विस्तारः (द्रष्टुं नोद्यम्)
Jiva refers to this book as Kṛṣṇārcana-dīpikā
in Brahma-saṃhitā commentary (verse 4).
राधा-कृष्णार्चन-दीपिका
सनातन-समो यस्य
ज्यायान् श्रीमान् सनातनः ।
श्री-वल्लभो ऽनुजः सो ऽसौ
श्री-रूपो जीव-सद्-गतिः ॥१॥
[*नोते: थिस् वेर्से इस् उसेद् ब्य् जिव अस् थे मङ्गलाचरण इन् ओथेर् wओर्क्स् अल्सो।]
पुराण-संहिता-तन्त्र-
मन्त्र-श्रुति-समन्वितम् ।
गीता-भागवतं शास्त्रं
जयताद् व्रज-धामसु ॥२॥
श्री-दामोदर-राधार्चनम् अर्हति व्रज-स्थानाम् ।
आवश्यकताम् अशाव्यनयो रत्राधिदेव्यं हि ॥३॥
तत्र कश्चित् शास्त्र-प्रमाणकत्वं न मन्यते, तं प्रतीदं ब्रूमः -
लक्ष्मीर् अभितः स्त्रीतमा गोप्यो लक्ष्मीतमाः प्रथिताः ।
राधा गोपीतमा चेद् अस्याः का समा रामा ॥४॥ इति ॥
[*नोते: थिस् वेर्से इस् क़ुओतेद् अत् गोपाल-चम्पू १।२५।]
आस्तां तावत् लक्ष्मी-विजेतृ-गुण-गण-गोपी-गण-प्रधानतया श्री-कृष्ण-सन्दर्भादौ निर्णीता ।
[*नोते: पोर्तिओन्स् ओफ़् र्कद् हवे बेएन् लिफ़्तेद् wहोलेसले फ़्रोम् थे सन्दर्भस्।]
अत्र च निर्णेष्यमाणा स्वयं भगवतः श्री-कृष्णस्य स्वयं लक्ष्मी-रूपा श्री-राधा । गोपी-जन-मात्र-संवलितः स उपास्यत इत्य् अत्र शास्त्राणि शृणु । तत्रारोह-भूमिका-क्रमेण दर्श्यते ।
आराधनं हि कृष्णस्य
भवेद् आवश्यकं यथा ।
तथा तदीय-भक्तानां
नो चेद् दोषो ऽस्ति दुस्तरः ॥५॥
[*नोते: थिस् वेर्से इस्, बुत् फ़ोर् मुकुन्दस्य इन् थे प्लचे ओफ़् हि कृष्णस्य, थे समे अस् ल्भाग् २।१। थे फ़ोल्लोwइन्ग् सेच्तिओन् फ़ोल्लोwस् च्लोसेल्य् ओन् ल्भाग् २।]
(एन्द् पगे १)
अत्र श्री-कृष्णस्य यथा गौतमीय-तन्त्रे -
असारे घोर-संसारे
सारं कृष्ण-पदार्चनम् ।
जन्मासाद्य मनुष्येषु
शुद्धे च पितृ-मातरि ।
यो नार्चयति कल्पः सन्
तस्मात् पापतरो हि कः ॥६॥
महाभारते -
मातृवत् पर्रक्षन्तं
सृष्टि-संसार-कारकम् ।
यो नार्चयति देवेशं
तं विद्याद् ब्रह्म-घातकम् ॥७॥
अथ तदीयानां यथा पाद्मे -
मार्कण्डेयो ऽम्बरीषस्य
वसुर् व्यासो विभीषणः ।
पुण्डरीको बलिः शम्भुः
प्रह्लादो विदुरो ध्रुवः ॥८॥
दाल्भ्यः पराशरो भीष्मो
नारदाद्याश् च वैष्णवैः ।
सेव्यो हरिं निषेव्यामी
नो चेद् दोषः परं भवेत् ॥९॥
तथा हरि-भक्ति-सुधोदये (१६।७६) -
अर्चयित्वा तु गोविन्दं
तदीयान् नार्चयन्ति ये ।
न ते विष्णोः प्रसादस्य
भाजनं दाम्भिका जनाः ॥१०॥
पाद्मोत्तर-खण्डे -
आराधनानां सर्वेषां
विष्णोर् आराधनं परम् ।
तस्मात् परतरं देवि
तदीयानां समर्चनम् ॥११॥
अर्चयित्वा तु गोविन्दं
तदीयान् नार्चयेत् तु यः ।
न स भागवतो ज्ञेयः
केवलं दाम्भिकः स्मृतः ॥१२॥ इति ।
अत्र पूर्वत्र च तदीय-शब्देन तस्य भक्ता एव उच्यन्ते । तत् त्व् अन्ये -
(एन्द् पगे २)
द्वौ भूत-सर्गौ लोके ऽस्मिन्
दैव आसुर एव च ।
विष्णोर् भक्ति-परो दैव
आसुरस् तद्-विपर्ययः ॥१३॥
इति विष्णु-धर्माग्नि-पुराणादि-नियमात् । तत् सृष्ट्यादि-लीला-गतत्वे ऽपि तद्-उदासीनेष्व् औदासीन्यस्य योग्यत्वम् । तद्-द्वेष्टृषु तद्-द्वेष्यस्यैवेति च । तथैव दर्शितं सप्तमे राजसूयारम्भे श्री-युधिष्ठिरादिभिः शिशुपालं प्रति गालि-प्रदानादिना । अतः श्री-भगवान् अप्य् उक्तं - प्रवृत्तिं च निवृत्तिं च (गीता १६।७) इत्य् आरभ्य -
तान् अहं द्विषतः क्रूरान् संसारेषु नराधमान् ।
क्षिपाम्य् अजस्रम् अशुभान् आसुरीष्व् एव योनिषु ॥१३॥
आसुरीं योनिम् आपन्ना मूढा जन्मनि जन्मनि ।
माम् अप्राप्यैव कौन्तेय ततो यान्त्य् अधमां गतिम् ॥१४॥ (गीता १६।१९-२०)
तथा -
अवजानन्ति मां मूढा मानुषीं तनुम् आश्रितम् ।
परं भावम् अजानन्तो मम भूतमहेश्वरम् ॥१५॥
मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः ।
राक्षसीम् आसुरीं चैव प्रकृतिं मोहिनीं श्रिताः ॥१६॥ (गीता ९।११-१२)
इत्य् अनेन स्वभक्ताः स्तुताः ।
महात्मानस् तु मां पार्थ दैवीं प्रकृतिम् आश्रिताः ।
भजन्त्य् अनन्यमनसो ज्ञात्वा भूतादिम् अव्ययम् ॥१७॥
(एन्द् पगे ३)
सततं कीर्तयन्तो मां यतन्तश् च दृढव्रताः ।
नमस्यन्तश् च मां भक्त्या नित्ययुक्ता उपासते ॥१८॥ (गीता ९।१३-१४)
अतैवैकादशे मद्-भक्त-पूजाभ्यधिका इति । मम पूजतो ऽप्य् अभि सर्वतोभावेनाधिका अधिक-मत्-प्रीति-करीत्य् अर्थः । तस्मान् मद्-भक्त-पूजावश्यका चान्तरङ्गा चेति स्थिते -
एतेषाम् अपि सर्वेषां
प्रह्लादः प्रवरो मतः ।
[*नोते: थेसे त्wओ लिनेस् अरे ल्भाग् २।८, wहिछ् फ़िनिस्हेस् यत् प्रोक्तं तस्य माहात्म्यं स्कान्द-भागवतादिषु।]
सर्वेषु हरि-भक्तेषु
प्रह्लादो हि महत्तमः ॥२०॥
[*नोते: (स्कन्दप्) ल्भाग् २।९]
सप्तमे प्रह्लादस्यैव हि वाक्यम् –
क्वाहं रजः-प्रभव ईश तमो ऽधिके ऽस्मिन्
जातः सुरेतर-कुले क्व तवानुकम्पा ।
न ब्रह्मणो न तु भवस्य न वै रमाया
यन् मे ऽर्पितः शिरसि पद्म-करः प्रसादः ॥ (भ्प् ७।९।२६)
तत्रैव श्री-नृसिंह-वाक्यम् –
भवन्ति पुरुषा लोके
मद्-भक्तास् त्वाम् अनुव्रताः ।
भवान् मे खलु भक्तानां
सर्वेषां प्रतिरूप-धृक् ॥२२॥।
सर्वतः पाण्डवः श्रेष्ठाः प्रह्लादादीदृशाद् अपि ।
श्रीमद्-भागवतं सम्यक् प्रमाणं स्फुटम् ईक्षते ॥२३॥
[*नोते: ल्भाग् २।१२, wहिछ् बेगिन्स् पाण्डवाः सर्वतः श्रेष्ठाः।]
तथा श्री-नारद-वाक्यम् –
यूयं नृ-लोके बत भूरि-भागा
लोकं पुनाना मुनयो ऽभियन्ति ।
येषां गृहान् आवसतीति साक्षाद्
गूढं परं ब्रह्म मनुष्य-लिङ्गम् ॥ (७।१०।४८)
[नोते: कृष्णस् ५९ (प्२२), ८२ (प्३३)]
(एन्द् पगे ४)
स वा अयं ब्रह्म महद्-विमृग्य-
कैवल्य-निर्वाण-सुखानुभूतिः ।
प्रियः सुहृद् वः खलु मातुलेय
आत्मार्हणीयो विधि-कृद् गुरुश् च ॥ (७।१०।४९)
न यस्य साक्षाद् भव-पद्मजादिभी
रूपं धिया वस्तुतयोपवर्णितम् ।
मौनेन भक्त्योपशमेन पूजितः
प्रसीदताम् एष स सात्वतां पतिः ॥ (७।१०।५०)
व्याख्यातं च श्री-स्वामि-चरणैः - प्रह्लादस्य भाग्यं येन देवो दृष्टः । वयं तु मन्द-भाग्या इति विषीदन्तं राजानं प्रत्य् आह यूयम् इति त्रिभिः । पद्य-त्रयस्य तात्पर्यार्थस् तैर् एव लिखितः । न तु प्रह्लादस्य गृहेषु परं ब्रह्म वसति । न च तद्-दर्शनार्थं मुनयस् तद्-गृहान् अभियन्ति । न च तस्य मातुलेयादि-रूपेण वर्तते । न च स्वयम् एव प्रसन्नः । अतो यूयम् एव ततो ऽपि समत्तो ऽपि भूरि-भागा इति भावः ॥ इति ।
सदातिसन्निकृष्टत्वान् ममताधिक्यतो हरेः ।
पाण्डवेभ्यो ऽपि यदवः केचिच् छ्रेष्ठतमा मताः ॥
तथा श्री-दशमे -
अहो भोजयते यूयं जन्म-भाजो नॄणाम् इह ।
यत् पश्यता ऽसकृत् कृष्णं तद्-दर्शनम् अपि योगिनाम् ॥ (१०।८२।२८)
(एन्द् पगे ५)
तद्-दर्शन-स्पर्शनानपथ-प्रजल्प-
