०२ २

द्वितीयः प्रकाशः अथ प्रवक्ष्ये श्री-कृष्ण-पादाम्बुज-निषेवणम् ।
समस्त-शास्त्र-विहितं सर्वेषाम् उत्तमोत्तमम् ॥१॥

अथ इत्य् आकर्ण्य केचिद् वदन्ति—अहो एवं नाना-देवताः सन्ति, नाना-तीर्थानि सन्ति, नाना-सत्-कर्मादीनि सन्ति, सर्वेषाम् उत्तमं ब्रह्मोपासनम् अस्ति, एतेषाम् एकोपासनेन श्रेयो भवति । किम् अनेन ? तत्र कृष्ण-चरण-परायणा वदन्ति—सर्व-भोगिनो देवा यद् एव तत् श्रूयतां ते सर्वे नश्वराः किं तेषाम् उपासनेन ? यथा—

तावत् स मोदते स्वर्गे यावत् पुण्यं समाप्यते । क्षीण-पुण्यः पतत्य् अर्वाग् अनिच्छन् काल-चालितः ॥२॥ [भा।पु। ११.१०.२६]

तथा गीतायां श्री भगवान् उवाच—

त्रैविद्या मां सोमपाः पूत-पापा यज्ञैर् इष्ट्वा स्वर्-गतिं प्रार्थयन्ते । ते पुण्यम् आसाद्य सुरेन्द्र-लोकम् अश्नन्ति दिव्यान् दिवि देव-भोगान् ॥३॥ ते तं भुक्त्वा स्वर्ग-लोकं विशालं क्षीणे पुण्ये मर्त्य-लोकं विशन्ति ॥४॥ [Gईता ८.२०-२१]

अतो देव-सेवनेन किम् ? तथा ब्रह्मादीनाम् अप्य् एवं, किम् अन्येषाम् ? यथा श्री-भगवान् उवाच—

लोकानां लोक-पालानां मद्-भयं कल्प-जीविनाम् । ब्रह्मणो ऽपि भयं मत्तो द्वि-परार्ध-परायुषः ॥५॥ [भा।पु। ११.१०.३०]

एवं नाना-तीर्थानि, यथा भागवते शुक उवाच—

विद्या-तपः-प्राण-निरोध-मैत्री तीर्थाभिषेक-व्रत-दान-जप्यैः । नात्यन्त-शुद्धिं लभते ऽन्तर्-आत्मा यथा हृदि-स्थे भगवत्य् अनन्ते ॥६॥ [भा।पु। १२.३.४८]

तथा [Bऋहन्-नारदीयP],

किं वेदैः किम् उ वा शास्त्रैः किं वा तीर्थाभिषेचनैः । कृष्ण-भक्ति-विहीनानां किं तपोभिः किम् अध्वरैः ॥७॥

अथ नाना-धर्म-कथा, यथा [भा।पु। ११.१४.२२]—

धर्मः सत्य-दयोपेतो विद्या वा तपसान्विता । मद्-भक्त्यापेतम् आत्मानं न सम्यक् प्रपुनाति हि ॥८॥

तथा श्री-शुक उवाच [भा।पु। १०.४७.२४]—

दान-व्रात-तपो-होम- जप-स्वाध्याय-संयमैः । श्रेयोभिर् विविधैश् चान्यैः कृष्णे भक्तिर् हि साध्यते ॥९॥

तथा [भा।पु। १.२.८]—

धर्मः स्वनुष्ठितः पुंसां विष्वक्सेन-कथासु यः । नोत्पादयेद् यदि रतिं श्रम एव हि केवलम् ॥१०॥

अतएव श्री-कृष्ण-चरण-सेवनं विना न किम् अपि । यथा ब्रह्मादयः सर्वे नश्वराः, नश्वरोपासनेन नश्वरो भवतीति तद्-उद्देशेन तपस्यया वा किम् ? स्वयं नश्वरा ये, ते किं शाश्वतत्वं दास्यन्ति ? नाना-धर्म-कर्मणा वा किम् ? कर्म बन्धाय कल्पते, यथा [भा।पु। १०.५१.५५] मुचुकुन्द-स्तुतिः—

