०१ १

प्रथमः प्रकाशः

[क्रम-दीपिका १.१-८]

कलात्त-मायालवकात्त-मूर्तिः कल-क्वणद्-वेणु-निनाद-रम्यः । श्रितो हृदि व्याकुलयंस् त्रिलोकीं श्रियेऽस्तु गोपी-जन-वल्लभो वः ॥१॥ गुरु-चरण-सरोरुह-द्वयोत्थान् महित-रजः-कनकान् प्रणम्य् मूर्ध्ना । गदितम् इह विविच्य नारदाद्यैर् यजन-विधिं कथयामि शार्ङ्गपाणेः ॥२॥ क्षिति-सुर-नृप-विट्-तुरीयजानां मुनि-वन-वासि-गृहस्थ-वर्णिनां च । जप-हुत-यजनादिभिर् मनूनां फलति हि कश्चन कस्यचित् कथञ्चित् ॥३॥ सर्वेषु वर्णेषु तथाश्रमेषु नारीषु नानाह्वय-जन्मभेषु । दाता फलानाम् अभिवाञ्छितानां द्राग् एव गोपालक-मन्त्र एषः ॥४॥ नूनम् अच्युत-कटाक्ष-पातने कारणं भवति भक्तिर् अञ्जसा । तच् चतुष्टय-फलाप्तये ततो भक्तिमान् अधिकृतो गुरौ हरौ ॥५॥ स्नातो निर्मल-धौत-सूक्ष्म-वसनो धौताङ्घ्रि-पाण्य्-आननः स्वाचान्तः सपवित्र-मुद्रित-करः श्वेतोर्ध्व-पुण्ड्रोज्ज्वलः । प्राची-दिग्-वदनो निवध्य सुदृढं पद्मासनं स्वस्तिकं वासीनः गुरून् गणाधिपम् अथो वन्देत बद्धाञ्जलिः ॥६॥ अथास्त्र-मन्त्रेण विशोध्य पाणी त्रिताल-दिग्-बन्ध-हुताश-शालान् । विधाय भूतात्मकम् एतद् अङ्गं विशोधयेच् छुद्ध-मतिः क्रमेण ॥७॥ इडा-वक्त्रे धूम्रं सतत-गति-बीजं सलवकं स्मरेत् पूर्वं मन्त्रो सकल-भुवनोच्छोषण-करम् । स्वकं देहं तेन प्रतत-वपुषापूर्य-सकलं विशोष्य व्यामुञ्चेत् पवनम् अथ मार्गण-खमणेः ॥८॥

इत्य् आदीनि सन्ति तत्रैव ज्ञातव्यम् । किम् एतत् सङ्ग्रहेण । अहो सत्यम् एतद् उक्तं, किन्तु तान्य् एव सन्ति, तज्-ज्ञातारो न सन्ति । केचित् शुष्क-तार्किका न्याय-वादिनः । केचित् सन्दिग्ध-मनसः । केचित् कर्म-मार्गिणः केचित् बौद्ध-पथावेशिनः, केचित् नाना-देव-परायणाः । यस्य ये ते तस्य गुण-वादिनः । केचित् सर्व-देव-माहात्म्य-साम्यं विस्तारयन्ति । तद् एव प्राचीनान्य् अपि तानि तानि बहुशः शास्त्राणि वेद्यानि च प्रायस् तत्र समस्त-देव-समतां वक्ष्यन्ति ते सूरयः। सर्वात्मा परमेश्वरोऽहिल परः कृष्णो न तैर् ज्ञायते । तत् तेभ्योऽतिसुदुर्लभं समनयं क्षीराब्धि-पीयूषवद् एवं तेष्व् अपि शास्त्रादिष्व् अप्य् अस्ति । तत् तस्य सर्वेशस्य श्री-कृष्णस्य तत्त्व-विशेषः कैश्चिद् अपि न ज्ञायते कथम् एवम् । तस्यैवेश्वरस्य माययाच्छन्नास् ते नानात्वं पश्यन्ति तद् इति नाना-शास्त्रानुसारेण, यथा—

श्रुत्वा तच् छ्रुति-शास्त्र-तत्त्व-निगमान् दृष्ट्वा पुराणादिकान् तत् संश्रित्य सतां मतं च सततं ख्यातं निगूढं परम् । लीला-विग्रह-धारिणोऽपि परमानन्दस्य कृष्णस्य च ब्रह्मादेर् अपि दुर्लभं किल यशः सङ्कीर्त्यते यत्नतः ॥९॥

