयामास स्वं लोकं प्रकृतेः परम् । केवलानुभवानन्द-मात्रम् अक्षरम् अव्ययम् ॥८५॥ यत्र वृन्दावनं नाम वनं काम-दुघैर् द्रुमैः । मनोरम-निकुञ्जाढ्यं सर्वर्तु-सुख-संयुतम् ॥८६॥ यत्र गोवर्धनो नाम सुनिर्झर-दरी-युतः । रत्न-धातु-मयः श्रीमान् सुपक्षि-गण-सङ्कुलः ॥८७॥ यत्र निर्झर-पानीया कालिन्दी सरितां वरा । रत्न-बद्धोभय-तटा हंस-पद्मादि-सङ्कुला ॥८८॥ नाना-रास-रसोन्मत्तं यत्र गोपी-कदम्बकम् । तत्-कदम्बक-मध्यस्थः किशोराकृतिर् अच्युतः ॥८९॥ दर्शयित्वेति यः प्राह ब्रूत किं करवाणि वः । दृष्टो मदीय-लोकोऽयं यतो नास्ति परं वरम् ॥९०॥
अतः कृष्ण-चन्द्रोपरि कोऽपि नास्ति । सर्वोपरि श्री-कृष्ण-चन्द्रो यथा श्री-कृष्ण-यामले पञ्चाशीतितम-पटले श्री-भगवन्तं वासुदेवं प्रति श्री-रुक्मिण्य् उवाच—
त्वद्-ऋते नास्ति यत् किञ्चिज् जगत् स्थावर-जङ्गमम् । सर्वेषाम् आत्म-भूतोऽसि परमात्मेति शब्द्यते ॥९१॥ स त्वं किं ध्यायसि श्रीमान् कामिनां सर्व-कामदः । किं वा जपसि तत्त्वेन एतत् त्वं वक्तुम् अर्हसि ॥९२॥ निशम्य वाचं कमलेक्षणाया यद् उत्तमो यत् प्रैय्-कृत् प्रियायाः । ताम् अङ्कम् आरोप्य सुखं च सादरं मुहुर् मुहुः प्राहुर् मुदा मुदान्तहृत् ॥९३॥ श्री-भगवान् वासुदेव उवाच— सारात् सारतरं कान्ते यन् मां पृच्छसि साम्प्रतम् । रहस्यानां रहस्यं तु तथापि वर्णयामि ते ॥९४॥ त्वं मे प्राणेश्वरी कान्ता यतः परम-शोभना । अतो वक्तव्यम् एतत् स्यात् त्वयि नास्त्य् अपि मे रहः ॥९५॥ प्रेमारामं ललित-वपुषं यत् कर्लाक्रान्तम् एतत् यं वेदाद्यैर् विहित-मुनयो नारदाद्या मुनीन्द्राः । प्राहुः सत्यं परम-पुरुषं राधिका-प्राण-रूपम् तं गोपीनां नयन-कुमुद-प्रेक्षणीयेन्दुम् ईहे ॥९६॥ तस्माद् उदित प्रोः (?) यस्य विश्वाद्यम् आद्यम् । यद् भागादः सकल-जगतां कारणं धीमहि स्म ॥९७॥ ज्योतिर् यस्य प्रथम-वपुषो विश्व-मूर्तिर् विराजं ब्रह्माण्डानां निचय-रचना रोम-कूपेषु यस्य । आवृतास् ते रुचिभिर् अमल-प्रज्ञया दुर्विगाह्या सा राधा यं प्रणय-विषयं सेवते तं स्मरामि ॥९८॥ ब्रह्मण्डानां प्रणय-रचना कुक्कुटकीव मूर्ध्नि यत् शं कालावयव-रहितं दिव्य-वृन्दावनाख्यम् । स्थानं संस्थावरण-ललितं यत् तुरीयात् परं तत् प्रेमानन्द-प्रथिमम् अनिशं धीमहि ध्यान-हर्षात् ॥