न कामये ऽन्यं तव पाद-सेवनाद् अकिञ्चन-प्रार्थ्यतमाद् वरं विभो । आराध्य कस् त्वां ह्य् अपवर्ग-दं हरे वृणीत आर्यो वरम् आत्म-बन्धनम् ॥११॥

तथैव ब्रह्मोपासनेन किम् ? ब्रह्मापि शून्यम् । शून्योपासनेन शून्यत्वं प्राप्नोति । यथा श्रुतिः—यादृशी भावना यस्य सिद्धिर् भवति तादृशी इति शून्योपासनेन किम् ? नित्याक्षय-परमानन्द-सुख-स्वरूप-श्री-कृष्ण-चन्द्र-चरणारविन्द-प्रेमामृत-मधु-पानेन वञ्चितः स्यात् ।

अथ मुमुक्षोक्तम् नैतत् तदा किम् ? यदि देहादेर् मुक्तिर् भवति, तदा किं न भूतम् ? तत् प्रत्युत्तरम् एव, यथा—सोऽहम् इति ज्ञान-निश्चयेन निर्वाण-मुक्तिर् भवति, तेन किम् ? मुक्तिः किम् ? इति यथा श्री-भागवते—

भक्तिर् भगवतः सेवा मुक्तिस् तत्-पद-लङ्घनम् । स मूढः सेवकाद् अन्यो मुक्तिं निर्वाणम् इच्छति ॥१२॥

तथा वाल्मीकीये रामचन्द्रं प्रति हनूमतोक्तम्—

भव-बन्ध-च्छिदे तस्यै स्पृहयामि न मुक्तये । भवान् प्रभुर् अहं दास इति यत्र विलुप्यते ॥१३॥

तथा भावार्थ-दीपिकायां ब्रह्मोवाच—

त्वत्-कथामृत-पाथोधौ विहरन्तो महा-मुदः । कुर्वन्ति कृतिनः केचिच् चतुर्-वर्गं तृणोपमम् ॥१४॥

अत एव श्री-कृष्णे भक्तिः साध्या, यथा श्री-भागवते (?)—

चतुर्षु पुरुषार्थेषु गूढोऽयं भक्ति-सञ्ज्ञकः । द्विजा एव हि जानन्ति मुनयो नारदादयः ॥१५॥

तथा मुक्तेर् भक्तिर् गरीयसी, यथा श्री-भागवते—

अनिमित्ता भागवती भक्तिः सिद्धेर् गरीयसी । जरयत्य् आशु या कोशं निगीर्णम् अनलो यथा ॥१६॥ [भा।पु। ३.२५.३२] इति ।

तत्र मुक्तेर् भक्तिः सुदुर्लभा । यथा श्री-भागवते—

राजन् पतिर् गुरुर् अलं भवतां यदूनां दैवं प्रियः कुल-पतिः क्व च किङ्करो वः । अस्त्व् एवम् अङ्ग भगवान् भजतां मुकुन्दो मुक्तिं ददाति कर्हिचित् स्म न भक्ति-योगम् ॥१७॥ [भा।पु। ५.६.१८]

किन्तु साधवोऽपि मुक्तिं न वाञ्छन्ति, यथा—

न किञ्चित् साधवो धीरा भक्ता ह्य् एकान्तिनो मम । वाञ्छन्त्य् अपि मया दत्तं कैवल्यम् अपुनर्-भवम् ॥१८॥ [भा।पु। ११.२०.३४]