अथ कैश्चिद् तर्क-वादिभिः पुराणोदितं नाद्रियते । तत्राह बृहन्-नारदीये [Nआर्P १.१.५७-५८] प्रथमाध्याये—

पुराणेष्व् अर्थ-वादत्वं ये वदन्ति नराधमाः । तैर् अर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः ॥११॥ समस्त-कर्म निर्मूल-साधनानि नराधमः । पुराणेष्व् अर्थ-वादेन मृतो नरकम् अश्नुते ॥१२॥ यावद् ब्रह्म सृज्यते तज् जगत् स्थावर-जङ्गमम् । तावत् स पच्यते पापी नरकाग्निषु सन्ततम् ॥१३॥

यथा पुराणानि समस्तानि वेदाङ्गानि तस्माद् वेदानाम् अनादरेण एवं भवत्य् एव, नान्यथा एव, यथा बृहन्-नारदीये [Nआर्P १.९.९९]

वेद-व्यासस् तु धर्मात्मा वेद-शास्त्र-विभाग-कृत् ।

प्रोक्तवान् सर्व-धर्मांश् च पुराणेषु महीपते ॥१४॥

तद् एवं श्रुति-स्मृत्य्-आदि-सम्मत-समस्त-धर्म-शास्त्र-समुद्दिष्टम् । श्री-कृष्ण-चरण-भजनम् इति विधेयम् । अतः सर्वोपासनम् अपास्य सर्वोपास्य-श्री-कृष्ण-चरणारविन्द-शरणं कर्तव्यम् इति श्रेयः, यथा—

तस्माद् गोविन्द-माहात्म्यम् आनन्द-रस-सुन्दरम् । शृणुयात् कीर्तयेन् नित्यं स कृतार्थो न संशयः ॥१५॥

तथा,

कर्मणा मनसा वाचा सर्व-भावेन चाच्युतम् । भजन्ति परया भक्त्या लभन्ते पदम् अव्ययम् ॥१६॥ तस्माद् भारत सर्वात्मा भगवान् ईश्वरो हरिः । श्रोतव्यः कीर्तितव्यश् च स्मर्तव्यश् चेच्छताभयम् ॥१७॥ [भा।पु। २.१.५]

तथा विष्णु-धर्मोत्तरे [चोम्प्। ःब्व् ११.६५७]—

परमार्थम् अशेषस्य जगतः प्रभवाप्ययम् । शरण्यं शरणं गच्छन् गोविन्दः नावसीदति ॥१८॥

तथा ब्रह्मा—

कल्प-वृक्षं समाश्रित्य फलानि स्वेच्छया यथा । गृह्णाति पुरुषो राजन् तथा कृष्णान् मनोरथान् ॥१९॥

तथा ब्रह्म-संहितायां [५.६१]—

धर्मान् अन्यान् परित्यज्य माम् एकं भज विश्वसन् । यादृशी यादृशी श्रद्धा सिद्धिर् भवति तादृशी ॥२०॥

तथा एकं श्री-कृष्ण-चरणाब्जं भजनीयम् इति । यथा अर्थर्वोपनिषदि गोपाल-तापनीये [GTU १.१९-२०]—

एको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन् बहुधा यो विभाति । तं पीठस्थं येऽनुभजन्ति धीरास् तेषां सुखं शाश्वतं नेतरेषाम् ॥२१॥ नित्यो नित्यानां चेतनश् चेतनानाम् एको बहूनां यो विदधाति कामान् । तं पीठगं येऽनुभजन्ति धीरास् तेषां सिद्धिः शाश्वती नेतरेषाम् ॥२२॥

इति ज्ञात्वा विलम्बो न कर्तव्यः । यथा श्री-भागवते एकादश-स्कन्धे नवमाध्याये चतुर्विंशति-गुरु-प्रसङ्गे ब्राह्मण उवाच—

लब्ध्वा सु-दुर्लभम् इदं बहु-सम्भवान्ते मानुष्यम् अर्थ-दम् अनित्यम् अपीह धीरः । तूर्णं यतेत न पतेद् अनु-मृत्यु यावन् निःश्रेयसाय विषयः खलु सर्वतः स्यात् ॥२३॥ [भा।पु। ११.९.२९]

तथा, दैत्य-बालकान् प्रति प्रह्लाद-वचनम्—

कौमार आचरेत् प्राज्ञो धर्मान् भागवतान् इह । दुर्लभं मानुषं जन्म तद् अप्य् अध्रुवम् अर्थदम् ॥२४॥ [भा।पु। ७.६.१]