९९॥ वंशी यस्य प्रिय-सहचरी चिद्-रसज्ञा सदैषा कृष्णस्यार्थे यद् उदभवना नाद उच्चैः स्वरो यत् । शब्दा वर्णा श्रुतय उदिता बोधयन्ती स्म विश्वं विश्वानन्दं तम् अहम् अनिशं प्रेम-धाम प्रपद्ये ॥१००॥ यस्य क्रीडा-कलित-वपुषः स्थान-संस्थान-संस्था ध्यानाशक्त्यावयव-सहिता नान्यद् इच्छा-मयेषु । आत्मानन्द-प्रथित-जगतां नाककं नान्तम् ईशं तं गोपीनां नयन-कुमुद-प्रेक्षणीयेन्दुम् ईहे ॥१०१॥
इत्य् एवं राधा प्रेमानन्द-मयं परिपूर्ण-प्रेम-स्वरूपं श्री-कृष्ण-चन्द्रम् अहं चिन्तये ॥
परं यथा पद्म-पुराणे निर्वाण-खण्डे नारदं प्रति सनत्कुमारेण यत् कथितं तद् व्यासोऽम्बरीषं राजानं प्रत्य् आह—
अतिगोप्यं त्वया पृष्टं यन् मया न शुकं प्रति । गदितं स्व-सुतं किन्तु त्वाम् वक्ष्यामि हरि-प्रियम् ॥१०२॥ मया कृतं तपः पूर्वं बहु-वर्ष-सहस्रकम् । फल-मूल-पलाशाम्बु-वाय्व्-आहार-निषेविणा ॥१०३॥ ततो माम् आह भगवान् स्वाध्याय-निरतं हरिः । कस्मिन्न् अर्थे चिकीर्षा ते विवित्सा वा महा-मते ॥१०४॥ प्रसन्नोऽस्मि वृणु मुने वरं त्वं वरदर्षभात् । मद्-दर्शनान्तः संसार इति सत्यं ब्रवीमि ते ॥१०५॥ अतो ऽहम् अब्रुवं कृष्णं पुलकोत्फुल्ल-विग्रहः । त्वाम् अहं द्रष्टुम् इच्छामि चक्षुर्भ्यां मधुसूदन ॥१०६॥ यत् तत् सत्यं परं ब्रह्म जगज्-योनिं जगद्-गतिम् । वदन्ति वेदशिरसश् चाक्षुषं नाथ मेऽस्तु तत् ॥१०७॥ श्री-भगवान् उवाच— माम् एके प्रकृतिं प्राहुः पुरुषं च तथेश्वरम् । धर्मम् एके वरं चैके मोक्षम् एकेऽकुतोभयम् ॥१०८॥ शून्यम् एके भावम् एके परमाणुम् अथापरे । दैवम् एके देवम् एके ग्रहम् एके मनः परे । बुद्धिम् एके कालम् एके शिवम् एके सदा-शिवम् ॥१०९॥ अपरे वेदशिरसि स्थितम् एकं सनातनम् । यद्-भाव-विक्रिया-हीनं सच्-चिद्-आनन्द-विग्रहम् ॥११०॥ कोऽपि वेद पुमान् लोके मद्-अनुग्रह-भाजनम् । पश्य त्वं दर्शयिष्यामि स्वरूपं वेद-गोपितम् ॥१११॥ वेद-व्यास उवाच— ततोऽपश्यम् अहं भूप ततः कालाम्बुद-प्रभम् । गोप-कन्यावृतं गोपं हसन्तं गोप-बालकैः ॥११२॥ कदम्ब-मूलम् आसीनं पीत-वाससम् अद्भुतम् । वनं वृन्दावनं नाम नव-पल्लव-मण्डितम् । कोकिल-भ्रमरारावं मनोभव-मनोहरम् ॥११३॥