शय्यासनाशन-सयौन-स-पिण्ड-बन्धः ।
येषां गृहे निरय-वर्त्मनि वर्ततां वः
स्वर्गापवर्ग-विरमः स्वयम् आस विष्णुः ॥ (१०।८२।३०)
तथा -
शय्यासनाटनालाप-
क्रीडा-स्नानाशनादिषु ।
न विदुः सन्तम् आत्मानं
वृष्णयः कृष्ण-चेतसः ॥३०॥ (भ्प् १०।९०।४६)
यदुभ्यो ऽपि वरिष्ठो ऽसौ
भगवान् श्रीमद्-उद्धवः ।
[*नोते: थे फ़िर्स्त् त्wओ लिनेस् फ़ोल्लोw ल्भाग् २।२२। सर्वेभ्यो फ़ोर् भगवान्।]
यादवेन्द्रस्य यो मन्त्री
शिष्यो भृत्यः प्रियो महान्
आबाल्याद् एव गोविन्दे
भक्तिर् अस्य सदोत्तमा ॥३१॥
[*नोते: थे लस्त् त्wओ लिनेस् अरे ल्भग् २।२५।]
तथा तृतीये -
यः पञ्च-हायनो मात्रा
प्रातर्-आशाय याचितः ।
तन् नैच्छद् रचयन् यस्य
सपर्यां बाल-लीलया ॥३२॥ (भ्प् ३।२।२)
श्री-दशमे च –
वृष्णीनां प्रवरो मन्त्री कृष्णस्य दयितः सखा ।
शिष्यो बृहस्पतेः साक्षाद् उद्धवो बुद्धि-सम्मतः ॥३३॥
तम् आह भगवान् प्रेष्ठं भक्तम् एकान्तिनं क्वचित् ।
गृहीत्वा पाणिना पाणिं प्रपन्नार्तिहरो हरिः ॥३४॥ (१०।४६।१-२)
एकादशे च (१६।२४) त्वं तु भागवतेष्व् अहम् इति । न च सङ्कर्षणो न श्रीर् नैवात्मा च यथा भवान् इति च । अतैव तृतीये स्वयं तथैवाचरितम् –
(एन्द् पगे ६)
नोद्धवो ऽण्व् अपि मन्-न्यूनो
यद् गुणैर् नार्दितः प्रभुः ।
अतो मद्-वयुनं लोकं
ग्राहयन्न् इह तिष्ठतु ॥३५॥ (भ्प् ३।४।३)
यद् यस्माद् गुणैः सत्त्वादिभिर् नार्दितो न पीडितः गुणातीतः इत्य् अर्थः । यतः प्रभुः भक्ति-रसास्वादे प्रभविष्णुः ।
व्रज-देव्यो वरीयस्य ईदृशाद् उद्दवाद् अपि ।
यद् आसां प्रेम-माधुर्यं स एषो ऽप्य् अभियाचते ॥३६॥ (ल्भाग् २।२९)
तथा हि दशमे –
दृष्ट्वैवम् आदि गोपीनां
कृष्णावेशात्म-विक्लवम् ।
उद्धवः परमः प्रीतस् ता
नमस्यन्न् इदं जगौ ॥३७॥ (भ्प् १०।४७।५७)
नमस्यन्न् इति वर्तमान-शतृ-प्रयोगो नमस्कारस्यानवच्छिन्नत्वं बोधयति । इदं वक्ष्यमाणं तद् एवाह –
एताः परं तनु-भृतो भुवि गोप-वध्वो
गोविन्द एवम् अखिलात्मनि रूढ-भावाः ।
वाञ्छन्ति यद् भव-भियो मुनयो वयं च
किं ब्रह्म-जन्मभिर् अनन्त-कथा-रसस्य ॥३८॥ [भ्प् १०।४७।५८]
भावस्य दुर्लभत्वाद् धि तासां तत्-सिद्धये पुनः ।
पाद-रेणूक्षितं येन तृण-जन्मापि याच्यते ॥३९॥
[*नोते: थे सेचोन्द् लिने इस् एxअच्त्ल्य् २।४१, थे फ़िर्स्त् लिने ओफ़् wहिछ् इस्
न चित्रं प्रेम-माधुर्यम्
आसां वाञ्छेद् यद् उद्धवः ।]
तथा हि श्री-दशमे -
आसाम् अहो चरण-रेणु-जुषाम् अहं स्याम्
वृन्दावने किम् अपि गुल्म-लतौषधीनाम् ।
(एन्द् पगे ७)
या दुस्त्यजं स्व-जनम् आर्य-पथं च हित्वा
भेजुर् मुकुन्द-पदवीं श्रुतिभिर् विमृग्याम् ॥४०॥ [भ्प् १०।४७।६१]
तस्या मृग्यत्वं श्रुतिभिर् एवोक्तम्, यथा तत्रैव –
निभृत-मरुन्-मनोक्ष-दृढ-योग-युजो हृदि यन्
मुनय उपासते तद्-अरयो ऽपि ययुः स्मरणात् ।
स्त्रिय उरुगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो
वयम् अपि ते समाः सम-दृशो ऽङ्घ्रि-सरोज-सुधाः ॥४१॥ (भ्प् १०।८७।२३)
अत्र प्रतियुग्मान्तरस्थस्यापि शब्दस्य द्वयेन युग्म-द्वयं पृथग् अवम्यते । ततश् च तद् ब्रह्माख्य तत् तं मुनय उपासते तद् अरयो ऽपि ययुः स्मरणात् । स्त्रियः श्री-व्रज-देव्यः अङ्घ्रि-सरोज-सुधास् तत्-प्रेम-मय=माधुर्याणि ययुः । वयम् अपि समदृशस् ताभिः सम-भावाः सत्यः समास् ताभिः तुल्यतां प्राप्ताः । व्यूहान्तरेण गोप्यो भूत्वा तवाङ्घ्रि-सरोज-सुधा ययिम इत्य् अर्थः । अत्र बृहद्-वामन-पुराणे तासां प्रार्थना पूर्वकाणि वाक्यानि सन्ति । स्त्री-शब्दस्य गोपी वाचकत्वम् । तद् अरयो ऽपि ययुः स्मरणाद् इत्य् अनेनासुराणाम् अपि मोक्ष-दातृत्वेन अन्यतया प्रसिद्धस्य श्री-कृष्णस्यैवालम्बनत्वेन लब्धत्वात् । तासाम् एव तस्मिन् केवलेन रागेण भजन-प्रसिद्धेः । तद् एतद् अप्य् आस्ताम् श्री-नारायणाङ्ग-स्थिताया लक्ष्मीतो ऽपि तासां परम-वैलक्षण्यं
तेनैव तादृश-निज-भक्ति-हेतुत्वेन दर्शितम् । यथा तत्रैव -
(एन्द् पगे ९)
नायं श्रियो ऽङ्ग उ नितान्त-रतेः प्रसादः
स्वर्-योषितां नलिन-गन्ध-रुचां कुतो ऽन्याः ॥४२॥ (भ्प् १०।४७।६०)
इत्य् अनेन लक्ष्म्यादिका निरवशेषा एव स्त्रियो नामुभिः सालक्षण्यं प्राप्नुवन्तीति विलक्षणा । तत्राप्य् उदगाद् इत्य् अनेन स प्रसादस् तासु रास-प्रसङ्गे उदितवान् एव न तु जात इति स्वाभाविक-प्रेमवत्यः । केवलस्य श्री-वृन्दावन-विहारिणः पूर्ण-भगवतः सर्वतो विलक्षणस्य नित्य-प्रेयसी-रूपा इति । सर्वतो विलक्षणा-लक्ष्मी-विशेषत्वेन प्राप्ताः । तस्मात् ताभिः सह तस्य पूजनम् आवश्यकम् इत्य् आयातम् । ततः स्थूण-निखनन-न्यायेन तद्-अर्थं तासां स्वरूपं निरूप्यते । तत्रादौ श्री-भगवत्-सन्दर्भे
[*नोते: थिस् इस् थे स्तर्तिन्ग् पोइन्त् ओफ़् थे भगवत्-सन्दर्भ। थे त्wओ फ़ोल्लोwइन्ग् वेर्सेस् अरे क़ुओतेद् इन् सेच्तिओन् १६ अन्द् २१।]
ब्रह्मेति परमात्मेति भगवान् इति शब्द्यते इत्य् (भ्प् १।२।११) आदिना श्री-भगवन्तं सुष्ठु निर्धार्य तस्य शक्ति-द्वयी निरूपिता । मायाख्या स्वरूप-भूताख्या च ।
तत्र –
ऋते ऽर्थं यत् प्रतीयेत
न प्रतीयेत चात्मनि ।
तद् विद्याद् आत्मनो मायां
यथाभासो यथा तमः ॥ [भ्प् २।९।३३]
इत्य् अनेन -
एषा माया भगवतः सृष्टि-स्थित्य्-अन्त-कारिणी ।
त्रि-वर्णा वर्णितास्माभिः किं भूयः श्रोतुम् इच्छसि ॥ (भ्प् ११।३।१६)
इत्य् अनेन माया-शक्तिर् निरूपिता । तत्र तस्या अंशाश् च दर्शिताः ॥
अथ यन् न स्पृशन्ति न विदुर् मनो बुद्धीन्द्रिया सर्वैः इत्य् (भ्प् ६।१६।२०) आदिना ।
त्वम् आद्यः पुरुषः साक्षाद्
ईश्वरः (एन्द् पगे ९) प्रकृतेः परः ।
मायां व्युदस्य चिच्-छक्त्या
कैवल्ये स्थित आत्मनि ॥ [भ्प् १।७।२३]
इत्य् अनेन च स्वरूप-भूताचिन्त्य-शक्तिर् दर्शिता । तस्या वृत्ति-भेदेनान्तायाः –
श्रिया पुष्ट्या गिरा कान्त्या कीर्त्या तुष्ट्येलयोर् जया इत्य् आदि कियन्तो भेदाश् च दर्शिता (भ्प् १०।३९।५५) । सा च शक्ति-द्वयी अपरा चेति श्री-विष्णु-पुराणे दर्शिता –
सर्व-भूतेषु सर्वात्मन्
या शक्तिर् अपरा तव ।
गुणाश्रया नमस् तस्मै
शाश्वतायै सुरेश्वर ॥४५॥
यातीत-गोचरा वाचां
मनसां चाविशेषणा ।
ज्ञानि-ज्ञान-परिच्छेद्या
वन्दे ताम् ईश्वरीं पराम् ॥४६॥ इत्य् अनेन (विप् १।१९।७६-७७) ॥
तत्र प्रथमा श्री-वैष्णवानां जगद्वद्-उपेक्षणीया यन्-मयी एव खलु तस्य जगत्ता । द्वितीया तु तेषां श्री-भगवद्-उपास्या तदीय-स्वरूप-भूता यन्-मय्य् एव खलु तस्य भगवत्ता । तत्रैकम् एव स्वरूपांशित्वेन शक्तिमत्त्वेन च विराजतीति । यस्य शक्तेः स्वरूप-भूतत्वं निरूपितम् । चिच्-छक्ति-मत्ता प्रधानेन विराजमानं भगवत्-सञ्ज्ञम् आप्नोतीति तत्रैव दर्शितम् एव । तद् एवं शक्तित्व-प्राधान्येन विराजमानां लक्ष्मी-सञ्ज्ञाम् आप्नोतीति दर्शयितुं प्रकरणम् उत्थाप्यते ।