अथात्र केचिद् आध्यात्मिका वदन्ति—अहो कृष्णं यद् वदसि । स एव शरीरी रूपवान् परिच्छिन्नावयवश् चाक्षुष्यः । अतः स एव भौतिकः । भौतिकत्वात् स्थूलः । स्थूलत्वान् नश्वरः । नश्वरोपासनेन किम् इति । एकं कृष्ण एव उपासनीय इति यद् उक्तं तद् अत्यन्तासम्भावनीयोपदेशः । एष वेदान्त-शास्त्रैर् अनभिधेयः । यथा वशिष्ठ-रामायणे श्री-रामचन्द्रं प्रति वशिष्ठेनोक्तम्—

यद् इदं दृश्यते सर्वं जगत् स्थावर-जङ्गमम् । तत् सुषुप्ताव् इव स्वप्नः कल्पान्ते प्रविनश्यति ॥१९॥ [महोपनिषद् ४.४३]

तथोद्धवं प्रति श्री-भगवान् वासुदेव उवाच—

यद् इदं मनसा वाचा चक्षुर्भ्यां श्रवणादिभिः । नश्वरं गृह्यमाणं च विद्धि माया-मनो-मयम् ॥२०॥ [भा।पु। ११.७.७]

अत एव सर्वं मायामयम् इति मत्वा नित्यं निराकारं निरञ्जनं निर्लेपं च ब्रह्मोपास्यम् इति तथैवोक्तं वाशिष्ठे वशिष्ठेन—

आस्तेऽनस्तम् इत भास्वान् यो देवो हि निरामयः । सर्वदा सर्व-कृतः सर्वः परमात्मा महेश्वरः ॥२१॥ अन्तः-करण-तद्-वृत्ति-साक्षी चैतन्य-विग्रहः । आनन्द-रूपः सत्यः सन् किम् स्वात्मानं प्रपद्यसे ॥२२॥

तथाष्टावक्र-संहितायाम्—

अहो निरञ्जनः शान्तो बोधोऽयं प्रकृतेः परः । एतावन्तम् अहं कालं हा मोहेन विडम्बितः ॥२३॥

तत्र कार्ष्णा वदन्ति—य एव रूप-गुण-वर्जितः । अचलस् त्व् अकर्ता । काय-मनो-वाक्यैर् अग्राह्यः स एव न किञ्चित् । तत्र ब्रह्म-ज्ञानी वदति एवं नेति । यथा श्रुतौ—

अपाणि-पादो जवनो ग्रहीता पश्यत्य् अचक्षुः स शृणोत्य् अकर्णः । स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तम् आहुर् अग्र्यं पुरुषं महान्तम् ॥२४॥

तत्र भागवता वदन्ति—अहो वैचित्र्यम् । सोऽस्तीति पण्डिता वदन्ति । तस्य वेत्ता नातीत्य् अपि वदन्ति च । अतएव अस्ति नास्तीति सन्देहः । यत्र सन्देहस् तस्यान्वेषणेन किम् इति ?

ततो ब्रह्म-वादी वदति—अहो अस्ति नास्तीति सन्देहो ज्ञान-रहितानाम्, अस्तीति निःसन्देहः । तत् श्रूयतां यथा श्रुतौ (ब्रह्म-बिन्दूपनिषत्)—

घृतम् इव पयसि निगूढ-भूते भूते वसति च विधानम् । सततं मन्थयितव्यं मन्थन-भूते प्रकाशते आत्मा ॥२५॥

दृश्यश् च—

राहुर् अदृश्योऽपि यथा शशि-बिम्बस्थः प्रकाशते जगति । तथा सर्व-गतोऽपि आत्मा बुद्धि-स्थो दृश्यताम् एति ॥२६॥

कर्ता च—

सवितरि उदिते यद्वत् करोति कर्माणि लोकोऽयम् । न च तानि करोति रविर् न कारयति वा तद्वद् आत्मा ॥२७॥

तथा हस्तामलके (१)

निमित्तं मनश् चक्षुर्-आदि प्रवृत्तौ निरस्ताखिलोपाधि प्रकाश-कल्पः । रविर् लोक-चेष्टा-निमित्तं यथायः स नित्योपलब्धि-स्वरूपोऽहम् आत्मा ॥२८॥