बालम् इति यथा—
कौमारं पञ्चमाब्दान्तं पौगण्डं दशमावधि । कैशोरम् आपञ्चदश यौवनं तु ततः परम् । बाल्यं यौवनं वार्धक्यम् इति वयोऽवस्था-त्रयम् ॥११४॥
अथ कैशोरावधि बाल्यम् । एवं बालेऽप्य् उक्ते किशोर-वयः-पदेन कैशोर-वयः सूचितम् इति । तथा बाल्ये गोप-कन्या वृतत्वेन उज्ज्वल-रस इत्य् अयोग्यत्वात्, तथा श्री-कृष्णयामले ऊनविंशाधिक-शत-पटले द्वारकानाथः श्री-वासुदेवोऽपि राधा-कृष्णं द्रष्टुं श्री-त्रिपुरा-सहायेन स-त्रिपुरो दिव्य-वृन्दावने राधा-कृष्णान्तिकं विवेश । श्री-कृष्णाज्ञाया राधा-कुण्डे स्नात्वा स्त्री-रूपो भूत्वा श्यामा इति नाम धृत्वा परिपूर्णं प्रेम-मयं राधा कृष्णं सा श्यामा ददर्श । तद् यथा—
मधु-प्रिया नाम सखी राधा-कृष्णाति-वल्लभा । सा श्यामां च करे धृत्वा राधायाः सम्मुखेऽनयत् ॥११५॥ सापश्यद् राधिकां कृष्ण-वक्षः-स्थल-समाश्रिताम् । अनौपम्य-रूप-लीला-प्रत्यङ्ग-रमसोज्ज्वलाम् ॥११६॥ अन्योन्य-श्लेषिताङ्गौ तौ राधा-कृष्णौ ददर्श सा । राधां स्फुरद्-रसां कृष्ण-सर्वाङ्ग-स्वाङ्ग-गोपिताम् ॥११७॥ चुम्बन्तीं कृष्ण-चन्द्रस्याधर-दिव्य-सुधाश्रयाम् । कृष्णो राधाङ्ग-रागेण कुङ्कुमी-कृत-विग्रहः ॥११८॥ उभयोर् अन्तरं तं च आस्वाद्यास्वादनै रसैः । अन्योन्य-भाव-सम्भारैर् अन्योन्याश्लिष्ट-चेतसोः ॥११९॥
इत्य् एवं नित्यानन्द-स्वरूपो नित्य-विग्रहः श्री-राधा-कृष्ण इति मन्तव्यम् । यथा वराह-संहितायां (२.७३-८०) पृथिवीं प्रति श्री-भगवान् वराह उवाच—
तद्-अंशु-कोटि-कोट्य्-अंशास् तस्य कन्दर्प-विग्रहाः । जगन्-मोहं प्रकुर्वन्ति तद्-अण्डान्तर-संहिताः ॥१२०॥ तत्-प्रकाशस्य कोट्य्-अंशारश्मयः सूर्य-विग्रहाः । तद्-देह-विलसत्-कान्ति-कोटि-कोट्य्-अंश-चन्द्रमाः । तच्-छ्याम-देह-किरणैः परानन्द-रसामृतैः ॥१२१॥ परात्म-नित्य-चिद्-रूपा निर्गुणस्यैक-कारणम् । तद्-अंशु-कोटि-कोट्य्-अंशा जीवास् तत्-किरणात्मकाः ॥१२२॥ तद्-अङ्घ्रि-पङ्कज-श्रीमन्-नख-चन्द्र-मणि-प्रभम् । तद्-अंशु-पूर्ण-ब्रह्मैव कारणं वेद दुर्गमम् ॥१२३॥ तद्-अङ्ग-सौरभानन्त-कोट्य्-अंशा विश्व-मोहनाः । तत्-स्पर्श-पुष्प-गन्धादि-नाना-सौरभ-सन्तमम् ॥१२४॥ तत्-प्रिया-प्रकृतिस् त्व् आद्या राधिका तस्य वल्लभा । तत्-कला-कोटि-कोट्य्-अंशो दुर्गाद्या त्रि-गुणात्मिका । तस्याङ्घ्रि-रजसः स्पर्शात् कोटि-विष्णुः प्रजापते ॥१२५॥