[*नोते: थे फ़ोल्लोwइन्ग् पस्सगे एन्दिन्ग् wइथ् विशुद्धत्वम् इस् इन् भग्स् ११७।]
तत्र तावद् एकस्यैव् स्वरूपस्य सत्त्वाच् चित्ताद् आनन्दाच् च स्वरूप-भूता शक्तिर् अप्य् एका त्रिधा । तद् उक्तं विष्णु-पुराणे –
ह्लादिनी सन्धिनी संवित्
त्वय्य् एका सर्व-संस्थितौ ।
ह्लाद-ताप-करी मिश्रा
त्वयि नो गुण-वर्जिते ॥४७॥ इति (विप् १।१२।६८)
व्याख्यातं च स्वामिभिः । ह्लादिनी आह्लाद-करी (एन्द् पगे १०) सन्धिनी सन्तता संविद् विद्या-शक्तिः । एका मुख्या अव्यभिचारिणी स्वरूप-भूतेति यावत् । सा सर्व-संस्थितौ सर्वस्य सम्यक् स्थितिर् यस्मात् तस्मिन् सर्वाधिष्ठान-भूते त्वय्य् एव न तु जीवेषु च सा गुणमयी त्रिविधा सा त्वयि नास्ति । ताम् एवाह ह्लाद-ताप-करी मिश्रा इति । ह्लाद-करी मनः-प्रसादोत्था सात्त्विकी । तापकरी विषय-वियोगादिषु ताप-करी तामसी । तद्-उभय-मिश्रा विषय-जन्या राजसी । तत्र हेतुः – सत्त्वादि-गुण-वर्जिते । तद् उक्तं सर्वज्ञ-सूक्तौ -
ह्लादिन्या संविद्-आश्लिष्टः
सच्-चिद्-आनन्द ईश्वरः ।
स्वाविद्या-संवृतो जीवः
सङ्क्लेश-निकराकरः ॥४८॥ इति (भावार्थ-दीपिका १।७।६)
अत्र क्रमाद् उत्कर्षेण सन्धिनी-संविद्-ध्लादिन्या ज्ञेयाः । तत्र च सति घटानां घटत्वम् इव सर्वेषां सतां वस्तूनां प्रतीतेर् निमित्तम् इति क्वचित् सत्ता-स्वरूपत्वेन आम्नातो ऽप्य् असौ भगवान् सद् एव सोम्येदम् अग्र आसीद् इत्य् अत्र सद्-रूपत्वेन व्यापदिश्यमाना मया सत्तां दधाति धारयति च सा सर्व-देश-काल-द्रव्यादि-प्राप्तिकरी सन्धिनी । तथा संविद्-रूपो ऽपि यया संवेत्ति संवेदयति च सा संवित् । तथा ह्लाद-रूपो ऽपि यया संविद् उत्कट-रूपया तं ह्लादं संवेत्ति संवेदयति च सा ह्लादिनीति विवेचनीयम् ।
तद् एवं तस्या मूल-शक्तेस् त्र्य्-आत्मकत्वेन सिद्धे येन स्व-प्रकाशता-लक्षणेन तद्-वृत्ति-विशेषेण स्वरूपं स्वयं स्वरूप-शक्तिर् वा विशिष्टम् आविर्भवति तद् विशुद्ध-सत्त्वम् । तच् चान्य-निरपेक्षयस् तत्-प्रकाश इति ज्ञापन-ज्ञान-वृत्तिकत्वात् संविद् एव । अस्य मायया स्पर्शाभावात् विशुद्धत्वम् ।
[*नोते: थिस् एन्तिरे सेच्तिओन् बेगिन्निन्ग् wइथ् ह्लादिनी सन्धिनी संवित् इस् फ़ोउन्द् इन् भगवत्-सन्दर्भ, सेच्तिओन् ११७।]
तद् उक्तं श्री-विष्णु-पुराणे (एन्द् पगे १२) -
सत्त्वादयो न सन्तीशे
यत्र च प्राकृता गुणाः ।
स शुद्धः सर्व-शुद्धेभ्यः
पुमान् आद्यः प्रसीदतु ॥४९॥ इति । [विप् १।९।४४]
श्री-दशमे च विशुद्ध-सत्त्वं तव धाम शान्तम् इत्य् आदि (भ्प् १०।२७।४)
हरिर् हि निर्गुणः साक्षात्
पुरुषः प्रकृतेः परः ।
स सर्व-दृग् उपद्रष्टा
तं भजन् निर्गुणो भवेत् ॥ इति [भ्प् १०।८८।५]
एकादशे च सत्त्वं रजस् तम इति गुणा जीवस्य नैव मे इति [भ्प् ११।२५।१२] । गीतोपनिषत्सु च -
ये चैव सात्त्विका भावा राजसास् तामसाश् च ये ।
मत्त एवेति तान् विद्धि न त्व् अहं तेषु ते मयि ॥
त्रिभिर् गुण-मयैर् भावैर् एभिः सर्वम् इदं जगत् ।
मोहितं नाभिजानाति माम् एभ्यः परम् अव्ययम् ॥ इति [गीता ७।१२-३]
तत्र चेदम् एव विशुद्ध-सत्त्वं सन्धिन्य्-अंश-प्रधानं चेद् आधार-शक्तिः । संविद्-अंश-प्रधानम् आत्म-विद्या । ह्लादिनी-सारांश-प्रधानं गुह्य-विद्या । युगपत् शक्ति-त्रय-प्रधानं मूर्तिः । अत्राधार-शक्त्या भगवद्-धाम प्रकाशते । तद् उक्तं - यत् सात्वताः पुरुष-रूपम् उशन्ति सत्त्वं लोको यत [भ्प् १२।८।४०]
[*नोते: थिस् अप्पेअर्स् तो बे एविदेन्चे थत् ८ इस् थे ओरिगिनल् सोउर्चे ओफ़् थे मतेरिअल्, नोत् ११७। तो बे फ़ोल्लोwएद्।]
इति ।
तथा ज्ञान-तत्-प्रवरक-लक्षण-वृत्ति-द्वयकयात्म-विद्यया तद्-वृत्ति-रूपम् उपासकाश्रयं ज्ञानं प्रकाशते । एवं भक्ति-तत्-प्रवर्तक-लक्षण-वृत्ति-द्वयकया गुह्य-विद्यया तद्-वृत्ति-रूपा प्रीत्यात्मिका भक्तिः प्रकाशते ।
एते एव विष्णु-पुराणे लक्ष्मी-स्तवे स्पष्टीकृते - (एन्द् पगे १२)
यज्ञ-विद्या महा-विद्या
गुह्य-विद्या च शोभते ।
आत्म-विद्या च देवि त्वं
विमुक्ति-फल-दायिनी ॥ [विप् १।९।११८] इति ।
यज्ञ-विद्या कर्म । महा-विद्या अष्टाङ्ग-योगः । गुह्य-विद्या भक्तिः । आत्म-विद्या ज्ञानम् । तत्-तत्-सर्वाश्रयत्वात् त्वम् एव तत्-तद्-रूपा विविधानां मुक्तीनाम् अन्येषां च विविधानां फलानां दात्री भवसीत्य् अर्थः ।क्
[*नोते: क्। थिस् सेच्तिओन् चन् बे फ़ोउन्द् इन् र्कद् १२-१३।] श्रुतिश् च परास्य शक्तिर् विविधैव श्रूयते स्वाभाकिई ज्ञान-बल-क्रिया चेति ।
अथैवम्भूतानन्त-वृत्तिका या स्वरूप-शक्तिः सा त्व् इह भगवद्-वामांश-वर्तिनो मूर्तिमतो लक्ष्मीर् एवेत्य् आह अनपायिनी भगवती श्रीः साक्षाद् आत्मनो हरेः । [भ्प् १२।११।२०] इति । टीका च - अनपायिनी हरेः शक्तिः । तत्र हेतुः साक्षाद् आत्मनः स्व-स्वरूपस्य चिद्-रूपत्वात् तस्यास् तद्-अभेदाद् इत्य् अर्थः इत्य् एषा ।
अत्र साक्षात्-शब्देन माया परैत्य् अभिमुखे च विलज्जमाना इति [भ्प् २।७।४७] विमोहिता विकत्थन्ते ममाहम् इति दुर्धियः । [भ्प् २।५।१३] इत्य् उक्त्वा माया नेति ध्वनितम् । अत्र अनपायित्वं यथा हयशीर्ष-पञ्चरात्रे -
परमात्मा हरिर् देवः तच्-छक्तिः श्रीर् इहोदिता ।
श्रीर् देवी प्रकृतिः प्रोक्ता केशवः पुरुषः स्मृतः ।
न विष्णुना विना देवी न हरिः पद्मजां विना ॥५१॥ इति ।
विष्णु-पुराणे (विप् १।९।१४३) -
नित्यैव सा जगन्-माता विष्णुः श्रीर् अनपायिनी ।
यथा सर्व-गतो विष्णुस् तथा श्रीस् तत्-सहायिनी ॥५२॥
[*नोते: थिस् सेच्तिओन् क़ुओतेद् फ़्रोम् भगवत्-सन्दर्भ ११८।]
(एन्द् पगे १३)
देवत्वे देव-देहा सा मानुषत्वे च मानुषी ।
हरेर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम् ॥५३॥ इति च ।
ब्रह्म-संहितायां (५।८) नियतिः सा रमा देवि तत्-प्रिया तद्-वशं तदा इति । नियम्यते स्वयं भगवत्य् एव नियताभवतीति स्वरूप-भूता शक्तिः । देवी द्योतमाना प्रकाश-रूपेत्य् अर्थः । चिद्-रूपम् इति स्कान्दे -
अपरं त्व् अक्षरं या सा प्रकृतिर् जड-रूपिका ।
श्रीः परा प्रकृतिः प्रोक्ता चेतना विष्णु-संश्रया ॥५४॥
ततश् च भगवान् कृष्ण-सञ्ज्ञ एव इति निर्धारिते न विष्णुना । विना देवीत्यादि देवत्वे देव-देहा सा इत्य् आदि तदीय-स्वरूप-भूता ईश-वामांश-वर्तिनी लक्ष्मी किम् आख्या । इति निर्धार्या । तत्र द्वयोर् अपि पूर्योः श्री-महिष्याख्या ज्ञेया । तदीय-स्वरूप-शक्तित्वं स्कान्द-पर्भास-खण्डे शिव-गौरी-संवादे गोप्यादित्य्-माहात्म्ये दृष्टं यथा –