तत् प्राप्ताव् उपायो, यथा श्रुतौ चित्-प्रकाशे—

अगमन् मे मनोऽन्यत्र साम्प्रतं च स्थिरीकृतम् । एवं यो वेत्ति धी-वृत्तिं सोऽहम् इत्य् अधारयेत् ॥२९॥

एवम् आत्म-ज्ञान-दृष्ट्या दृश्यते प्राप्यते च वाशिष्ठे—

मृगैर् यथा मृगाणां च गजानां च गजैर् यथा । पक्षिणां पक्षिभिर् यद्वत् ज्ञेयं ज्ञानेन गृह्यते ॥३०॥ इति ।

तद् एवं ज्ञानेन ज्ञायते अज्ञानानां न किम् अपि । अथैतत् श्रुत्वा श्री-कृष्ण-चन्द्रस्य चरण-परायणा वदन्ति भवता यद् उक्तं तत् किम् ? श्री-कृष्ण-चन्द्रस्य चरण-वैभवं येन जानन्ति, त एव एवं वदन्ति । तेऽतिक्षुद्राः क्षुद्र-मतयः सूक्ष्मं न पश्यन्ति । तत्र—

ये कृष्ण-चरणाम्भोज-मकरन्द-मधु-व्रताः । न भवन्ति परं क्षुब्धास् ते नाना-पथ-गामिनः ॥३१॥

यथा ब्रह्मादि-स्तुतिः—

त्वम् एक एवास्य सतः प्रसूतिस् त्वं सन्निधानं त्वम् अनुग्रहश् च । त्वन्-मायया संवृत-चेतसस् त्वां पश्यन्ति नाना न विपश्चितो ये ॥३२॥ [भा।पु। १०.२.२८]

अतः सर्वोपरि श्री-कृष्ण-चन्द्र एक एव ज्ञानिभिर् ज्ञायते । यथा—

कृष्णस्योपरि कश्चिद् वा तुल्यो भिन्नोऽस्ति यो वदेत् । न तस्य माययाच्छनो नालपेत् तं कदाचन ॥३३॥

इत्य् एवं यत् किञ्चित् सर्वं श्री-कृष्ण-वैभवम् इति मन्तव्यम् ।

अथ भगवतः श्री-कृष्णस्य भौतिकं प्राकृतं स-गुणं देहम् इति यद् अज्ञानाद् उक्तं, तद् इति श्रूयताम् । यथा सम्मोहन-तन्त्रे प्रथम-पटले नारदं प्रति सनक उवाच—

तदानन्दमयी राधा तद्-आनन्द-मयो हरिः । न भौतिको देह-बन्धस् तयोर् आनन्द-रूपयोः ॥३४॥

तथा वत्स-हरणे ब्रह्म-स्तुतिः—

अस्यापि देव वपुषो मद्-अनुग्रहाय स्वेच्छामयस्य न तु भूतमयस्य कोऽपि ।
नेशे महि त्व् अवसितुं मनसाऽन्तरेण

साक्षात् तवैव किम् उतात्म-सुखानुभूतेः ॥३५॥ [भा।पु। १०.१४.२]

किन्तु श्री-कृष्णस्य विग्रहं भौतिकं यो वदति, तत्राह बृहद्-वामन-पुराणे—

यो वेत्ति भौतिकं देहं कृष्णस्य परमात्मनः । स सर्वस्माद् बहिष्कार्यः श्रौत-स्मार्त-विधानतः ॥३६॥ मुखं तस्यावलोक्याथ स चेलो जलम् आविशेत् । पश्येत् सूर्यं स्पृशेद् वारिं घृतं प्राश्यो विशुद्धति ॥३७॥

स्थूलत्वं यद् उक्तं तद् इति यथा महा-कौर्मे—

अस्थूलश् चानणुश् चैव स्थूलोऽणुश् चैव सर्वतः । अवर्णः सर्वतः प्रोक्तः सवर्णश् च प्रकीर्तितः ॥३८॥