तत्र श्री-राधा-कृष्णस्यावरण-स्वरूपो विष्णुश् च । श्री-वराह-संहितायां (२.१५७-१६१) श्री-राधा-कृष्णस्य सप्तमावरणम् आह—
तद्-बाह्ये तु प्रवालादि-प्राचीरैः सुमनोहरैः । पुष्पोद्यानं च नानाभिश् चतुर्दिक्षु समुज्ज्वलैः ॥१२६॥ शुक्लं चतुर्भुजं विष्णुं पश्चिमे द्वार-पालकम् । शङ्ख-चक्र-गदा-पद्म-किरीटादि-विभूषितम् ॥१२७॥ रक्तं चतुर्भुजं विष्णुं शङ्ख-चक्र-गदाधरम् । किरीट-कुण्डलाद्यैश् च शोभितं वनमालिनम् ॥१२८॥ गौरं चतुर्भुजं विष्णुं शङ्ख-चक्राम्बुजायुधम् । किरीट-कुण्डलाद्यैश् च शोभितं वनमालिनम् ॥१२९॥ पूर्व-द्वारे द्वार-पालं गौरं विष्णुं प्रकीर्तितम् । कृष्ण-वर्णं चतुर्बाहुं शङ्ख-चक्रादि-भूषितम् । दक्षिण-द्वार-पालं च श्री-विष्णुं कृष्ण-वर्णकम् ॥१३०॥
अथ दुर्गाद्या यास् तद् एव श्रूयताम् । नारद-पञ्चरात्रे श्रुतिं विजयोवाच—
अतो दुर्गा मम मता प्रकृतिः परमात्मनः । प्रेम-कौतुकजौत्कण्ठा रक्ताङ्गी व्यक्ततां गता ॥१३१॥
श्री-कृष्ण-यामले द्वादशाधिक-शततम-पटले श्री-वासुदेवं प्रति श्री-भगवती त्रिपुरोवाच—
राधा-रस-प्रवचनैः कृष्णस्यापि तथा-विधैः । प्रणयाति-रसाविष्टौ राधा-कृष्णौ निरन्तरौ ॥१३२॥ उभयोर् एव सम्पत्तिः पश्यताम् एव यद् भवेत् । प्रेमानुभूति-विभवो महानन्द-प्रियंवदः ॥१३३॥ ततोऽन्यन् न च जानामि क्वचिद् वस्त्व् अस्ति किञ्चन । अतो दासीत्वम् अनयोः स्वीकृत्याहं सदानुगा ॥१३४॥ एतज् जगत् कारणम् अप्य् अनादि ब्रह्म प्रयत्नं परितोऽन्ववैहि । वेदैर् अशेषैर् उपदिष्टम् एतत् कृष्णस्य दास्यं रहसि प्रशस्यम् ॥१३५॥ त्रैलोय-नाथादि नृणां यथावत् । ते मां प्रपद्याभिमतं प्रयान्ती ॥१३६॥ इत्य् आदि । एको नित्य-किशोर एवम् अनिशं वृन्दावनाभ्यन्तरे राधाश्लेष-परायणो नव-घन-श्यामः स वंशी-मुखः । नित्यं च द्विभुजस् तद्-अङ्घ्रि-भजनं रत्नं सुनीलाभिधं भालोर्ध्वं कुरु भूषणं सुविनयं यद् राघवेणोदितम् ॥१३७॥
इति श्री-श्री-कृष्ण-भक्ति-रत्न-प्रकाशे
श्री-कृष्ण-परम-पूर्णत्व-निरूपणं नाम
तृतीयं रत्नम्
॥३॥
–ओ)०(ओ–