पुरा कृष्णो महा-तेजा यदा प्रभासम् आगतः ।
सहितो यादवैः सर्वैः षट्-पञ्चाशत्-प्रकोटिभिः ॥
षोडशैव सहस्राणि गोप्यस् तत्र समागताः ।
लक्षम् एकं षष्ठिर् एते कृष्ण-सुताः प्रिये ॥ इत्य् उपक्रम्य । (एन्द् पगे १४)
ततो गोप्यो महा देवि विद्या याः षोडश स्मृताः ।
तासां नामानि ते वक्ष्ये तानि ह्य् एक-मनाः शृणु ॥
लम्बिनी चन्द्रिका कान्ता क्रूरा शान्ता महोदया ।
भीषणी नन्दिनी शोका सुपूर्वा विमला क्षया ॥
सुभद्रा शोभना पुण्या हंशीता कलाः क्रमात् ।
हम्स एव यतः कृष्णः परमात्मा जनार्दनः ।
तस्यैताः शक्तयो देवि षोडशैव प्रकीर्तिता ॥
चन्द्ररूपी मतः कृष्ण कला-रूपास्तु ताः स्मृताः ।
सम्पूर्ण-मण्डला तासां मालिनी षोडशी कला ॥
प्रतिपत्-तिथिम् आराभ्य सञ्चरत्य् आसु चन्द्रमाः ।
षोडशैव कला यास् तु गोपी-रूपा वरानने ॥
एकैकशस् ताः सम्भिन्नाः सहस्रेण पृथक् पृथक् ।
एवं ते कथितं देवि रहस्यं ज्ञान-सम्भवम् ।
य एतं वेद पुरुषः ज्ञेयो वैष्णवो बुधैः ॥
तत्र गोप्यो राज्ञ्य इत्य् अर्थः । गोपो भूपे ऽपीत्य् अमरः । लम्बिनी अवतार-शक्तिः । हंसशीतेत्य् अत्र प्राप्तस्य हंसस्य वाच्यम् आह हम्स एवेति । स च चन्द्र-रूपी चन्द्र दृष्टान्तेननोद्देश्य इत्य् अर्थः । कला-रूपा इति ताश् च शक्तयः चन्द्रस्यामृतेत्य् आदि कला दृष्टान्तेनोद्देश्या इत्य् अर्थः ।
अनुक्ताम् अन्तिमां महाशक्तिम् आह सम्पूर्णेति । सेयं तु कला समष्ठिरूपा ज्ञेया । दृष्टान्तोपादानाच् चन्द्रस्य तादृशत्वम् आह प्रतिपद् इति । आसु एतत्-तुलात्वे विवक्षितम् आह षोडशैवेति । षोडशानाम् (एन्द् पगे १५) एव विद्यारूपत्वात् । एतद्-उपदेशस्य ज्ञान-सम्भव-रहस्यत्वात् तज्-ज्ञानस्य वैष्णवत्वानुमाxअकलिङ्गत्वाच् च । क्रूराम् ईषणाशोकानाम् अपि भगवत्-स्वरूप-भूतानाम् एव सतीनां मल्लानाम् अशनिर् इत्य् आदिवत् श्री-कृष्णस्य कठिनत्वअ-प्रत्यायकत्वात् । मृतुर् भोजपतेर् इतिवत् दुर्जन-विचित्रासकत्वात् । असतां शास्तेतिवत् तदीय-शोक-हेतुत्वाद् एवं च तत्-तन्-निरुक्तिर् उपपद्यते । यथा प्रकाशैक-रूपाया एव सूर्य-कान्तोर् उलूकेषु तामिस्रादि-व्यञ्जकता । ततश् चन्द्र-रूपी मत कृष्णः कला-रूपस् तु ताः स्मृता इति स्फुटम् एव स्वरूप-भूतत्वं
दर्शितम् । तद् एवं तासां स्वरूप-शक्तित्वे लक्ष्मीत्वं तासां सिद्धत्य् एव । तद् एवम् अभिप्रेत्य तासां लक्ष्मीत्वम् आह श्री-शुकः –
गृहेषु तासाम् अनपय्यातर्क्य-कृन्
निरस्त-साम्यातिशयेष्व् अवस्थितः ।
रेमे रमाभिर् निज-काम-सम्प्लुतो
यथेतरो गार्हक-मेधिकांश् चरन् ॥६३॥ (भ्प् १०।५९।४३)
टीका च - रमाभिर् लक्ष्म्या अंश-भूताभिर् इत्य् एषा । स्वरूप-शक्तित्वाद् एव रेमे इत्य् उक्तम् । अतो निजः स्त्रियः परमानन्द-शक्ति-विशेषोदय-रूप-प्रेम-विशेष-स्वरूपो यः कामस् तेन सम्प्लुतो व्याप्त इति । तत्र श्रीमत्य् आभासायां भू-शक्ति-रूपत्वं पाद्मोत्तर-खण्डादौ । यमुनायाः कृपा-शक्ति-रूपत्वं स्कान्द-यमुना-माहात्म्यादाव् इत्य् अन्वेषणीयम् । किन्तु सत्यभामाया हरिवंशादौ सौभाग्याति-
(एन्द् पगे १६) शयस्य विवक्षितत्वात् प्रेम-शक्ति-प्रचुर-भू-शक्तित्वं ज्ञेयम् । स्वयं लक्ष्मीस् तु रुक्मिणी ।
द्वारकायाम् अभूद् राजन् महामोदः पुरौकसाम् ।
रुक्मिण्या रमयोपेतं दृष्ट्वा कृष्णं श्रियः पतिम् ॥ (भ्प् १०।५४।६०)
इत्य् आदिषु तस्याम् एव भूरिशः प्रसिद्धेः । अतः स्वयं लक्ष्मीत्वेनैव परस्पर-योग्यताम् आह श्री-शुकः –
अस्यैव भार्या भवितुं रुक्मिण्य् अर्हति नापरा ।
असाव् अप्य् अनवद्यात्मा भैष्म्याः समुचितः पतिः ॥६४॥ (भ्प् १०।५३।३७)
[*नोते: फ़्रोम् हेरे तो दर्शितवान्, कृष्णस् १८५-१८६, पगे ११०। सेए अल्सो गोपाल-चम्पू १५।७५।]
अतः स्वयं भगवतो ऽनुरूपत्वेन स्वयं लक्ष्मीत्वं प्रसिद्धम् एव । अथ श्री-वृन्दावने तदीय-स्वरूप-शक्ति-प्रादुर्भावाः श्री-व्रज-देव्यः । यथा ब्रह्म-संहितायां (५।३७) –
आनन्द-चिन्मय-रस-प्रतिभाविताभिस्
ताभिर् य एव निज-रूपतया कलाभिः ।
गोलोक एव निवसत्य् अखिलात्म-भूतो
गोविन्दम् आदि-पुरुषं तम् अहं भजामि ॥६५॥ इति ।
तत्र ताभिः श्री-गोपीभिर् मन्त्रे (५।२४) तच्-छब्द-प्रयोगात् । आनन्द-चिन्-मय-रसेन प्रेम-रस-विशेषेण प्रैत्भाविताभिस् तत्-प्रधानाभिर् इत्य् अर्थः । ह्लादिनी-सार-वृत्ति-विशेष-रूपत्वात् । कलात्वेनैव निज-रूपत्वे सिद्धे पुनर् निज-रूपतयोक्तिः प्रकट-लीलायां (एन्द् पगे १७) परकीयाभासत्वस्य व्यवच्छेदार्थम् । यत उक्तं तत्रैव श्रियः कान्ताः कान्तः परम-पुरुषः (५।५६) इति । श्री-परम-पुरुषयोर् औपपत्यं नास्तीति युक्तं च दर्शितवान् । एतद् अभिप्रायेणैव स्वायम्भुवागमे ऽपि श्री-भू-लीला-शब्दैः तत्-प्रेयसी-विशेषत्वम् उपदिष्टम् ।
अतैव गोपीजना विद्या-कला-प्रेरक इत्य् अत्र तापनी-वाक्ये श्रीमद्-दशाक्षरस्थ-नाम-निरुक्तौ ये गोपीजनास् ते आ सम्यग् या विद्या परम-प्रेम-रूपा तस्याः कला-वृत्ति-रूपा इति व्याख्येयम् । राज-विद्या राज-गुह्यम् इत्य् आदि गीता-प्रकरणात् भगवत्य् अविद्या-संश्लेषाभावात् । तद् उक्तं ह्लादिनीत्य् आदि । ततस् तासां प्रेरकस् तत् क्रीडायां प्रवर्तकः । स च पतित्व एव विश्रान्तः । इति वल्लभ-शब्देनैकार्थ्यम् एव । जन्म-जराभ्यां भिन्न इत्य् आदौ स वो हि स्वामी भवति इति तस्याम् एव श्रुतौ, ताः प्रति दुर्वासा-वाक्यात् । स्त्री-सम्बन्धे स्वामी-शब्दः पअत्याव् एव रूढः । स्वामिनो देवृ-देवराव् इत्य् अमर-कोषात् । पाद-न्यासैर् इत्य् आदौ [भ्प् १०।३३।७] कृष्ण-वध्व इति श्री-शुक-वचनम् । ऋषभस्य जगुः कृत्यानि [भ्प् १०।३३।२१] इत्य् अत्र टीका च ऋषभस्य पत्युः इति । सङ्गीतशास्त्रे
च, गोपीपतिर् अनन्तो ऽपि वंशध्वनिवशं गतः इति। श्रीमच्-छङ्कराचार्य-कृते यमुनास्तोत्रे च, विधेहि तस्य राधिकाधवाङ्घ्रिपङ्कजे रतिम् इति । उद्धवं प्रति श्री-भगवता च – बल्लव्यो मे मदात्मिकाः [भ्प् १०।४६।६] इति । तद् इदं गच्छोद्धव व्रजं सौम्य पित्रोर् नः प्रीतिम् आवह इति [भ्प् १०।४६।३] (एन्द् पगे १८) वल्लभाभिमानिताम् आत्मनि व्यज्य श्रीकृष्णस्य वचनं ब्राह्मणस्य मम ब्राह्मणीत्य् आदिवत् गोप-रूपस्य मम गोपी-रूपा इत्य् अर्थः । अतस् तासाम् अपि तथैवाभिमानं तत्रैवोक्तम् – अपि बत मधुपुर्यां आर्यपुत्रो ऽधुनास्ते इति (१०।४७।११) । तथैव च कुमारीणां सङ्कल्प-वचनम् - नन्द-गोप-सुतं देवि पतिं मे कुरुते नमः इति (१०।२२।४) ।
न केवलं साधारण-रीत्या दाम्पत्य-व्यवहारस् ताभिर् मम किन्तु मद्-आत्मिका मत्-स्वरूप-शक्तय इत्य् अर्थः । आत्म-शब्दस्य मनीवाचकत्वेन ता मन्-मनस्का (१०।४६।४) इत्य् आद्य् उक्तं पुनर् उक्तं स्यात् । उक्तं च तासां स्वरूप-शक्तित्वं श्री-शुकदेवेन -