तथा शुकोक्तिः—

ध्वज-वज्राङ्कुशाम्भोज-कराङ्घ्रि-तल-शोभितम् । नखेन्दु-किरण-श्रेणी पूर्ण-ब्रह्मैक-कारणम् ॥३९॥ [भा।पु। २.१०.३५]

अतः स्थूल-रूपं यत्र भगवन्-मायास्पृष्टम् । एतयोः परं श्री-कृष्ण-चन्द्रः । यथा गोविन्द-वृन्दावने भगवति श्री-कृष्णे बलराम-प्रश्ने—

परमात्मा परं ब्रह्म सच्-चिद्-आनन्द-विग्रहः । शब्द-ब्रह्म-मयः साक्षात् स्वयं प्रकृतिर् ईश्वरः । आद्य्-अन्त-रहितः सूक्ष्म-स्थूलातीतः परात्परः ॥४०॥

अथ परं ब्रह्मोपासनम् इति यद् उक्तं तद् ब्रह्म यत् तत् श्रूयताम् । यथा वराह-संहितायां (२.५३,५५) श्री-भगवान् वराह उवाच (श्री-कृष्ण-चन्द्रस्य यथा रूपम्)—

ध्वज-वज्राङ्कुशाम्भोज-कराङ्घ्रि-तल-शोभितम् । नखेन्दु-किरण-श्रेणी पूर्ण-ब्रह्मैक-कारणम् ॥४१॥ केचिद् वदन्ति तद्-रश्मि ब्रह्मा चिद्-रूपम् अव्ययम् । तद्-अंशांशं महा-विष्णुं प्रवदन्ति मनीषिणः ॥४२॥

तथा श्री-कृष्ण-यामले द्वादशाधिक-शततम-पटले श्री-वासुदेवं प्रति त्रिपुरोवाच—

सूचनात् सूत्रम् इत्य् आहुः कृष्णानुभव-सूचकम् । ज्योतिर् वृन्दावनात्मकं ख्यातं ब्रह्मेति जगद् उज्ज्वलम् ॥४३॥ तद् ब्रह्म कृष्ण-विगुणं यतो भाति चराचरम् । यस्य भासा भाति विश्वं यथार्थं श्रुतयो जगुः ॥४४॥

अतएव श्री-कृष्ण-पादाब्ज-लाभेऽपि सर्वं प्राप्तम् । कश्च्चिद् अवशेषोऽस्ति नैवम् । यथा—

वृक्ष-लभे न वृक्षस्य किञ्चिद् भवति दुर्लभम् । कृष्ण-पादाब्ज-लाभेऽपि दुर्लभं नास्ति किञ्चन ॥४५॥ या निर्वृतिस् तनु-भृतां तव पाद-पद्म- ध्यानाद् भवज्-जन-कथा-श्रवणेन वा स्यात् । सा ब्रह्मणि स्व-महिमन्य् अपि नाथ मा भूत् किं त्व् अन्तकासि-लुलितात् पततां विमानात् ॥४६॥ इति [भा।पु। ४.९.१०]

अतो यदि श्री-कृष्ण-पदारविन्दं प्राप्तं, तदा सर्वं प्राप्तम् एव । किन्तु श्री-कृष्ण-पादाम्बुजं विना नान्यत्र सिद्धिः, यथा [भा।पु। १.५.१२] नैष्कर्म्यम् अप्य् अच्युत-भाव-वर्जितं न शोभते ज्ञानम् अलं निरञ्जनम् इत्य् आदि । तथा त्रैलोक्य-सम्मोहन-तन्त्रे ब्रह्म-विद्योपासनीयं श्री-कृष्ण-पाद-पद्मं, यथा—