यथा देवकी-स्तुतिः—

मर्त्यो मृत्यु-व्याल-भीतः पलायन् लोकान् सर्वान् निर्भयं नाध्यगच्छत् । त्वत् पादाब्जं प्राप्य यदृच्छयाद्य सुस्थः शेते मृत्युर् अस्माद् अपैति ॥२५॥ [भा।पु। १०.३.२७]

मृत्युर् इति सद्-असत्-कर्मणा यम् अवशो भूत्वा तत्-तत्-कर्म-फलं भुक्त्वा पुनर् जायते इति गर्भ-वास-यातना-प्राप्तये इति मृत्युः । एतद् एव श्री-कृष्ण-चरण-परायणानां नैवं । एतद् भौतिकं शरीरं त्यक्त्वा नित्य-सिद्ध-देहं प्राप्य श्री-कृष्ण-दासा भवन्तीत्य् अमुत्र इति ।

तस्मात् श्री-कृष्ण-चरण-भजनम् एव कर्तव्यम् इति नान्यत् । यथा—

यस्यावतार-गुण-कर्म-विडम्बनानि नामानि येऽसु-विगमे विवशा गृणन्ति । तेऽनैक-जन्म-शमलं सहसैव हित्वा संयान्त्य् अपावृतामृतं तम् अजं प्रपद्ये ॥२६॥ [भा।पु। ३.९.१५]

यथा विष्णु-पुराणे यम उवाच—

अहम् अमर-गणार्चितेन धात्रा यम इति लोक-हिताहिते नियुक्तः । हरि-गुरु-विमुखान् प्रशास्मि मर्त्यान् हरि-चरण-प्रणतान् नमस्करोमि ॥२७॥ [NऋसिंहP ९.२] इति ।

तस्मात् श्री-कृष्ण-चरण-भजनं कर्तव्यम् इति नान्यत् । तथा—

समाश्रिता ये पद-पल्लव-प्लवं महत्-पदं पुण्य-यशो मुरारेः। भवाम्बुधिर् वत्स-पदं परं पदं पदं पदं यद् विपदां न तेषाम् ॥२८॥ [भा।पु। १०.१४.५८]

तेषां परं पदं भवति तद् इति श्री-कृष्ण-चरणारविन्द-परमानन्द-रसे परिपूर्णो भूत्वा तिष्ठति जन्म-मृत्यु-वर्जितः । यथा श्री-भगवद्-गीताऊपनिषत्सु अर्जुनं प्रति श्री-भगवान् उवाच—कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति [Gईता ९.३१] इति ।

काशीखण्डेऽप्य् उक्तं श्री-ध्रुव-चरिते –

न च्यवन्ते हि मद्-भक्ता महत्यां प्रलयापदि । अतोऽच्युतोऽखिले लोके स एकः सर्वगोऽव्ययः ॥२९॥ इति ।

तथा दशमे ब्रह्म-स्तुतिः—

तथा न ते माधव तावकाः क्वचिद् भ्रश्यन्ति मार्गात् त्वयि बद्ध-सौहृदाः । त्वयाभिगुप्ता विचरन्ति निर्भया विनायकानीकप-मूर्धसु प्रभो ॥३०॥ [भा।पु। १०.२.३३]

भगवन्तं प्रत्य् उद्धव उवाच—

प्रतिज्ञा तव गोविन्द न मे भक्तः प्रणश्यति । इति संस्मृत्य संस्मृत्य प्राणान् सन्धारयाम्य् अहम् ॥३१॥

इत्य् एवं भगवद्-भक्तानां नापद इति ज्ञापनोऽयम् । ततः सर्वान् अन्यान् विहाय श्री-कृष्ण-चन्द्र-चरणारविन्द-भजनम् एव श्रेयः अनन्य-भावेनेति ।

एतत् श्री-हरि-पाद-पद्म-भजनोद्देशोज्ज्वलं निर्मलं वज्रं रत्नम् इदं समस्त-तनु-भृद्-हृद्धान्त-विध्वंसनम् । ज्ञात्वानेन कुरुष्व सादरतया कर्णावतंसं सुधीर् धीरस्यापि निवेदनं शृणु मम श्री-राघवस्यासकृत् ॥३२॥

इति प्रथम-रत्नम्

–ओ)०(ओ—

(२)