ताभिर् विधुत-शोकाभिर् भगवान् अच्युतो वृतः ।
व्यरोचताधिकं तात पुरुषः शक्तिभिर् यथा ॥ इति । (१०।३२।१०)
ताभिः शक्तिभिर् यथा यावत् तथा तत्रातिशुशुभे ताभिर् भगवान् देवकी-सुतः इत्य् आदि । चकाश गोपी-परिषद्-गतो ऽर्चित इत्य् आदि । व्यरोचतैणाङ्क इवोडुभिर् वृत इत्य् आदि । स्वरूप-शक्तित्वाद् एवाधिकं व्यरोचत इत्य् आद्य्-उक्तम् उपपद्यते । स्व-शक्त्येक-प्रकाशत् श्री-भगवतः । अतस् तासां लक्ष्मी-सञ्ज्ञत्वम् अप्य् उक्तं ब्रह्म-संहितायां लक्ष्मी-सहस्र-शत-सम्भ्रम-सेव्यमानम् इति । श्रियः कान्ताः कान्तः परम-पुरुष इति । श्री-दशमे च –
(एन्द् पगे १९) गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्त-वल्लभम् इति (१०।३३।१४) गोप्य एव श्रिय कान्तं मनोहरं एकान्त-वल्लभं रहो-रमणम् । तस्मात् नायं श्रियो ऽङ्ग इति शुकानुवादः सामान्ये लक्ष्मी-विजयं व्यनक्ति । लक्ष्मी-सहस्रेति विरिञ्च-वाणी लक्ष्मी-विशेषत्वम् उरीकरोति । कुरुत्वे ऽपि श्री-युधिष्ठिरादीनां पाण्डव-सञ्ज्ञत्वम् । लक्ष्मीत्वे ऽपि व्रज-देवीनां गोपी-सञ्ज्ञत्वम् इति । तस्मात् तासां परम-लक्ष्मी-रूपत्वेन तन्-नित्य-प्रेयसीत्वं सिद्धम् ।
तथा च गौतमीय-तन्त्रे दशार्ण-व्याख्यायाम् (२०-२१) –
गोपीति प्रकृतिं विद्याज् जनस् तत्त्वसमूहकः ।
अनयोर् आश्रयो व्याप्त्या कारणत्वेन चेश्वरः ॥६७॥
सान्द्रानन्दं परं ज्योतिर् वल्लभत्वेन कथ्यते ।
अथवा गोपी प्रकृतिर् जनस् तदंशमण्डलम् ॥६८॥
अनयोर् वल्लभः प्रोक्तः स्वामी कृष्णाख्य ईश्वरः।
कार्यकारणयोर् ईशः श्रुतिभिस् तेन गीयते॥६९॥
अनेकजन्मसिद्धानां गोपीनां पतिर् एव वा।
नन्दनन्दन इत्य् उक्तस् त्रैलोक्यानन्दवर्धनः॥७०॥ इति।
अतैव प्रथमा प्रकृतिः प्रधानं । द्वितीया स्वरूप-शक्तिः । तत्त्वानि महद्-आदीनि अंशाः ।
ज्ञान-शक्ति-बलैश्वर्य-वीर्य-तेजांस्य् अशेषतः ।
भगवच्-छब्द-वाच्यानि विना हेयैर् गुणादिभिः ॥७१॥
इति विष्णु-पुराणोक्ताः (विप् ६।५।७९) ।
अत्र अनेकजन्मसिद्धानां इति, बहूनि मे व्यतीतानि (एन्द् पगे २०) जन्मानि तव चार्जुन [ब्ग् ४।५] इतिवत् अनादि-सिद्धत्वम् एव बोधयति । पतिर् एव इत्य् एव-कारेण प्रकट-लीलायाम् उपपतित्व-व्यवहारस् तु मायिक एवेत्य् अर्थः । स चाग्रे दर्शयिष्यते । वा-शब्दस्यैवोत्तर-पक्षता-बोधनाय ।
[*नोते: ग्च्प् १५।७३-७५]
तद् एवम् आदिभिर् विशिष्टत्वेनैव तद्-आराधनाद् आसां नित्य-प्रेयसीत्वं सिद्धम् । तच्-छृतीनां तद्-आराधानां चानाघननतभावित्वात् । स हि मन्त्रे चतुर्धा प्रतीयते । मन्त्रस्य कारण-रूपत्वेन वर्ण-समुदाय-रूपत्वेन, अधिष्ठातृ-देवता-रूपत्वेन आराध्य-रूपत्वेन च । अत्र कारण-रूपत्वं तद्-अधिष्ठातृ-देवता-रूपत्वं चोक्तं ब्रह्म-संहितायां प्रकृत्या पुरुषेण च इति (५।३) । प्रकृतिर् मन्त्रस्य स्वरूपस् त्रयम् एव श्री-कृष्णः कारण-रूपत्वात् । तद् एवोक्तम् ऋष्य्-आदि-स्मरणे कृष्णः प्रकृतिर् इति । स एव अधिष्ठातृ-देवता-रूपः । वर्ण-समुदाय-रूपं चोक्तं तत्रैव - कामः कृष्णायेत्य् (ब्रह्मस् ५।२४) आदिना । उक्तं च हयशीर्ष-पञ्चरात्रे
वाच्यत्वं वाचकत्वं च देवता-मन्त्रयोर् हि ।
अभेदेनोच्यते ग्रह्म तत्त्वविद्भिर् विचारतः ॥ इति ।
आराध्य-रूपत्वं च तत्रैव ब्रह्म-संहितायां – ईश्वरः परमः कृष्णः सच्चिदानन्द-विग्रहः । अनादिर् आदिर् इत्य् आदिना (५।१) क्विचिद् दुर्गाया अधिष्ठातृत्वं तु शक्ति-शक्तिमतोर् अभेद-विवक्षया । अत उक्तं गौतमीय-कल्पे - यः कृष्णः सैव दुर्गा स्याद् या दुर्गा कृष्ण एव स इति । यतः श्री-कृष्णस् तत्र स्वरूप-शक्ति-रूपेण दुर्गा नाम । तस्मान् नेयं मायांश-भूता दुर्गा इति गम्यते । निरुक्तिश् चात्र दुःखेन (एन्द् पगे २१) गुर्व्-आराधनादि-प्रयासेन गम्यते ज्ञायते इति । तथा च नारद-पञ्चरात्रे श्रुति-विद्या-संवादे -
जानात्य् एका परा कान्तं सैव दुर्गा तद्-आत्मिका ।
या परा परया शक्तिर् महाविष्णु-स्वरूपिणी ।
यस्या विज्ञान-मात्रेण पराणां परमात्मनः ।
मुहूर्ताद् एव देवस्य प्राप्तिर् भवति नान्यथा ॥
एकेयं प्रेम-सर्वस्व-स्वभावा श्री-गोकुलेश्वरी ।
अनया सुलभो ज्ञेय आदि-देवो ऽखिलेश्वरः ॥
भक्तिर् भजन-सम्पत्तिर् भजते प्रकृतिः प्रियम् ।
ज्ञायते ऽत्यन्त-दुःखेन सेयं प्रकृतिर् आत्मनः ।
दुर्गेति गीयते सर्वैर् अखण्ड-रस-वल्लभा ॥
अस्या आवरिका शक्तिर् महामाया ऽखिलेश्वरी ।
यया मुग्धं जगत् सर्वं सर्व-देहाभिमानिनः ॥ इति ।
अतैव मायां व्युदस्य चिच्-छक्त्या कैवल्ये स्थित आत्मनीति प्रथमोक्तेः । न यत्र माया किम् उतापरे हरेर् इति द्वितीयोक्तेः मायातीत-वैकुण्ठावरण-कथने यथोक्तं पाद्मोत्तर-खण्डे -
सत्याच्युतानन्त-दुर्गा-विष्वक्सेन-गजाननाः ।
शङ्ख-पद्म-निधी लोकाश् चतुर्थावरणं स्मृतम् ॥ इत्य् अद्य् उक्त्वा -
नित्याः सर्वे परे धाम्नि ये चान्ये ऽपि दिवौकसः ।
ते वै प्राकृत-नाके ऽस्मिन्न् अनित्यास् त्रिदिवेश्वराः ॥ (एन्द् २२)
इति तेषां श्री-भगवद्-अंश-रूपत्वम् उक्तं त्रैलोक्य-सम्मोहन-तन्त्रे –
सर्वत्र देवदेवो ऽसौ
गोप-वेश-धरो हरिः ।
केवलं रूप-भेदेन
नाम-भेदः प्रकीर्तितः ॥७७॥
अतो नाम-मात्र-साधारेणे ऽनन्य-भक्तैर् न विभेतव्यं किन्तु भागवतैर् नित्य-वैकुण्ठ-सेवकत्वात् विष्वक्सेनादिवत् सत्-कार्या एव ते । अर्चयित्वा तु गोविन्दं तदीयान् नार्चयेत् तु यः इत्य् आदि-वचनेन तद्-असत्कारे दोष-श्रवणात् । अतैव तान् एवोद्दिश्य उक्तम् एकादशे -
दुर्गां विनायकं व्यासं
विष्वक्सेनं गुरून् सुरान् ।
स्वे स्वे स्थाने त्व् अभिमुखान्
पूजयेत् प्रोक्षणादिभिः ॥७८॥ (भ्प् ११।२७।२९)
अथ प्रकृतम् अनुसरामः । सद् एव श्री-गोपीनां स्वरूप-शक्तित्वे प्रसिद्धे श्री-कृष्णस्य नित्य-प्रेयसी-रूपत्वं सिद्धम् एव । ततस् ताभिः सह तस्य पूजन आवश्यकता स्वतः सिद्धा । अत्र पुनः प्रतिवादी प्राह, यदि ताः कृष्णस्य नित्य-प्रियाः, तर्हि कथं परकीयारूपत्वम् । तत्रापि पुत्रादि-संयोक्तृत्वं श्रूयते । सत्यं तद्-रूपत्वं मायिकम् इति वैष्णव-तोषणी-नाम्न्यां श्री-दशम-टिप्पन्यां कृष्ण-सन्दर्भादौ च प्रमितम् इति विस्तर-भयान् नात्र प्रपञ्चितम् ।
अथ सामान्यतः श्री-कृष्ण-प्रियाः खलु द्विधा । नित्य-सिद्धाः साधन-सिद्धाश् च । तत्र नित्य-सिद्धाः पूर्वोक्तिः । साधन-सिद्धाश् च त्रिविधाः । ऋषिजाः श्रुतयो देव-कन्याश् च । तत्र ऋषिजा यथा पाद्मोत्तर-खण्डे –
(एन्द् २३)
पुरा महर्षयः सर्वे दण्डकारण्य-वासिनः ।