ब्रह्म-वादी मुनिः कश्चिद् जाबलिर् इति विश्रुतः । सोऽध्यात्म-निरतो योगी विचरन् पृथिवीम् इमाम् ॥४७॥ अपश्यत् तापसीं काञ्चिच् चरन्तीं दारुणं तपः । तारुण्य-वयसा युक्तां रूपेणाति-मनोहराम् ॥४८॥ चन्द्रांशु-सदृशाभासां सर्वावयव-शोभनाम् । कृत्वा कटि-तटे चैव कृष्णाजिन-सुकोमलाम् ॥४९॥ ज्ञान-मुद्रां च बिभ्राणाम् अनिमिषायतेक्षणाम् । त्यक्ताहार-विहारं च मुनिर् निश्चलतां स्थिताम् ॥५०॥ जिज्ञासुस् तां मुनि-वरस् तस्थौ तत्र शतं समाः । ततस् त्व् एवं समुत्थाय मुनिना प्रार्थिता च सा ॥५१॥ अतोऽहं ज्ञातुम् इच्छामि तपसः कारणं तव । यदि योग्यं भवेत् तर्हि कृपया वक्तुम् अर्हसि ॥५२॥ अथाब्रवीच् छनैर् बाला तपसा तीव्र-कर्शिता । ब्रह्म-विद्याहम् अतुला या योगीन्द्रैर् विमृग्यते ॥५३॥ जितेन्द्रिया जिताहारा काम्यया दुश्चरं तपः । चराम्य् अहं वने घोरे ध्यायन्ती पुरुषोत्तमम् ॥५४॥ ब्रह्मानन्देन पूर्णाहं ज्ञान-विज्ञान-तृप्त-धीः । तथापिइ शून्यम् आत्मानं मन्ये कृष्ण-रतिं विना ॥५५॥ इदानीम् अतिनिर्विण्णा देहस्यास्य विसर्जनम् । कर्तुं गच्छामि पुण्यायां वापिकायाम् इहैव तु ॥५६॥ तच् छ्रुत्वा वचनं तस्या मुनिर् अत्यन्त विस्मितः । पतित्वाचरणे तस्याः कृष्णोपासा विधिं शुभम् ॥५७॥ पप्रच्छ परम-प्रीतस् त्यक्त्वाध्यात्म-विवेचनम् । तयोक्तं मन्त्राम् आदाय जगाम मानसं सरः ॥५८॥ स एवं बहु-देहेषु समुपास्य जगत्-पतिम् । नव-कल्पान्तरे जाता गोकुले दिव्य-रूपिणी ॥५९॥

अतएव श्री-कृष्ण-पाद-पद्म-सेवनं विना ब्रह्मोपासनं किम् इति । तथा ब्रह्माद्-स्तुतिः—

येऽन्येऽरविन्दाक्ष विमुक्त-मानिनस् त्वय्य् अस्त-भावाद् अविशुद्ध-बुद्धयः । आरुह्य कृच्छ्रेण परं पदं ततः पतन्त्य् अधोऽनादृत-युष्मद्-अङ्घ्रयः ॥६०॥ [भा।पु। १०.२.३२] इति ।

तथा—

श्रेयः-सृतिं भक्तिम् उदस्य ते विभो क्लिश्यन्ति ये केवेल-बोध-लब्धये । तेषाम् असौ क्लेशल एव शिष्यते नान्यद् यथा स्थूल-तुषावघातिनाम् ॥६१॥ [भा।पु। १०.१४.४] इत्य्-आदि च ।

अतः सर्वं विहाय श्री-राधा-कान्त-चरण-सेवनं कर्तव्यं नान्यत् शाश्वतम् इति शेषः।

अथात्र मुमुक्षवो वदन्ति—श्री-कृष्ण-ब्रह्म-परः पूर्णानन्द-स्वरूपः नित्यो नित्य-प्रकाशः लीला-विग्रहः । इति यद् उक्तं तस्य किं रूपं, किं प्रमाणं, किं वा गुणः । किम् अस्य प्रभावः ? किं वा स्थानं ? तद् उच्यते । ततः श्री-कृष्ण-चरण-परायणा वदन्ति – अहो ! अज्ञानाद् एवं वदथ । अस्यानन्त-महिम्नो रूप-गुणादीन् वक्तुं के समर्थाः ? यथा ब्रह्म-स्तुतिः—