दृष्ट्वा रामं हरिं तत्र भोक्तुम् ऐच्छन् सुविग्रहम् ॥७९॥
ते सर्वे स्त्रीत्वम् आपन्नाः समुद्भूताश् च गोकुले ।
हरिं सम्प्राप्य कामेन ततो मुक्ता भवार्णवात् ॥८०॥
[*नोते: ब्र्स् १।२।३०१-२]
न च वक्तव्यं गोकुल-जातानां प्रापञ्चिक-देहादित्वं न सम्भवतीति । अवतार-लीलायाः प्रापञ्चिक-मिश्रत्वात् । श्री-देवकी देव्याम् अपि षड्-गर्भ-सञ्ज्ञकानां जन्म श्रूयते इति ।
श्रुतयो यथा बृहद्-वामन-पुराणादिषु श्रूयन्ते । यत एव तथा व्याख्यातं स्त्रिय उरुगेन्द्र-भोग-भुज-दण्ड-विषक्त-धियो वयम् अपीति (भ्प् १०।८७।२३) । गायत्री च तासु जातेति पाद्मे सृष्टि-खण्डे यथा ब्रह्मणा गोप-कन्याया गायत्र्या उद्वाहे गोपेषु श्री-विष्णु-वाक्यम् -
मया ज्ञात्वा ततः कन्या दत्ता चैषाविरिञ्चये ।
युष्माकं च कुले चाहं देव-कार्यार्थ-सिद्धये ।
अवतारं करिष्यामि मत्-कान्ता तु भविष्यति ॥ इति ।
देव-कन्याश् च यथा श्री-दशमे तत्-प्रियार्थं सम्भवन्तु सुर-स्त्रिय इति (भ्प् १०।१।१३) । अत सुर-स्त्रियस् तासां श्री-कृष्ण-प्रियाणाम् उपयोगायेवेति गम्यते । अतस् तत्-प्रियार्थम् इत्य् एवोक्तम्, न तु तत्-प्रीत्य्-अर्थम् इति ।
अतस् तासां चतुर्विधत्वम् उक्तं पाद्मे -
गोप्यस् तु ऋषिजा गोप-कन्यकाः श्रुतिजाः पराः ।
देव-कन्याश् च राजेन्द्र न मानुष्यः कदाचन ॥
(एन्द् पगे २४)
गोप-कन्या एव नित्याः । न मानुषः कथञ्चनेति प्रआकृत-मानुष्य-निषेधात् । अतस् तासां स्वरूप-शक्तित्वाद् एव श्री-भगवतस् ताभिः सह रिरंसा जाता । यथा श्री-शुकः ।
भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः
वीक्ष्य रन्तुं मनश्चक्रे योगमायाम् उपाश्रितः ॥ (भ्प् १०।२९।१)
ता रात्रीर् वीक्ष्य उद्दीपनत्वेनानुभूयेति कौमुत्येनालम्बन-रूपाणां तासां प्रेम-महिमा दर्शितः । आत्मारामाश् च मुनयः इत्य् आदौ इत्थम्भूत-गुणो हरिर् इतिवत् इत्थम्भूत-गुणास् ताः येन तादृश्य् अपि तस्य रमण्च्छा जायते इति । अतैव व्यवहारार्थं तस्य कैशोरम् अपि मानितं जातम् इति श्री-विष्णु-पुराणे दर्शितम् ।
सो ऽपि कैशोरक-वयो मानयन् मधुसूदनः ।
रेमे ताभिर् अमेयात्मा क्षपासु क्षप्ताहितः ॥ (विप् ५।१३।६०) इति ।
हरिवंशे च-
युवतीर् गोप-कन्याश् च रात्रौ सङ्काल्य कालवित् ।
कैशोरकं मानयानः सह ताभिर् मुमोद च ॥ (ह्व् ६३।१८) इति ।
अत्र कालविद् इत्य् अस्य व्याख्यानं ता रात्रीर् विक्ष्येति । सह ताभिर् मुमोद हेत्यस्य सूचकं रन्तुं मनश् चक्रे इति । इत्य् आलम्बन-काल-देशानां श्री-कृष्णाय परम-पुरुषत्वं दर्शितं तस्मात् ह्लादिनी-शक्ति-विलास-लक्षण-तत्-प्रेम-मय्य् एवैषा रिरंसा । न तु प्राकृत-काममयीति । श्री-स्वामिभिर् अपि व्यक्तम् उक्तं द्वात्रिंशे विरहालाप-विक्लिन्न-हृदयो हरिर् इति स्व-प्रेमामृत-कल्लोल-विह्वली-कृत-चेतस इति । अतैव तच्-छ्रवण-फल-द्वारा तद्-अर्चनस्यावश्यकतां दर्शयति श्रीमन्-मुनीन्द्रः ॥
(एन्द् पगे २५)
विक्रीडितं व्रज-वधूभिर् इदं च विष्णोः
श्रद्धान्वितो यः शृणुयाद् अथ वर्णयेद् वा
भक्तिं परां भगवति परिलभ्य कामं
हृद्-रोगम् आश्व् अपहिनोत्य् अचिरेण धीरः ॥ (भ्प् १०।३३।४२) इति ॥८४
अत्र स्व-प्रियाभिः संवलितस्य श्री-कृष्णस्य क्रीडायाः श्रवण-वर्णन-मात्रेण बहु-साधन-दुःसाध्यापि परा भक्तिर् उदयते उदय-मात्रेण च हृद्-रोगः शीघ्रम् अपह्रियते इति हि स्पष्टम् एवेति फलातिशय-कथनेन प्रवर्तनात् विधित्वम् एव सिध्यति । यस्य पर्णमयी जुहुर् भवति न स पापं श्लोकं शृणोतीतिवत् । न चाधिकारी कनिष्ठ इति वाच्यं धीर इत्य् उक्तत्वात् ।
अथ दर्शन-मन्त्रे नामान्तरेणानिर्दिश्य श्री-वल्लवीनां नाम विशेषम् आलम्ब्यैव स्वयं भगवतो निर्देशात् तासां तत्-परिचायकाङ्ग-रूपत्वम् एव बोधितम् । गोपी-गोप-पशूनां बहिः स्मरेद् अस्य गीर्वाण-घटाम् इत्य् आदि क्रम-दीपिकायां (क्द् ३।३२) गौतमीय-तन्त्रे -
नवीन-नीरद-श्यामं नालेन्दीवर-लोचनम् ।
वल्लवी-नन्दनं वन्दे कृष्णं गोपाल-रूपिणम् ॥८५ इत्य् आदौ -
रुचिरौष्ठ-पुटन्यस्त-वंशी-मधुर-निःस्वनैः ।
लसद्-गोपालिका-चेतो मोदयन्तं मुहुर् मुहुः ॥८६॥
वल्लवी-वदनाम्भोज-मधुपान-मधु-व्रतम् ।
क्षोभयन्तं मनस् तासां सुस्मेरापाङ्गवीक्षणैः ॥८७॥ (एन्द् पगे २६)
यौवनोद्भिन्न-देहाभिः संसक्ताभिः परस्परम् ।
विचित्राम्बर-भूषाभिर् गोप-नारीभिर् आवृतम् ॥८७॥ इति ।
अत्र सा त्वां ब्रह्मन् नृप-वधूः कामम् आशु भजिष्यतीति [भ्प् ३।२१।२८] कर्दमं प्रति श्री-शुक्ल-वचनवच् च गोप-जातिभिर् नारीभिर् इत्य् अर्थः ।
क्षोभयन्तं मोहयन्तं मुहुर् मुहुर् इति वर्तमान-द्वय-प्रयोगेन नित्यम् एव तद्-उपासकैः पठ्यमान-स्तवेन गोपी-कृष्णयोः नित्यत्वम् एव लक्ष्यते । सनत्-कुमार-कल्पे च गोपाङ्गना परिवृतं मूले कल्पतरोः स्थितम् इत्य् आदि । रुद्र-यामलस्य शौरि-तन्त्रे गोपी-गो-गोप-वीतो रुरु-नख-विलसत्-कण्ठ-भूषश् चिरं नः इत्य् आदि । मृत्यु-सञ्जय-तन्त्रे -
स्मरेद् वृन्दावने रम्ये मोहयन्तम् अनारतम् ।
वल्लवी-वल्लभं कृष्णं गोप-कन्या-सहस्रशः ॥ इत्य् आदि ।
फुल्लेन्दीवर-कान्तिम् इत्य् आदि एवं स्वायम्भुवागमादाव् अपि ।
[*नोते: क्क् ३।८२; कृष्णस् १०६ (प्४९फ़्न्) अत्त्रिबुतेद् तो मृत्यु-सञ्जय-तन्त्र। पद्यावली ४६, अत्त्रिबुतेद् तो शरदाकर।]
पुनः प्रतिवादी प्राह भवतु नाम ताः पूज्याः । किन्तु तासां नाम कुत्रापि न श्रुतम् । तत्रापि भविष्योत्तरे मल्ल-द्वादशी-प्रसङ्गे श्री-कृष्ण-युधिष्ठिर-संवादे -
गोपी-नामानि राजेन्द्र प्राधान्येन निबोध मे ।
गोपाली-पालिका धन्या विशाखा ध्यान-निष्ठिका ।
राधानुराधा सोमाभा तारका दशमी तथा ॥८९॥
गोपालीयं नूनं पाद्मोक्त-गायत्री-चरी भवेत् । पालिकेति सञ्ज्ञायां कण । दशमी तथेति दशमीत्य् अपि - (एन्द् पगे २७) नामैकं तच् चान्वर्थम् इति सर्वान्ते पठितम् । यद् वा तथेति-दशम्य् अपि तारका-नाम्नीत्य् अर्थः । तथा स्कान्दे प्रह्लाद-संहितायां द्वारका-माहात्म्ये मायावसरः प्रस्तावे उद्धव-गमने (१२।२५-३३) लक्षितो वाचेत्य् आदिना ललिता श्यामला धन्या विशाखा राधा शैव्या पद्मा भद्रा इत्य् एतानि अष्टौ गणितानि ।
अथ वनिता-शत-कोटिभिर् आकुलितम् इत्य् आगम-प्रसिद्धेः । वनिता-शत-यूथप इति श्री-भगवत्-प्रसिद्धेः । अन्यान्य् अपि लोक-शास्त्रयोर् अवगन्तव्यानि ।
अथ शत-कोटित्वान्यथानुपपत्त्या तासां तन्-महा-शक्तित्वम् एव गम्यते । तत्रापि सर्वथा श्रेष्ठे राधा-चन्द्रावलीत्य् उभे । भविष्योत्तरे सोमाभा-शब्देन चन्द्रावल्य् एव सूचिता अर्थ-साम्य-प्रायात् । यतः श्री-राधया सह प्रतियोगित्वम् ऐतिह्यम् अस्यात्र विराजते ।
तथा च श्री-बिल्वमङ्गल-चरणाः -
राधा-मोहन मन्दिराद् उपागतश् चन्द्रावलीम् ऊचिवान्
राधे क्षेममयेति तस्य वचनं श्रुत्वाह चन्द्रावली ।
कम्स क्षेममये विमुग्ध-हृदये कंसः क्व दृष्टस् त्वया
राधा क्वेति विलज्जितो नत-मुख-स्मेरो हरिः पातु वः ॥९०॥
[*नोते: थिस् इस् अ wएल्ल्-क्नोwन् वेर्से, बुत् इस् नोत् इन् अन्य् ओफ़् थे बिल्वमन्गल चोल्लेच्तिओन्स्।]
तयोर् अप्य् उभयोर् मध्ये राधिका सर्वथाधिका ।
महाभाव-स्वरूपेयं गुणैर् अति-गरीयसी ॥९१॥
यथोक्तं मत्स्य-पुराणे दक्षं प्रति देवी-वचनम् -
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ।
चित्र-कूटे तथा सीता विन्ध्ये विन्ध्य-निवासिनी ।
देवकी मथुरायां च पाताले परमेश्वरी ॥ इत्य् आदि । (एन्द् पगे २८)
अत्र रुक्मिणी-सह-पाठाद् इत्थं बोधयति यथा द्वारकायां तस्या एव सर्वथाधिक्यं तथा श्री-वृन्दावने तस्या इति । स्वरूप-शक्ति-व्यूह-रुक्मिणी-राधा-देवकीनां मायांश-रूपेणाभेद-कथनं तु शक्तित्व-साधारण्येनैव । यथा जीवात्म-परमात्मनोश् चित्-साम्येनैक्यं तद्वद् इति ।
अथ यथा रुक्मिणी-कृष्णयोः परस्पर-शोभित्वं श्री-शुकेन वर्णितम् - अस्यैव भार्या भवितुम् इत्य् आदिनां [भ्प् १०।५३।३७] तथैव राधा-कृष्णयोर् अपि ऋक्-परिशिष्टे श्रुत्या वर्णितम् राधया माधवो देवो माधवेनैव राधिका विभ्राजन्ते जनेष्व् आ इति । विभ्राजन्ते विभ्राजते आ सम्यक् इति श्रुति-पदार्थः । दर्शितं च तस्याः स्वरूपं बृहद्-गौतमीये बलदेवं प्रति श्री-कृष्णेन -
सत्त्वं तत्त्वं परत्वं च तत्त्व-त्रयम् अहं किल ।
त्रितत्त्व-रूपिणी सापि राधिका मम वल्लभा ॥९३॥
प्रकृतेः पर एवाहं सापि मच्-छक्ति-रूपिणी ।
सात्त्विकं रूपम् आस्थाय पूर्णो ऽहं ब्रह्म चित्-परः ॥९४॥
ब्रह्मणा प्रार्थितः सम्यक् सम्भवामि युगे युगे ।
त्वया सार्धं तया सार्धं नाशाय देवताद्रुहाम् ॥९५॥ इति ।
अत्र सत्त्वं कार्यत्वं तत्त्वं कारणत्वं परत्वं ततो ऽपि श्रैष्ठ्यं यत् तत्त्व-त्रयं तद् अहम् इत्य् अर्थः तथैव बोधयति तथैवाग्रे ध्यान-प्रसङ्गे -
देवस्याभेद-रूपेण तप्त-हेम-सम-प्रभाम् ।
रक्त-वस्त्र-परीधानां रक्तालङ्कार-भूषिताम् ॥९६॥ (एन्द् पगे २९)
श्री-राधां वाम-भागे तु पूजयेद् भक्ति-तत्-परः ।
देवी कृष्णमयी प्रोक्ता राधिका पर-देवता ॥९७॥
वराभय-करा ध्येया सेविता सर्व-देवतैः ।
सर्व-लक्ष्मी-मयी सर्व-कान्तिः सम्मोहिनी परा ॥९८॥
अत्र पूजयेद् इति कण्ठोक्तिर् एव । एवम् अग्रे ऽपि मृत्यु-सञ्जय-तन्त्रे -
पीत-वस्त्र-परीधानां वंश-युक्त-कराम्बुजाम् ।
कौस्तुभोद्दीप्त-हृदयां वनमाला-विभूषिताम् ।
श्रीमत्-कृष्णाङ्घ्रि-पल्यक-निलयां परमेश्वरीम् ॥९९॥ इत्य् आदि ।
यथा -
सर्व-लक्ष्मी-मयीं देवीं परमानन्द-नन्दिताम् ।
रासोत्सव-प्रियां राधां कृष्णानन्द-स्वरूपिणीम् ।
भजे चिदमृताकार-पूर्णानन्द-महोदधिम् ॥१००॥ इति ।
ध्यात्वेत्य्-आदि-सम्मोहन-तन्त्रे - चिन्तयेद् राधिकां देवीं गोप-गोकुल-सङ्कुलाम् इत्य् आदि च । अस्याः श्रेष्ठत्वम् आदि-वाराहे कटिर-परिवर्तन्यां गोवर्धन-परिक्रमे तत्-कुण्ड-प्रसङ्गे यथा -
गङ्गायाश् चोत्तरं गत्वा देव-देवस्य चक्रिणः ।
अरिष्टेन समं तत्र महद् युद्धं प्रवर्तितम् ॥१०१॥
घातयित्वा ततस् तस्मिन्न् अरिष्टं वृष-रूपिणम् ।
कोपेन पार्ष्णि-घातेन महा-तीर्थं प्रकल्पितम् ॥१०२॥
स्नातस् तत्र तदा हृष्टो वृषं हत्वा स-गोपकः ।
विपा मा (?) राधिकां प्राह कथं भद्रे भविष्यति ॥१०३॥
तत्र राधा समाश्लिष्य कृष्णम् अक्लिष्ट-कारिणम् ।
स्व-नाम्ना विदितं कुण्डं कृतं तीर्थम् अदूरतः ॥१०४॥ (एन्द् पगे ३०)
राधा-कुण्डम् इति ख्यातं सर्व-पाप-हरं शुभम् ।
अरिष्टहन् राधा-कुण्ड-स्नानात् फलम् अवाप्यते ॥१०५॥
राजसूयाश्वमेधाभ्यां नात्र कार्या विचारणा ।
गो-हत्या-ब्रह्म-हत्यादि पापं क्षिप्रं प्रणश्यति ॥१०६॥ इति ।
अत्र सतीष्व् अपि सर्वासु तासु अस्या एव तेन सह तादृश-प्रेम-व्यवहारेणोत्कर्षावगमात् श्रेष्ठत्वम् आयातम् । तथा व्रत-रत्नाकर-धृत-भविष्य-पुराणे च -
बाल्ये ऽपि भगवान् कृष्णस् तरुणं रूपम् आश्रितः ।
रेमे विहारैर् विविधैः प्रियया सह राधया ॥
एकदा कार्त्तिके मासि पौर्णमास्यां महोत्सवः ।
आसीन् नन्द-गृहे इत्य् आदौ
तस्मिन् दिने च भगवान् रात्रौ राधा-गृहं ययौ ।
सा च क्रुद्धा तम् उदरे काञ्ची-दाम्ना बबन्ध ह ॥१०८॥
कृष्णस् तु सर्वम् आवेद्य निज-गेह-महोत्सवम् ।
प्रियां प्रसादयामास ततः सा तम् अवोचयत् ॥१०९॥
इदं चोवाच ताः कृष्णः प्रेयसी प्रीत-मानसः ।
काञ्ची-दाम त्वया तन्वि उदरे यन् मयार्पितम् ॥११०॥
दामोदरेति मे नाम प्रियं तेन शुभानने ।
नातः प्रीतिकरं नाम मम लोकेषु विद्यते ॥१११॥
नित्यम् एतत् प्रजापत्यां सर्व-सिद्धिर् भविष्यति ।
भक्तिं च दुर्लभां प्राप्य मम लोके महीयते ॥११२॥
उलूखले यदा मात्रा बद्धो ऽहं भविता प्रिये । (एन्द् पगे ३१)
उदरे दामभिर् लोके तदा व्यक्तं भविष्यति ॥११३॥
अनेन नाम-मन्त्रेण यो ऽस्मिन् मासि त्वया सह ।
माम् अर्चयेद् विधानेन स लभेत् सर्व-वाञ्छितम् ॥११४॥ इति ।
अत्रापि प्रियया सह राधया इति श्री-कृष्णेच्छया श्री-कृष्णवद् बाल्ये ऽपि आविष्कृत-नव-यौवनम् एव इति ज्ञेयम् ।
तत आरभ्य नन्दस्य व्रजः सर्व-समृद्धिमान् ।
हरेर् निवासात्म-गुणै रमाक्रीडम् अभून् नृप ॥११५॥ (भ्प् १०।५।१८)
इत्य् अनेन श्री-कृष्ण-प्रादुर्भावानन्तरं तसाम् आविर्भाव-कथनात् । तत्रापि श्र्ष्ठत्वं पूर्ववज् ज्ञेयम् । तत्र तादृश-भावैर् वर्णनं तस्याः श्री-शुकदेवेनापि कृतम् ।
एका भ्रू-कुटिम् आबद्ध्य प्रेम-संरम्भ-विह्वला ।
घ्नतीवैक्षत् कटाक्षेपैः सन्दष्ट-दशन-च्छदा ॥११६॥ (भ्प् १०।३२।६)
इत्य् अनेन एकामुख्या एके मुख्यान्य् अकेवला इत्य् अमरः । एवं श्रीमद्-गोपाल-तपन्यां यद् गान्धर्वीति विश्रुता सा तु सैव ज्ञेया । तस्या एवं मुख्यत्वा̆दि-लिङ्गेन सर्वत्र चावगमात् । अतैव श्री-राधा-संवलित-दामोदर-पूजा कार्त्तिके विहिता । श्री-कृष्ण-सत्यभामा-संवादीये कार्त्तिक-माहात्म्ये च प्रातः-स्नान-सङ्कल्प-मन्त्रं -
कार्त्तिके ऽहं करिष्यामि प्रातः-स्नानं जनार्दन ।
प्रीत्य्-अर्थं तव देवेश दामोदर मया सह ॥११७॥ [ह्ब्व् १६।१७२] [*नोते: अल्तेर्नतिवे नुम्बेरिन्ग् १६। ८४]
अत्र मा-सब्द-प्रयोगः । तस्याः परम-लक्ष्मी-रूपत्वात् । (एन्द् पगे ३२)
अर्घ्य-दान-मन्त्रे च साक्षात् तन्-नामोक्तेः । यथा -
व्रतिनः कार्त्तिके मासि स्नानस्य विधिवन् मम ।
दामोदर गृहानार्घ्यं दनुजेन्द्र-निसूदन ॥११८॥
नित्ये नैमित्तिके कृत्स्ने कार्त्तिके पाप-शोषणे ।
गृहानार्घ्यं मया दत्तं राधया सहितो हरे ॥११९॥ [ह्ब्व् १६।१७४-१७५]