गुणात्मनस् ते ऽपि गुणान् विमातुं हितावतीर्णस्य क ईशिरे ऽस्य । कालेन यैर् वा विमिताः सुकल्पैर् भू-पांशवः खे मिहिका द्युभासः ॥६२॥ [भा।पु। १०.१४.७]

तथा एकादश-स्कन्धे—

यो वा अनन्तस्य गुणान् अनन्तान् अनुक्रमिष्यन् स तु बाल-बुद्धिः । रजांसि भूमेर् गणयेत् कथञ्चित् कालेन नैवाखिल-शक्ति-धाम्नः ॥६३॥ [भा।पु। ११.४.२] जानन्त एव जानन्तु किं बहूक्त्या न मे प्रभो । मनसो वपुषो वाचो वैभवं तव गोचरः ॥६४॥ [भा।पु। १०.१४.३८]

यत्त ब्रह्मैव तत्रान्ये के वराकाः ? तस्मिन्न् अहम् अपि किं क्षुद्रातिक्षुद्रः ? तद् एव—

श्री-कृष्ण-चन्द्र-चरणाब्ज-गुण-प्रवाहं वक्तुं यथा द्रुहिण-विद्रुत-बुद्धि-शक्तिः । तस्मिन् ममाभिलषिता मतिर् अल्पकस्य बालो यथा विधुम् अभीप्सति खेलनार्थम् ॥६५॥

यदवधि ममावगता । तद् इति शास्त्रानुसारेणोच्यते तत्रादौ । अथार्वोपनिषदि गोपाल-तापनीये [१.३४-५, ४२]

ओं नमो विश्वरूपाय विश्व-स्थित्य्-अन्त-हेतवे । विश्वेश्वराय विश्वाय गोविन्दाय नमो नमः ॥६६॥ नमो विज्ञान-रूपाय परमानन्द-रूपिणे । कृष्णाय गोपीनाथाय गोविन्दाय नमो नमं ॥६७॥ निष्कलाय विमोहाय शुद्धायाशुद्ध-वैरिणे । अद्वितीयाय महते श्री-कृष्णाय नमो नमः ॥६८॥

तथा ब्रह्म-संहितायां (५.३३) ब्रह्म-स्तुतिः—

अद्वैतम् अच्युतम् अनादिम् अनन्त-रूपम् आद्यं पुराण-पुरुषं नव-यौवनं च । वेदेषु दुर्लभम् अदुर्लभम् आत्म-भक्तौ गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥६९॥

तथा—

इदं हि पुंसस् तपसः श्रुतस्य वा स्विष्टस्य सूक्तस्य च बुद्धि-दत्तयोः । अविच्युतो ऽर्थः कविभिर् निरूपितो यद्-उत्तमश्लोक-गुणानुवर्णनम् ॥७०॥ [भा।पु। १.५.२२]

अतएव श्री-कृष्ण-चन्द्र-चरण-भजनम् एव कर्तव्यम् इति नान्यत् ।

दृष्ट्वा श्रुत्वावगम्याथ पुरानादौ तु सर्वतः । परमानन्द-सन्दोह-कृष्ण-पादाम्बुजं भज ॥७१॥ श्रीमत्-कृष्ण-पादारविन्द-युगले भक्तिर् विधेया सदा नानोपासन-वर्जनाभिधम् इदं रत्नं परं मौक्तिकम् । कण्ठस्याभरणं कुरुष्व सततं ह्य् अन्याभिलाषं त्यज सारं श्री-कविराज-राघव-वचः सानन्दम् आकर्णय ॥७२॥

इति श्री-कृष्ण-भक्ति-रत्न-प्रकाशे नानोपासन-वर्जनं नाम

द्वितीयं रत्नम्

॥२॥

–ओ)०(ओ–