इति युग्मत्वेन उपादानात् तस्या एव श्रेष्ठत्वम् । तद्-युगलोपासनायां भविष्य-पुराण-वचनं दर्शितम् एव । तथा दशाध्यायि-कार्त्तिक-माहात्म्यं चेन् नूनं पाद्मानुगतं स्यात् तर्हि तत्र तद्-युगलो पासनं प्रकटतरम् एवेति । तथा वासना-भाष्योत्थापित आग्नेय-वचने ऽपि तस्याः श्रेष्ठत्वम् । यथा -
गोप्यः पप्रच्छुर् उषसि कृष्णानुचरम् उद्धवम् ।
हरि-लीला-विहारांश् च तत्रैकां राधिकां विना ।
राधा तद्-भाव-संलीना वासनाया विरामिता ॥१२०॥ इत्य् आदि ।
अत्र तद्-भाव-संलीना इत्य् अनेन दिव्योन्माद-मय-वचनं मधुप कितव-बन्धो इत्य् आदिकं तस्या एवेति विज्ञाप्य सर्वासु गोपीषु तस्याः श्रेष्ठ्यं दर्शितम् । युक्तं च तत् तु यतः । श्री-कृष्णान्वेषकर्त्रीणां तासां ताम् एवोद्धिश्य तद् इदं वचनं श्रूयते यथा -
अनयाराधितो नूनं भगवान् हरिर् ईश्वरः
यन् नो विहाय गोविन्दः प्रीतो ऽयम् अनयद् रहः ॥१२१॥ (भ्प् १०।३०।२८)
अप्य् एणपत्न्य् उपगतः प्रिययेह गात्रैस्
तन्वन् दृशां सखि सुनिर्वृतिम् अच्युतो वः ।
कान्ताङ्ग-सङ्ग-कुच-कुङ्कुम-रञ्जितायाः
कुन्दस्रजः कुलपतेर् इह वाति गन्धः ॥१२२॥ (भ्प् १०।३०।११)
(एन्द् पगे ३३)
बाहुं प्रियाम्स उपधाय गृहीतपद्मो
रामानुजस् तुलसिकालिकुलैर् मदान्धैः
अन्वीयमान इह वस् तरवः प्रणामं
किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ (भ्प् १०।३०।१२) इति ।
किं बहुना अस्याः सौभाग्य-वाञ्छा द्वारका-महिषीणाम् अपि श्रूयते । ततस् तासां तादृश-वचनं श्री-शुकदेवेनाप्य् उदितं - यथा न वयं साध्वि साम्राज्यम् इत्य् आद्य् उक्त्वा आहुः —-
कामयामह एतस्य श्रीमत्-पाद-रजः श्रियः ।
कुच-कुङ्कुम-गन्धाढ्यं मूर्ध्ना वोढुं गदाभृतः ॥१२४॥
व्रज-स्त्रियो यद् वाञ्छन्ति पुलिन्दास् तृण-वीरुधः ।
गावश् चारयतो गोपाः पाद-स्पर्शं महात्मनः ॥१२५॥ इति । [भ्प् १०।८३।४२-४३]
व्रज-स्त्र्य्-आदीनां वाञ्छा दर्शिता -
पूर्णाः पुलिन्द्य उरुगायपदाब्जराग-
श्रीकुङ्कुमेन दयितास्तनमण्डितेन ।
तद्दर्शनस्मररुजस् तृणरूषितेन
लिम्पन्त्य आननकुचेषु जुहुस् तदाधिम् ॥१२६॥ (भ्प् १०।२१।१७) इत्य् अनेन ।
अत्र सत्य् उरुगाय-पदाब्ज-रागेत्य् अनेन (१०।२१।१७) सह दयिता-स्तन-मण्डितेन इत्य् उक्त्या तत् कुङ्कुमं दयिता-स्तनतस् तस्य पदे लग्नम् इति गम्यते । सा च दयिता कुच-कुङ्कुम-गन्ध्याढ्यम् (एन्द् पगे ३४) इत्य् एक-वचनान्त-निर्देशेनानूदिता ।
तद् इदं वर्णयन्तीषु तास्व् अपि सा विशिष्टेत्य् अवगम्यते । अयं भावः श्रीत्वे प्रसिद्धायाः श्रियस् तत्र कामनैव श्रूयते । न तु सङ्गतिः । यद् वाञ्छया श्रीर् ललनाचरत् तपो विहाय कामान् सुचिरं धृत-व्रता इति [भ्प् १०।१६।३६] नागपत्नीनाम् । या वै श्रियार्चितम् अजादिभिर् आप्त-कामैर् इत्य् आदि [भ्प् १०।४७।६२] उद्धवस्यापि वाक्यात् । न च रुक्मिणीत्वे प्रसिद्धायाः श्रियस् तत्र सङ्गतिः । काल-देशयोर् अन्यतमत्वात् । न च व्रज-स्त्रीणां श्री-सम्बन्ध-लालसा युक्ता - नायं श्रियो ऽङ्ग इत्य् आदिना (१०।४७।६०) ततो ऽपि परमाधिक्य-श्रवणात् । तस्माद् रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने इत्य् आद्य् उक्त-सिद्धान्तानुसारेण सर्वतो विलक्षणा या श्रीर् विराजते ताम् उद्दिश्यैव व्रज-देवीनां तद् इदं वाक्यम् । ततश् च तासां यथा तत्र स्पृहास्पदता तथास्माकं पट्ट-महिषीणाम्
इति । सङ्गमश् चायं दिवस एवेति सम्भाव्यते । तत्रैव पुलिन्दानां भ्रमणात् कुङ्कुमानां लेपन-कर्मणार्द्रत्वावगमाच् च । द्वयोः सङ्गमश् चायं न सम्भोग-विशेष-रूपः । रास-प्रसङ्गे –
भगवान् अपि ता रात्रीः शरदोत्फुल्लमल्लिकाः ।
वीक्ष्य रन्तुं मनश्चक्रे इत्य् अत्रैव (भ्प् १०।२९।१) नव-सङ्गमस्य प्रतीयमानत्वात् । अन्यथा तत्र परीक्षार्थं पुनस् तेनोपेक्षावचनस्यासङ्गत्वापत्तेः । तद् इदं वेणु-प्रकरणे भणितत्वाद् वेणु-सम्बन्धेनैव गम्यते । उरुगाय इत्य् अनेनैष एव संसूचितः । तस्माद् कदाचिद् वेणु-कृताकर्षायास् तस्या लब्ध-मूर्च्छाया मूर्च्छाशान्तये स-कुङ्कुमे स्विन्ने वक्षसि सम्भ्रमतः केवलेन श्री-चरण-सञ्जीवनी-पल्लवेन स्पृशन् गेवाद्यापि
(एन्द् पगे ३५)
वाद्यापि सम्यक् सङ्कोचानपगयमत् द्रुतम् एव स तस्मान् निश्चक्रामेति बुध्यते । काश्चित् परोक्षं कृष्णस्य स्व-सखीभ्यो ऽन्ववर्णयन्न् इति उक्तवान् । यास् तु तद्-अन्यास् तासाम् एव पूर्णाः पुलिन्द्यः इत्य् आदि वचनम् । तस्मात् साध्व् एवोक्तम् लक्ष्मीर् अभितः स्त्रितमा इत्य् आदि । वर्णिता च सा तथैव श्री-जयदेव-सहचरेण महाराज-लक्ष्मण-सेन-मन्त्रि-वरेणोमापतिधरेण यथा –
भ्रूवल्ली-चलनैः कयापि नयनोन्मेषैः कयापि स्मित-
ज्योत्स्नाविच्छुरितैः कयापि निभृतं सम्भावितस्याध्वनि ।
गर्वाद् भेद-कृतावहेल-विनय-श्रीभाजि राधानने
सातङ्कानुनयं जयन्ति पतिताः कंसद्विषः दृष्टयः ॥१२७॥
[*नोते: ॥। ॥
]
श्री-जयदेवेनापि राधाम् आधाय हृदये तत्याज व्रज-सुन्दरीः । इति (ग्ग् ३।१) । पत्युर् मनः कीलितम् (ग्ग् १२।१४) इति च ।
अतैव –
या परा परमा शक्तिर् महाविष्णु-स्वरूपिणी ।
तस्या विज्ञान-मात्रेण पराणां परमात्मनः ॥
मुहूर्ताद् एव देवस्य प्राप्तिर् भवति नान्यथा ।
एकेयं प्रेम-सर्वस्व-स्वभावा श्री-गोकुलेश्वरी ॥
अनया सुलभो ज्ञेय आदिदेवो ऽखिलेश्वरः ॥
इत्य् उत्थापित-पञ्चरात्र-वचनं सर्वोपरि विराजमानं भवतीत्य् अलम् अतिविस्तरेण प्रमाण-वचन-सङ्ग्रहेण ।
तस्मात् सर्वासां गोपीनां राधिकातिगरीयसी ।
सर्वाधिक्येन कथिता यत् पुराणागमादिषु ॥
(एन्द् पगे ३६)
अतः साधूक्तं श्रीदामोदर-राधार्चनम् अर्हति व्रज-स्थानाम् इत्य् आदि ।
राधा वृन्दावने यद्वत् तद्वद् दामोदरो हरिः ।
दर्शितेषु च शास्त्रेषु तद्-युग्मं तत् तद्-ईशितुः ॥
राधया माधवो देवो माधवेनैव राधिका ।
विभ्राजन्ते जनेष्वेति परिशिष्ट-वचस् तथा ॥
न विष्णुना विना देवी न हरिः पद्मजां विना ।
हयग्रीव-पञ्चरात्रम् इह प्रकटितं यतः ॥
कार्त्तिक-व्रत-चर्यायाम् अतस् ते युग्म-देवते ।
राधा-दामोदराभिख्ये वीक्ष्येते लोक-शास्त्रयोः ॥
किं बहूक्त्या कुण्ड-युग्मं तयोर् युग्मेन वीक्ष्यते ।
शास्त्रे च दर्शिता तस्मात् कैमुत्याद् युग्मता तयोः ॥
उमा-महेश्वरौ केचित् लक्ष्मी-नारायणौ परे ।
ते भजन्तां भजामस् तु राधा-दामोदरौ वयम् ॥
इति श्री-वृन्दावन-वासिनः कस्यचिज् जीवस्य श्री-राधा-कृष्णार्चन-दीपिका सदा देदीप्यमानताम् अपद्यताम् ॥ श्री-गुरु-चरण-कमलेभ्यो नमः । श्री-कृष्ण-चैतन्य-चन्द्राय नमः । श्री-राधा-दामोदराभ्यां नमः पद्यावली २५९; स्क्म् १।५५।३, र्कद् २६०उमापतिधरस्य ॥